पूजन विधि, ज्योतिष, स्तोत्र संग्रह, व्रत कथाएँ, मुहूर्त, पुजन सामाग्री आदि

ककारादि काली सहस्रनामावली

ककारादि काली सहस्रनामावली

इससे पूर्व आपने ककारादिकालीसहस्रनामस्तोत्रम् का मूल पाठ को पढ़ा। अब यहाँ इसके हिंदी भावार्थ को ककारादिकालीसहस्रनामावली के रूप में दिया जा रहा है व इसके फलश्रुति हिंदी भावार्थ सहित दिया जा रहा है। पाठकों से अनुरोध कि- इसे न मनोरंजन की दृष्टि से देखें न ही प्रयोग करें क्योंकि इसमें काली माता के गूढ़ रहस्य दिया गया है जिसमें की पञ्चमकार साधना प्रणाली निहित है जिसे की उच्चकोटि के साधक जिन्होंने की भैरवी सिद्ध कर रखी हैं, के द्वारा संभव है सामान्य साधकों के लिए नही। सामान्य साधक काली माता की सात्विक साधना के ही रूप में इसे संपन्न करें।

ककारादिकालीसहस्रनामावली

ककारादिकालीसहस्रनामावली स्तोत्रम्

Kakaradi Kali sahastra namavali stotra

ककारादि कालीसहस्रनामावली

ककारादि काली सहस्त्र नाम स्तोत्र हिंदी भावार्थ व नामावली

श्रीककारादिकालीसहस्रनामावली

ॐ अस्य श्रीसर्वसाम्राज्यमेधाकालीस्वरूप-ककारात्मकसहस्रनामस्तोत्रमन्त्राधारनामावलिः महाकाल-ऋषिरुष्णिक्छन्दः, श्रीदक्षिणकाली देवता, ह्रीं बीजम्, ह्रूँ शक्तिः, क्रीं कीलकं, कालीवरदानादिस्वेष्टार्थे जपे विनियोगः ।

न्यास आदि ककारादिकालीसहस्त्रनामस्तोत्रम से करें यहाँ केवल नामावली दिया जा रहा है।

अथ सहस्रनामावलिः ।

ॐ क्रीं काल्यै नमः । ॐ क्रूं कराल्यै नमः । ॐ कल्याण्यै नमः। ॐ कमलायै नमः। ॐ कलायै नमः । ॐ कलावत्यै नमः । ॐ कलाढ्यै नमः । ॐ कलापूज्यायै नमः । ॐ कलात्मिकायै नमः । ॐ कलाहृष्टायै नमः । ॐ कलापुष्टायै नमः । ॐ कलामस्तायै नमः । ॐ कलाधरायै नमः । ॐ कलाकोटिसमाभासायै नमः । ॐ कलाकोटिप्रपूजितायै नमः । ॐ कलाकर्मकलाधरायै नमः । ॐ कलापरायै नमः । ॐ कलागमायै नमः । ॐ कलाधारायै नमः । ॐ कमलिन्यै नमः । ॐ ककारायै नमः । ॐ करुणायै नमः । ॐ कव्यै नमः । ॐ ककारवर्णसर्वाङ्ग्यै नमः । ॐ कलाकोटिप्रभूषितायै नमः । ॐ ककारकोटिगुणितायै नमः । ॐ ककारकोटिभूषणायै नमः । ॐ ककारवर्णहृदयायै नमः । ॐ ककारमनुमण्डितायै नमः । ॐ ककारवर्णनिलयायै नमः । ॐ काकशब्दपरायणायै नमः । ॐ ककारवर्णमुकुटायै नमः । ॐ ककारवर्णभूषणायै नमः । ॐ ककारवर्णरूपायै नमः । ॐ काकशब्दपरायणायै नमः । ॐ ककवीरास्फालरतायै नमः । ॐ कमलाकरपूजितायै नमः । ॐ कमलाकरनाथायै नमः । ॐ कमलाकररूपधृषे नमः । ॐ कमलाकरसिद्धिस्थायै नमः । ॐ कमलाकरपारदायै नमः । ॐ कमलाकरमध्यस्थायै नमः । ॐ कमलाकरतोषितायै नमः । ॐ कथङ्कारपरालापायै नमः । ॐ कथङ्कारपरायणायै नमः । ॐ कथङ्कारपदान्तस्थायै नमः । ॐ कथङ्कारपदार्थभुवे नमः । ॐ कमलाक्ष्यै नमः । ॐ कमलजायै नमः । ॐ कमलाक्षप्रपूजितायै नमः । ॐ कमलाक्षवरोद्युक्तायै नमः । ॐ ककारायै नमः । ॐ कर्बूराक्षरायै नमः । ॐ करतारायै नमः । ॐ करच्छिन्नायै नमः । ॐ करश्यामायै नमः । ॐ करार्णवायै नमः । ॐ करपूज्यायै नमः । ॐ कररतायै नमः । ॐ करदायै नमः । ॐ करपूजितायै नमः । ॐ करतोयायै नमः । ॐ करामर्षायै नमः । ॐ कर्मनाशायै नमः । ॐ करप्रियायै नमः । ॐ करप्राणायै नमः । ॐ करकजायै नमः । ॐ करकायै नमः । ॐ करकान्तरायै नमः । ॐ करकाचलरूपायै नमः । ॐ करकाचलशोभिन्यै नमः । ॐ करकाचलपुत्र्यै नमः । ॐ करकाचलतोषितायै नमः । ॐ करकाचलगेहस्थायै नमः । ॐ करकाचलरक्षिण्यै नमः । ॐ करकाचलसम्मान्यायै नमः । ॐ करकाचलकारिण्यै नमः । ॐ करकाचलवर्षाढ्यायै नमः । ॐ करकाचलरञ्जितायै नमः । ॐ करकाचलकान्तारायै नमः । ॐ करकाचलमालिन्यै नमः । ॐ करकाचलभोज्यायै नमः । ॐ करकाचलरूपिण्यै नमः । ॐ करामलकसंस्थायै नमः । ॐ करामलकसिद्धिदायै नमः । ॐ करामलकसम्पूज्यायै नमः । ॐ करामलकतारिण्यै नमः । ॐ करामलककाल्यै नमः । ॐ करामलकरोचिन्यै नमः । ॐ करामलकमात्रे नमः । ॐ करामलकसेविन्यै नमः । ॐ करामलकवद्ध्येयायै नमः । ॐ करामलकदायिन्यै नमः । ॐ कञ्जनेत्रायै नमः । ॐ कञ्जगत्यै नमः । ॐ कञ्जस्थायै नमः । ॐ कञ्जधारिण्यै नमः । ॐ कञ्जमालाप्रियकर्यै नमः । ॐ कञ्जरूपायै नमः । ॐ कञ्जनायै नमः । ॐ कञ्जजात्यै नमः । ॐ कञ्जगत्यै नमः । ॐ कञ्जहोमपरायणायै नमः । ॐ कञ्जमण्डलमध्यस्थायै नमः । ॐ कञ्जाभरणभूषितायै नमः । ॐ कञ्जसम्माननिरतायै नमः । ॐ कञ्जोत्पत्तिपरायणायै नमः । ॐ कञ्जराशिसमाकारायै नमः । ॐ कञ्जारण्यनिवासिन्यै नमः । ॐ करञ्जवृक्षमध्यस्थायै नमः । ॐ करञ्जवृक्षवासिन्यै नमः । ॐ करञ्जफलभूषाढ्यायै नमः । ॐ करञ्जारण्यवासिन्यै नमः । ॐ करञ्जमालाभरणायै नमः । ॐ करवालपरायणायै नमः । ॐ करवालप्रहृष्टात्मने नमः । ॐ करवालप्रियागत्यै नमः । ॐ करवालप्रियाकन्थायै नमः । ॐ करवालविहारिण्यै नमः । ॐ करवालमय्यै नमः । ॐ कर्मायै नमः । ॐ करवालप्रियङ्कर्यै नमः । ॐ कबन्धमालाभरणायै नमः । ॐ कबन्धराशिमध्यगायै नमः । ॐ कबन्धकूटसंस्थानायै नमः । ॐ कबन्धानन्तभूषणायै नमः । ॐ कबन्धनादसन्तुष्टायै नमः । ॐ कबन्धासनधारिण्यै नमः । ॐ कबन्धगृहमध्यस्थायै नमः । ॐ कबन्धवनवासिन्यै नमः । ॐ कबन्धकाञ्च्यै नमः । ॐ करण्यै नमः । ॐ कबन्धराशिभूषणायै नमः । ॐ कबन्धमालाजयदायै नमः । ॐ कबन्धदेहवासिन्यै नमः । ॐ कबन्धासनमान्यायै नमः । ॐ कपालमाल्यधारिण्यै नमः । ॐ कपालमालामध्यस्थायै नमः । ॐ कपालव्रततोषितायै नमः । ॐ कपालदीपसन्तुष्टायै नमः । ॐ कपालदीपरूपिण्यै नमः । ॐ कपालदीपवरदायै नमः । ॐ कपालकज्जलस्थितायै नमः । ॐ कपालमालाजयदायै नमः । ॐ कपालजपतोषिण्यै नमः । ॐ कपालसिद्धिसंहृष्टायै नमः । ॐ कपालभोजनोद्यतायै नमः । ॐ कपालव्रतसंस्थानायै नमः । ॐ कपालकमलालयायै नमः । ॐ कवित्वामृतसारायै नमः । ॐ कवित्वामृतसागरायै नमः । ॐ कवित्वसिद्धिसंहृष्टायै नमः । ॐ कवित्वादानकारिण्यै नमः । ॐ कविपूज्यायै नमः । ॐ कविगत्यै नमः । ॐ कविरूपायै नमः । ॐ कविप्रियायै नमः । ॐ कविब्रह्मानन्दरूपायै नमः । ॐ कवित्वव्रततोषितायै नमः । ॐ कविमानससंस्थानायै नमः । ॐ कविवाच्छाप्रपूरिण्यै नमः । ॐ कविकण्ठस्थितायै नमः । ॐ कंह्रींकंकंकंकविपूर्तिदायै नमः । ॐ कज्जलायै नमः । ॐ कज्जलादानमानसायै नमः । ॐ कज्जलप्रियायै नमः । ॐ कपालकज्जलसमायै नमः । ॐ कज्जलेशप्रपूजितायै नमः । ॐ कज्जलार्णवमध्यस्थायै नमः । ॐ कज्जलानन्दरूपिण्यै नमः । ॐ कज्जलप्रियसन्तुष्टायै नमः । ॐ कज्जलप्रियतोषिण्यै नमः । ॐ कपालमालाभरणायै नमः । ॐ कपालकरभूषणायै नमः । ॐ कपालकरभूषाढ्यायै नमः । ॐ कपालचक्रमण्डितायै नमः । ॐ कपालकोटिनिलयायै नमः । ॐ कपालदुर्गकारिण्यै नमः । ॐ कपालगिरिसंस्थायै नमः । ॐ कपालचक्रवासिन्यै नमः । ॐ कपालपात्रसन्तुष्टायै नमः । ॐ कपालार्घ्यपरायणायै नमः । ॐ कपालार्घ्यप्रियप्राणायै नमः । ॐ कपालार्घ्यवरप्रदायै नमः । ॐ कपालचक्र रूपायै नमः । ॐ कपालरूपमात्रगायै नमः । ॐ कदल्यै नमः । ॐ कदलीरूपायै नमः । ॐ कदलीवनवासिन्यै नमः । ॐ कदलीपुष्पसम्प्रीतायै नमः। ॐ कदलीफलमानसायै नमः । ॐ कदलीहोमसन्तुष्टायै नमः । ॐ कदलीदर्शनोद्यतायै नमः । ॐ कदलीगर्भमध्यस्थायै नमः । ॐ कदलीवनसुन्दर्यै नमः । ॐ कदम्बपुष्पनिलयायै नमः । ॐ कदम्बवनमध्यगायै नमः । ॐ कदम्बकुसुमामोदायै नमः । ॐ कदम्बवनतोषिण्यै नमः । ॐ कदम्बपुष्पसम्पूज्यायै नमः । ॐ कदम्बपुष्पहोमदायै नमः । ॐ कदम्बपुष्पमध्यस्थायै नमः । ॐ कदम्बफलभोजिन्यै नमः । ॐ कदम्बकाननान्तस्थायै नमः । ॐ कदम्बाचलवासिन्यै नमः । ॐ कक्षपायै नमः । ॐ कक्षपाराध्यायै नमः । ॐ कक्षपासनसंस्थितायै नमः । ॐ कर्णपूरायै नमः । ॐ कर्णनासायै नमः । ॐ कर्णाढ्यायै नमः । ॐ कालभैरव्यै नमः । ॐ कलहप्रीतायै नमः । ॐ कलहदायै नमः । ॐ कलहायै नमः । ॐ कलहातुरायै नमः । ॐ कर्णयक्ष्यै नमः । ॐ कर्णवार्त्कथिन्यै नमः । ॐ कर्णसुन्दर्यै नमः । ॐ कर्णपिशाचिन्यै नमः । ॐ कर्णमञ्जर्यै नमः । ॐ कविकक्षदायै नमः । ॐ कविकक्षविरूपाढ्यायै नमः । ॐ कविकक्षस्वरूपिण्यै नमः । ॐ कस्तूरीमृगसंस्थानायै नमः । ॐ कस्तूरीमृगरूपिण्यै नमः । ॐ कस्तूरीमृगसन्तोषायै नमः । ॐ कस्तूरीमृगमध्यगायै नमः । ॐ कस्तूरीरसनीलाङ्ग्यै नमः । ॐ कस्तूरीगन्धतोषितायै नमः । ॐ कस्तूरीपूजकप्राणायै नमः । ॐ कस्तूरीपूजकप्रियायै नमः । ॐ कस्तूरीप्रेमसन्तुष्टायै नमः । ॐ कस्तूरीप्राणधारिण्यै नमः । ॐ कस्तूरीपूजकानन्दायै नमः । ॐ कस्तूरीगन्धरूपिण्यै नमः । ॐ कस्तूरीमालिकारूपायै नमः । ॐ कस्तूरीभोजनप्रियायै नमः । ॐ कस्तूरीतिलकानन्दायै नमः । ॐ कस्तूरीतिलकप्रियायै नमः । ॐ कस्तूरीहोमसन्तुष्टायै नमः । ॐ कस्तूरीतर्पणोद्यतायै नमः । ॐ कस्तूरीमार्जनोद्युक्तायै नमः । ॐ कस्तूरीचक्रपूजितायै नमः । ॐ कस्तूरीपुष्पसम्पूज्यायै नमः। ॐ कस्तूरीचर्वणोद्यातायै नमः। ॐ कस्तूरीगर्भमध्यस्थायै नमः। ॐ कस्तूरीवस्त्रधारिण्यै नमः। ॐ कस्तूरीकामोदरतायै नमः। ॐ कस्तूरीवनवासिन्यै नमः। ॐ कस्तूरीवनसंरक्षायै नमः। ॐ कस्तूरीप्रेमधारिण्यै नमः। ॐ कस्तूरीशक्तिनिलयायै नमः। ॐ कस्तूरीशक्तिकुण्डगायै नमः । ॐ कस्तूरीकुण्डसंस्नातायै नमः। ॐ कस्तूरीकुण्डमज्जनायै नमः। ॐ कस्तूरीजीवसन्तुष्टायै नमः । ॐ कस्तूरीजीवधारिण्यै नमः । ॐ कस्तूरीपरमामोदायै नमः । ॐ कस्तूरीजीवनक्षमायै नमः । ॐ कस्तूरीजातिभावस्थायै नमः । ॐ कस्तूरीगन्धचुम्बनायै नमः । ॐ कस्तूरीगन्धसंशोभाविराजितकपालभुवे नमः । ॐ कस्तूरीमदनान्तस्थायै नमः । ॐ कस्तूरीमदहर्षदायै नमः । ॐ कस्तूर्यै नमः । ॐ कवितानाढ्यायै नमः । ॐ कस्तूरीगृहमध्यगायै नमः । ॐ कस्तूरीस्पर्शकप्राणायै नमः । ॐ कस्तूरीविन्दकान्तकायै नमः । ॐ कस्तूर्यामोदरसिकायै नमः । ॐ कस्तूरीक्रीडनोद्यतायै नमः । ॐ कस्तूरीदाननिरतायै नमः । ॐ कस्तूरीवरदायिन्यै नमः । ॐ कस्तूरीस्थापनाशक्तायै नमः । ॐ कस्तूरीस्थानरञ्जिन्यै नमः । ॐ कस्तूरीकुशलप्रश्नायै नमः । ॐ कस्तूरीस्तुतिवन्दितायै नमः । ॐ कस्तूरीवन्दकाराध्यायै नमः । ॐ कस्तूरीस्थानवासिन्यै नमः । ॐ कहरूपायै नमः । ॐ कहाढ्यायै नमः । ॐ कहानन्दायै नमः । ॐ कहात्मभुवे नमः । ॐ कहपूज्यायै नमः । ॐ कहेत्याख्यायै नमः । ॐ कहहेयायै नमः । ॐ कहात्मिकायै नमः। ॐ कहमालायै नमः। ॐ कण्ठभूषायै नमः। ॐ कहमन्त्रजपोद्यतायै नमः। ॐ कहनामस्मृतिपरायै नमः । ॐ कहनामपरायणायै नमः । ॐ कहपरायणरतायै नमः। ॐ कहदेव्यै नमः । ॐ कहेश्वर्यै नमः । ॐ कहहेत्वै नमः । ॐ कहानन्दायै नमः । ॐ कहनादपरायणायै नमः । ॐ कहमात्रे नमः । ॐ कहान्तस्थायै नमः । ॐ कहमन्त्रायै नमः । ॐ कहेश्वरायै नमः । ॐ कहगेयायै नमः। ॐ कहाराध्यायै नमः। ॐ कहध्यानपरायणायै नमः। ॐ कहतन्त्रायै नमः । ॐ कहकहायै नमः । ॐ कहचर्य्यापरायणायै नमः। ॐ कहाचारायै नमः। ॐ कहगत्यै नमः । ॐ कहताण्डवकारिण्यै नमः । ॐ कहारण्यायै नमः । ॐ कहगत्यै नमः । ॐ कहशक्तिपरायणायै नमः । ॐ कहराज्यरतायै नमः । ॐ कर्मसाक्षिण्यै नमः । ॐ कर्मसुन्दर्यै नमः । ॐ कर्मविद्यायै नमः । ॐ कर्मगत्यै नमः । ॐ कर्मतन्त्रपरायणायै नमः । ॐ कर्ममात्रायै नमः । ॐ कर्मगात्रायै नमः । ॐ कर्मधर्मपरायणायै नमः । ॐ कर्मरेखानाशकर्त्र्यै नमः । ॐ कर्मरेखाविनोदिन्यै नमः । ॐ कर्मरेखामोहकर्यै नमः । ॐ कर्मकीर्तिपरायणायै नमः । ॐ कर्मविद्यायै नमः । ॐ कर्मसारायै नमः। ॐ कर्माधारायै नमः । ॐ कर्मभुवे नमः । ॐ कर्मकार्यै नमः । ॐ कर्महार्यै नमः । ॐ कर्मकौतुकसुन्दर्यै नमः । ॐ कर्मकाल्यै नमः । ॐ कर्मतारायै नमः । ॐ कर्मछिन्नायै नमः । ॐ कर्मदायै नमः । ॐ कर्मचाण्डालिन्यै नमः । ॐ कर्मवेदमात्रे नमः । ॐ कर्मभुवे नमः । ॐ कर्मकाण्डरतानन्तायै नमः । ॐ कर्मकाण्डानुमानितायै नमः। ॐ कर्मकाण्डपरीणाहायै नमः। ॐ कमठ्यै नमः । ॐ कमठाकृत्यै नमः । ॐ कमठाराध्यहृदयायै नमः । ॐ कमठायै नमः । ॐ कण्ठसुन्दर्यै नमः । ॐ कमठासनसंसेव्यायै नमः । ॐ कमठ्यै नमः । ॐ कर्मतत्परायै नमः । ॐ करुणाकरकान्तायै नमः । ॐ करुणाकरवन्दितायै नमः । ॐ कठोरायै नमः । ॐ करमालायै नमः । ॐ कठोरकुचधारिण्यै नमः । ॐ कपर्दिन्यै नमः । ॐ कपटिन्यै नमः । ॐ कठिन्यै नमः । ॐ कङ्कभूषणायै नमः । ॐ करभोर्वै नमः । ॐ कठिनदायै नमः। ॐ करभायै नमः । ॐ करभालयायै नमः । ॐ कलभाषामय्यै नमः । ॐ कल्पायै नमः । ॐ कल्पनायै नमः । ॐ कल्पदायिन्यै नमः । ॐ कमलस्थायै नमः । ॐ कलामालायै नमः । ॐ कमलास्यायै नमः । ॐ क्वणत्प्रभायै नमः । ॐ ककुद्मिन्यै नमः । ॐ कष्टवत्यै नमः । ॐ करणीयकथार्चितायै नमः । ॐ कचार्चितायै नमः । ॐ कचतन्वै नमः । ॐ कचसुन्दरधारिण्यै नमः । ॐ कठोरकुचसंलग्नायै नमः । ॐ कटिसूत्रविराजितायै नमः । ॐ कर्णभक्षप्रियायै नमः । ॐ कन्दायै नमः । ॐ कथायै नमः । ॐ कन्दगत्यै नमः । ॐ कल्यै नमः । ॐ कलिघ्नयै नमः । ॐ कलिदूत्यै नमः । ॐ कविनायकपूजितायै नमः । ॐ कणकक्षानियन्त्र्यै नमः । ॐ कश्चित्कविवरार्चितायै नमः । ॐ कर्त्र्यै नमः । ॐ कर्तृकाभूषायै नमः । ॐ करिण्यै नमः । ॐ कर्णशत्रुपायै नमः । ॐ करणेश्यै नमः । ॐ करणपायै नमः । ॐ कलवाचायै नमः । ॐ कलानिध्यै नमः । ॐ कलनायै नमः । ॐ कलनाधारायै नमः । ॐ कलनायै नमः । ॐ कारिकायै नमः । ॐ कारायै नमः । ॐ कलगेयायै नमः । ॐ कर्कराश्यै नमः । ॐ कर्कराशिप्रपूजितायै नमः । ॐ कन्याराश्यै नमः । ॐ कन्यकायै नमः । ॐ कन्यकाप्रियभाषिण्यै नमः । ॐ कन्यकादानसन्तुष्टायै नमः । ॐ कन्यकादानतोषिण्यै नमः । ॐ कन्यादानकरानन्दायै नमः । ॐ कन्यादानग्रहेष्टदायै नमः । ॐ कर्षणायै नमः । ॐ कक्षदहनायै नमः । ॐ कामितायै नमः । ॐ कमलासनायै नमः । ॐ करमालानन्दकर्त्र्यै नमः ।  ॐ करमालाप्रतोषितायै नमः । ॐ करमालाशयानन्दायै नमः । ॐ करमालासमागमायै नमः । ॐ करमालासिद्धिदात्र्यै नमः । ॐ करमालायै नमः । ॐ करप्रियायै नमः । ॐ करप्रियाकररतायै नमः । ॐ करदानपरायणायै नमः । ॐ कलानन्दायै नमः । ॐ कलिगत्यै नमः । ॐ कलिपूज्यायै नमः । ॐ कलिप्रस्वै नमः । ॐ कलनादनिनादस्थायै नमः । ॐ कलनादवरप्रदायै नमः । ॐ कलनादसमाजस्थायै नमः । ॐ कहोलायै नमः । ॐ कहोलदायै नमः । ॐ कहोलगेहमध्यस्थायै नमः । ॐ कहोलवरदायिन्यै नमः । ॐ कहोलकविताधारायै नमः । ॐ कहोलऋषिमानितायै नमः। ॐ कहोलमानसाराध्यायै नमः। ॐ कहोलवाक्यकारिण्यै नमः। ॐ कर्तृरूपायै नमः । ॐ कर्तृमय्यै नमः । ॐ कर्तृमात्रे नमः । ॐ कर्त्तर्यै नमः । ॐ कनीयायै नमः । ॐ कनकाराध्यायै नमः । ॐ कनीनकमय्यै नमः । ॐ कनीयानन्दनिलयायै नमः । ॐ कनकानन्दतोषितायै नमः । ॐ कनीयककरायै नमः । ॐ काष्ठायै नमः । ॐ कथार्णवकर्यै नमः । ॐ कर्यै नमः । ॐ करिगम्यायै नमः । ॐ करिगत्यै नमः । ॐ करिध्वजपरायणायै नमः । ॐ करिनाथप्रियायै नमः । ॐ कण्ठायै नमः । ॐ कथानकप्रतोषितायै नमः । ॐ कमनीयायै नमः । ॐ कमनकायै नमः । ॐ कमनीयविभूषणायै नमः । ॐ कमनीयसमाजस्थायै नमः । ॐ कमनीयव्रतप्रियायै नमः । ॐ कमनीयगुणाराध्यायै नमः । ॐ कपिलायै नमः । ॐ कपिलेश्वर्यै नमः । ॐ कपिलाराध्यहृदयायै नमः । ॐ कपिलाप्रियवादिन्यै नमः । ॐ कहचक्रमन्त्रवर्णायै नमः । ॐ कहचक्रप्रसूनकायै नमः । ॐ क ए ईल्ह्रींस्वरूपायै नमः । ॐ क ए ईल्ह्रींवरप्रदायै नमः । ॐ क ए ईल्ह्रींसिद्धिदात्र्यै नमः। ॐ क ए ईल्ह्रींस्वरूपिण्यै नमः। ॐ क ए ईल्ह्रींमन्त्रवर्णायै नमः। ॐ क ए ईल्ह्रींप्रसूकलायै नमः । ॐ कवर्गायै नमः । ॐ कपाटस्थायै नमः । ॐ कपाटोद्घाटनक्षमायै नमः । ॐ कङ्काल्यै नमः । ॐ कपाल्यै नमः । ॐ कङ्कालप्रियभाषिण्यै नमः । ॐ कङ्कालभैरवाराध्यायै नमः । ॐ कङ्कालमानसंस्थितायै नमः । ॐ कङ्कालमोहनिरतायै नमः । ॐ कङ्कालमोहदायिन्यै नमः । ॐ कलुषघ्न्यै नमः । ॐ कलुषहायै नमः । ॐ कलुषार्त्तिविनाशिन्यै नमः । ॐ कलिपुष्पायै नमः । ॐ कलादानायै नमः । ॐ कशिप्वै नमः । ॐ कश्यपार्चितायै नमः । ॐ कश्यपायै नमः । ॐ कश्यपाराध्यायै नमः । ॐ कलिपूर्णकलेवरायै नमः । ॐ कलेवरकर्यै नमः । ॐ काञ्च्यै नमः । ॐ कवर्गायै नमः । ॐ करालकायै नमः । ॐ करालभैरवाराध्यायै नमः । ॐ करालभैरवेश्वर्यै नमः । ॐ करालायै नमः । ॐ कलनाधारायै नमः । ॐ कपर्दीशवरप्रदायै नमः । ॐ कपर्दीशप्रेमलतायै नमः । ॐ कपर्दिमालिकायै नमः । ॐ कपर्दिजपमालाढ्यायै नमः । ॐ करवीरप्रसूनदायै नमः । ॐ करवीरप्रियप्राणायै नमः । ॐ करवीरप्रपूजितायै नमः । ॐ कर्णिकारसमाकारायै नमः । ॐ कर्णिकारप्रपूजितायै नमः । ॐ करिषाग्निस्थितायै नमः । ॐ कर्षायै नमः । ॐ कर्षमात्रसुवर्णदायै नमः । ॐ कलशायै नमः । ॐ कलशाराध्यायै नमः । ॐ कषायायै नमः । ॐ करिगानदायै नमः । ॐ कपिलायै नमः । ॐ कलकण्ठ्यै नमः । ॐ कलिकल्पलतायै नमः । ॐ कल्पमात्रे नमः । ॐ कल्पलतायै नमः । ॐ कल्पकार्यै नमः । ॐ कल्पभुवे नमः । ॐ कर्पूरामोदरुचिरायै नमः । ॐ कर्पूरामोदधारिण्यै नमः । ॐ कर्पूरमालाभरणायै नमः । ॐ कर्पूरवासपूर्त्तिदायै नमः । ॐ कर्पूरमालाजयदायै नमः । ॐ कर्पूरार्णवमध्यगायै नमः । ॐ कर्पूरतर्पणरतायै नमः । ॐ कटकाम्बरधारिण्यै नमः । ॐ कपटेश्वरसम्पूज्यायै नमः । ॐ कपटेश्वररूपिण्यै नमः । ॐ कट्वै नमः । ॐ कविध्वजाराध्यायै नमः । ॐ कलापपुष्परूपिण्यै नमः । ॐ कलापपुष्परुचिरायै नमः । ॐ कलापपुष्पपूजितायै नमः । ॐ क्रकचायै नमः । ॐ क्रकचाराध्यायै नमः । ॐ कथंब्रूमायै नमः । ॐ करलतायै नमः । ॐ कथङ्कारविनिर्मुक्तायै नमः । ॐ काल्यै नमः । ॐ कालक्रियायै नमः । ॐ क्रत्वै नमः । ॐ कामिन्यै नमः । ॐ कामिनीपूज्यायै नमः । ॐ कामिनीपुष्पधारिण्यै नमः । ॐ कामिनीपुष्पनिलयायै नमः । ॐ कामिनीपुष्पपूर्णिमायै नमः । ॐ कामिनीपुष्पपूजार्हायै नमः । ॐ कामिनीपुष्पभूषणायै नमः । ॐ कामिनीपुष्पतिलकायै नमः। ॐ कामिनीकुण्डचुम्बनायै नमः। ॐ कामिनीयोगसन्तुष्टायै नमः। ॐ कामिनीयोगभोगदायै नमः। ॐ कामिनीकुण्डसम्मग्नायै नमः। ॐ कामिनीकुण्डमध्यगायै नमः। ॐ कामिनीमानसाराध्यायै नमः । ॐ कामिनीमानतोषितायै नमः । ॐ कामिनीमानसञ्चारायै नमः। ॐ कालिकायै नमः । ॐ कालकालिकायै नमः । ॐ कामायै नमः । ॐ कामदेव्यै नमः । ॐ कामेश्यै नमः । ॐ कामसम्भवायै नमः । ॐ कामभावायै नमः । ॐ कामरतायै नमः । ॐ कामार्त्तायै नमः । ॐ काममञ्जर्यै नमः । ॐ काममञ्जीररणितायै नमः । ॐ कामदेवप्रियान्तरायै नमः । ॐ कामकाल्यै नमः । ॐ कामकलायै नमः । ॐ कालिकायै नमः । ॐ कमलार्चितायै नमः । ॐ कादिकायै नमः । ॐ कमलायै नमः । ॐ काल्यै नमः । ॐ कालानलसमप्रभायै नमः । ॐ कल्पान्तदहनायै नमः । ॐ कान्तायै नमः । ॐ कान्तारप्रियवासिन्यै नमः । ॐ कालपूज्यायै नमः । ॐ कालरतायै नमः । ॐ कालमात्रे नमः । ॐ कालिन्यै नमः । ॐ कालवीरायै नमः । ॐ कालघोरायै नमः । ॐ कालसिद्धायै नमः । ॐ कालदायै नमः । ॐ कालाञ्जनसमाकारायै नमः । ॐ कालञ्जरनिवासिन्यै नमः । ॐ कालऋद्ध्यै नमः । ॐ कालवृद्ध्यै नमः । ॐ कारागृहविमोचिन्यै नमः । ॐ कादिविद्यायै नमः । ॐ कादिमात्रे नमः । ॐ कादिस्थायै नमः । ॐ कादिसुन्दर्यै नमः । ॐ काश्यै नमः । ॐ काञ्च्यै नमः । ॐ काञ्चीशायै नमः । ॐ काशीशवरदायिन्यै नमः । ॐ क्रींबीजायै नमः। ॐ क्रींबीजाहृदयायै नमः । ॐ काम्यायै नमः । ॐ काम्यगत्यै नमः । ॐ काम्यसिद्धिदात्र्यै नमः । ॐ कामभुवे नमः । ॐ कामाख्यायै नमः । ॐ कामरूपायै नमः । ॐ कामचापविमोचिन्यै नमः । ॐ कामदेवकलारामायै नमः। ॐ कामदेवकलालयायै नमः । ॐ कामरात्र्यै नमः । ॐ कामदात्र्यै नमः । ॐ कान्ताराचलवासिन्यै नमः । ॐ कामरूपायै नमः । ॐ कालगत्यै नमः । ॐ कामयोगपरायणायै नमः । ॐ कामसम्मर्दनरतायै नमः । ॐ कामगेहविकाशिन्यै नमः । ॐ कालभैरवभार्यायै नमः । ॐ कालभैरवकामिन्यै नमः । ॐ कालभैरवयोगस्थायै नमः । ॐ कालभैरवभोगदायै नमः । ॐ कामधेन्वै नमः । ॐ कामदोग्ध्र्यै नमः । ॐ काममात्रे नमः । ॐ कान्तिदायै नमः। ॐ कामुकायै नमः। ॐ कामुकाराध्यायै नमः। ॐ कामुकानन्दवर्द्धिन्यै नमः। ॐ कार्त्तवीर्यायै नमः । ॐ कार्त्तिकेयायै नमः । ॐ कार्त्तिकेयप्रपूजितायै नमः । ॐ कार्यायै नमः । ॐ कारणदायै नमः । ॐ कार्यकारिण्यै नमः । ॐ कारणान्तरायै नमः । ॐ कान्तिगम्यायै नमः । ॐ कान्तिमय्यै नमः । ॐ कात्यायै नमः । ॐ कात्यायन्यै नमः । ॐ कायै नमः । ॐ कामसारायै नमः । ॐ काश्मीरायै नमः । ॐ काश्मीराचारतत्परायै नमः । ॐ कामरूपाचाररतायै नमः । ॐ कामरूपप्रियंवदायै नमः । ॐ कामरूपाचारसिद्ध्यै नमः । ॐ कामरूपमनोमय्यै नमः । ॐ कार्त्तिक्यै नमः । ॐ कार्त्तिकाराध्यायै नमः । ॐ काञ्चनारप्रसूनभुवे नमः । ॐ काञ्चनारप्रसूनाभायै नमः । ॐ काञ्चनारप्रपूजितायै नमः । ॐ काञ्चरूपायै नमः । ॐ काञ्चभूम्यै नमः । ॐ कांस्यपात्रप्रभोजिन्यै नमः । ॐ कांस्यध्वनिमय्यै नमः । ॐ कामसुन्दर्यै नमः । ॐ कामचुन्बनायै नमः । ॐ काशपुष्पप्रतीकाशायै नमः । ॐ कामद्रुमसमागमायै नमः । ॐ कामपुष्पायै नमः । ॐ कामभूम्यै नमः । ॐ कामपूज्यायै नमः । ॐ कामदायै नमः । ॐ कामदेहायै नमः । ॐ कामगेहायै नमः । ॐ कामबीजपरायणायै नमः । ॐ कामध्वजसमारूढायै नमः । ॐ कामध्वजसमास्थितायै नमः । ॐ काश्यप्यै नमः । ॐ काश्यपाराध्यायै नमः। ॐ काश्यपानन्ददायिन्यै नमः । ॐ कालिन्दीजलसंकाशायै नमः । ॐ कालिन्दीजलपूजितायै नमः । ॐ कादेवपूजानिरतायै नमः । ॐ कादेवपरमार्थदायै नमः । ॐ कार्मणायै नमः । ॐ कार्मणाकारायै नमः । ॐ कामकार्मणकारिण्यै नमः । ॐ कार्मणत्रोटनकर्यै नमः । ॐ काकिन्यै नमः । ॐ कारणाह्वनायै नमः । ॐ काव्यामृतायै नमः । ॐ कालिङ्गायै नमः ।  ॐ कालिङ्गमर्द्दनोद्यतायै नमः । ॐ कालागुरुविभूषाढ्यायै नमः । ॐ कालागुरुविभूतिदायै नमः । ॐ कालागुरुसुगन्धायै नमः । ॐ कालागुरुप्रतर्पणायै नमः । ॐ कावेरीनीरसम्प्रीतायै नमः । ॐ कावेरीतीरवासिन्यै नमः । ॐ कालचक्रभ्रमाकारायै नमः । ॐ कालचक्रनिवासिन्यै नमः । ॐ काननायै नमः । ॐ काननाधारायै नमः । ॐ कार्व्यै नमः । ॐ कारुणिकामय्यै नमः। ॐ काम्पिल्यवासिन्यै नमः। ॐ काष्ठायै नमः । ॐ कामपत्न्यै नमः । ॐ कामभुवे नमः । ॐ कादम्बरीपानरतायै नमः। ॐ कादम्बर्य्यै नमः । ॐ कलायै नमः । ॐ कामवन्द्यायै नमः । ॐ कामेश्यै नमः। ॐ कामराजप्रपूजितायै नमः । ॐ कामराजेश्वरीविद्यायै नमः । ॐ कामकौतुकसुन्दर्य्यै नमः । ॐ काम्बोजायै नमः । ॐ काञ्चिनदायै नमः । ॐ कांस्यकाञ्चनकारिण्यै नमः । ॐ काञ्चनाद्रिसमाकारायै नमः । ॐ काञ्चनाद्रिप्रदानदायै नमः । ॐ कामकीर्त्यै नमः । ॐ कामकेश्यै नमः । ॐ कारिकायै नमः । ॐ कान्ताराश्रयायै नमः । ॐ कामभेद्यै नमः । ॐ कामार्तिनाशिन्यै नमः । ॐ कामभूमिकायै नमः । ॐ कालनिर्णाशिन्यै नमः । ॐ काव्यवनितायै नमः । ॐ कामरूपिण्यै नमः । ॐ कायस्थाकामसन्दीप्त्यै नमः । ॐ काव्यदायै नमः । ॐ कालसुन्दर्यै नमः । ॐ कामेश्यै नमः । ॐ कारणवरायै नमः । ॐ कामेशीपूजनोद्यतायै नमः । ॐ काञ्चीनूपुरभूषाढ्यायै नमः । ॐ कुङ्कुमाभरणान्वितायै नमः । ॐ कालचक्रायै नमः । ॐ कालगत्यै नमः । ॐ कालचक्रमनोभवायै नमः । ॐ कुन्दमध्यायै नमः । ॐ कुन्दपुष्पायै नमः । ॐ कुन्दपुष्पप्रियायै नमः । ॐ कुजायै नमः । ॐ कुजमात्रे नमः । ॐ कुजाराध्यायै नमः । ॐ कुठारवरधारिण्यै नमः । ॐ कुञ्जरस्थायै नमः । ॐ कुशरतायै नमः । ॐ कुशेशयविलोचनायै नमः । ॐ कुनठ्यै नमः । ॐ कुरर्य्यै नमः । ॐ क्रुद्धायै नमः । ॐ कुरङ्ग्यै नमः । ॐ कुटजाश्रयायै नमः । ॐ कुम्भीनसविभूषायै नमः । ॐ कुम्भीनसवधोद्यतायै नमः । ॐ कुम्भकर्णमनोल्लासायै नमः। ॐ कुलचूडामण्यै नमः । ॐ कुलायै नमः । ॐ कुलालगृहकन्यायै नमः । ॐ कुलचूडामणिप्रियायै नमः। ॐ कुलपूज्यायै नमः । ॐ कुलाराध्यायै नमः । ॐ कुलपूजापरायणायै नमः । ॐ कुलभूषायै नमः । ॐ कुक्ष्यै नमः । ॐ कुररीगणसेवितायै नमः । ॐ कुलपुष्पायै नमः । ॐ कुलरतायै नमः । ॐ कुलपुष्पपरायणायै नमः । ॐ कुलवस्त्रायै नमः । ॐ कुलाराध्यायै नमः । ॐ कुलकुण्डसमप्रभायै नमः । ॐ कुलकुण्डसमोल्लासायै नमः । ॐ कुण्डपुष्पपरायणायै नमः । ॐ कुण्डपुष्पप्रसन्नास्यायै नमः । ॐ कुण्डगोलोद्भवात्मिकायै नमः । ॐ कुण्डगोलोद्भवाधारायै नमः । ॐ कुण्डगोलमय्यै नमः । ॐ कुह्व्यै नमः । ॐ कुण्डगोलप्रियप्राणायै नमः । ॐ कुण्डगोलप्रपूजितायै नमः । ॐ कुण्डगोलमनोल्लासायै नमः । ॐ कुण्डगोलबलप्रदायै नमः । ॐ कुण्डदेवरतायै नमः । ॐ क्रुद्धायै नमः । ॐ कुलसिद्धिकरापरायै नमः । ॐ कुलकुण्डसमाकारायै नमः । ॐ कुलकुण्डसमानभुवे नमः । ॐ कुण्डसिद्ध्यै नमः । ॐ कुण्डऋद्ध्यै नमः । ॐ कुमारीपूजनोद्यतायै नमः । ॐ कुमारीपूजकप्राणायै नमः। ॐ कुमारीपूजकालयायै नमः । ॐ कुमार्यै नमः । ॐ कामसन्तुष्टायै नमः । ॐ कुमारीपूजनोत्सुकायै नमः । ॐ कुमारीव्रतसन्तुष्टायै नमः । ॐ कुमारीरूपधारिण्यै नमः । ॐ कुमारीभोजनप्रीतायै नमः । ॐ कुमार्यै नमः । ॐ कुमारदायै नमः । ॐ कुमारमात्रे नमः । ॐ कुलदायै नमः । ॐ कुलयोन्यै नमः । ॐ कुलेश्वर्यै नमः । ॐ कुललिङ्गायै नमः । ॐ कुलानन्दायै नमः । ॐ कुलरम्यायै नमः । ॐ कुतर्कधृषे नमः । ॐ कुन्त्यै नमः । ॐ कुलकान्तायै नमः । ॐ कुलमार्गपरायणायै नमः । ॐ कुल्लायै नमः । ॐ कुरुकुल्लायै नमः । ॐ कुल्लुकायै नमः । ॐ कुलकामदायै नमः । ॐ कुलिशाङ्ग्यै नमः । ॐ कुब्जिकायै नमः । ॐ कुब्जिकानन्दवर्द्धिन्यै नमः । ॐ कुलीनायै नमः । ॐ कुञ्जरगत्यै नमः । ॐ कुञ्जरेश्वरगामिन्यै नमः । ॐ कुलपाल्यै नमः । ॐ कुलवत्यै नमः । ॐ कुलदीपिकायै नमः । ॐ कुलयोगेश्वर्यै नमः । ॐ कुण्डायै नमः । ॐ कुङ्कुमारुणविग्रहायै नमः । ॐ कुङ्कुमानन्दसन्तोषायै नमः । ॐ कुङ्कुमार्णववासिन्यै नमः । ॐ कुसुमायै नमः । ॐ कुसुमप्रीतायै नमः। ॐ कुलभुवे नमः । ॐ कुलसुन्दर्यै नमः । ॐ कुमुद्वत्यै नमः । ॐ कुमुदिन्यै नमः । ॐ कुशलायै नमः । ॐ कुलटालयायै नमः । ॐ कुलटालयमध्यस्थायै नमः । ॐ कुलटासङ्गतोषितायै नमः । ॐ कुलटाभवनोद्युक्तायै नमः । ॐ कुशावर्त्तायै नमः । ॐ कुलार्णवायै नमः । ॐ कुलार्णवाचाररतायै नमः । ॐ कुण्डल्यै नमः । ॐ कुण्डलाकृत्यै नमः। ॐ कुमत्यै नमः । ॐ कुलश्रेष्ठायै नमः । ॐ कुलचक्रपरायणायै नमः । ॐ कूटस्थायै नमः । ॐ कूटदृष्ट्यै नमः । ॐ कुन्तलायै नमः । ॐ कुन्तलाकृत्यै नमः । ॐ कुशलाकृतिरूपायै नमः । ॐ कूर्चवीजधरा यै नमः । ॐ क्वै नमः । ॐ कुं कुं कुं कुं शब्दरतायै नमः । ॐ क्रुं क्रुं क्रुं क्रुं परायणायै नमः । ॐ कुं कुं कुं शब्दनिलयायै नमः । ॐ कुक्कुरालयवासिन्यै नमः । ॐ कुक्कुरासङ्गसंयुक्तायै नमः । ॐ कुक्कुरानन्तविग्रहायै नमः । ॐ कूर्चारम्भायै नमः। ॐ कूर्चबीजायै नमः । ॐ कूर्चजापपरायणायै नमः । ॐ कुलिन्यै नमः । ॐ कुलसंस्थानायै नमः । ॐ कूर्चकण्ठपरागत्यै नमः । ॐ कूर्चवीणाभालदेशायै नमः । ॐ कूर्चमस्तकभूषितायै नमः । ॐ कुलवृक्षगतायै नमः । ॐ कूर्मायै नमः । ॐ कूर्माचलनिवासिन्यै नमः । ॐ कुलबिन्द्वै नमः । ॐ कुलशिवायै नमः । ॐ कुलशक्तिपरायणायै नमः । ॐ कुलबिन्दुमणिप्रख्या नमः । ॐ कुङ्कुमद्रुमवासिन्यै नमः । ॐ कुचमर्दनसन्तुष्टायै नमः । ॐ कुचजापपरायणायै नमः । ॐ कुचस्पर्शनसन्तुष्टायै नमः । ॐ कुचालिङ्गनहर्षदायै नमः । ॐ कुगतिघ्न्यै नमः । ॐ कुबेरार्च्यायै नमः । ॐ कुचभुवे नमः । ॐ कुलनायिकायै नमः । ॐ कुगायनायै नमः। ॐ कुचधरायै नमः । ॐ कुमात्रे नमः । ॐ कुन्ददन्तिन्यै नमः । ॐ कुगेयायै नमः । ॐ कुहराभाषायै नमः । ॐ कुगेयाकुघ्नदारिकायै नमः । ॐ कीर्त्यै नमः । ॐ किरातिन्यै नमः । ॐ क्लिन्नायै नमः । ॐ किन्नरायै नमः । ॐ किन्नर्यै नमः । ॐ क्रियायै नमः । ॐ क्रीङ्कारायै नमः । ॐ क्रींजपासक्तायै नमः । ॐ क्रींह्वूंस्त्रींमन्त्ररूपिण्यै नमः। ॐ कीर्मिरितदृशापाङ्ग्यै नमः । ॐ किशोर्यै नमः । ॐ किरीटिन्यै नमः । ॐ कीटभाषायै नमः । ॐ कीटयोन्यै नमः । ॐ कीटमात्रे नमः । ॐ कीटदायै नमः । ॐ किंशुकायै नमः । ॐ कीरभाषायै नमः । ॐ क्रियासारायै नमः । ॐ क्रियावत्यै नमः । ॐ कींकींशब्दपरायै नमः । ॐ क्लींक्लींक्लूंक्लैंक्लौंमन्त्ररूपिण्यै नमः । ॐ कांकींकूंकैंस्वरूपायै नमः । ॐ कःफट्मन्त्रस्वरूपिण्यै नमः । ॐ केतकीभूषणानन्दायै नमः । ॐ केतकीभरणान्वितायै नमः । ॐ कैकदायै नमः । ॐ केशिन्यै नमः । ॐ केशीसूदनतत्परायै नमः । ॐ केशरूपायै नमः । ॐ केशमुक्तायै नमः । ॐ कैकेय्यै नमः । ॐ कौशिक्यै नमः । ॐ केरवायै नमः । ॐ कैरवाह्लादायै नमः । ॐ केशरायै नमः । ॐ केतुरूपिण्यै नमः । ॐ केशवाराध्यहृदयायै नमः । ॐ केशवासक्तमानसायै नमः । ॐ क्लैव्यविनाशिन्यै क्लैं नमः । ॐ क्लैंबीजजपतोषितायै नमः । ॐ कौशल्यायै नमः । ॐ कोशलाक्ष्यै नमः । ॐ कोशायै नमः । ॐ कोमलायै नमः । ॐ कोलापुरनिवासायै नमः । ॐ कोलासुरविनाशिन्यै नमः । ॐ कोटिरूपायै नमः । ॐ कोटिरतायै नमः । ॐ क्रोधिन्यै नमः । ॐ क्रोधरूपिण्यै नमः । ॐ केकायै नमः । ॐ कोकिलायै नमः । ॐ कोट्यै नमः । ॐ कोटिमन्त्रपरायणायै नमः । ॐ कोट्यनन्तमन्त्रयुतायै नमः । ॐ कैरूपायै नमः । ॐ केरलाश्रयायै नमः । ॐ केरलाचारनिपुणायै नमः । ॐ केरलेन्द्रगृहस्थितायै नमः । ॐ केदाराश्रमसंस्थायै नमः। ॐ केदारेश्वरपूजितायै नमः । ॐ क्रोधरूपायै नमः । ॐ क्रोधपदायै नमः । ॐ क्रोधमात्रे नमः । ॐ कौशिक्यै नमः । ॐ कोदण्डधारिण्यै नमः । ॐ क्रौंञ्चायै नमः । ॐ कौशल्यायै नमः । ॐ कौलमार्गगायै नमः । ॐ कौलिन्यै नमः । ॐ कौलिकाराध्यायै नमः । ॐ कौलिकागारवासिन्यै नमः । ॐ कौतुक्यै नमः । ॐ कौमुद्यै नमः। ॐ कौलायै नमः। ॐ कौमार्यै नमः । ॐ कौरवार्चितायै नमः । ॐ कौण्डिन्यायै नमः । ॐ कौशिक्यै नमः। ॐ क्रोधज्वालाभासुररूपिण्यै नमः । ॐ कोटिकालानलज्वालायै नमः । ॐ कोटिमार्तण्डविग्रहायै नमः । ॐ कृत्तिकायै नमः । ॐ कृष्णवर्णायै नमः । ॐ कृष्णायै नमः । ॐ कृत्यायै नमः । ॐ क्रियातुरायै नमः । ॐ कृशाङ्ग्यै नमः । ॐ कृतकृत्यायै नमः । ॐ क्रःफट्स्वाहास्वरूपिण्यै नमः । ॐ क्रौंक्रौंहूंफट्मन्त्रवर्णायै नमः । ॐ क्रींह्रींह्रूंफट्नमःस्वधायै नमः । ॐ क्रींक्रींह्रींह्रीं तथा ह्रूंह्रूं फट्स्वाहामन्त्ररूपिण्यै नमः । १०००

क्रींक्रीं ह्रींह्रीं तथा ह्रूं ह्रूं एवं फट्स्वाहामन्त्ररूपिण्यै। रूपमन्त्रवाली (भगवती श्रीमहाकाली) के सर्वसाम्राज्य मेधानामक सहस्रनाममंत्र को मैंने (हे पार्वति!) तुमसे कहा ॥ १८२ ॥

ककारादिकालीसहस्त्रनामस्तोत्रम् सहस्रनामावली फलश्रुति

ककारादि कालीसहस्रनामस्तोत्रम् फलश्रुति

सुन्दरीशक्तिदानाख्यं स्वरूपार्भिधमेव च ।

कथितं दक्षिणाकाल्याः सुन्दर्यै प्रीतियोगतः ॥ १॥

वरदानप्रसङ्गेन रहस्यमपि दर्शितम् ।

गोपनीयं सदा भक्त्या पठनीयं परात्परम् ॥ २॥

प्रातर्मध्याह्नकाले च मध्यार्द्धरात्रयोरपि ।

यज्ञकाले जपान्ते च पठनीयं विशेषतः ॥ ३॥

(हे पार्वती) यह काली सहस्रनाम त्रिपुरसुन्दरी को शक्ति प्रदत्त करनेवाला और ककार रूप ही इसका स्वरूप है । महाकाली ने त्रिपुरसुन्दरी को इसका उपदेश दिया था। त्रिपुरसुन्दरी को वर-प्रदत्त करने के प्रसंग से महाकाली के रहस्य को भी मैंने तुम्हें बताया। इसे (सदैव) गोपनीय रखना चाहिए और श्रद्धापूर्वक इसका पाठ करना चाहिए । प्रात:, मध्याह्न और मध्यरात्रि तथा रात्रि के बीच के समय यज्ञकाल, जपकाल में विशेषरूप से इसका पाठ करना चाहिए ॥ १-३॥

यः पठेत् साधको धीरः कालीरूपो हि वर्षतः ।

पठेद्वा पाठयेद्वापि श्रृणोति श्रावयेदपि ॥ ४॥

वाचकं तोषयेद्वापि स भवेत् कालिकातनुः ।

सहेलं वा सलीलं वा यश्चैनं मानवः पठेत् ॥ ५॥

सर्वदुःखविनिर्मुक्तस्त्रैलोक्यविजयी कविः ।

मृतवन्ध्या काकवन्ध्या कन्यावन्ध्या च वन्ध्यका ॥ ६॥

पुष्पवन्ध्या शूलवन्ध्या श्रृणुयात् स्तोत्रमुत्तमम् ।

सर्वसिद्धिप्रदातारं सत्कविं चिरजीविनम् ॥ ७॥

जो (साधना करनेवाला) साधक धैर्यता से युक्त होकर इस कालीसहस्रनाम स्तोत्र का पाठ करते हैं, वे एक साल में ही काली के तुल्य शक्तिवान् हो जाते हैं। जो (साधक) इस स्तोत्र को पढ़ते या दूसरों को पढ़कर सुनाते हैं, वह कालिका के तुल्य शक्तिवान् हो जाते हैं। अवज्ञा से जो इस कालीसहस्रनाम का पाठ करते हैं, वे सभी दुःखों से मुक्त हो जाते हैं और शत्रुओं पर विजय प्राप्त करते हैं, इसके साथ ही साथ वे कवि हो जाते हैं। जिस स्त्री के पुत्र मर जाते हैं, वह मृतबन्ध्या और जिसे एक ही पुत्र होता है,उसे काकबन्ध्या एवं केवल पुत्री उत्पन्न करनेवाली पुत्रीबन्ध्या, पुष्प न होनेवाला पुष्पबन्ध्या और शूल से पीड़ा होने के कारण पुत्र प्रसव न करनेवाली शूलबन्ध्या, सर्वथा पुत्र न उत्पन्न करनेवाली बन्ध्या, इस सभी प्रकार की बन्ध्या स्त्रियों को इस स्तोत्र का पाठ अवश्य करना चाहिए। इसका पाठ करनेवालों को सुन्दर कवि और दीर्घायु पुत्र, काली के प्रसाद से प्राप्त होते हैं ॥ ४-७॥

पाण्डित्यकीर्तिसंयुक्तं लभते नात्र संशयः ।

यं यं काममुपस्कृत्य कालीं ध्यात्वा जपेत्स्तवम् ॥ ८॥

तं तं कामं करे कृत्वा मन्त्री भवति नाऽन्यथा ।

योनिपुष्पैर्लिङ्गपुष्पैः कुण्डगोलोद्भवैरपि ॥ ९॥

संयोगामृतपुष्पैश्च वस्त्रदेवीप्रसूनकैः ।

कालिपुष्पैः पीठतोयैर्योनिक्षालनतोयकैः ॥ १०॥

कस्तूरीकुङ्कुमैर्देवीं नखकालागरुक्रमात् ।

अष्टगन्धैर्धूपदीपर्यवयावकसंयुतैः ॥ ११॥

रक्तचन्दनसिन्दूरैर्मत्स्यमांसादिभूषणैः ।

मधुभिः पायसैः क्षीरैः शोधितैः शोणितैरपि ॥ १२॥

महोपचारै रक्तैश्च नैवेद्यैः सुरसान्वितैः ।

पूजयित्वा महाकालीं महाकालेन लालिताम् ॥ १३॥

विद्याराज्ञीं कुल्लुकाञ्च जप्त्वा स्तोत्रं जपेच्छिवे ।

कालीभक्तस्त्वेकचित्तः सिन्दूरतिलकान्वितः ॥ १४॥

इस कालीसहस्रनाम स्तोत्र का पाठ करने से मनुष्य कीर्ति से युक्त, पांडित्य प्राप्त करते है, इसमें संदेह नहीं है। जिन-जिन कामनाओं की प्राप्ति के लिए मनुष्य महाकाली का ध्यान करते हुए उनके मंत्र का जप करते हैं, वह उन मनोवांछित कामनाओं को प्राप्त कर लेते है। रज, वीर्य, संयोगामृतपुष्प, रजस्वला के पुष्प, कालिपुष्प, योनितोय, पीठतोय, योनिक्षालिततोय से, कस्तूरी, कुमकुम से, नख, कालागुरु, अष्टगंध, धूप, दीप, यव, यावय सयुक्त, लालचंदन, सिंदूर, मत्स्यमांस, भूषण, शहद, चावल, दूध, शुद्ध शोणित सुन्दर रसयुक्त फलादि महोपचार, खून और अति सरस नैवेद्य द्वारा महाकाल की गोद में स्थित महाकाली का पूजन करें। फिर विद्याराज्ञी और कुल्लुका जप करके महाकालीसहस्रनाम का पाठ करें। पाठ करते समय काली में चित्त को लगा दें और पाठकर्ता को सिंदूर का तिलक लगाना चाहिए ॥ ८-१४॥

ताम्बूलपूरितमुखो मुक्तकेशो दिगम्बरः ।

शवयोनिस्थितो वीरः श्मशानसुरतान्वितः ॥ १५॥

शून्यालये बिन्दुपीठे पुष्पाकीर्णे शिवानने ।

शयनोत्थप्रभुञ्जानः कालीदर्शनमाप्नुयात् ॥ १६॥

साधक को पाठ करते समय मुख में ताम्बूल भक्षण कर मुक्तकेश और बिना वस्त्र के रहना चाहिए। शव (मुर्दे) पर स्थित होकर अकेले श्मशान में इसका पाठ करना चाहिए। अकेले घर में, त्रिकोण मध्यगामी बिन्दु के आसन पर या रजोयुक्त स्त्री के साथ और श्रृंगालियों के स्थान पर शयन करने से, खड़े रहकर भोजन करने से काली का दर्शन प्राप्त होता है॥१५-१६॥

तत्र यद्यत्कृतं कर्म तदनन्तफलं भवेत् ।

ऐश्वर्ये कमला साक्षात् सिद्धौ श्रीकालिकाम्बिका ॥ १७॥

उपरोक्त स्थानों पर जो साधक अर्चना करता है, वह अनन्त फल देनेवाला होता है । महाकाली के सहस्रनाम का पाठ करनेवाला साधक ऐश्वर्य में लक्ष्मी के तुल्य, सिद्धि में माता महाकाली के तुल्य ॥१७॥

कवित्वे तारिणीतुल्यः सौन्दर्ये सुन्दरीसमः ।

सिन्धोर्द्धारासमः कार्ये श्रुतौ श्रुतिधरस्तथा ॥ १८॥

कविता में श्रीविद्या के तुल्य, सुन्दरता में सुन्दरी के तुल्य, कार्य में समुद्रधारा के तुल्य, श्रुति में श्रुतिधर के तुल्य हो जाता है॥ १८ ॥

वज्रास्त्रमिव दुर्धर्षस्त्रैलोक्यविजयास्त्रभृत् ।

शत्रुहन्ता काव्यकर्ता भवेच्छिवसमः कलौ ॥ १९॥

त्रैलोक्य के विजय में इंद्र के तुल्य पराक्रमी तथा कलिकाल में शत्रुहन्ता और काव्यकर्ता शिव के तुल्य हो जाता है ॥ १९॥

दिग्विदिक्चन्द्रकर्ता च दिवारात्रिविपर्य्ययी ।

महादेवसमो योगी त्रैलोक्यस्तम्भकः क्षणात् ॥ २०॥

 (ऐसा साधक) दिशाओं और विदिशाओं में चन्द्रमा को प्रगट कर देता है और रात्रि को दिन तथा दिन को रात्रि बनाने में समर्थवान् हो जाता है। (वह) योग में शिव क तुल्य हो जाता है और क्षणमात्र में तीनों लोकों को स्तंभित कर देता है ॥ २०॥

गानेन तुम्बुरुः साक्षाद्दाने कर्णसमो भवेत् ।

गजाऽश्वरथपत्तीनामस्त्राणामधिपः कृती ॥ २१॥

गायनविद्या में तुम्बुरु के तुल्य तथा दान देने में कर्ण के तुल्य होता है। हाथी, घोड़ा, रथ, पैदल तथा अस्त्र-शस्त्रों का वह स्वामी होता है और उसका जीवन सफल हो जाता है ।। २१ ॥

आयुष्येषु भुशुण्डी च जरापलितनाशकः ।

वर्षषोडशवान् भूयात् सर्वकाले महेश्वरी ॥ २२॥

काकभुशुण्डी के तुल्य आयु में दीर्घजीवी होता है, उसके पास वृद्धावस्था नहीं आती है, वह हमेशा सोलह वर्ष का किशोर बना रहता है ।। २२॥

ब्रह्माण्डगोले देवेशि न तस्य दुर्लभं क्वचित् ।

सर्वं हस्तगतं भूयान्नात्र कार्य्या विचारणा ॥ २३॥

कुलपुष्पयुतं दृष्ट्वा तत्र कालीं विचिन्त्य च ।

विद्याराज्ञीं तु सम्पूज्य पठेन्नामसहस्रकम् ॥ २४॥

मनोरथमयी सिद्धिस्तस्य हस्ते सदा भवेत् ।

परदारान् समालिङ्गय सम्पूज्य परमेश्वरीम् ॥ २५॥

हस्ताहस्तिकया योगं कृत्वा जप्त्वा स्तवं पठेत् ।

योनिं वीक्ष्य जपेत् स्तोत्रं कुबेरादधिको भवेत् ॥ २६॥

कुण्डगोलोद्भवं गृह्यवर्णाक्तं होमयेन्निशि ।

पितृभूमौ महेशानि विधिरेखां प्रमार्जयेत् ॥ २७॥

हे पार्वती! इस संसार में उसके लिये कुछ भी दुर्लभ (अप्राप्य) नहीं होता है । सभी पदार्थ उसके वशीभूत हो जाते हैं, इसमें संदेह की आवश्यकता नहीं । साधना करनेवाला भगवती को रजस्वला के रूप में जानकर उनका ध्यान करे, फिर महाविद्याराज्ञी का पूजन कर कालीसहस्रनाम का पाठ करे। दूसरे की स्त्री का स्पर्श करते हुए परमेश्वरी का पूजन करे और दूसरे की स्त्री का हाथ पकड़कर कालीसहस्रनाम स्तोत्र का पाठ करने से मनुष्य को समस्त सिद्धियाँ प्राप्त होती हैं । (ऐसे साधक का) मनोरथ पूर्ण हो जाता है, ऐश्वर्य में वह कुबेर से भी अधिक सम्पन्न हो जाता है। हे महेशानि! कुल एवं गोलक के वर्णाक्त को लेकर श्मशान में हवन करनेवाला पुरुष ब्रह्मा के लिखे को भी बदल सकता है ।। २३-२७॥

तरुणीं सुन्दरीं रम्यां चञ्चलां कामगर्विताम् ।

समानीय प्रयत्नेन संशोध्य न्यासयोगतः ॥ २८॥

प्रसूनमञ्चे संस्थाप्य पृथिवीं वशमानयेत् ।

मूलचक्रं तु सम्भाव्य देव्याश्चरणसंयुतम् ॥ २९॥

सम्मूज्य परमेशानीं सङ्कल्प्य तु महेश्वरि ।

जप्त्वा स्तुत्वा महेशानीं प्रणवं संस्मरेच्छिवे ॥ ३०॥

अत्यधिक मनोहर तरुणी (युवती), जो काम के गर्व से इठलाती हो और चंचल हो, उसे प्रयत्न करके बुलावें । फिर न्यासविधि से उसे स्नान करावें, उस (स्त्री को) फूलों का सेज पर बिठावें और स्वयं भूमि पर रहें। फिर देवी के चरणों से युक्त मूलमंत्र का स्मरण करें । हे शिवे, हे महेशानि! फिर संकल्प करके देवी का पूजन कर देवी के मूलमंत्र का जप करें। इसके पश्चात् कालीसहस्रनाम स्तोत्र का पाठ करें, फिर प्रणव का स्मरण करें ॥ २८-३०॥

अष्टोत्तरशतैर्योनिं प्रमन्त्र्याचुम्ब्य यत्नतः ।

संयोगीभूय जप्तव्यं सर्वविद्याधिपो भवेत् ॥ ३१॥

शून्यागारे शिवारण्ये शिवदेवालये तथा ।

शून्यदेशे तडागे च गङ्गागर्भे चतुष्पथे ॥ ३२॥

श्मशाने पर्वतप्रान्ते एकलिङ्गे शिवामुखे ।

मुण्डयोनौ ऋतौ स्नात्वा गेहे वेश्यागृहे तथा ॥ ३३॥

कुट्टिनीगृहमध्ये च कदलीमण्डपे तथा ।

पठेत्सहस्रनामाख्यं स्तोत्रं सर्वार्थसिद्धये ॥ ३४॥

अरण्ये शून्यगर्ते च रणे शत्रुसमागमे ।

प्रजपेच्च ततो नाम काल्याश्चैव सहस्रकम् ॥ ३५॥

(साधक) महाकाली के मूलमंत्र से एक सौ आठ बार योनि को अभिमंत्रित कर चुम्बन करे । फिर उस स्त्री के साथ मिलकर काली के मंत्र का जप करे । ऐसा करनेवाला पुरुष समस्त विद्याओं का स्वामी हो जाता है। खंडहर में, श्रृंगालियों के वन में, शिवमन्दिर में, निर्जन स्थान में, तालाब में, गंगा के मध्य में, चौराहे पर, श्मशान में, पर्वत पर, अकेले और शिवामुख में ऋतुमती स्त्री की योनि को मुण्डित कराकर अपने गृह में स्नान करने के पश्चात् या वेश्या के गृह में, कुटनी के गृह में, केले के मण्डप का निर्माण कर उसमें कालीसहस्रनाम स्तोत्र का पाठ करने से सम्पूर्ण मनोरथों की सिद्धि होती है। जंगल में, गुफा में, शत्रु के साथ युद्ध के लिये समरभूमि में, इस कालीसहस्रनाम स्तोत्र का पाठ करे ॥ ३१-३५॥

बालानन्दपरो भूत्वा पठित्वा कालिकास्तवम् ।

कालीं सञ्चिन्त्य प्रजपेत् पठेन्नामसहस्रकम् ॥ ३६॥

सर्वसिद्धीश्वरो भूयाद्वाञ्छासिद्धीश्वरो भवेत् ।

मुण्डचूडकयोर्योनि त्वचि वा कोमले शिवे ॥ ३७॥

विष्टरे शववस्त्रे वा पुष्पवस्त्रासनेऽपि वा ।

मुक्तकेशो दिशावासो मैथुनी शयने स्थितः ॥ ३८॥

जप्त्वाकालीं पठेत् स्तोत्रं खेचरीसिद्धिभाग् भवेत् ।

चिकुरं योगमासाद्य शुक्रोत्सारणमेव च ॥ ३९॥

बालकों को प्रसन्न करने के पश्चात् कालिका स्तोत्र का पाठ एवं महाकाली का ध्यान करते हुए (इस) कालीसहस्रनाम स्तोत्र का पाठ करना चाहिए। जो (साधक) ऐसा करते हैं, उनको सम्पूर्ण सिद्धियाँ प्राप्त होती हैं और उनका अभीष्ट सदैव पूर्ण होता है। मुण्डित या अमुण्डित योनि में रतिक्रिया करता हुआ या कोमल चमड़े पर, कुशा निर्मित आसन पर, कफन पर, रजस्वलास्त्री के वस्त्र के आसन पर, बालों को खोल हुए निर्वस्त्र होकर मैथुन किये गये शयन पर, काली का (जो साधक) जप करता हुआ कालीसहस्रनाम का पाठ करता है, उसे खेचरी मुद्रा सिद्ध प्राप्त हो जाती है ॥ ३६-३९॥

जप्त्वा श्रीदक्षिणां कालीं शक्तिपातशतं भवेत् ।

लतां स्पृशन् जपित्वा च रमित्वा त्वर्चयन्नपि ॥ ४०॥

आह्लादयन्दिगावासः परशक्तिं विशेषतः ।

स्तुत्वा श्रीदक्षिणां कालीं योनिं स्वकरगाञ्चरेत् ॥ ४१॥

पठेन्नामसहस्रं यः स शिवादधिको भवेत् ।

लतान्तरेषु जप्तव्यं स्तुत्वा कालीं निराकुलः ॥ ४२॥

चिकुर को पकड़कर दक्षिणाकाली का जप कर शुक्र को निकालनेवाला साधक शताधिक बलवानों का सामना करने में समर्थ हो जाता है। लता का स्पर्श कर जप करे या रमण कर महाकाली का पूजन करें। बिना वस्त्र के परशक्ति का ध्यान करें अपने हाथ से योनि को पकड़कर दक्षिणाकाली का स्मरण करें। इसके उपरान्त कालीसहस्रनाम स्तोत्र का पाठ करे, (ऐसे कृत्य) करनेवाला साधक शिव से भी अधिक शक्तिशाली होता है। लता के मध्य में काली का स्मरण कर सावधान होकर कालीसहस्रनाम का पाठ करना चाहिए। ४०-४२॥

दशावधानो भवति मासमात्रेण साधकः ।

कालरात्र्यां महारात्र्यां वीररात्र्यामपि प्रिये ॥ ४३॥

महारात्र्यां चतुर्दश्यामष्टम्यां संक्रमेऽपि वा ।

कुहूपूर्णेन्दुशुक्रेषु भौमामायां निशामुखे ॥ ४४॥

नवम्यां मङ्गलदिने तथा कुलतिथौ शिवै ।

कुलक्षेत्रे प्रयत्नेन पठेन्नामसहस्रकम् ॥ ४५॥

सुदर्शनो भवेदाशु किन्नरीसिद्धिभाग्भवेत् ।

पश्मिमाभिमुखं लिङ्गं वृषशून्यं पुरातनम् ॥ ४६॥

तत्र स्थित्वा जपेत् स्तोत्रं सर्वकामाप्तये शिवे ।

भौमवारे निशीथे वा अमावस्यादिने शुभे ॥ ४७॥

इस प्रकार का साधक एक माह में दशावधान हो जाता है । कालरात्रि में, महारात्रि में,विररात्रि में, चतुर्दशी और अष्टमी तिथि को संक्रान्ति, अमावस्या, पूर्णमासी शुक्रयुक्त,भौमयुक्त अमावस्या में, सायंकाल मंगल दिनयुक्त नवमी तिथि में और कुलतिथि में कुरुक्षेत्र में प्रयत्नपूर्वक कालीसहस्रनाम का पाठ करना चाहिए। ऐसा साधक सभी अंगों से सुन्दर हो जाता है । किन्नरी सिद्धि उसे प्राप्त हो जाती है। जिस प्राचीन स्थान पर पश्चिमाभिमुख (शिव) लिंग हो, किन्तु नंदी न हो, ऐसे (प्राचीन) स्थान पर बैठकर समस्त कामना सिद्धि के लिए कालीसहस्रनाम का पाठ करना चाहिए । मंगलवार के दिन अर्घ रात्रि में और अमावस्या की अर्द्धरात्रि में काली को ।। ४३-४७॥

माषभक्तबलिं छागं कृसरान्नं च पायसम् ।

दग्धमीनं शोणितञ्च दधि दुग्ध गुडार्द्रकम् ॥ ४८॥

बलिं दत्वा जपेत् तत्र त्वष्टोत्तरसहस्रकम् ।

देव-गन्धर्व-सिद्धौधैः सेवितां सुरसुन्दरीम् ॥ ४९॥

उर्द मिश्रित भात, बकरा, खिचड़ी, खीर, भुनी हुई मछली, खून, दूध, दही, गुड़मिश्रित आदि की बलि देकर एक हजार आठ बार कालीसहस्रनाम का पाठ करनेवाला साधक देव-गंधर्व और सिद्धों से सेवित महाकाली को प्राप्त कर लेता है। ४८-४९ ॥

लभेद्देवेशि मासेन तस्य चासन संहतिः ।

हस्तत्रयं भवेदूर्ध्वं नात्र कार्या विचारणा ॥ ५०॥

हेलया लीलया भक्त्या कालीं स्तौति नरस्तु यः ।

ब्रह्मादींस्सतम्भयेद्देवि माहेशीं मोहयेत्क्षणात् ॥ ५१॥

आकर्षयेन्महाविद्यां दशपूर्वान् त्रियामतः ।

कुर्वीत विष्णुनिर्म्माणं यमादीनां तु मारणम् ॥ ५२॥

इसमें संदेह नहीं है कि ऐसे पुरुष का आसन भूमि से तीन हाथ ऊपर गगन में स्थित होता है। बिना मन के भी जो मनुष्य महाकाली की स्तुति करता है, वह ब्रह्मादि देवों की गति को भी रोक सकता है और क्षणमात्र में देवी को मोहित कर लेता है । मात्र तीन प्रहर में ही वह दसों महाविद्याओं का आकर्षण कर सकता है, वह विष्णु का निर्माण कर सकता है और यमराज का भी वध कर सकता है। ५०-५२॥

ध्रुवमुच्चाटयेन्नूनं सृष्टिनूतनतां नरः ।

मेषमाहिषमार्जारखरच्छागनरादिकैः ॥ ५३॥

खङ्गिशूकरकापोतैष्टिट्टिभैः शशकैः पलैः ।

शोणितैः सास्थिमांसैश्च कारण्डैर्दुग्धपायसैः ॥ ५४॥

कादम्बरीसिन्धुमद्यैः सुरारिष्टैश्च सासवैः ।

योनिक्षालिततोयैश्च योनिलिङ्गामृतैरपि ॥ ५५॥

स्वजातकुसुमैः पूज्या जपान्ते तर्पयेच्छिवाम् ।

सर्वसाम्राज्यनाम्ना तु स्तुत्वा नत्वा स्वशक्तितः ॥ ५६॥

 (ऐसा साधक) ध्रुव का उच्चाटन कर सकता है और नवीन सृष्टि के निर्माण में समर्थ हो सकता है। साधक को मेष, महीष, मार्जार, गदहा, बकरा, मनुष्य, गैंडा, सूअर, कबूतर टिट्टिभ, खरगोश आदि के मांस और रक्त, अस्थि, बत्तख, दूध, खीर, पुष्परसस हुआ मद्य, सींधु मद्य, सुगन्धित आसव, योनि का धोया हुआ जल, सम्भोगकाल में योनि और लिंग से निकले हुए रज-वीर्य आदि से जप के अंत में महाकाली का तर्पण कर चाहिए, फिर अपनी सामर्थ्य के अनुसार सर्वसाम्राज्यदायक महाकाली स्तोत्र का पाठ करना चाहिए ॥ ५३-५६ ॥

शक्त्या लभन् पठेत् स्तोत्रं कालीरूपो दिनत्रयात् ।

दक्षिणाकालिका तस्य गेहे तिष्ठति नान्यथा ॥ ५७॥

वेश्यालतागृहे गत्वा तस्याश्चुम्बनतत्परः ।

तस्या योनौ मुखं दत्वा तद्रसं विलिहञ्जपेत् ॥ ५८॥

तदन्ते नाम साहस्रं पठेद्भक्तिपरायणः ।

कालिकादर्शनं तस्य भवेद्देवि त्रियामतः ॥ ५९॥

नृत्यपात्रगृहे गत्वा मकारपञ्चकान्वितः ।

प्रसूनमञ्चे संस्थाप्य शक्तिन्यासपरायणः ॥ ६०॥

पात्राणां साधनं कृत्वा दिग्वस्त्रां तां समाचरेत् ।

सम्भाव्य चक्रं तन्मूले तत्र सावरणां जपेत् ॥ ६१॥

जो साधक शक्ति का स्पर्श करता हुआ कालीसहस्रनाम का पाठ करता है, वह तीन दिन में ही काली के तुल्य हो जाता है। उसके गृह में हमेशा दक्षिणाकाली निवास करती है । वेश्या के गृह में जाकर (साधक) मुखचुम्बन करें। फिर उसकी योनि में मुख लगाकर उसका अवलेहन करते हुए एक हजार बार जप करे। तदुपरान्त भक्तियुक्त होकर कालीसहस्रनाम का पाठ करे । ऐसा करने से तीन प्रहर में ही काली का दर्शन प्राप्त हो जाता है। नाचनेवाली के गृह में जाकर उसको पुष्पशय्या पर पञ्चमकार से युक्त हो स्थापित करें, पुनः शक्तिन्यास करे। काली के उपभोग युक्त मद्य, मांस आदि युक्त पात्र स्थापित करके वेश्या को निर्वस्त्र करे । वहाँ पर चक्र को संभावित कर आवरण सहित जप करे ॥ ५७-६१ ॥

शतं भाले शतं केशे शतं सिन्दूरमण्डले ।

शतत्रयं कुचद्वन्द्वे शतं नाभौ महेश्वरि ॥ ६२॥

शतं योनौ महेशानि संयोगे च शतत्रयम् ।

जपेत्तत्र महेशानि तदन्ते प्रपठेत्स्तवम् ॥ ६३॥

शतावधानो भवति मासमात्रेण साधकः ।

मातङ्गिनीं समानीय किं वा कापालिनीं शिवे ॥ ६४॥

हे महेश्वरी! सौ बार मस्तक पर न्यास करे, सौ बार केश पर न्यास करे, सौ बार सिंदूर मण्डल के स्थान सीमन्त में न्यास करे। सौ बार दोनों स्तनों पर न्यास करे, सौ बार नाभि पर न्यास करे, हाथ के न्यासों से सौ बार मंत्र का जप करे। फिर योनि पर हाथ रखकर सौ बार तथा सम्भोग काल में तीन सौ बार जप करे। इसके उपरान्त ही स्तोत्र का पाठ करना चाहिए। इस प्रकार का साधक एक मास में शतावधान हो जाता है,मातंगिनी या कापालिनी को स्थापित कर ॥ ६२-६४ ॥

दन्तमाला जपे कार्या गले धार्या नृमुण्डजा ।

नेत्रपद्मे योनिचक्रं शक्तिचक्रं स्ववक्त्रके ॥ ६५॥

कृत्वा जपेन्महेशानि मुण्डयन्त्रं प्रपूजयेत् ।

मुण्डासनस्थितो वीरो मकारपञ्चकान्वितः ॥ ६६॥

अन्यामालिङ्गय प्रजपेदन्यां सञ्चुम्ब्य वै पठेत् ।

अन्यां सम्पूजयेत्तत्र त्वन्यां सम्मर्द्दयन् जपेत् ॥ ६७॥

अन्ययोनौ शिवं दत्वा पुनः पूर्ववदाचरेत् ।

अवधानसहस्रेषु शक्तिपातशतेषु च ॥ ६८॥

राजा भवति देवेशि मासपञ्चकयोगतः ।

यवनीशक्तिमानीय गानशक्तिपरायणम् ॥ ६९॥

कुलाचारमतेनैव तस्या योनिं विकासयेत् ।

तत्र प्रदाय जिह्वां तु जपेन्नामसहस्रकम् ॥ ७०॥

नृकपाले तत्र दीपं जपेत्प्रज्वाल्य यत्नतः ।

महाकविवरो भूयान्नात्र कार्या विचारणा ॥ ७१॥

दूसरे की स्त्री का आलिंगन करके जप करे और दूसरे की स्त्री का चुम्बन करके पाठ करे। दूसरे की स्त्री का पूजन करें और दूसरे की स्त्री का संमर्दन करे। दूसरे की स्त्री की योनि में लिंग डालें इस प्रकार का साधक शतावधानों में और शक्तिमानों में सबसे बड़ा राजा होता है। गायन विद्या में दक्ष किसी स्त्री को बुलाकर कुलाचार परम्परा के अनुकूल उसकी योनि के विकसित करें। तदुपरान्त उसमें जीभ डालकर सहस्रनाम का पाठ करें। (मृतक) मनुष्य की खोपड़ी पर दीप की माला स्थापित करके (साधक को) जप करना चाहिए। ऐसा करने से साधक महाकवि होता है, इसमें संदेह नहीं है॥६५-७१॥

कामार्तां शक्तिमानीय योनौ तु मूलचक्रकम् ।

विलिख्य परमेशानि तत्र मन्त्रं लिखेच्छिवे ॥ ७२॥

तल्लिहन् प्रजपेद्देवि सर्वशास्त्रार्थतत्ववित् ।

अश्रुतानि च शास्त्राणि वेदादीन् पाठयेद् ध्रुवम् ॥ ७३॥

विना न्यासैर्विना पाठैर्विनाध्यानादिभिः प्रिये ।

चतुर्वेदाधिपो भूत्वा त्रिकालज्ञस्त्रिवर्षतः ॥ ७४॥

साधक कामातुर हो शक्ति को बुलाकर योनि पर मूलचक्र लिखकर फिर मन्त्र लिखे। इस प्रकार का साधक मंत्रयुक्त उस योनि का अवलेहन करता हुआ समस्त शास्त्रों के अर्थों का जानकार हो जाता है। (वह) अश्रुत और बिना पठन किये गये वेदादि को भी पढ़ाने में दक्ष होता है। न्यास, पाठ और ध्यान के बिना भी वह चारों वेदों (ऋग्वेद, यजुर्वेद, अथर्ववेद, सामवेद) का ज्ञाता होता है और तीन वर्ष तक नियमित पाठ करने से त्रिकालज्ञ हो जाता है । ७२-७४॥

चतुर्विधं च पाण्डित्यं तस्य हस्तगतं क्षणात् ।

शिवाबलिः प्रदातव्यः सर्वदा शून्यमण्डले ॥ ७५॥

कालीध्यानं मन्त्रर्चिता नीलसाधनमेव च ।

सहस्रनामपाठश्च कालीनामप्रकीर्तनम् ॥ ७६॥

भक्तस्य कार्यमेतावदन्यदभ्युदयं विदुः ।

वीरसाधनकं कर्म शिवापूजा बलिस्तथा ॥ ७७॥

सिन्दूरतिलको देवि वेश्यालापो निरन्तरम् ।

वेश्यागृहे निशाचारो रात्रौ पर्यटनं तथा ॥ ७८॥

शक्तिपूजा योनिदृष्टिः खङ्गहस्तो दिगम्बरः ।

मुक्तकेशो वीरवेषः कुलमूर्तिधरो नरः ॥ ७९॥

कालीभक्तो भवेद्देवि नान्यथा क्षेममाप्नुयात् ।

दुग्धास्वादी योनिलेही संविदासवघूर्णितः ॥ ८०॥

वेश्यालतासमायोगान्मासात्कल्पलता स्वयम् ।

वेश्याचक्रसमायोगात्कालीचक्रसमः स्वयम् ॥ ८१॥

वेश्यादेहसमायोगात् कालीदेहसमः स्वयम् ।

वेश्यामध्यगतं वीरं कदा पश्यामि साधकम् ॥ ८२॥

एवं वदति सा काली तस्माद्वेश्या वरा मता ।

वेश्या कन्या तथा पीठजातिभेदकुलक्रमात् ॥ ८३॥

चारो प्रकार का पाण्डित्य कालीसहस्रनाम का पाठ करनेवाले साधक को प्राप्त हो जाता है। पूर्णतः निर्जन स्थान में ही महाकाली को बलि प्रदत्त करनी चाहिए। काली का ध्यान, मंत्र का जप, नीलसाधन, सहस्रनाम का पाठ, कालीनाम का जप करने से साधक को सर्वत्र अभ्युदय की प्राप्ति होती है। प्रेतसिद्धि, महाकाली पूजा, महाकाली की बलि, सिंदूर का तिलक, सदैव वेश्याओं से वार्ता, रात्रि के समय वेश्या के घर में रहना और रात्रि में पर्यटन करना, शक्तिपूजा, यौनदृष्टि, हाथ में खड़ग, बिना वस्त्र के बिखरे हुए बाल, वीरवेष, कुलमूर्ति को धारण करने वाला मनुष्य ही महाकाली का भक्त होता है। यदि वह ऐसा नहीं है तो दु:ख को प्राप्त करता है। दुग्धपान करनेवाला, योनि का लेह करनेवाला, ज्ञानी आसव से देखता हुआ मनुष्य वेश्यालता का आश्रय लेने से क्षणभर में  कल्पलता के तुल्य हो जाता है और वेश्याचक्र के समायोग से कालीचक्र के सदृश हो जाता है। (साधना करनेवाला) साधक वेश्या के शरीर के समायोग से स्वयं काली देह के तुल्य हो जाता है । काली ऐसा भी कहती हैं कि मैं अपनी साधना करनेवाले साधक को वेश्या के बीच में कब देखूगी? यही कारण है कि वेश्या उत्तम (श्रेष्ठ) है, वेश्या कन्या, पीठजाति भेद कुलचक्र से ॥ ७५-८३ ॥

अकुलक्रमभेदेन ज्ञात्वा चापि कुमारिकाम् ।

कुमारीं पूजयेद्भक्त्या जपान्ते भवने प्रिये ॥ ८४॥

पठेन्नामसहस्रं यः कालीदर्शनभाग् भवेत् ।

भक्त्या कुमारीं सम्पूज्य वैश्याकुल समुद्भवाम् ॥ ८५॥

वस्त्र हेमादिभिस्तोष्या यत्नात्स्तोत्रं पठेच्छिवे ।

त्रैलोक्य विजयी भूयाद्दिवा चन्द्रप्रकाशकः ॥ ८६॥

यद्यद्दत्तं कुमार्यै तु तदनन्तफलं भवेत् ।

कुमारीपूजनफलं मया वक्तुं न शक्यते ॥ ८७॥

चाञ्चल्याद्दुरितं किञ्चित्क्षम्यतामयमञ्जलिः ।

एका चेत्पूजिता बाला द्वितीया पूजिता भवेत् ॥ ८८॥

जो (साधक इस) कालीसहस्रनाम का पाठ करता है, वह काली दर्शन के फल को (अवश्य) प्राप्त करता है । वेश्याकुल में पैदा हुई कुमारी का भी पूजन करें। कुमारी को वस्त्र और होमादि द्वारा संतुष्ट (प्रसन्न) कर प्रयत्नपूर्वक कालीसहस्रनाम स्तोत्र का पाठ करना चाहिए । (ऐसा करने से) पुरुष तीनों लोकों में विजयी होता है और दिन में चन्द्रमा को भी (आकाश में) प्रगट कर देता है। कुमारी को प्रदत्त किया गया दान अनन्त फल देनेवाला होता है। कुमारी-पूजन का फल अनन्त है, जिसे कहने में मैं सक्षम नहीं हूँ । चंचलतावश (मैंने) जो कुछ कहा हो, उसे क्षमा करें । मैं हाथ जोड़ता हूँ, मात्र एक बाला की पूजा करने से महाकाली अपने आप पूजित हो जाती हैं ।। ८४-८८॥

कुमार्यः शक्तयश्चैव सर्वमेतचराचरम् ।

शक्तिमानीय तद्गात्रे न्यासजालं प्रविन्यसेत् ॥ ८९॥

वामभागे च संस्थाप्य जपेन्नामसहस्रकम् ।

सर्वसिद्धीश्वरो भूयान्नात्र कार्य्या विचारणा ॥ ९०॥

श्मशानस्थो भवेत्स्वस्थो गलितं चिकुरं चरेत् ।

दिगम्बरः सहस्रं च सूर्यपुष्पं समानयेत् ॥ ९१॥

स्ववीर्येण प्लुतं कृत्वा प्रत्येकं प्रजपन् हुनेत् ।

पूज्य ध्यात्वा महाभक्त्या क्षमापालो नरः पठेत् ॥ ९२॥

यह सम्पूर्ण संसार ही कुमारी और शक्तिमय है। इसलिए कुमारी के शरीर में शक्ति का आवाहन कर न्यासादि द्वारा शक्ति को स्थापित करना चाहिए । कुमारी को महाकाली के बायें भाग में स्थापित कर कालीसहस्रनाम का पाठ करें। (ऐसा करने से) मनुष्य सर्वसिद्धीश्वर हो जाता है। इसमें विचार करने की आवश्यकता नहीं है । श्मशान में बिना भय के निवास करें, बालों को बिखेर कर बिना वस्त्र पहने एक हजार धतूरे का पुष्प ले आवें । तत्पश्चात् धतूरे का पुष्प लें (उसमें) वीर्य मिलाकर (काली के प्रत्येक मन्त्र से) क्रमानुसार एक-एक पुष्प का एक हजार बार हवन करें। फिर पूजा कर भगवती का ध्यान करें। ऐसा करनेवाला मनुष्य राजा होता है । ८९-९२ ॥

नखं केशं स्ववीर्यं च यद्यत्सम्मार्जनीगतम् ।

मुक्तकेशो दिशावासो मूलमन्त्रपुरःसरः ॥ ९३॥

कुजवारे मध्यरात्रे होमं कृत्वा श्मशानके ।

पठेन्नामसहस्रं यः पृथ्वीशाकर्षको भवेत् ॥ ९४॥

पुष्पयुक्ते भगे देवि संयोगानन्दतत्परः ।

पुनश्चिकुरमासाद्य मूलमन्त्रं जपन् शिवे ॥ ९५॥

चितावह्नौ मध्यरात्रे वीर्यमुत्सार्य यत्नतः ।

कालिकां पूजयेत्तत्र पठेन्नाम सहस्रकम् ॥ ९६॥

सम्मार्जनीय में नख, केश और अपना वीर्य रखकर बालों को बिखेरकर और बिना वस्त्र पहने मूलमन्त्र द्वारा श्मशान में, मंगलवार के दिन मध्य रात्रि में हवन करके कालीसहस्रनाम का पाठ करनेवाला साधक राजा को भी (अपनी ओर) आकृष्ट कर लेता है। रजस्वला स्त्री से संभोग कर फिर केशयुक्त आसन पर बैठकर मूलमंत्र का जप करें। फिर मध्यरात्रि में यत्नपूर्वक अपना वीर्य निकालकर (जलती हुई) चिता की अग्नि में हवन करके काली का पूजन करने के उपरान्त कालीसहस्रनाम का पाठ करें।९३-९६ ॥

पृथ्वीशाकर्षणं कुर्यान्नात्र कार्या विचारणा ।

कदली वनमासाद्य लक्षमन्त्रं जपेन्नरः ॥ ९७॥

मधुमत्या स्वयं देव्या सेव्यमानः स्मरोपमः ।

श्रीमधुमतीत्युक्त्वा तथा स्थावरजङ्गमान् ॥ ९८॥

आकर्षिणीं समुच्चार्य ठंठं स्वाहा समुच्चरेत् ।

त्रैलोक्याकर्षिणी विद्या तस्य हस्ते सदा भवेत् ॥ ९९॥

इस प्रकार का साधक राजा को भी (अपनी ओर) आकृष्ट कर लेता है। इसमें (लेशमात्र) संदेह नहीं है। केले के वन में एक लाख जप करनेवाला साधक मधुमती देवी से स्वयं काम के सदृश पूजित होता है। तदुपरान्त 'श्रीमधुमति स्थावरजंगमान् आकर्षय ठं ठं स्वाहा' यह उच्चारण करें। ऐसा करने से साधक के हाथ में त्रैलोक्याकर्षिणी विद्या सिद्ध हो जाती है ॥ ९७-९९॥

नदीं पुरीं च रत्नानि हेमस्त्रीशैलभूरुहान् ।

आकर्षयत्यम्बुनिधिं सुमेरुं च दिगन्ततः ॥ १००॥

यह मधुमती विद्या नदी, नगर, रत्न, सुवर्ण, स्त्री, पर्वत, वृक्ष, सागर और सुमेरु का भी सरलता से (अपनी ओर) आकृष्ट कर लेती है ॥ १०० ॥

अलभ्यानि च वस्तूनि दूराद्भूमितलादपि ।

वृत्तान्तं च सुरस्थानाद्रहस्ये विदुषामपि ॥ १०१॥

राज्ञां च कथयत्येषा सत्यं सत्वरमादिशेत् ।

द्वितीयवर्षपाठेन भवेत्पद्मावती शुभा ॥ १०२॥

दूर की वस्तु, अलभ्य वस्तु, भूमि के नीचे की वस्तु और स्वर्ग का वृत्तान्त, विद्वानों का रहस्य और राजाओं के रहस्य को भी यथार्थ रूप द्वारा शीघ्रता से प्रकट कर देती है। दूसरे वर्ष पाठ करने से साधना करनेवाले को पद्मावती विद्या सिद्ध हो जाती है॥१०१-१०२॥

ॐ ह्रींपद्मावति पदं ततस्त्रैलोक्यनाम च ।

वार्तां च कथय द्वन्द्वं स्वाहान्तो मन्त्र ईरितः ॥ १०३॥

ब्रह्मविष्ण्वादिकानां च त्रैलोक्ये यादृशी भवेत् ।

सर्व वदति देवेशी त्रिकालज्ञः कविश्शुभः ॥ १०४॥

त्रिवर्षं सम्पठन्देवि लभेद्भोगवतीं कलाम् ।

महाकालेन दृष्टोऽपि चितामध्यगतोऽपि वा ॥ १०५॥

तस्या दर्शनमात्रेण चिरञ्जीवी नरो भवेत् ।

मृतसञ्जीविनीत्युक्त्वा मृतमुत्थापय द्वयम् ॥ १०६॥

स्वाहान्तो मनुराख्यातो मृतसञ्जीवनात्मकः ।

चतुर्वर्षं पठेद्यस्तु स्वप्नसिद्धिस्ततो भवेत् ॥ १०७॥

पद्मावती विद्या का यह मंत्र है-'ॐ ह्रीं पद्मावति त्रैलोक्यवार्ता कथय कथय स्वाहा ।ब्रह्मा, विष्णु आदि देवताओं का वृत्तान्त और तीनों लोकों का वृत्तान्त यह पद्मावती विद्या (स्वयं) बता देती है। पद्मावती विद्या का जप करनेवाला साधक तीनों कालों की ज्ञानी और कवि हो जाता है । हे देवि! तीन वर्षों तक (निरन्तर) कालीसहस्रनाम का पाठ करने से साधक भोगवती कला को प्राप्त कर लेता है। इस कला को प्राप्त करनेवाला मानव का दर्शन करने से ही महाकाल के द्वारा डंसा हुआ मनुष्य और चिता के बीच रखा हुआ पुरुष भी जीवित हो जाता है। इसके साथ ही साथ वह दीर्घजीवी होता है। मृतसञ्जीवनी का यह मंत्र है-''मृतसञ्जीवनी मृतमुत्थापय उत्थापय स्वाहा ।चार वर्षों तक (निरन्तर) कालीसहस्रनाम का पाठ करनेवाले पुरुष को स्वप्नसिद्ध हो जाता है।। १०३-१०७॥

ॐ ह्रीं स्वप्नवाराहि कालिस्वप्ने कथयोच्चरेत् ।

अमुकस्याऽमुकं देहि क्लीं स्वाहान्तो मनुर्मतः ॥ १०८॥

स्वप्नसिद्ध का मन्त्र यह है-'ॐ ह्रीं स्वप्नवाराहि कलिस्वप्ने कथय अमुकस्य अमुकं देहि क्रीं स्वाहा'' ॥१०८॥

स्वप्नसिद्धा चतुर्वर्षात्तस्य स्वप्ने सदा स्थिता ।

चतुर्वर्षस्य पाठेन चतुर्वेदाधिपो भवेत् ॥ १०९॥

तद्धस्तजलसंयोगान्मूर्खः काव्यं करोति च ।

तस्य वाक्यपरिचयान्मूर्तिर्विन्दति काव्यताम् ॥ ११०॥

मस्तके तु करं कृत्वा वद वाणीमिति ब्रुवन् ।

साधको वाञ्छया कुर्यात्तत्तथैव भविष्यति ॥ १११॥

ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले ।

समस्ताः सिद्धयो देवि करामलकवत्सदा ॥ ११२॥

साधकस्मृतिमात्रेण यावन्त्यः सन्ति सिद्धयः ।

स्वयमायान्ति पुरतो जपादीनां तु का कथा ॥ ११३॥

विदेशवर्तिनो भूत्वा वर्तन्ते चेटका इव ।

अमायां चन्द्रसन्दर्शश्चन्द्रग्रहणमेव च ॥ ११४॥

अष्टम्यां पूर्णचन्द्रत्वं चन्द्रसूर्याष्टकं तथा ।

अष्टदिक्षु तथाष्टौ च करोत्येव महेश्वरि ॥ ११५॥

अणिमा खेचरत्वं च चराचरपुरीगतम् ।

पादुकाखङ्गवेतालयक्षिणीगुह्यकादयः ॥ ११६॥

चार वर्ष पर्यन्त पाठ करनेवाले मनुष्य के स्वप्न में यह स्वप्नसिद्धा देवी स्थित रहती है । चार वर्षों तक (काली) सहस्रनाम का पाठ करनेवाला (मनुष्य) चारों वेदों का पंडित जाता है । (ऐसे साधक) के हाथ के जल का संयोग होने से मूढ व्यक्ति भी काव्य करनेवाला हो जाता है। उसकी वाणी का श्रवण कर शिला की मूर्ति भी काव्यभाषा बोलने लगती है। माथे पर हाथ रखकर "वाणी वद'' ऐसा उच्चारण करनेवाला साधक जो कहता है,वैसा ही होता है। इस (सम्पूर्ण) ब्रह्माण्ड में और इस संसार में जितनी भी सिद्धियाँ हैं, वे समस्त कालीसहस्रनाम का पाठ करनेवाले साधक को हस्तामलकवत् दिखाई पड़ती है। इतना ही नहीं जितनी भी सिद्धियाँ हैं, वे सभी साधक के स्मरण करते ही उसके समक्ष स्वयं उपस्थित हो जाती है। फिर जप करने की बात की क्या है? विदेश में रहनेवाले उसके सेवक के तुल्य हो जाते हैं और अमावस्या को चन्द्र का दर्शन और चन्द्रग्रहण भी उसे दिखाई पड़ सकता है। काली के भक्त को अष्टमी तिथि को पूर्ण चन्द्रमा और आठों दिशाओं में आठ चन्द्रमा तथा आठ सूर्य भी दिख सकते हैं। अणिमादि सिद्धि, आकाश में किसी बाधा के बिना जाना, सम्पूर्ण चराचर संसार में अव्याहत उसकी गति होती है। । पादुका, खड़ग, वैताल, यक्षिणी, गुह्यकादि ॥१०९-११६॥

तिलकोगुप्ततादृश्यं चराचरकथानकम् ।

मृतसञ्जीविनीसिद्धिर्गुटिका च रसायनम् ॥ ११७॥

उड्डीनसिद्धिर्देवेशि षष्टिसिद्धीश्वरत्वकम् ।

तस्य हस्ते वसेद्देवि नात्र कार्या विचारणा ॥ ११८॥

तिलक, गुप्तवस्तुओं का प्रत्यक्ष होना, चराचर जगत् का समाचार, मृतसञ्जीवनी सिद्धि, गुटिका, रसायन, उड्डीन सिद्धि, षष्टि सिद्धि, ईशित्व सिद्धि आदि सम्पूर्ण चमत्कारिक गुण उसके वशीभूत हो जाते हैं। इसमें संदेह मत करो, हे पार्वति!॥ ११७-११८॥

केतौ वा दुन्दुभौ वस्त्रे विताने वेष्टनेगृहे ।

भित्तौ च फलके देवि लेख्यं पूज्यं च यत्नतः ॥ ११९॥

मध्ये चक्रं दशाङ्गोक्तं परितो नामलेखनम् ।

तद्धारणान्महेशानि त्रैलोक्यविजयी भवेत् ॥ १२०॥

एको हि शतसाहस्रं निर्जित्य च रणाङ्गणे ।

पुनरायाति च सुखं स्वगृहं प्रति पार्वती ॥ १२१॥

एको हि शतसन्दर्शी लोकानां भवति ध्रुवम् ।

कलशं स्थाप्य यत्नेन नामसाहस्रकं पठेत् ॥ १२२॥

सेकः कार्यो महेशानि सर्वापत्तिनिवारणे ।

भूतप्रेतग्रहादीनां राक्षसां ब्रह्मराक्षसाम् ॥ १२३॥

वेतालानां भैरवाणां स्कन्दवैनायकादिकान् ।

नाशयेत् क्षणमात्रेण नात्र कार्या विचारणा ॥ १२४॥

ध्वज, दुन्दुभि, वस्त्र, दवा, बिछौना, गृह, भीत, लकड़ी के फलक पर देवी के मंत्रों का लेखन और पूजन (साधक को) करना चाहिए । दशाङ्ग में वर्णित की गई विधि के अनुसार चक्र को बीच में स्थापित करें, फिर उसके चारों ओर अपना नाम लिखें। इस प्रकार के यंत्र को धारण करने से मनुष्य तीनों लोकों में विजयी होता है। इस यंत्र को धारण करनेवाला मनुष्य अकेले ही समर में सैकड़ों, हजारों (योद्धाओं)को हराकर कुशलता से अपने गृह में लौट आता है। वह अकेला ही लोगों को सैंकड़ों अथवा हजारों रूप में दिखाई पड़ता है। यत्नपूर्वक कलश स्थापित कर फिर कालीसहस्रनाम का पाठ करना चाहिए। समस्त विपत्तियों के निवारण के लिए कालीसहस्रनाम का पाठ करते हुए प्रत्येक नाम से जल का छींटा देना चाहिए। यह कालीसहस्रनाम भूत,प्रेत,ग्रह,राक्षस और ब्रह्म राक्षस को भी दूर भगानेवाला है। इसमें संदेह नहीं है कि यह वेताल,भैरव,स्कन्द और विनायकादिकों का भी क्षणभर में विनाश कर देता है।॥ ११९-१२४॥

भस्मभिर्मन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेत् ।

भस्मसंक्षेपणादेव सर्वग्रहविनाशनम् ॥ १२५॥

नवनीतं चाभिमन्त्र्य स्त्रीभ्यो दद्यान्महेश्वरि ।

वन्ध्या पुत्रप्रदां देवि नात्र कार्या विचारणा ॥ १२६॥

कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे ।

बहुपुत्रवती नारी सुभगा जायते ध्रुवम् ॥ १२७॥

पुरुषो दक्षिणाङ्गे तु धारयेत्सर्वसिद्धये ।

बलवान्कीर्तिमान धन्योधार्मिकः साधकः कृती ॥ १२८॥

ग्रहों की बाधा से ग्रसित मनुष्य के शरीर पर कालीसहस्रनाम से भस्म को अभिमंत्रित करके उस भस्म का लेप कर देना चाहिए । मात्र भस्म के प्रक्षेप से सभी (अनिष्टकारी) ग्रह पलायित हो जाते हैं। हे महेश्वरि! कालीसहस्रनाम से अभिमंत्रित मक्खन को (यदि) बन्ध्या स्त्री को खिला दिया जाय, तो वह भी पुत्र उत्पन्न करती है। इसमें संदेह की कोई बात नहीं है। हे शिवे! इस काली के महामंत्र को गले में, बायें हाथ में या योनि में धारण करने से स्त्री बहुत से पुत्रों वाली एवं सौभाग्यशालिनी होती है। समस्त प्रकार सिद्धयों के लिए मनुष्य महाकाली मंत्र को अपने दायें अंग में धारण करें। (ऐसा करने से) वह बलवान्, कीर्तिमान, धन्य और धार्मिक तथा (सभी कार्यों में) सफल होता है॥ १२५१२८॥

बहुपुत्री रथानां च गजानामधिपः सुधीः ।

कामिनीकर्षणोद्युक्तः क्रीं च दक्षिणकालिके ॥ १२९॥

क्रीं स्वाहा प्रजपेन्मन्त्रमयुतं नामपाठकः ।

आकर्षणं चरेद्देवि जलखेचरभूगतान् ॥ १३०॥

वशीकरणकामो हि हूँ हूँ ह्रीं ह्रीं च दक्षिणे ।

कालिके पूर्वबीजानि पूर्ववत्प्रजपन् पठेत् ॥ १३१॥

"ॐ क्रीं क्रीं दक्षिणकालिके क्रीं स्वाहा" इस मंत्र का दस हजार जप और कालीसहस्रनाम का दस हजार बार पाठ करनेवाला साधक कामिनियों को अपनी ओर आकृष्ट कर लेता है। (इसके साथ ही साथ) वह आकाश, जल, और पृथ्वी पर निवास करनेवाले समस्त जन्तुओं को आकृष्ट करता है। वशीकरण की इच्छा रखनेवाला साधक ॐ हूं हूं ह्रीं ह्रीं दक्षिणकालिके क्रीं स्वाहा" इस मंत्र का दस हजार बार जप करे॥१२९-१३१॥

उर्वशीमपि वसयेन्नात्र कार्या विचारणा ।

क्रीं च दक्षिणकालिके स्वाहा युक्तं जपेन्नरः ॥ १३२॥

पठेन्नामसहस्रं तु त्रैलोक्यं मारयेद्ध्रुवम् ।

सद्भक्ताय प्रदातव्या विद्या राज्ञि शुभे दिने ॥ १३३॥

 (ऐसा करने से) वह उर्वशी को भी अपने वशीभूत कर लेता है, इसमें संदेह नहीं है। क्रीं च दक्षिणकालिके स्वाहा'' इस मंत्र से संपुट लगाकर कालीसहस्रनाम का पाठ करनेवाला साधक तीनों लोकों को भी मारने में समर्थवान् हो जाता है। इस महाविद्या की दीक्षा शुभ दिन में सदाचारयुक्त एवं अच्छे भक्त को ही प्रदत्त करनी चाहिए॥१३२-१३३ ॥

सद्विनीताय शान्ताय दान्तायातिगुणाय च ।

भक्ताय ज्येष्ठपुत्राय गुरुभक्तिपराय च ॥ १३४॥

वैष्णवाय प्रशुद्धाय शिवाबलिरताय च ।

वेश्यापूजनयुक्ताय कुमारीपूजकाय च ॥ १३५॥

दुर्गाभक्ताय रौद्राय महाकालप्रजापिने ।

अद्वैतभावयुक्ताय कालीभक्तिपराय च ॥ १३६॥

देयं सहस्रनामाख्यं स्वयं काल्या प्रकाशितम् ।

गुरुदैवतमन्त्राणां महेशस्यापि पार्वति ॥ १३७॥

अभेदेन स्मरेन्मन्त्रं स शिवः स गणाधिपः ।

यो मन्त्रं भावयेन्मन्त्री स शिवो नात्र संशयः ॥ १३८॥

स शाक्तो वैष्णवस्सौरः स एवं पूर्णदीक्षितः ।

अयोग्याय न दातव्यं सिद्धिरोधः प्रजायते ॥ १३९॥

सुविनीत, सुशान्त, जितेन्द्रिय, गुणवान्, भक्त, ज्येष्ठपुत्र, गुरु की भक्ति करनेवाले, वैष्णव, मन, कर्म और वाणी से विशुद्ध, महाकाली को बलि प्रदत्त करनेवाले, वेश्या की पूजन करनेवाले, कुमारी का पूजन करनेवाले, दुर्गा और रुद्र (शिव) के भक्त, महाकाल का जप करनेवाले, अद्वैत सिद्धान्त के अनुयायी, महाकाली के भक्त को भी इस  कालीसहस्रनाम को, जिसे स्वयं महाकाली ने प्रकाशित किया है, प्रदत्त करना चाहिए। हे पार्वति! जो गुरु और देवता के मंत्रों में भेद न मानता हो, वह शिव है, वह गणेश है। जो मन्त्र को सिद्ध करता है, वह साक्षात् शिव है । इसमें (लेशमात्र) संदेह नहीं है। वही शाक्त वैष्णव है, वही सौर है, वही पूर्णरूप से दीक्षित है। कालीसहस्रनाम का उपदेश अयोग्य(व्यक्ति) को नहीं देना चाहिए। ऐसा करने से सिद्धि नहीं होती है॥१३४-१३९॥

वेश्यास्त्रीनिन्दकायाथ सुरासंवित्प्रनिन्दके ।

सुरामुखो मनुं स्मृत्वा सुराचार्यो भविष्यति ॥ १४०॥

वाग्देवता घोरे आसापरघारे च हूँ वदेत् ।

घोररूपे महाघोरे मुखीभीमपदं वदेत् ॥ १४१॥

भीषण्यमुष्यषष्ठ्यन्तं हेतुर्वामयुगे शिवे ।

शिववह्नियुगास्त्रं हूँ हूँ कवचमनुर्भवेत् ॥ १४२॥

एतस्य स्मरणादेव दुष्टानां च मुखे सुरा ।

अवतीर्णा भवद्देवि दुष्टानां भद्रनाशिनी ॥ १४३॥

खलाय परतन्त्राय परनिन्दापराय च ।

भ्रष्टाय दुष्टसत्वाय परवादरताय च ॥ १४४॥

शिवाभक्ताय दुष्टाय परदाररताय च ।

न स्तोत्रं दर्शयेद्देवि शिवहत्याकरो भवेत् ॥ १४५॥

वेश्या स्त्री की निन्दा करनेवाले और मदिरा-मांसादि की निन्दा करनेवाले को कभी भी कालीसहस्रनाम स्तोत्र का उपदेश प्रदत्त नहीं करना चाहिए। सुरामुखी महाकाली का स्मरण कर मानव सुरा का आचरण करनेवाला हो जाता है। कवच का मन्त्र यह है - आसां वाग्देवता घोरे परघोरे हूं घोररूपे महाघोरे भीममुखी भीषण्या हेतुर्वामयुगे शिवे क्लीं क्लीं हूं हूं।' इस मंत्र के स्मरण करने मात्र से ही दुष्टों का संहार करनेवाली (भगवती काली) देवी अवतरित हो जाती हैं ॥ १४०-१४५॥

कालिकानन्दहृदयः कालिकाभक्तिमानसः ।

कालीभक्तो भवेत्सोऽयं धन्यरूपः स एव तु ॥ १४६॥

कलौ काली कलौ काली कलौ काली वरप्रदा ।

कलौ काली कलौ काली कलौ काली तु केवला ॥ १४७॥

बिल्वपत्रसहस्राणि करवीराणि वै तथा ।

प्रतिनाम्ना पूजयेद्धि तेन काली वरप्रदा ॥ १४८॥

खल को, पराधीन रहनेवाले को, दूसरे की निन्दा करनेवाले को, खल को, दूसरे से विवाह करनेवाले को, काली में आस्था न रखनेवाले को, परदारसेवी को, दुष्ट को यह स्तोत्र प्रदत्त नहीं करना चाहिए। यदि ऐसा किया जाय तो (उसे) कालीहत्या का पाप लगता है। हमेशा काली में ध्यानमग्न रहनेवाले, काली में भक्ति रखनेवाले कालीभक्त ही धन्य हैं। 'इस कलिकाल में मात्र महाकाली ही श्रेष्ठ है, एवं वर प्रदत्त करनेवाली है। कालीसहस्रनाम के प्रत्येक नाम से बिल्वपत्र और कनैल का पुष्प (काली को) समर्पित कर पूजन करनेवाले साधक को काली वर प्रदत्त करती है ॥ १४६-१४८॥

कमलानां सहस्रं तु प्रतिनाम्ना समर्पयेत् ।

चक्रं सम्पूज्य देवेशि कालिकावरमाप्नुयात् ॥ १४९॥

मन्त्रक्षोभयुतो नैव कलशस्थजलेन च ।

नाम्ना प्रसेचयेद्देवि सर्वक्षोभविनाशकृत् ॥ १५०॥

तथा दमनकं देवि सहस्रमाहरेद्व्रती ।

सहस्रनाम्ना सम्पूज्य कालीवरमवाप्नुयात् ॥ १५१॥

चक्रं विलिख्य देहस्थं धारयेत्कालिकातनुः ।

काल्यै निवेदितं यद्यत्तदंशं भक्षयेच्छिवे ॥ १५२॥

इस काली सहस्रनाम के प्रत्येक नाम (मंत्र) से महाकाली को कमल पुष्प समर्पित करनेवाले और प्रत्येक नाम से महाकाली के श्रीचक्र का पूजन करनेवाले साधक को भी महाकाली वर प्रदत्त करती हैं। सावधान होकर मंत्र का पाठ करनेवाला साधक कलश के जल से महाकाली के प्रत्येक नाम से यदि जल का छींटा दें, तो उसकी समस्त विपात्तयादूर हो जाती हैं। दमनक के एक हजार पत्ते से काली के हजार नाम द्वारा पूजन करने से (साधक) काली से वर प्राप्त करता है। काली का भक्त महाचक्र लिखकर (यदि) अपने शरीर में धारण करे या किसी (पत्र) पर लिखकर उसे खाये तो महाकाली उसे वर देनेवाली हो जाती है ॥ १४९-१५२ ॥

दिव्यदेहधरो भूत्वा कालीदेहे स्थितो भवेत् ।

नैवेद्यनिन्दकान् दुष्टान् दृष्ट्वा नृत्यन्ति भैरवा ॥ १५३॥

योगिन्यश्च महावीरा रक्तपानोद्यताः प्रिये ।

मांसास्थिचर्मणोद्युक्ता भक्षयन्ति न संशयः ॥ १५४॥

तस्मान्न निन्दयेद्देवि मनसा कर्मणा गिरा ।

अन्यथा कुरुते यस्तु तस्य नाशो भविष्यति ॥ १५५॥

क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा ।

मन्त्रक्षोभश्च वा भूयात् क्षीणायुर्वा भवेद्ध्रुवम् ॥ १५६॥

इस प्रकार की साधना करनेवाला साधक दिव्य शरीर को धारण कर काली के शरीर में स्थिर हो जाता है। महाकाली की भर्त्सना करनेवाले दुष्टों को देखकर भैरव और योगिनियाँ (उनके) रक्तपान करने की इच्छा से नाचने लगती हैं और उनके मांस, अस्थि और उनके चमड़े को भी खा जाती हैं, इसमें संदेह नहीं है । अतः महाकाली की कभी भी मन, वचन तथा कर्म से निन्दा नहीं करनी चाहिए। जो निन्दा करते हैं उनका विनाश निश्चित है। क्रमानुसार दीक्षा लेनेवाले को ही सिद्धि प्राप्त होती है, अन्य को नहीं। जो क्रम से दीक्षा नहीं लेते, उनका मन सिद्ध नहीं होता है। वह अल्पायु हो जाते हैं अर्थात् कम आयु में मर जाते हैं ॥१५३-१५६॥

पुत्रहारी स्त्रियोहारी राज्यहारी भवेद्ध्रुवम् ।

क्रमदीक्षायुतो देवि क्रमाद्राज्यमवाप्नुयात् ॥ १५७॥

एकवारं पठेद्देवि सर्वपापविनाशनम् ।

द्विवारं च पठेद्यो हि वाञ्छां विन्दति नित्यशः ॥ १५८॥

त्रिवारं च पठेद्यस्तु वागीशसमतां व्रजेत् ।

चतुर्वारं पठेद्देवि चतुर्वर्णाधिपो भवेत् ॥ १५९॥

क्रमानुसार दीक्षा न लेनेवाले पुरुष की धर्मपत्नी, पुत्र और राज्य का विनाश हो जाता है। परन्तु क्रमानुसार दीक्षा लेनेवाला साधक पुत्र, स्त्री और राज्य को भी प्राप्त कर लेता है। जो कालीसहस्रनाम का प्रतिदिन एक बार पाठ करता है, उसके समस्त पाप नष्ट हो जाते है। दो बार प्रतिदिन पाठ करनेवाले की सम्पूर्ण इच्छाएं पूर्ण होती हैं । प्रतिदिन तीन बार पाठ करनेवाला साधक बृहस्पति (देवता) के तुल्य विदग्ध होता है। नित्य (चार बार) पाठ करनेवाला (साधक) चारों वर्णों का स्वामी हो जाता है॥१५७-१५९॥

पञ्चवारं पठेद्देवि पञ्चकामाधिपो भवेत् ।

षड्वारं च पठेद्देवि षडैश्वर्याधिपो भवेत् ॥ १६०॥

सप्तवारं पठेत्सप्तकामनां चिन्तितं लभेत् ।

वसुवारं पठेद्देवि दिगीशो भवति ध्रुवम् ॥ १६१॥

नववारं पठेद्देवि नवनाथसमो भवेत् ।

दशवारं कीर्त्तयेद्यो दशार्हः खेचरेश्वरः ॥ १६२॥

विंशतिवारं कीर्तयेद्यः सर्वैश्वर्यमयो भवेत् ।

पञ्चविंशतिवारैस्तु सर्वचिन्ताविनाशकः ॥ १६३॥

पाँच बार नित्य पाठ करनेवाला साधक पञ्चज्ञानेन्द्रियों के काम रूप, रस, गन्ध, स्पर्श और शब्दरूपी पाँचों कामनाओं को प्राप्त करता है । (नित्य) छ: बार पाठ करनेवाला साधक ज्ञान-वैराग्यादि छहों ऐश्वर्यों को प्राप्त कर लेता है। नित्य सात बार पाठ करनेवाला सातों कामनाओं से चिन्तित वस्तु को प्राप्त करता है। नित्य आठ बार पाठ करनेवाला साधक आठों दिशाओं का स्वामी हो जाता है। हे देवि! जो (साधक प्रतिदिन) नौ बार पाठ करता है, वह गोरखनाथ आदि नौ नाथों के तुल्य हो जाता है। जो (साधक) प्रतिदिन दस बार पाठ करता है, वह आकाश में दसों दिशाओं में चलनेवाला हो जाता है। जो (साधक प्रतिदिन) बीस बार पाठ करता है, उसे सम्पूर्ण ऐश्वर्य प्राप्त हो जाते हैं। जो (साधक प्रतिदिन) पच्चीस बार पाठ करते हैं, उनकी समस्त चिन्ताएँ नष्ट हो जाती हैं ॥ १६०-१६३॥

पञ्चाशद्वारमावर्त्य पञ्चभूतेश्वरो भवेत् ।

शतवारं कीर्त्तयेद्यः शताननसमानधीः ॥ १६४॥

शतपञ्चकमावर्त्य राजराजेश्वरो भवेत् ।

सहस्रावर्तनाद्देवि लक्ष्मीरावृणुते स्वयम् ॥ १६५॥

त्रिसहस्रं समावर्त्य त्रिनेत्रसदृशो भवेत् ।

पञ्च साहस्रमावर्त्य कामकोटि विमोहनः ॥ १६६॥

जो (साधक प्रतिदिन) पचास बार पाठ करते हैं, वह पञ्चभूत के ईश्वर हो जाते हैं । जो (साधक प्रतिदिन) सौ बार पाठ करते हैं, वह शतानन के सदृश बुद्धिमान् होते हैं। जो (साधक प्रतिदिन) एक सौ पाँच बार पाठ करते हैं, वह राजराजेश्वर हो जाते हैं। जो (साधक प्रतिदिन) एक हजार बार पाठ करते हैं, (ऐसे साधक का) लक्ष्मी स्वयं वरण कर लेती है। तीन हजार बार पाठ करने से (साधक) त्रिनयन के तुल्य हो जाता है। पाँच हजार बार पाठ करने से (साधक) कामकोटि को भी मोहित कर लेता है॥१६४-१६६॥

दशसाहस्रमावर्त्य भवेद्दशमुखेश्वरः ।

पञ्चविंशतिसाहस्रै च चतुर्विंशतिसिद्धिधृक् ॥ १६७॥

लक्षावर्तनमात्रेण लक्ष्मीपतिसमो भवेत् ।

लक्षत्रयावर्त्तनात्तु महादेवं विजेष्यति ॥ १६८॥

लक्षपञ्चकमावर्त्य कलापञ्चकसंयुतः ।

दशलक्षावर्त्तनात्तु दशविद्याप्तिरुत्तमा ॥ १६९॥

पञ्चविंशतिलक्षैस्तु दशविद्येश्वरो भवेत् ।

पञ्चाशल्लक्षमावृत्य महाकालसमो भवेत् ॥ १७०॥

दस हजार बार पाठ करने से (साधक) दशमुखेश्वर हो जाता है। चौबीस हजार पाठ करने से (साधक को) चौबीस सिद्धियाँ प्राप्त हो जाती हैं । एक लाख बार पाठ करन से (साधक) लक्ष्मीपति के सदृश हो जाता है। तीन लाख बार पाठ करनेवाला शिव को भी जीत लेता है। पाँच लाख बार पाठ करनेवाले (साधक) को पाँच कलाओं की  प्राप्ति होती है। दस लाख बार पाठ करने से दस महाविद्याओं की प्राप्ति हो जाती है। पच्चीस लाख बार पाठ करने से (साधक) दस विद्याओं का स्वामी हो जाता है। पचास लाख बार पाठ करनेवाले (साधक) को महाकाल की समता प्राप्त हो जाती है॥१६७-१७०॥

कोटिमावर्त्तयेद्यस्तु कालीं पश्यति चक्षुषा ।

वरदानोद्युक्तकरां महाकालसमन्विताम् ॥ १७१॥

प्रत्यक्षं पश्यति शिवे तस्या देहो भवेद्ध्रुवम् ।

श्रीविद्याकालिकातारात्रिशक्तिविजयी भवेत् ॥ १७२॥

विधेर्लिपिं च सम्मार्ज्य किङ्करत्वं विसृज्य च ।

महाराज्यमवाप्नोति नात्र कार्या विचारणा ॥ १७३॥

जो साधक अर्थात् पुरुष एक करोड़ बार पाठ करता है, वह महाकाली को (प्रत्यक्षरूप से) अपनी आँखों के द्वारा देखता है । स्वयं काली उसे वरदान देने की मुद्रा में महाकाल के साथ उसके समक्ष प्रगट होती है। ऐसा पुरुष श्रीविद्या, कालिका, तारा आदि तीनों शक्तियों पर विजय प्राप्त करता है और इन्हें वह अपनी देह में प्रत्यक्षरूप से देखता है। (ऐसा) वह पुरुष ब्रह्मा के लिखे हुए लेख को भी मिटा सकता है और वह किसी देवता का किंकर नहीं रहता है । वह स्वयं राजा के पद को प्राप्त करता है, इसमें संदेह नहीं है ॥ १७१-१७३॥

त्रिशक्तिविषये देविक्रमदीक्षा प्रकीर्तिता ।

क्रमदीक्षायुतो देवि राजा भवति निश्चितम् ॥ १७४॥

क्रमदीक्षाविहीनस्य फलं पूर्वमिहेरितम् ।

क्रमदीक्षायुतो देवि शिव एव न चापरः ॥ १७५॥

क्रमदीक्षासमायुक्तः काल्युक्तसिद्धिभाग्भवेत् ।

क्रमदीक्षाविहीनस्य सिद्धिहानिः पदे पदे ॥ १७६॥

अहो जन्मवतां मध्ये धन्यः क्रमयुतः कलौ ।

तत्रापि धन्यो देवेशि नामसाहस्रपाठकः ॥ १७७॥

महादेव जी पार्वती से बोले-हे देवि! त्रिशक्ति की उपासना में क्रमपूर्वक दीक्षा आवश्यक है, जो क्रमानुसार दीक्षा प्राप्त करते हैं, वह बिना किसी संदेह के राजा हो जाते हैं। जो क्रमानुसार दीक्षा नहीं लेते हैं, उसका फल हम पूर्व में ही कह आए हैं। परन्तु क्रमानुसार दीक्षा लेनेवाला पुरुष शिव के तुल्य ही है। इसमें संदेह नहीं करना चाहिए । क्रमानुसार दीक्षा लेनेवाला साधक ही काली को सिद्ध करने में समर्थ होता है। यह वचन (भगवती) काली का है, किन्तु जो क्रमानुसार दीक्षा नहीं लेते हैं, उन्हें पगपग पर सिद्धि की हानि प्राप्त होती है। क्रमानुसार दीक्षा लेनेवाला पुरुष ही इस कलिकाल के मानवों में सर्वश्रेष्ठ है। उसमें कालीसहस्रनाम का पाठ करनेवाला तो धन्य (पूज्य) है॥१७४-१७७॥

दशकालीविद्यौ देवि स्तोत्रमेतत्सदा पठेत् ।

सिद्धिं विन्दति देवेशि नात्र कार्या विचारणा ॥ १७८॥

काकी काली महाविद्या कलौ काली च सिद्धिदा ।

कलौ काली च सिद्धा च कलौ काली वरप्रदा ॥ १७९॥

कलौ काली साधकस्य दर्शनार्थं समुद्यता ।

कलौ काली केवला स्यान्नात्र कार्या विचारणा ॥ १८०॥

नान्यविद्या नान्यविद्या नान्यविद्या कलौ भवेत् ।

कलौ कालीं विहायाथ यः कश्चित्सिद्धिकामुकः ॥ १८१॥

स तु शक्तिं विना देवि रतिसम्भोगमिच्छति ।

कलौ कालीं विना देवि यः कश्चित्सिद्धिमिच्छति ॥ १८२॥

स नीलसाधनं त्यक्त्वा परिभ्रमति सर्वतः ।

कलौ काली विहायाथ यः कश्चिन्मोक्षमिच्छति ॥ १८३॥

गुरुध्यानं परित्यज्य सिद्धिमिच्छति साधकः ।

कलौ काली विहायाथ यः कश्चिद्राज्यमिच्छति ॥ १८४॥

स भोजन परित्यज्य भिक्षुवृत्तिमभीप्सति ।

स धन्यः स च विज्ञानी स एव सुरपूजितः ॥ १८५॥

हे पार्वति! काली के सन्निधान में दस बार (कालीसहस्रनाम) का पाठ करनेवाला साधक सिद्धि को प्राप्त कर लेता है, इसमें संदेह मत करो । काली, कालीमहाविद्या कलियुग में सिद्धि प्रदत्त करनेवाली है। (इस) कलिकाल में काली ही सिद्ध है और वर प्रदत्त करनेवाली है। कलियुग में एक (मात्र) काली ही अपने साधक को दर्शन देने के लिए तत्पर रहती है। कलियुग में मात्र काली ही विद्यामान हैं, इसमें संदेह नहीं है। इस कलियुग में और महाविद्यायें सिद्धि प्रदान नहीं करती हैं, यह मैं तीन बार शक्ति का उच्चारण करके कह रहा हूँ। कलियुग में काली का परित्याग करके जो सिद्धि चाहता है, मानो वह शक्ति के बिना ही रति, सम्भोग का सुख चाह रहा है। इस कलियुग में काली का परित्याग कर जो सिद्धि चाहता है, वह नीलमणि का परित्याग करके व्यर्थ ही भ्रमवश इधर-उधर दौड़ रहा है। जो काली को छोड़कर मुक्ति प्राप्त करना चाहता है, ऐसा साधक गुरुध्यान का परित्याग करके सिद्धि चाहता है। कलियुग में काली का परित्याग कर जो राज्य चाहता है, वह भोजन का परित्याग कर भिक्षावृत्ति ही करना चाहता है । इस कलियुग में वही धन्य है, वही ज्ञानी है, वही देवपूजित है ॥ १७८-१८५ ॥

स दीक्षितः सुखी साधुः सत्यवादी जितेन्द्रियः ।

स वेदवक्ता स्वाध्यायी नात्र कार्या विचारणा ॥ १८६॥

शिवरूपं गुरुं ध्यात्वा शिवरूपं गुरुं स्मरेत् ।

सदाशिवः स एव स्यानात्र कार्या विचारणा ॥ १८७॥

स्वस्मिन् कालीं तु सम्भाव्य पूजयेज्जगदम्बिकाम् ।

त्रैलोक्यविजयी भूयान्नात्र कार्य्या विचारणा ॥ १८८॥

गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।

रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥ १८९॥

श्लोकार्द्धं पादमात्रं वा पादादर्धं च तदर्धकम् ।

नामार्धं यः पठेद्देवि न वन्ध्यदिवसं न्यसेत् ॥ १९०॥

पुस्तकं पूजयेद्भक्त्या त्वरितं फलसिद्धये ।

न च मारीभयं तत्र न चाग्निर्वायुसम्भवम् ॥ १९१॥

न भूतादिभयं तत्र सर्वत्र सुखमेधते ।

कुङ्कुमाऽलक्तकेनैव रोचनाऽगरुयोगतः ॥ १९२॥

वही दीक्षित होते हुए सुखी है, वही साधु है, वही सत्यवादी एवं वही जितेन्द्रिय है, वही वेद को बोलनेवाला एवं स्वाध्यायी है, इसमें विशेष विचार की आवश्यकता नहीं है। जो साधक शिवरूप गरु का ध्यान और शिवरूप गुरु का स्मरण करते हुए महाकाली का आराधना करता है, वही सदाशिव है, इसमें संदेह नहीं है। अपने में ही काली को मानकर जगदम्बा की पूजा करनी चाहिए। ऐसा साधक तीनों लोक में विजयी होता है, इसम भी संदेह नहीं है । प्रयत्नपूर्वक इस कालीसहस्रनाम' को गोपनीय रखना चाहिए। (क्योंकि) यह सभी रहस्यों का रहस्य है और सम्पूर्ण रहस्यों का अतिक्रमण करने वाला है। कालीसहस्रनाम के अर्ध श्लोक या अर्ध पाठ या चरण के अर्ध का अर्ध और उसका भी अर्ध एवं उसके भी अर्ध का जो पाठ करता है, उसका दिन सफल होता है । हे देवि! सद्यः फलप्राप्ति के लिए इस सहस्रनाम पुस्तक की पूजा करनी अत्यावश्यक है। जहाँ इसकी पूजा होती है, वहाँ महामारी का भय नहीं होता है, न अग्नि का, न वायु का भय रहता है। वहाँ भूतादि का भय नहीं रहता तथा सभी जगह सुख का वातावरण रहता है। कुमकुमादि राग, अलक्तकादि श्रृंगार दूर्वा, हरिद्रा और अगुरु से (इस कालीसहस्रनाम) पुस्तक की पूजा करनी चाहिए ॥ १९२ ॥

भूर्जपत्रे लिखेत् पुस्तं सर्वकामार्थसिद्धये ।

इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १९३॥

इति गदितमशेषं कालिकावर्णरूपं ।

प्रपठति यदि भक्त्या सर्वसिद्धीश्वरः स्यात् ॥ १९४॥

अभिनवसुखकामः सर्वविद्याभिरामो

भवति सकलसिद्धिधः सर्ववीरासमृद्धिः ॥ १९५॥

समस्त कामनाओं की सिद्धि के लिए भोजपत्र पर (इस कालीसहस्रनाम) की पुस्तक का लेखन करना चाहिए । हे पार्वति! इस प्रकार मैंने वर्ण के रूप में स्थित (रहनेवाली) भगवती काली के सम्पूर्ण सहस्र नामों को मैंने तुमसे कहा, जो कोई भक्ति-भाव से इस (काली सहस्रनाम) का पाठ करेगा, वह सर्वसिद्धीश्वर हो जायेगा। उनको उत्तम से उत्तम अनेकानेक प्रकार के सुखों की प्राप्ति होगी। सभी विद्याओं में वे पारंगत होंगे, वे पुत्रपौत्रादि और समृद्धि से युक्त होकर सम्पूर्ण प्रकार की सिद्धि प्राप्त करेंगे । (हे पार्वति.) यह सब मैंने तुमसे संक्षिप्त रूप से कहा है, अब और क्या श्रवण करना चाहती हो? ॥१९३-१९५॥

इति श्रीककरादिकालीसहस्रनामस्तोत्रम् ककारादिकालीसहस्रनामावलिः समाप्तम् ॥

Post a Comment

Previous Post Next Post