recent

Slide show

[people][slideshow]

Ad Code

Responsive Advertisement

JSON Variables

Total Pageviews

Blog Archive

Search This Blog

Fashion

3/Fashion/grid-small

Text Widget

Bonjour & Welcome

Tags

Contact Form






Contact Form

Name

Email *

Message *

Followers

Ticker

6/recent/ticker-posts

Slider

5/random/slider

Labels Cloud

Translate

Lorem Ipsum is simply dummy text of the printing and typesetting industry. Lorem Ipsum has been the industry's.

Pages

कर्मकाण्ड

Popular Posts

परशुरामतन्त्रम्

परशुरामतन्त्रम्

मेरुतन्त्रान्तर्गत श्रीपरशुरामतन्त्रम् का वर्णन है जिसमे की परशुरामजी का ध्यान,पूजा,मन्त्र,यंत्र आदि के विषय में बतलाया गया है।  

पुराणों में परशुराम जी की कथा इस प्रकार है-

एक बार उनकी माँ जल का कलश लेकर भरने के लिए नदी पर गयीं। वहाँ गंधर्व चित्ररथ अप्सराओं के साथ जलक्रीड़ा कर रहा था। उसे देखने में रेणुका इतनी तन्मय हो गयी कि जल लाने में विलम्ब हो गया तथा यज्ञ का समय व्यतीत हो गया। उसकी मानसिक स्थिति समझकर जमदग्नि ने अपने पुत्रों को उसका वध करने के लिए कहा। परशुराम के अतिरिक्त कोई भी ऐसा करने के लिए तैयार नहीं हुआ। पिता के कहने से परशुराम ने माँ का वध कर दिया। पिता के प्रसन्न होने पर उन्होंने वरदान स्वरूप उनका जीवित होना माँगा। परशुराम के पिता ने क्रोध के आवेश में बारी-बारी से अपने चारों बेटों को माँ की हत्या करने का आदेश दिया। परशुराम के अतिरिक्त कोई भी तैयार न हुआ। अत: जमदग्नि ने सबको संज्ञाहीन कर दिया। परशुराम ने पिता की आज्ञा मानकर माता का शीश काट डाला। पिता ने प्रसन्न होकर वर माँगने को कहा तो उन्होंने चार वरदान माँगे-

1.       माँ पुनर्जीवित हो जायँ,

2.       उन्हें मरने की स्मृति न रहे,

3.       भाई चेतना-युक्त हो जायँ और

4.       मैं परमायु होऊँ।

जमदग्नि ने उन्हें चारों वरदान दे दिये।

राम के पराक्रम की परीक्षा

राम का पराक्रम सुनकर वे अयोध्या गये। दशरथ ने उनके स्वागतार्थ रामचन्द्र को भेजा। उन्हें देखते ही परशुराम ने उनके पराक्रम की परीक्षा लेनी चाही। अतः उन्हें क्षत्रियसंहारक दिव्य धनुष की प्रत्यंचा चढ़ाने के लिए कहा। राम के ऐसा कर लेने पर उन्हें धनुष पर एक दिव्य बाण चढ़ाकर दिखाने के लिए कहा। राम ने वह बाण चढ़ाकर परशुराम के तेज़ पर छोड़ दिया। बाण उनके तेज़ को छीनकर पुनः राम के पास लौट आया। राम ने परशुराम को दिव्य दृष्टि दी। जिससे उन्होंने राम के यथार्थ स्वरूप के दर्शन किये। परशुराम एक वर्ष तक लज्जित, तेजहीन तथा अभिमानशून्य होकर तपस्या में लगे रहे। तदनंतर पितरों से प्रेरणा पाकर उन्होंने वधूसर नामक नदी के तीर्थ पर स्नान करके अपना तेज़ पुनः प्राप्त किया।

परशुरामतन्त्रम्

अथ मेरुतन्त्रोक्तं श्रीपरशुरामतन्त्रम् 

अथातः सम्प्रवक्ष्यामि राममन्त्रं समाहृतम् ।

आकल्पमेक एवायं जामदग्न्यो महाबलः ॥ १॥

दुष्टक्षत्रतमोध्वंसी रेणुकोद्भूतभास्करः ।

मन्त्रः

ब्रह्मक्षत्राय विद्महे क्षत्रियान्ताय धीमहि ।

तन्नो रामः प्रचोदयात् ॥

भारद्वाजमुनिप्रोक्तो गायत्रं छन्द ईरितम् ॥ २॥

श्रीमान्परशुरामोऽस्य देवता भक्तवत्सलः ।

अष्टेषु त्र्यक्षिवेदार्णैर्मनोः प्रोक्तं षडङ्गकम् ॥ ३॥

नेत्रयोः कर्णयोर्नासाद्वये चाधरयुग्मके ।

स्तनयोर्भुजयोः पार्श्वद्वयेंऽघ्र्योर्विन्यसेत्पदम् ॥ ४॥

आधारे हृदये मूर्ध्नि क्रमात्पादान्प्रविन्यसेत् ।

के दृशि श्रोत्रनासायां कपोले हनुवक्रयोः ॥ ५॥

कण्ठांसबाहुहस्तेषु पार्श्वहृत्पृष्ठकोदरे ।

नाभिकट्योर्गुदे लिङ्गे ऊर्वोर्वा जानुजङ्घयोः ॥ ६॥

पादे च विन्यसेद्वर्णान्ततो ध्यायेत्त्रिधा तनुम् ।

सात्विकध्यानम् ।

सात्त्विके श्वेतवर्णं च भस्मोद्धूलितविग्रहम् ॥ ७॥

किरीटिनं कुण्डलिनं वरं स्वक्षवराभयान् ।

करैर्दधानं तरलं विप्रं क्षत्रवधोद्यतम् ।

पीताम्बरधरं कामरूपं बालानिरीक्षितम् ॥ ८॥

तामसध्यानम् ।

ध्यायेच्च तामसं क्षत्रं रुधिराक्तपरश्वधम् ।

आरक्तनेत्रकर्णस्थब्रह्मसूत्रं यमप्रभम् ॥ ९॥

राजसध्यानम् ।

धनुष्टङ्कारनिर्घोषसन्त्रस्तभुवनत्रयम् ।

चतुर्बाहुं मुसलिनं राजसं क्रुद्धमेव च ॥ १०॥

विनियोगः

अस्य श्रीपरशुराममन्त्रस्य भरद्वाज ऋषिः ।

भक्तवत्सल श्रीपरशुरामो देवता । गायत्री छन्दः ।

श्रीपरशुरामप्रीत्यर्थं अभीष्ठसिद्ध्यर्थं जपे विनियोगः ॥

करन्यासः

ब्रह्मक्षत्राय विद्महे अङ्गुष्ठाभ्यां नमः ।

तन्नो अनामिकाभ्यां नमः ।

क्षत्रियान्ताय तर्जनीभ्यां नमः ।

रामः कनिष्ठिकाभ्यां नमः ।

धीमहि मध्यमाभ्यां नमः ।

प्रचोदयात् करतलकरपृष्ठाभ्यां नमः ॥

हृदयादि न्यासः

ब्रह्मक्षत्राय विद्महे हृदयाय नमः । तन्नो कवचाय हुम् ।

क्षत्रियान्ताय शिरसे स्वाहा । रामः नेत्रत्रयाय वौषट् ।

धीमहि शिखायै वषट् । प्रचोदयात् अस्त्राय फट् ॥

मन्त्र पदन्यासः

ब्रह्मक्षत्राय विद्महे नेत्रयोः । तन्नो अधरयुग्मके ।

क्षत्रियान्ताय कर्णयोः । रामः स्तनयोः भुजयोः ।

धीमहि नासाद्वये । प्रचोदयात् पार्श्वयुग्मके अङ्घ्र्योः ॥

मन्त्र वर्णन्यासः

ब्रं नमः मूलाधारे ।

ह्मं नमः हृदये ।

क्षं नमः मूर्ध्नि ।

त्रां नमः नेत्रत्रय्यओः । नेत्रत्रयेषु

यं नमः कर्णयोः ।

विद् नमः नासायां ।

मं नमः कपोले ।

हें नमः हनौ ।

क्षं नमः वक्त्रे ।

त्रिं नमः कण्ठे ।

यां नमः बाह्वोः ।

न्तां नमः हस्तयोः ।

यं नमः पार्श्वे ।

धीं नमः हृदये ।

मं नमः पृष्ठे ।

हिं नमः उदरे ।

तं नमः नाभौ ।

न्नों नमः करयोः ।

रां नमः गुदे ।

मः नमः लिङ्गे ।

प्रं नमः ऊर्वोः ।

चों नमः जान्वोः ।

दं नमः जङ्घयोः ।

यात् नमः पादयोः ॥

वैष्णवे तु यजेत्पीठे देवाग्राच्च चतुर्दले ।

जमदग्निं च कालं च रेणुकां काममर्चयेत् ॥ ११॥

तद्दलेषु षडङ्गानि तद्बाह्येऽष्टदले यजेत् ।

दिक्षु वेदान् विदिक्पत्रेषूपवेदांस्ततो यजेत् ॥ १२॥

ततश्चाष्टदले पूज्या विबुद्धाश्चावतारकाः ।

ब्रह्मास्त्रं वैष्णवास्त्रं च रौद्रं वायव्यमेव च ॥ १३॥

आग्नेयं चैव नागास्त्रं मोहनं स्तम्भनं तथा ।

ऐन्द्रपालिकमस्त्रं च महापाशुपतं तथा ॥ १४॥

पूजयेद्दशपत्रेषु द्वादशारे ततोऽर्चयेत् ।

कश्यपं च भरद्वाजं विश्वामित्रं च गौतमम् ॥ १५॥

वशिष्ठं नारदं चात्रिं पुलस्त्यं पुलहं क्रतुम् ।

याज्ञवल्क्यं भार्गवं च षोडशारे ततो यजेत् ॥ १६॥

संहिताश्च पुराणानि मीमांसा न्यायमेव च ।

साङ्ख्यं पातञ्जलं शिल्पं वेदाङ्गानि च षट् क्रमात् ॥ १७॥

सर्वाण्युपपुराणानि चेतिहासपुराणकम् ।

स्मृतीस्तु भूपुराग्रे च दिगीशानायुधानि च ॥ १८॥

यन्त्र ध्यानम्

बिन्दुमध्ये श्रीपरशुरामपूजनम् ॥

श्रीपरशुरामं ध्यायामि, आवाहयामि । परशुरामाय नमः ।

आवाहनं समर्पयामि । पाद्यं समर्पयामि । अर्घ्यं समर्पयामि ।

आचमनीयं समर्पयामि । मधुपर्कं समर्पयामि । स्नानं समर्पयामि ।

वस्त्रालङ्कारान् समर्पयामि । यज्ञोपवीतं समर्पयामि ।

गन्धान् धारयामि । नानापरिमलपत्रं पुष्पं समर्पयामि ।

धूपमाघ्रापयामि । दीपं दर्शयामि ।

नैवेद्यं समर्पयामि । पानीयं उत्तरापोषण, हस्तप्रक्षालनं,

पादप्रक्षालनं, आचमनीयं, ताम्बूलं समर्पयामि ।

कर्पूरनीराजनं दर्शयामि । मन्त्रपुष्पं समर्पयामि ।

प्रदक्षिणानमस्कारान् समर्पयामि । अनया पूजया श्रीपरशुरामः

सुप्रसन्नो वरदो भवतु ॥

चतुर्दले ध्यानमन्त्राः ।

    ॐ जामदग्न्याय नमः । ॐ कालाय नमः ।

    ॐ रेणुकायै नमः । ॐ कामाय नमः ॥

षड्दले ध्यानमन्त्राः ।

    ॐ हृदयाय नमः । ॐ शिरसे स्वाहा । ॐ शिखायै वषट् ।

    ॐ कवचाय हुं । ॐ नेत्रत्रयाय वौषट् । ॐ अस्त्राय फट् ॥

अष्टदले बाह्यदिशायां वेदपूजन एवं ध्यानम् ।

    ऋग्वेदाय नमः । यजुर्वेदाय नमः ।

    सामवेदाय नमः । अथर्ववेदाय नमः ।

    आयुर्वेदाय नमः । गान्धर्ववेदाय नमः ।

    धनुर्वेदाय नमः । स्थापत्यवेदाय नमः ॥

अष्टदले विष्णु अवतारपूजनं एवं ध्यानम् ।

    ॐ मत्स्याय नमः । ॐ कच्छपाय नमः । ॐ वराहाय नमः ।

    ॐ नृसिंहाय नमः । ॐ वामनाय नमः । ॐ रामाय नमः ।

    ॐ कृष्णाय नमः । ॐ बुद्धाय नमः ॥

दशदले अस्त्रपूजनं एवं ध्यानम् ।

    ॐ ब्रह्मास्त्राय नमः । ॐ वैष्णवास्त्राय नमः ।

    ॐ रुद्रास्त्राय नमः । ॐ वायव्यास्त्राय नमः ।

    ॐ आग्नेयास्त्राय नमः । ॐ नागास्त्राय नमः ।

    ॐ मोहनास्त्राय नमः । ॐ स्तम्भनास्त्राय नमः ।

    ॐ ऐन्द्रास्त्राय नमः । ॐ महापाशुपतास्त्राय नमः ॥

द्वादशदले ऋषिपूजनं एवं ध्यानम् ।

    ॐ कश्यपाय नमः । ॐ भरद्वाजाय नमः ।

    ॐ विश्वामित्राय नमः । ॐ गौतमाय नमः ।

    ॐ वशिष्ठाय नमः । ॐ नारदाय नमः । ॐ अत्रये नमः ।

    ॐ पुलस्त्याय नमः । ॐ पुलहाय नमः । ॐ क्रतवे नमः ।

    ॐ याज्ञवल्क्याय नमः । ॐ भार्गवाय नमः ॥

षोडशदले शास्त्रपूजनं एवं ध्यानम् ।

    ॐ संहितायै नमः । ॐ पुराणाय नमः । ॐ मीमांसायै नमः ।

    ॐ न्यायाय नमः । ॐ साध्याय नमः । ॐ पातञ्जलाय नमः ।

    ॐ शिल्पाय नमः । ॐ शिक्षायै नमः । ॐ कल्पाय नमः ।

    ॐ व्याकरणाय नमः । ॐ छन्दसे नमः । ॐ निरुक्ताय नमः ।

    ॐ ज्योतिषाय नमः । ॐ उपपुराणाय नमः । ॐ इतिहासाय नमः ।

    ॐ स्मृतये नमः ॥

भूपुरेषु दशदिग्पालादिपूजनं एवं ध्यानम् ।

    ॐ शं कुबेराय नमः ।

    ॐ मं यमाय नमः ।

    ॐ लं इन्द्राय नमः ।

    ॐ वं वरुणाय नमः ।

    ॐ हं ईशानाय नमः ।

    ॐ रं अग्नये नमः ।

    ॐ यं वायवे नमः ।

    ॐ क्षं राक्षसाय नमः ।

    ॐ ह्रीं ब्रह्मणे नमः ।

    ॐ क्लीं विष्णवे नमः ।

अष्टदिशापूजनं एवं ध्यानम्

    पूर्वदिशायां ॐ इन्द्राय नमः ।

    दक्षिणपूर्वदिशायां ॐ अग्नये नमः ।

    दक्षिणदिशायां ॐ यमाय नमः ।

    दक्षिणपश्चिमदिशायां  ॐ निरृतये नमः ।

    पश्चिमदिशायां ॐ वरुणाय नमः ।

    उत्तरपश्चिम दिशायां ॐ वायवे नमः ।

    उत्तरदिशायां  ॐ कुबेराय नमः ।

    उत्तरपूर्वदिशायां ॐ ईशानाय नमः ।

    ईशानपूर्वदिशायां ॐ ब्रह्मणे नमः ।

    नैरृत्यपश्चिमदिशायां ॐ अनन्ताय नमः ॥

दशदिक्पाल आयुधपूजनं एवं मन्त्राः ।

    ॐ वज्राय नमः । ॐ शक्तये नमः । ॐ दण्डाय नमः ।

    ॐ खड्गाय नमः । ॐ पाशाय नमः । ॐ अङ्कुशाय नमः ।

    ॐ गदायै नमः । ॐ त्रिशूलाय नमः । ॐ पद्माय नमः ।

    ॐ चक्राय नमः ॥

वर्णलक्षं जपेन्मन्त्रं सिताद्यघृतपायसैः ।

हुनेद्ब्राह्मणभोज्यान्तं कृत्वा सिद्धो भवेन्मनुः ॥ १९॥

ब्रह्मकर्मरतो नित्यं गायत्रीजपतत्परः ।

स एव जायते सिद्धो नान्यविप्रः कदाचन ॥ २०॥

गायत्र्याः प्रथमं पादं पूर्वकृत्वा जपेन्मनुम् ।

लक्षं प्राग्वद्धुनेद्रामं सात्त्विकं तत्र चिन्तयेत् ॥ २१॥

सन्तानार्थं विवाहार्थं कृष्यर्थं वर्षणाय च ।

विषयार्थं धनार्थञ्च वाक्सिद्ध्यर्थमुदाहृतम् ॥ २२॥

सहस्रमयुतं लक्षं प्रयुतं कोटिमेव च ।

साध्यकृच्छ्रेऽतिकृच्छ्रे च दैवसाध्ये त्वसाध्यके ॥ २३॥

कार्या जपस्य सङ्ख्येयं क्रमाज्ज्ञेया दशांशतः ।

होमः सर्वत्र विज्ञेयः प्रत्यवायनिराकृतौ ॥ २४॥

तावदेव जपेद्विद्वान्गायत्रीजपतत्परः ।

मनागपि न कर्तव्यो ब्रह्मद्वेषः कदाचन ॥ २५॥

गायत्र्या मध्यचरणयुक्तं मन्त्रं जपेद्धुनेत् ।

तिलौदनाज्यं रामं तु राजसं तत्र भावयेत् ॥ २६॥

देशग्रामपुरादीनां बालानां च गवामपि ।

रक्षणं स्यान्महामारी शीतला शान्तये तथा ॥ २७॥

गायत्र्यन्तिमपादेन युक्तं मन्त्रं जपेद्ध्रुवम् ।

होमः सर्षपतैलाक्तैस्तामसं चिन्तयेद्विभुम् ॥ २८॥

सर्वशत्रुविनाशः स्याद्रोगादीनां तथा क्षयः ।

एवं कुर्याद्यमुद्दिश्य तस्य नाशो भवेद्ध्रुवम् ॥ २९॥

वैशाखे शुक्लपक्षे च तृतीयायां तु वार्षिकी ।

भवेदस्य महापूजा तां भक्तः प्रयतश्चरेत् ॥ ३०॥

रामभक्तं द्विजं नत्वा सङ्ग्रामे याति चेन्नृपः ।

अवश्यं स रिपूञ्जित्वा कुशली स्वगृहं व्रजेत् ॥ ३१॥

रामभक्तेन यो दत्तः पुस्तके लिखितो मनुः ।

स तु सिद्धिप्रदो ज्ञेयो नास्ति तस्य पुरस्क्रिया ॥ ३२॥

यत्किञ्चित्पुस्तकारूढं रामभक्तमुखोद्गतम् ।

यन्त्रं मन्त्रोऽथवा विद्या तत्सिद्धं नास्ति संशयः ॥ ३३॥

ज्ञात्वा षोडशसंस्कारैः संस्कृतं चार्यवंशजम् ।

कुलद्वयविशुद्धं तु राममन्त्राधिकारिणम् ॥ ३४॥

फिरङ्गा यवनाश्चीनाः खुरासानाश्च म्लेच्छजाः ।

रामभक्तं प्रदृष्ट्वैव त्रस्यन्ति प्रणमन्ति च ॥ ३५॥

कृत्वा तु वालुकामूर्तिं श्रीरामस्यार्चयेद्वने ।

शान्तं शत्रुमदं कुर्यात्कुसुमानि च वै हुनेत् ॥ ३६॥

राज्ञोऽमुकस्य कटकं जुहोमीति तथा वदेत् ।

सप्ताहार्वाक् तस्य सैन्यं नष्टं तावन्मितं भवेत् ॥ ३७॥

महेन्द्राग्रे च काश्यां च यो जपेन्निर्जने वने ।

वर्षादर्वाक् तस्य रामः प्रत्यक्षो जायते ध्रुवम् ॥ ३८॥

सोमवारे काशिकायां गयायां पितृपक्षके ।

पुष्यार्के पौर्णमास्यां च प्रयागे तु मृगे रवौ ॥ ३९॥

गोदावर्यां सिंहगेऽर्के गङ्गाद्वारे घटस्थिते ।

सूर्यग्रहे कुरुक्षेत्रे रामो गच्छति सर्वदा ॥ ४०॥

आद्यो रामो जामदग्न्यः क्षत्रियाणां कुलान्तकः ।

परश्वधधरो दाता मातृहा मातृजीवकः ॥ ४१॥

समुद्रतीरनिलयो महेशपाठिताखिलः ।

गोत्राणकृद्गोप्रदाता विप्रक्षत्रियकर्मकृत् ॥ ४२॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।

नापमृत्युं न दारिद्र्यं न च वंशक्षयो भवेत् ॥ ४३॥

श्रीमत्परशुरामस्य गायत्र्येषा महाद्भुता ।

राज्यकृत् कलिभूपानां सर्वतन्त्रेषु गोपिता ॥ ४४॥

 ॥ इति श्रीमेरुतन्त्रे परशुरामतन्त्रम् सम्पूर्णम् ॥

No comments:

vehicles

[cars][stack]

business

[business][grids]

health

[health][btop]