Slide show
Ad Code
JSON Variables
Total Pageviews
Blog Archive
-
▼
2021
(800)
-
▼
April
(66)
- गरुडपुराण सारोद्धार अध्याय ८
- गरुडपुराण सारोद्धार अध्याय ७
- गरुडपुराण सारोद्धार अध्याय ६
- गरुडपुराण सारोद्धार अध्याय ५
- गरुडपुराण सारोद्धार अध्याय ४
- गरुडपुराण सारोद्धार अध्याय ३
- गरुडपुराण सारोद्धार अध्याय २
- गरुडपुराण सारोद्धार अध्याय १
- गरुडपुराण सारोद्धार
- पंचक
- अन्त्येष्टि संस्कार
- परशुरामकल्पसूत्र द्वितीय भाग
- परशुरामकल्पसूत्र प्रथम भाग
- परशुराम
- परशुराम द्वादशनाम
- परशुराम सहस्रनाम स्तोत्रम्
- परशुरामतन्त्रम्
- परशुरामाष्टाविंशतिनामस्तोत्रम्
- परशुरामाष्टकम्
- काली माता
- राम तांडव स्तोत्रम्
- काली प्रत्यंगिरा स्तोत्र
- कामराजकीलितोद्धारोपनिषत्
- कालिका स्तोत्रम्
- सुधाधाराकाली स्तोत्रम्
- काली सहस्रनाम स्तोत्रम्
- काली कवचम्
- ककारादिकालीसहस्रनामावली
- ककारादि कालीसहस्रनामस्तोत्रम्
- काली सहस्रनाम स्तोत्रम्
- कालीशतनामस्तोत्रम्
- ककारादि काली शतनाम स्तोत्रम्
- कालिकाष्टोत्तर शतनाम स्तोत्रम्
- आद्या कालिका शतनामस्तोत्रम्
- काली त्रैलोक्य विजय कवच
- कालीमेधादीक्षितोपनिषत्
- काली मन्त्र
- काली कीलकम्
- काली पटलम्
- कालिकाष्टकम्
- काली स्तव
- कालिका हृदयम्
- कालिका कवचम्
- कालीस्तोत्रम् परशुरामकृतम्
- काली स्तोत्रम्
- जगन्मंगल कालीकवचम्
- काली कर्पूरस्तोत्र
- दक्षिणकालिका कवचम्
- कालिकोपनिषत्
- काली पूजन विधि
- श्रीकालीताण्डवस्तोत्रम्
- श्रीदक्षिणकाली खड़्गमाला स्तोत्रम्
- भद्रकाली अष्टकम्
- श्रीभद्राम्बिकाष्टोत्तरशतनामावलि
- श्रीभद्रकाली कवचम्
- भद्रकाली सहस्रनाम स्तोत्रम्
- भद्रकाली स्तुति
- कामकलाकाली संजीवन गद्यस्तोत्रम्
- कामकलाकाली सहस्रनाम स्तोत्रम्
- कामकलाकाली भुजङ्ग प्रयात स्तोत्र
- कामकलाकाली साधना
- कामकलाकाली त्रैलोक्य मोहन कवच
- कामकलाकाली रहस्य
- कामकलाकाली
- गुह्यकाली सहस्रनामस्तोत्रम्
- गुह्यकाल्युपनिषत्
-
▼
April
(66)
Search This Blog
Fashion
Menu Footer Widget
Text Widget
Bonjour & Welcome
About Me
Labels
- Astrology
- D P karmakand डी पी कर्मकाण्ड
- Hymn collection
- Worship Method
- अष्टक
- उपनिषद
- कथायें
- कवच
- कीलक
- गणेश
- गायत्री
- गीतगोविन्द
- गीता
- चालीसा
- ज्योतिष
- ज्योतिषशास्त्र
- तंत्र
- दशकम
- दसमहाविद्या
- देवी
- नामस्तोत्र
- नीतिशास्त्र
- पञ्चकम
- पञ्जर
- पूजन विधि
- पूजन सामाग्री
- मनुस्मृति
- मन्त्रमहोदधि
- मुहूर्त
- रघुवंश
- रहस्यम्
- रामायण
- रुद्रयामल तंत्र
- लक्ष्मी
- वनस्पतिशास्त्र
- वास्तुशास्त्र
- विष्णु
- वेद-पुराण
- व्याकरण
- व्रत
- शाबर मंत्र
- शिव
- श्राद्ध-प्रकरण
- श्रीकृष्ण
- श्रीराधा
- श्रीराम
- सप्तशती
- साधना
- सूक्त
- सूत्रम्
- स्तवन
- स्तोत्र संग्रह
- स्तोत्र संग्रह
- हृदयस्तोत्र
Tags
Contact Form
Contact Form
Followers
Ticker
Slider
Labels Cloud
Translate
Pages
Popular Posts
-
मूल शांति पूजन विधि कहा गया है कि यदि भोजन बिगड़ गया तो शरीर बिगड़ गया और यदि संस्कार बिगड़ गया तो जीवन बिगड़ गया । प्राचीन काल से परंपरा रही कि...
-
रघुवंशम् द्वितीय सर्ग Raghuvansham dvitiya sarg महाकवि कालिदास जी की महाकाव्य रघुवंशम् प्रथम सर्ग में आपने पढ़ा कि-महाराज दिलीप व उनकी प...
-
रूद्र सूक्त Rudra suktam ' रुद्र ' शब्द की निरुक्ति के अनुसार भगवान् रुद्र दुःखनाशक , पापनाशक एवं ज्ञानदाता हैं। रुद्र सूक्त में भ...
Popular Posts
अगहन बृहस्पति व्रत व कथा
मार्तण्ड भैरव स्तोत्रम्
गरुडपुराण सारोद्धार अध्याय २
गरुडपुराण-सारोद्धार (प्रेतकल्प)
में आपने इससे पूर्व में गरुडपुराण सारोद्धार अध्याय १ को पढ़ा। अब आगे इस गंथ के
मूल पाठ को भावार्थ सहित गरुडपुराण सारोद्धार अध्याय २ पढेंगे, जिसमें की यममार्ग की
यातनाओं का वर्णन, वैतरणी नदी का
स्वरूप, यममार्ग के सोलह पुरों में क्रमशः गमन तथा वहाँ
पुत्रादिकों द्वारा दिये गये पिण्डदान को ग्रहण करना, का वर्णन किया गया है।
गरुडपुराण सारोद्धार अध्याय २- मूल पाठ
गरुड उवाच कीदृशो यमलोकस्य पन्था
भवति दुःखदः। तत्र यान्ति यथा पापास्तन्मे कथय केशव॥१॥
श्रीभगवानुवाच यममार्ग महहुःखप्रदं
ते कथयाम्यहम् । मम भक्तोऽपि तच्छ्रुत्वा त्वं भविष्यसि कम्पितः॥२॥
वृक्षच्छाया न तत्रास्ति यत्र
विश्रमते नरः। यस्मिन् मार्गे न चान्नाद्यं येन प्राणान् समुद्धरेत्॥३॥
न जलं दृश्यते क्वापि तृषितोऽतीव यः
पिबेत्। तप्यन्ते द्वादशादित्याः प्रलयान्ते यथा खग॥४॥
तस्मिन् गच्छति पापात्मा शीतवातेन
पीडितः। कण्टकैर्विध्यते क्वापि क्वचित्सर्महाविषैः॥५॥
सिंहैर्व्याघ्रैः श्वभिर्घोरैर्भक्ष्यते
क्वापि पापकृत् । वृश्चिकैदश्यते क्वापि क्वचिद्दह्यति वह्निना॥६॥
ततः क्वचिन्महाघोरमसिपत्रवनं महत् ।
योजनानां सहस्त्रे द्वे विस्तारायामतः स्मृतम्॥७॥
काकोलूकवटगृध्रसरघादंशसंकुलम् ।
सदावाग्नि च तत्पत्रैश्छिन्नभिन्नः प्रजायते॥ ८॥
क्वचित् पतत्यन्धकूपे विकटात्
पर्वतात् क्वचित् । गच्छते क्षुरधारासु शंकूनामुपरि क्वचित्॥ ९ ॥
स्खलत्यन्धे तमस्युग्रे जले निपतति
क्वचित् । क्वचित् पङ्कजलौकाढये क्वचित् संतप्तकर्दमे॥१०॥
संतप्तवालुकाकीर्णे ध्मातताम्रमये
क्वचित् । क्वचिदङ्गारराशौ च महाधूमाकुले क्वचित्॥११॥
क्वचिदङ्गारवृष्टिश्च शिलावृष्टिः
सवज्रका । रक्तवृष्टिः शस्त्रवृष्टिः क्वचिदुष्णाम्बुवर्षणम्॥१२॥
क्षारकर्दमवृष्टिश्च महानिम्नानि च
क्वचित् । वप्रप्ररोहणं क्वापि कन्दरेषु प्रवेशनम्॥१३॥
गाढान्धकारस्तत्रास्ति
दुःखारोहशिलाः क्वचित् । पूयशोणितपूर्णाश्च विष्ठापूर्णह्रदाः क्वचित्॥१४॥
मार्गमध्ये वहत्युग्रा घोरा वैतरणी
नदी । सा दृष्ट्वा दुःखदा किं वा यस्या वार्ता भयावहा॥१५॥
शतयोजनविस्तीर्णा पूयशोणितवाहिनी ।
अस्थिवृन्दतटा दुर्गा मांसशोणितकर्दमा॥१६॥
अगाधा दस्तरा पापैः केशशैवालदर्गमा
। महाग्राहसमाकीर्णा घोरपक्षिशतैर्वता॥१७॥
आगतं पापिनं दृष्ट्वा
ज्वालाधूमसमाकुला। क्वथ्यते सा नदी तार्क्ष्य कटाहान्तघृतं यथा॥१८॥
कृमिभिः संकुला घोरैः सूचीवक्त्रैः
समन्ततः। वज्रतुण्डैर्महागृधैर्वायसैः परिवारिता॥ १९॥
शिशुमारैश्च
मकरैर्जलौकामत्स्यकच्छपैः। अन्यैर्जलस्थैर्जीवैश्च पूरिता मांसभेदकैः॥२०॥
पतितास्तत्प्रवाहे च क्रन्दन्ति
बहुपापिनः। हा भ्रातः पुत्र तातेति प्रलपन्ति मुहुर्मुहुः॥२१॥
क्षुधितास्तृषिताः पापाः पिबन्ति
किल शोणितम् । सा सरिद्रुधिरापूरं वहन्ती फेनिलं बहु॥२२॥
महाघोरातिगर्जन्ती दुर्निरीक्ष्या
भयावहा । तस्या दर्शनमात्रेण पापाः स्युर्गतचेतनाः॥२३॥
बहुवृश्चिकसंकीर्णा सेविता
कृष्णपन्नगैः। तन्मध्ये पतितानां च त्राता कोऽपि न विद्यते॥२४॥
आवर्तशतसाहस्त्रैः पाताले यान्ति
पापिनः । क्षणं तिष्ठन्ति पाताले क्षणादुपरिवर्तिनः॥२५॥
पापिनां पतनायैव निर्मिता सा नदी खग
। न पारं दृश्यते तस्या दुस्तरा बहुदुःखदा॥२६॥
एवं बहुविधक्लेशे यममार्गेऽतिदुःखदे
। क्रोशन्तश्च रुदन्तश्च दुःखिता यान्ति पापिनः ॥२७॥
पाशेन यन्त्रिताः केचित् कृष्यमाणास्तथांकुशैः।
शस्त्राग्रैः पृष्ठतः प्रोतैर्नीयमानाश्च पापिनः॥२८॥
नासाग्रपाशकृष्टाश्च
कर्णपाशैस्तथापरे । कालपाशैः कृष्यमाणाः काकैः कृष्यास्तथापरे॥२९॥
ग्रीवाबाहुषु पादेषु बद्धाः पृष्ठे
च शृङ्खलैः । अयोभारचयं केचिद्वहन्तः पथि यान्ति ते॥३०॥
यमदूतैर्महाघोरैस्ताड्यमानाश्च
मुद्गरैः। वमन्तो रुधिरं वक्त्रात् तदेवाश्नन्ति ते पुनः॥३१॥
शोचन्तः स्वानि कर्माणि ग्लानिं
गच्छन्ति जन्तवः । अतीव दुःखसम्पन्नाः प्रयान्ति यममन्दिरम्॥३२॥
तथापि स व्रजन् मार्गे पुत्र पौत्र
इति ब्रुवन् । हा हेति प्ररुदन् नित्यमनुतप्यति मन्दधीः ॥३३॥
महता पुण्ययोगेन मानुषं जन्म लभ्यते
। तत्प्राप्य न कृतो धर्मः कीदृशं हि मया कृतम्॥३४॥
मया न दत्तं न हुतं हुताशने तपो न
तप्तं त्रिदशा न पूजिताः।
न तीर्थसेवा विहिता विधानतो देहिन्
क्वचिन्निस्तर यत् त्वया कृतम्॥३५॥
न पूजिता विप्रगणाः सुरापगा न
चाश्रिताः सत्पुरुषा न सेविताः।
परोपकारो न कृतः कदाचन देहिन्
क्वचिन्निस्तर यत् त्वया कृतम्॥३६॥
जलाशयो नैव कृतो हि निर्जले
मनुष्यहेतोः पशुपक्षिहेतवे ।
गोविप्रवृत्त्यर्थमकारि नाण्वपि
देहिन् क्वचिन्निस्तर यत् त्वया कृतम्॥३७॥
न नित्यदानं न गवाह्निकं कृतं न
वेदशास्त्रार्थवचः प्रमाणितम्।
श्रुतं पुराणं न च पूजितो ज्ञो
देहिन् क्वचिन्निस्तर यत्त्वया कृतम्॥ ३८॥
भर्तुर्मया नैव कृतं हितं वचः
पतिव्रतं नैव कदापि पालितम् ।
न गौरवं क्वापि कृतं गुरूचितं
देहिन् क्वचिन्निस्तर यत् त्वया कृतम्॥३९॥
न धर्मबुद्ध्या पतिरेव सेवितो
वह्निप्रवेशो न कृतो मृते पतौ।
वैधव्यमासाद्य तपो न सेवितं देहिन्
क्वचिन्निस्तर यत् त्वया कृतम्॥४०॥
मासोपवासैर्न विशोषितं मया
चान्द्रायणैर्वा नियमैः सविस्तरैः।
नारीशरीरं बहुदुःखभाजनं लब्धं मया
पूर्वकृतैर्विकर्मभिः॥४१॥
एवं विलप्य बहुशो संस्मरन्
पूर्वदैहिकम् । मानुषत्वं मम कुत इति क्रोशन् प्रसर्पति॥४२॥
दशसप्तदिनान्येको वायुवेगेन गच्छति।
अष्टादशे दिने तार्क्ष्य प्रेतः सौम्यपुरं व्रजेत्॥४३॥
तस्मिन् पुरवरे रम्ये प्रेतानां च
गणो महान् । पुष्पभद्रा नदी तत्र न्यग्रोधः प्रियदर्शनः॥४४॥
पुरे तत्र स विश्रामं प्राप्यते
यमकिङ्करैः। दारपुत्रादिकं सौख्यं स्मरते तत्र दुःखितः॥४५॥
धनानि भत्यपौत्राणि सर्वं शोचति वै
यदा। तदा प्रेतास्त तत्रत्याः किराश्चेदमब्रवन॥४६॥
क्व धनं क्व सुतो जाया क्व सुहृत्
क्व च बान्धवाः। स्वकर्मोपार्जितं भोक्ता मूढ याहि चिरं पथि॥४७॥
जानासि संबलबलं बलमध्वगानां नो
संबलाय यतसे परलोकपान्थ ।
गन्तव्यमस्ति तव निश्चितमेव तेन
मार्गेण यत्र भवतः क्रयविक्रयौ न॥४८॥
आबालख्यातमार्गोऽयं नैव मर्त्य
श्रुतस्त्वया । पुराणसम्भवं वाक्यं किं द्विजेभ्योऽपि न श्रुतम्॥४९॥
एवमुक्तस्ततो दूतैस्ताड्यमानश्च
मुद्गरैः। निपतन्नुत्पतन् धावन् पाशैराकृष्यते बला लात्॥५०॥
अत्र दत्तं सुतैः पौत्रैः
स्नेहाद्वा कृपयाथवा । मासिकं पिण्डमश्नाति ततः सौरिपुरं व्रजेत्॥५१॥
तत्र नाम्नास्ति राजा वै जङ्गमः
कालरूपधृक् । तदृष्ट्वा भयभीतोऽसौ विश्रामे कुरुते मतिम्॥५२॥
उदकं चान्नसंयुक्तं भुङ्क्ते तत्र
पुरे गतः। पाक्षिके वै यद्दत्तं स तत्पुरमतिक्रमेत्॥५३॥
ततो नगेन्द्रभवनं प्रेतो याति
त्वरान्वितः। वनानि तत्र रौद्राणि दृष्ट्वा क्रन्दति दुःखितः॥५४॥
निघृणैः कृष्यमाणस्तु रुदते च पुनः
पुनः । मासद्वयावसाने तु तत्पुरं व्यथितो व्रजेत्॥५५॥
भुक्त्वा पिण्डं जलं वस्त्रं दत्तं
यद्बान्धवैरिह । कृष्यमाणः पुनः पाशैर्नीयतेऽग्रे च किङ्करैः॥५६॥
मासे तृतीये सम्प्राप्ते प्राप्य
गन्धर्वपत्तनम् । तृतीयमासिकं पिण्डं तत्र भुक्त्वा प्रसर्पति॥५७॥
शैलागमं चतुर्थे च मासि प्राप्नोति
वै पुरम् । पाषाणास्तत्र वर्षन्ति प्रेतस्योपरि भूरिशः॥५८॥
चतुर्थमासिकं पिण्डं भुक्त्वा
किञ्चित् सुखी भवेत् । ततो याति पुरं प्रेतः क्रौञ्चं मासेऽथ पञ्चमे॥५९॥
हस्तदत्तं तदा भुङ्क्ते प्रेतः
क्रौञ्चपुरे स्थितः। यत्पञ्चमासिकं पिण्डं भुक्त्वा क्रूरपुरं व्रजेत्॥६०॥
सार्धकैः
पञ्चभिर्मासैयूँनषाण्मासिकं व्रजेत् । तत्र दत्तेन पिण्डेन घटेनाप्यायितः
स्थितः॥६१॥
मुहूर्तार्धं तु विश्रम्य कम्पमानः
सुदुःखितः। तत्पुरं तु परित्यज्य तर्जितो यमकिङ्करैः॥६२॥
प्रयाति चित्रभवनं विचित्रो नाम
पार्थिवः । यमस्यैवानुजो भ्राता यत्र राज्यं प्रशास्ति हि॥६३॥
तं विलोक्य महाकायं यदा भीतः पलायते
। तदा सम्मुखमागत्य कैवर्ता इदमब्रुवन्॥६४॥
वयं ते तर्तुकामाय महावैतरणी नदीम्
। नावमादाय सम्प्राप्ता यदि ते पुण्यमीदृशम्॥६५॥
दानं वितरणं प्रोक्तं
मुनिभिस्तत्त्वदर्शिभिः । इयं सा तीर्यते यस्मात् तस्माद्वैतरणी स्मृता॥६६॥
यदि त्वया प्रदत्ता गौस्तदा
नौरुपसर्पति । नाऽन्यथेति वचस्तेषां श्रुत्वा हा दैव भाषते॥६७॥
तं दृष्ट्वा क्वथते सा तु तां
दृष्ट्वा सोऽतिक्रन्दते । अदत्तदानः पापात्मा तस्यामेव निमज्जति॥६८॥
तन्मुखे कण्टकं दत्त्वा
दूतैराकाशसंस्थितैः। बडिशेन यथा मत्स्यस्तथा पारं प्रणीयते॥६९॥
षाण्मासिकं च यत्पिण्डं तत्र
भुक्त्वा प्रसर्पति । मार्गे स विलपन याति बुभुक्षापीडितो ह्यलम्॥७०॥
सप्तमे मासि सम्प्राप्ते पुरं
बह्वापदं व्रजेत् । तत्र भुङ्क्ते प्रदत्तं तत् सप्तमे मासि पुत्रकैः॥७१॥
तत्पुरं तु व्यतिक्रम्य दुःखदं
पुरमृच्छति । महहुःखमवाप्नोति खे गच्छन् खेचरेश्वर ॥७२॥
मास्यष्टमे प्रदत्तं यत्पिण्डं भुक्त्वा
प्रसर्पति । नवमे मासि सम्पूर्णे नानाक्रन्दपुरं व्रजेत्॥७३॥
नानाक्रन्दगणान् दृष्ट्वा
क्रन्दमानान् सुदारुणान् । स्वयं च शून्यहृदयः समाक्रन्दति दुःखितः॥७४॥
विहाय तत्पुरं प्रेतस्तर्जितो
यमकिङ्करैः। सुतप्तभवनं गच्छेद्दशमे मासि कृच्छ्रतः॥७५॥
पिण्डदानं जलं तत्र भुक्त्वाऽपि न
सुखी भवेत् । मासि चैकादशे पूर्णे पुरं रौद्रं स गच्छति॥७६॥
दशैकमासिकं तत्र भुङ्क्ते दत्तं
सुतादिभिः। सार्धे चैकादशे मासि पयोवर्षणमृच्छति॥७७॥
मेघास्तत्र प्रवर्षन्ति प्रेतानां
दुःखदायकाः। न्यूनाब्दिकं च यच्छ्राद्धं तत्र भुङ्क्ते स दुःखितः ॥ ७८॥
सम्पूर्णे तु ततो वर्षे शीताढ्यं
नगरं व्रजेत् । हिमाच्छतगुणं तत्र महाशीतं तपत्यपि॥७९॥
शीतार्तः क्षुधितः सोऽपि वीक्षते हि
दिशो दश। तिष्ठते बान्धवः कोऽपि यो मे दुःखं व्यपोहति॥८०॥
किङ्करास्ते वदन्त्यत्र क्व ते
पुण्यं हि तादृशम् । भुक्त्वा च वार्षिकं पिण्डं धैर्यमालम्बते पुनः॥८१॥
ततः संवत्सरस्यान्ते प्रत्यासन्ने
यमालये। बहुभीतिपुरे गत्वा हस्तमात्रं समुत्सृजेत्॥८२॥
अङ्गुष्ठमात्रो वायुश्च कर्मभोगाय
खेचर। यातनादेहमासाद्य सह याम्यैः प्रयाति च॥८३॥
औवंदैहिकदानानि यैर्न दत्तानि
काश्यप । कष्टेन ते पुरं यान्ति गृहीत्वा दृढबन्धनैः॥८४।
धर्मराजपुरे सन्ति चतुर्दाराणि खेचर
। यत्रायं दक्षिणद्वारमार्गस्ते परिकीर्तितः॥८५॥
अस्मिन् पथि महाघोरे
क्षुत्तृषाश्रमपीडिताः । यथा यान्ति तथा प्रोक्तं किं भूयः श्रोतुमिच्छसि॥८६॥
इति गरुडपुराणे सारोद्धारे
यममार्गनिरूपणं नाम द्वितीयोऽध्यायः॥२॥
गरुडपुराण सारोद्धार अध्याय २-भावार्थ
गरुड़ जी ने कहा –
हे केशव ! यमलोक का मार्ग किस प्रकार दु:खदायी होता है। पापी लोग
वहाँ किस प्रकार जाते हैं, वह मुझे बताइये।
श्री भगवान बोले –
हे गरुड़ ! महान दुख प्रदान करने वाले यममार्ग के विषय में मैं
तुमसे कहता हूँ, मेरा भक्त होने पर भी तुम उसे सुनकर काँप
उठोगे। यममार्ग में वृक्ष की छाया नहीं है, जहाँ प्राणी
विश्राम कर सके। उस यममार्ग में अन्न आदि भी नहीं हैं, जिनसे
कि वह अपने प्राणों की रक्षा कर सके? हे खग ! वहाँ कहीं जल
भी नहीं दिखता, जिसे अत्यन्त तृषातुर वह जीव पी सके। वहाँ
प्रलयकाल की भाँति बारहों सूर्य तपते रहते हैं। उस मार्ग में जाता हुआ पापी कभी
बर्फीली हवा से पीड़ित होता है तथा कभी काँटे चुभते हैं और कभी महाविषधर सर्पों के
द्वारा डसा जाता है। वह पापी कहीं सिंहों, व्याघ्रों और
भयंकर कुत्तों द्वारा खाया जाता है, कहीं बिच्छुओं द्वारा
डसा जाता है और कहीं उसे आग से जलाया जाता है। तब कहीं अति भयंकर महान असिपत्रवन
नामक नरक में वह पहुँचता है, जो दो हजार योजन विस्तारवाला
कहा गया है।
वह वन कौओं,
उल्लुओं, वटों (पक्षी विशेषों), गीधों, सरघों तथा डाँसों से व्याप्त है। उसमें चारों
ओर दावाग्नि व्याप्त है, असिपत्र के पत्तों से वह जीव उस वन
में छिन्न-भिन्न हो जाता है। कहीं अंधे कुएँ में गिरता है, कहीं
विकट पर्वत से गिरता है, कहीं छुरे की धार पर चलता है तो
कहीं कीलों के ऊपर चलता है। कहीं घने अन्धकार में गिरता है, कहीं
उग्र (भय उत्पन्न करने वाले) जल में गिरता है, कहीं जोंको से
भरे हुए कीचड़ में गिरता है तो कहीं जलते हुए कीचड़ में गिरता है।
कहीं तपी हुई बालुका से व्याप्त और
कहीं धधकते हुए ताम्रमय मार्ग, कहीं अंगार की
राशि और कहीं अत्यधिक धुएँ से भरे हुए मार्ग पर उसे चलना पड़ता है। कहीं अंगार की
वृष्टि होती है, कहीं बिजली गिरने के साथ शिलावृष्टि होती है,
कहीं रक्त की, कहीं शस्त्र की और कहीं गर्म जल
की वृष्टि होती है। कहीं खारे कीचड़ की वृष्टि होती है, मार्ग
में कहीं गहरी खाई है, कहीं पर्वत-शिखरों की चढ़ाई है और
कहीं कन्दराओं में प्रवेश करना पड़ता है।
वहाँ मार्ग में कहीं घना अंधकार है
तो कहीं दु:ख से चढ़ी जाने योग्य शिलाएँ हैं, कहीं
मवाद, रक्त तथा विष्ठा से भरे हुए तालाब हैं। यम मार्ग के
बीचोबीच अत्यन्त उग्र और घोर वैतरणी नदी बहती है। वह देखने पर दु:खदायिनी हो तो
क्या आश्चर्य? उसकी वार्ता ही भय पैदा करने वाली है। वह सौ
योजन चौड़ी है, उसमें पूय (पीब-मवाद) और शोणित (रक्त) बहते
रहते हैं। हड्डियों के समूह से तट बने हैं अर्थात उसके तट पर हड्डियों का ढेर लगा
रहता है। माँस और रक्त के कीचड़ वाली वह नदी दु:ख से पार की जाने वाली है।
अथाह गहरी और पापियों द्वारा
दु:खपूर्वक पार की जाने वाली यह नदी केशरूपी सेवार से भरी होने के कारण दुर्गम है।
वह विशालकाय ग्राहों (घड़ियालों) से व्याप्त है और सैकड़ो प्रकार के घोर पक्षियों
से आवृत है। हे गरुड़ ! आये हुए पापी को देखकर वह नदी ज्वाला और धूम से भरकर कड़ाह
में रखे घृत की भाँति खौलने लगती है। वह नदी सूई के समान मुख वाले भयानक कीड़ो से
चारों ओर व्याप्त है। वज्र के समान चोंच वाले बड़े-बड़े गीध एवं कौओं से घिरी हुई
है।
वह नदी शिशुमार,
मगर, जोंक, मछली,
कछुए तथा अन्य मांसभक्षी जलचर – जीवों से भरी
पड़ी है। उसके प्रवाह में गिरे हुए बहुत से पापी रोते-चिल्लाते हैं और हे भाई! हा
पुत्र! हा तात! – इस प्रकार कहते हुए बार-बार विलाप करते
हैं। भूख और प्यास से व्याकुल होकर पापी जीव रक्त का पान करते हैं। वह नदी
झागपूर्ण रक्त के प्रवाह से व्याप्त, ममहाघोर, अत्यन्त गर्जना करने वाली, देखने में दु:ख पैदा करने
वाली तथा भयावह है। उसके दर्शन मात्र से पापी चेतनाशून्य हो जाते हैं।
बहुत से बिच्छू तथा काले सर्पों से
व्याप्त उस नदी के बीच में गिरे हुए पापियों की रक्षा करने वाला कोई नहीं है। उसके
सैकड़ों,
हजारों भँवरों में पड़कर पापी पाताल में चले जाते हैं। क्षण भर
पाताल में रहते हैं और एक क्षण में ही ऊपर चले आते हैं। हे खग! वह नदी पापियों के
गिरने के लिए ही बनाई गई है। उसका पार नहीं दिखता। वह अत्यन्त दु:खपूर्वक तरने
योग्य तथा बहुत दु:ख देने वाली है।
इस प्रकार बहुत प्रकार के क्लेशों
से व्याप्त अत्यन्त दु:खप्रद यममार्ग में रोते-चिल्लाते हुए दु:खी पापी जाते हैं।
कुछ पापी पाश से बँधे होते हैं और कुछ अंकुश में फंसाकर खींचे जाते हैं,
और कुछ शस्त्र के अग्र भाग से पीठ में छेदते हुए ले जाये जाते हैं।
कुछ नाक के अग्र भाग में लगे हुए पाश से और कुछ कान में लगे हुए पाश से खीचे जाते
हैं। कुछ काल पाश से खींचे जाते हैं और कुछ कौओं से खींचे जाते हैं।
वे पापी गरदन,
हाथ तथा पैर में जंजीर से बँधे हुए तथा अपनी पीठ पर लोहे के भार को
ढोते हुए मार्ग पर चलते हैं। अत्यन्त घोर यमदूतों के द्वारा मुद्गरों से पीटे जाते
हुए वे मुख से रक्त वमन करते हुए तथा वमन किये हुए रक्त को पुन: पीते हुए जाते
हैं। उस समय अपने दुष्कर्मों को सोचते हुए प्राणी अत्यन्त ग्लानि का अनुभव करते
हैं और अतीव दु:खित होकर यमलोक को जाते हैं।
इस प्रकार यममार्ग में जाता हुआ वह
मन्दबुद्धि प्राणी हा पुत्र !, हा पौत्र ! इस
प्रकार पुत्र और पौत्रों को पुकारते हुए, हाय-हाय इस प्रकार
विलाप करते हुए पश्चाताप की ज्वाला से जलता रहता है। वह विचार करता है कि महान
पुण्य के संबंध से मनुष्य-जन्म प्राप्त होता है, उसे प्राप्त
कर भी मैंने धर्माचरण नहीं किया, यह मैंने क्या किया। मैंने
दान दिया नहीं, अग्नि में हवन किया नहीं, तपस्या की नहीं, देवताओं की भी पूजा की नहीं,
विधि-विधान से तीर्थ सेवा की नहीं, अत: हे
जीव! जो तुमने किया है, उसी का फल भोगों।
हे देही ! तुमने ब्राह्मणों की पूजा
की नहीं,
देव नदी गंगा का सहारा लिया नहीं, सत्पुरुषों
की सेवा की नहीं, कभी भी दूसरे का उपकार किया नहीं, इसलिए हे जीव ! जो तुमने किया है, अब उसी का फल
भोगों। मनुष्यों और पशु-पक्षियों के लिए जलहीन प्रदेश में जलाशय का निर्माण किया
नहीं। गौओं और ब्राह्मणों की आजीविका के लिए थोड़ा भी प्रयास किया नहीं, इसलिए हे देही! तुमने जो किया है, उसी से अपना
निर्वाह करो।
तुमने नित्य-दान किया नहीं,
गौओं के दैनिक भरण-पोषण की व्यवस्था की नहीं, वेदों
और शास्त्रों के वचनों को प्रमाण माना नहीं, पुराणों को सुना
नहीं, विद्वानों की पूजा की नहीं, इसलिए
हे देही ! जो तुमने किया है, उन्हीं दुष्कर्मों के फल को अब
भोगों।
नारी-जीव भी पश्चाताप करते हुए कहता
है मैंने पति की हितकर आज्ञा का पालन किया नहीं, पातिव्रत्य धर्म का कभी पालन किया नहीं और गुरुजनों को गौरवोचित सम्मान
कभी दिया नहीं, इसलिए हे देहिन्! जो तुमने किया, उसी का अब फल भोगों। धर्म की बुद्धि से एकमात्र पति की सेवा की नहीं और
पति की मृत्यु हो जाने पर वह्निप्रवेश करके उनका अनुगमन किया नहीं, वैधव्य प्राप्त करके त्यागमय जीवन व्यतीत किया नहीं, इसलिए हे देहिन्! जैसा किया, उसका फल अब भोगों। मास
पर्यन्त किए जाने वाले उपवासों से तथा चान्द्रायण-व्रतों आदि सुविस्तीर्ण नियमों
के पालन से शरीर को सुखाया नहीं। पूर्वजन्म में किये हुए दुष्कर्मों से बहुत
प्रकार के दु:खों को प्राप्त करने के लिए नारी-शरीर प्राप्त किया था।
इस तरह बहुत प्रकार से विलाप करके पूर्व देह का स्मरण करते हुए ‘मेरा मानव-जन्म शरीर कहाँ चला गया’ इस प्रकार चिल्लाता हुआ वह यमममार्ग में चलता है। हे तार्क्ष्य ! इस प्रकार सत्रह दिन तक अकेले वायु वेग से चलते हुए अठारहवें दिन वह प्रेत सौम्यपुर में जाता है। उस रमणीय श्रेष्ठ सौम्यपुर में प्रेतों का महान गण रहता है। वहाँ पुष्पभद्रा नदी और अत्यन्त प्रिय दिखने वाला वटवृक्ष है।
उस पुर में यमदूतों के द्वारा उसे
विश्राम कराया जाता है। वहाँ दुखी होकर वह स्त्री-पुत्रों के द्वारा प्राप्त सुखों
का स्मरण करता है। वह अपने धन, भृत्य और
पौत्र आदि के विषय में जब सोचने लगता है तो वहाँ रहने वाले यम के किंकर उससे इस
प्रकार कहते हैं – धन कहाँ है? पुत्र
कहाँ है? पत्नी कहाँ है? मित्र कहाँ है?
बन्धु-बान्धव कहाँ है? हे मूढ़ ! जीव अपने
कर्मोपार्जित फल को ही भोगता है इसलिए सुदीर्घ काल तक इस यम मार्ग पर चलो।
हे परलोक के राही! तू यह जानता है
कि राहगीरों का बल और संबल पाथेय ही होता है, जिसके
लिए तूने प्रयास तो किया नहीं। तू यह भी नहीं जानता था कि तुम्हें निश्चित ही उस
मार्ग पर चलना है और उस रास्ते पर कोई भी लेन-देन हो नहीं सकता। यह मार्ग के
बालकों को भी विदित रहता है। हे मनुष्य ! क्या तुमने इसे सुना नहीं था? क्या तुमने ब्राह्मणों के मुख से पुराणों के वचन सुने नहीं थे। इस प्रकार
कहकर मुद्गरों से पीटा जाता हुआ वह जीव गिरते-पड़ते-दौड़ते हुए बलपूर्वक पाशों से
खींचा जाता है।
यहाँ स्नेह अथवा कृपा के कारण
पुत्र-पौत्रों द्वारा दिये हुए मासिक पिण्ड को खाता है। उसके बाद वह जीव सौरिपुर
को प्रस्थान करता है। उस सौरिपुर में काल के रूप को धारण करने वाला जंगम नामक राजा
रहता है। उसे देखकर वह जीव भयभीत होकर विश्राम करना चाहता है। उस पुर में गया हुआ
वह जीव अपने स्वजनों के द्वारा दिये हुए त्रैपाक्षिक अन्न-जल को खाकर उस पुर को
पार करता है।
उसके बाद शीघ्रतापूर्वक वह प्रेत
नगेन्द्र-भवन की ओर जाता है और वहाँ भयंकर वनों को देखकर दु:खी होकर रोता है।
दयारहित दूतों के द्वारा खींचे जाने पर वह बार-बार रोता है और दो मासों के अन्त
में वह दुखी होकर वहाँ जाता है। बान्धवों द्वारा दिये गये पिण्ड,
जल, वस्त्र का उपभोग करके यमकिंकरों के द्वारा
पाश से बार-बार खींचकर पुन: आगे ले जाया जाता है।
तीसरे मास में वह गन्धर्वनगर को
प्राप्त होता है और वहाँ त्रैमासिक पिण्ड खाकर आगे चलता है। चौथे मास में वह
शैलागमपुर में पहुँचता है और वहाँ प्रेत के ऊपर बहुत अधिक पत्थरों की वर्षा होती
है। वहाँ चौथे मासिक पिण्ड को खाकर वह कुछ सुखी होता है। उसके बाद पाँचवें महीने
में वह प्रेत क्रौंचपुर पहुँचता है।
क्रौंचपुर में स्थित वह प्रेत वहाँ
बान्धवों द्वारा हाथ से दिये गये पाँचवें मासिक पिण्ड को खाकर आगे क्रूरपुर की ओर
चलता है। साढ़े पाँच मास के बाद बान्धवों द्वारा प्रदत्त ऊनषाण्मासिक पिण्ड और
घटदान से तृप्त होकर वह वहाँ आधे मुहूर्त तक विश्राम कर के यमदूतों के द्वारा
डराये जाने पर दु:ख से काँपता हुआ उस पुर को छोड़कर –
चित्रभवन नामक पुर को जाता है, जहाँ यम का
छोटा भाई विचित्र नाम वाला राजा राज्य करता है।
उस विशाल शरीर वाले राजा को देखकर
जब वह जीव डर से भागता है, तब सामने आकर
कैवर्त धीवर उससे यह कहते हैं – हम इस महावैतरणी नदी को पार
करने वालों के लिए नाव लेकर आये हैं, यदि तुम्हारा इस प्रकार
का पुण्य हो तो इसमें बैठ सकते हो। तत्त्वदर्शी मुनियों ने दान को ही वितरण (देना
या बाँटना) कहा है। यह वैतरणी नदी वितरण के द्वारा ही पार की जा सकती है, इसलिए इसको वैतरणी कहा जाता है।
यदि तुमने वैतरणी गौ का दान किया हो
तो नौका तुम्हारे पास आएगी अन्यथा नहीं। उनके ऎसे वचन सुनकर प्रेत ‘हा देव’ ! ऎसा कहता है। उस प्रेत को देखकर वह नदी
खौलने लगती है और उसे देखकर प्रेत अत्यन्त क्रन्दन (विलाप) करने लगता है। जिसने
अपने जीवन में कभी दान दिया ही नहीं, ऎसा पापात्मा उसी
वैतरणी में डूबता है। तब आकाश मार्ग से चलने वाले दूत उसके मुख में काँटा लगाकर
बंसी से मछली की भाँति उसे खींचते हुए पार ले जाते हैं।
वहाँ षाण्मासिक पिण्ड खाकर वह
अत्यधिक भूख से पीड़ित होकर विलाप करता हुआ आगे के रास्ते पर चलता है। सातवें मास
में वह बह्वापदपुर को जाता है और वहाँ अपने पुत्रों द्वारा दिये हुए सप्तम मासिक
पिण्ड को खाता है। हे पक्षिराज गरुड़ ! उस पुर को पारकर वह दु:खद नामक पुर को जाता
है। आकाश मार्ग से जाता हुआ वह महान दु:ख प्राप्त करता है।
वहाँ आठवें मास में दिये हुए पिण्ड
को खाकर आगे बढ़ता है और नवाँ मास पूर्ण होने पर नानाक्रन्दपुर को प्राप्त होता
है। वहाँ क्रन्दन करते हुए अनेक भयावह क्रन्दगणों को देखकर स्वयं शून्य हृदयवाला
वह जीव दु:खी होकर आक्रन्दन करने लगता है। उस पुर को छोड़कर वह यमदूतों के द्वारा
भयभीत किया जाता हुआ दसवें महीने में अत्यन्त कठिनाई से सुतप्तभवन नामक नगर में
पहुँचता है।
वहाँ पुत्रादि से पिण्डदान और
जलांजलि प्राप्त करके भी सुखी नहीं होता। ग्यारहवाँ मास पूरा होने पर वह रौद्रपुर
को जाता है। और पुत्रादि के द्वारा दिये हुए एकादश मासिक पिण्ड को वहाँ खाता है।
साढ़े ग्यारह मास बीतने पर वह जीव पयोवर्षण नामक नगर में पहुँचता है। वहाँ प्रेतों
को दु:ख देने वाले मेघ घनघोर वर्षा करते हैं, वहाँ
पर दु:खी वह प्रेत ऊनाब्दिक श्राद्ध के पिण्ड को खाता है।
इसके बाद वर्ष पूरा होने पर वह जीव
शीताढ्य नामक नगर को प्राप्त होता है, वहाँ
हिम से भी सौ गुनी अधिक महान ठंड पड़ती है। शीत से दु:खी तथा क्षुधित वह जीव इस
आशा से दसों दिशाओं में देखता है कि शायद कहीं कोई हमारा बान्धव हो, जो मेरे दु:ख को दूर कर सके। तब यम के दूत कहते हैं – तुम्हारा ऎसा पुण्य कहाँ है? फिर वार्षिक पिण्ड को
खाकर वह धैर्य धारण करता है।
उसके बाद वर्ष के अन्त में यमपुर के
निकट पहुँचने पर वह प्रेत बहुभीतिपुर में जाकर हाथ भर माप के अपने शरीर को छोड़
देता है। हे पक्षी! पुन: कर्म भोग के लिए अंगुष्ठ मात्र के वायुस्वरुप यातना देह
को प्राप्त करके वह यमदूतों के साथ जाता है। हे कश्यपात्मज ! जिन्होंने
और्ध्वदैहिक – मरणकालिक – दान नहीं दिए हैं, वे यमदूतों के द्वारा दृढ़
बन्धनों से बँधे हुए अत्यन्त कष्ट से यमपुर को जाते हैं।
हे आकाशगामी ! धर्मराजपुर में चार
द्वार है,
जिनमें से दक्षिण द्वार के मार्ग का तुमसे वर्णन कर दिया। इस महान
भयंकर मार्ग में भूख-प्यास और श्रम से दु:खी जीव जिस प्रकार जाते हैं, वह सब मैंने बतला दिया। अब और क्या सुनना चाहते हो।
।। इस प्रकार गरुड़ पुराण के
अन्तर्गत सारोद्वार में “यममार्गनिरुपण”
नामक २ (दूसरा) अध्याय पूर्ण हुआ ।।
शेष जारी.............. गरुडपुराण-सारोद्धार(प्रेतकल्प)अध्याय- ३ श्लोक हिंदी भावार्थ सहित ।
Related posts
vehicles
business
health
Featured Posts
Labels
- Astrology (7)
- D P karmakand डी पी कर्मकाण्ड (10)
- Hymn collection (38)
- Worship Method (32)
- अष्टक (54)
- उपनिषद (30)
- कथायें (127)
- कवच (61)
- कीलक (1)
- गणेश (25)
- गायत्री (1)
- गीतगोविन्द (27)
- गीता (34)
- चालीसा (7)
- ज्योतिष (32)
- ज्योतिषशास्त्र (86)
- तंत्र (182)
- दशकम (3)
- दसमहाविद्या (51)
- देवी (190)
- नामस्तोत्र (55)
- नीतिशास्त्र (21)
- पञ्चकम (10)
- पञ्जर (7)
- पूजन विधि (80)
- पूजन सामाग्री (12)
- मनुस्मृति (17)
- मन्त्रमहोदधि (26)
- मुहूर्त (6)
- रघुवंश (11)
- रहस्यम् (120)
- रामायण (48)
- रुद्रयामल तंत्र (117)
- लक्ष्मी (10)
- वनस्पतिशास्त्र (19)
- वास्तुशास्त्र (24)
- विष्णु (41)
- वेद-पुराण (691)
- व्याकरण (6)
- व्रत (23)
- शाबर मंत्र (1)
- शिव (54)
- श्राद्ध-प्रकरण (14)
- श्रीकृष्ण (22)
- श्रीराधा (2)
- श्रीराम (71)
- सप्तशती (22)
- साधना (10)
- सूक्त (30)
- सूत्रम् (4)
- स्तवन (109)
- स्तोत्र संग्रह (711)
- स्तोत्र संग्रह (6)
- हृदयस्तोत्र (10)
No comments: