भद्रकाली अष्टकम्

भद्रकाली अष्टकम्

यहाँ माँ भद्रकाली से आशीष प्राप्त करने के लिए भद्रकाली का दो अष्टक दिया जा रहा है।

भद्रकाली अष्टकम्
                                                             भद्रकाली अष्टकम्

श्रीभद्रकाल्यष्टकम्

घोरे संसारवह्नौ प्रलयमुपगते या हि कृत्वा श्मशाने

नृत्यत्यन्यूनशक्तिर्जगदिदमखिलं मुण्डमालाभिरामा ।

भिद्यद्ब्रह्माण्डभाण्डं पटुतरनिनदैरट्टहासैरुदारैः

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ १॥

मग्ने लोकेऽम्बुराशौ नलिनभवनुता विष्णुना कारयित्वा

चक्रोत्कृत्तोरुकण्ठं मधुमपि भयदं कैटभं चातिभीमम् ।

पद्मोत्पत्तेः प्रभूतं भयमुत रिपुतोयाहरत्सानुकम्पा

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ २॥

विश्वत्राणं विधातुं महिषमथ राणे याऽसुरं भीमरूपं

शूलेनाहत्य वक्षस्यमरपतिनुता पातयन्ती च भूमौ ।

तस्यासृग्वाहिनीभिर्जलनिधिमखिलं शोणिताभं च चक्रे

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ३॥

या देवी चण्डमुण्डौ त्रिभुवननलिनीवारणौ देवशत्रू

दृष्ट्वा युद्धोत्सवे तौ द्रुततरमभियातासिना कृत्तकण्ठौ ।

कृत्वा तद्रक्तपानोद्भवमदमुदिता साट्टहासातिभीमा

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ४॥

सद्यस्तं रक्तबीजं समरभुवि नता घोररूपानसङ्ख्यान्

राक्तोद्भूतैरसङ्ख्यैर्गजतुरगरथैस्सार्थमन्यांश्च दैत्यान् ।

वक्त्रे निक्षिप्य दष्ट्वा गुरुतरदशनैरापपौ शोणितौघं

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ५॥

स्थानाद्भ्रष्टैश्च देवैस्तुहिनगिरितटे सङ्गतैस्संस्तुता या

सङ्ख्याहीनैस्समेतं त्रिदशरिपुगणैस्स्यन्दनेभाश्वयुक्तैः ।

युद्धे शुम्भं निशुम्भं त्रिभुवनविपदं नाशयन्ती च जघ्ने

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ६॥

शम्भोर्नेत्रानले या जननमपि जगत्त्राणहेतोरयासीत्

 भूयस्तीक्ष्णातिधाराविदलितदनुजा दारुकं चापि हत्वा ।

तस्यासृक्पानतुष्टा मुहुरपि कृतवत्यट्टहासं कठोरं

सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ७॥

या देवी कालरात्री तुहिनगिरसुता लोकमाता धरित्री

वणी निद्रा च मायामनसिजदयिता घोररूपातिसौम्या ।

चामुण्डा खड्गहस्ता रिपुहननपरा शोणितास्वादकामा

सा हन्याद्विश्ववन्द्या मम रिपुनिवहा भद्रदा भद्रकाली ॥ ८॥

भद्रकाल्यष्टकं जप्यं शत्रुसंक्षयकाङ्क्षिणा ।

स्वर्गापवर्गदं पुण्यं दुष्टग्रहनिवारणम् ॥ ९॥

इति श्रीभद्रकाल्यष्टकं सम्पूर्णम् ।


2- श्रीभद्रकाल्यष्टकम्

श्रीमच्छङ्करपाणिपल्लवकिरल्लोलंबमालोल्लस-

न्मालालोलकलापकालकबरीभारावलीभासुरीम् ।

कारुण्यामृतवारिराशिलहरीपीयूषवर्षावलीं

बालांबां ललितालकामनुदिनं श्रीभद्रकालीं भजे ॥ १॥

हेलादारितदारिकासुरशिरःश्रीवीरपाणोन्मद-

श्रेणीशोणितशोणिमाधरपुटीं वीटीरसास्वादिनीम् ।

पाटीरादिसुगन्धिचूचुकतटीं शाटीकुटीरस्तनीं

घोटीवृन्दसमानधाटियुयुधीं श्रीभद्रकालीं भजे ॥ २॥

बालार्कायुतकोटिभासुरकिरीटामुक्तमुग्धालक-

श्रेणीनिन्दितवासिकामरुसरोजाकाञ्चलोरुश्रियम् ।

वीणावादनकौशलाशयशयश्र्यानन्दसन्दायिनी-

मम्बामम्बुजलोचनामनुदिनं श्रीभद्रकालीं भजे ॥ ३॥

मातङ्गश्रुतिभूषिणीं मधुधरीवाणीसुधामोषिणीं

भ्रूविक्षेपकटाक्षवीक्षणविसर्गक्षेमसंहारिणीम् ।

मातङ्गीं महिषासुरप्रमथिनीं माधुर्यधुर्याकर-

श्रीकारोत्तरपाणिपङ्कजपुटीं श्रीभद्रकालीं भजे ॥ ४॥

मातङ्गाननबाहुलेयजननीं मातङ्गसंगामिनीं

चेतोहारितनुच्छवीं शफरिकाचक्षुष्मतीमम्बिकाम् ।

जृंभत्प्रौढिनिशुंभशुंभमथिनीमंभोजभूपूजितां

 सम्पत्सन्ततिदायिनीं हृदि सदा श्रीभद्रकालीं भजे ॥ ५॥

आनन्दैकतरङ्गिणीममलहृन्नालीकहंसीमणीं

पीनोत्तुङ्गघनस्तनां घनलसत्पाटीरपङ्कोज्ज्वलाम् ।

क्षौमावीतनितंबबिंबरशनास्यूतक्वणत् किङ्किणीं

एणांङ्कांबुजभासुरास्यनयनां श्रीभद्रकालीं भजे ॥ ६॥

कालांभोदकलायकोमलतनुच्छायाशितीभूतिमत्-

संख्यानान्तरितस्तनान्तरलसन्मालाकिलन्मौक्तिकाम् ।

नाभीकूपसरोजनालविलसच्छातोदरीशापदीं

दूरीकुर्वयि देवि, घोरदुरितं श्रीभद्रकालीं भजे ॥ ७॥

आत्मीयस्तनकुंभकुङ्कुमरजःपङ्कारुणालंकृत-

श्रीकण्ठौरसभूरिभूतिममरीकोटीरहीरायिताम् ।

वीणापाणिसनन्दनन्दितपदामेणीविशालेक्षणां

वेणीह्रीणितकालमेघपटलीं श्रीभद्रकालीं भजे ॥ ८॥

 भद्रकाली अष्टकम् फलश्रुतिः

देवीपादपयोजपूजनमिति श्रीभद्रकाल्यष्टकं

रोगौघाघघनानिलायितमिदं प्रातः प्रगेयं पठन् ।

श्रेयः श्रीशिवकीर्तिसम्पदमलं सम्प्राप्य सम्पन्मयीं

श्रीदेवीमनपायिनीं गतिमयन् सोऽयं सुखी वर्तते ॥

इति श्रीनारायणगुरुविरचितं श्रीभद्रकाल्यष्टकं सम्पूर्णम् ।

Post a Comment

0 Comments