कालीमेधादीक्षितोपनिषत्
माँ काली के ध्यान,मन्त्र जप,पूजन करते समय कालीमेधादीक्षितोपनिषत् का पाठ करें ।
कालीमेधादीक्षितोपनिषत्
अथाह वै देवानां पत्नीं भजते ।
तस्योपासकोऽन्यां गच्छन् ॐअथैनां
मेधादीक्षितरूपिणीं भावयेत् ।
स शिवो भवेत् ।
स कालीरूपो भवेत् ।
सोऽयं मेधास्पर्शमणिकालीं दीक्षयेत्
।
ततश्चिन्तामणिकालीं दीक्षयेत् ।
ततः सिद्धकाल्यधिकारी भवेत् ।
ततो विद्याराज्ञीं जपेत् ।
ततः कामकलाकालीं परारूपिणीं जपेत् ।
ततश्चरणदीक्षारूपिणीं हंसकालीं
यजेत् ।
रक्तशुक्लमिश्रनिर्वाणरूपिणीं यजेत्
।
सर्वनिर्वाणदीक्षितो भवेत् ।
ततः शाम्भवादीक्षितो भवेत् ।
गुह्यकाल्यधिष्ठितो भवेत् ।
शिवो भवेत् ।
स परारूपो भवेत् ।
परात् पररूपो भवेत् ।
परात् परातीतरूपो भवेत् ।
चित्परारूपो भवेत् ।
चित्परात् परारूपो भवेत् ।
चित्परात् परातीतरूपो भवेत् ।
ब्रह्मविष्णुरुद्रेश्वरसदाशिवमहाकालचित्पराम्बारूपो
भवेत् ।
स ब्रह्मत्वं गच्छति ।
मेधादीक्षां लभेत् ।
मेधादीक्षातः परा दीक्षा न विद्यत
इत्याह भगवान् शिवः ।
स्पर्शविद्यया देहशुद्धिर्भवेत् ।
ततश्चिन्तामाणिविद्याधिकारी
विद्याराज्ञीं लभेत् ।
विद्याराज्यधिकारी तु षोढां जपेत् ।
तुर्याषोढाधिकारी कामकलां जपेत् ।
कामकलाधिकारी चरणरूपिणीं जपेत् ।
हंसदीक्षितो भवेत् ।
चरणाधिकारी षट्छाम्भवसम्पन्नो भवेत्
।
गुह्यकाल्यधिष्ठितो भवेत् ।
ततो मेधां चरेत् ।
जीवको हि भूङ्गत्वं गच्छति ।
भूरङ्गीभूत्वा षट् चक्राणि
निर्भिन्द्यात् ।
ततः परागभुग्भवेत् ।
परकायप्रवेशवान वयस्स्थैर्यं चरेत्
।
कामरूपत्वं गच्छति ।
षष्टिसिद्धीश्वरो भवेदिति शिवप्रोक्तं
वेद ॥
(शाक्त-उपनिषदः)
इत्याथर्वणे सौभाग्यकाण्डे
कालीमेधादीक्षितोपनिषत् समाप्ता ।
0 Comments