सुधाधाराकाली स्तोत्रम्
जैसे की आपको पहले से विदित है कि- महाकाल
संहिता एक विशाल ग्रन्थ है । गुह्यकाली के विषय में भी इस तन्त्र में वर्णन मिलता
है। महाकालसंहिता में गुह्यकाली खंड का प्रारंभ पटल संख्या १८१ से प्रारम्भ होता
है । यहाँ प्रस्तुत सुधाधाराकाली स्तोत्रम् जिसे की श्रीगुह्यकाल्याः
सुधाधारास्तवः भी कहते हैं, महाकालसंहिता में गुह्यकाली खंड से ही लिया गया है।
सुधाधाराकाली स्तोत्रम्
अचिन्त्यामिताकारशक्तिस्वरूपा
प्रतिव्यक्त्यधिष्ठानसत्त्वैकमूर्तिः ।
गुणातीतनिर्द्वन्द्वबोधैकगम्या
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १॥
अगोत्राकृतित्वादनैकान्तिकत्वात्
अलक्ष्यागमत्वादशेषाकरत्वात् ।
प्रपञ्चालसत्वादनारम्भकत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २॥
असाधारणत्वादसम्बन्धकत्वात्
अभिन्नाश्रयत्वादनाकारकत्वात् ।
अविद्यात्मकत्वादनाद्यन्तकत्वात्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३॥
यदा नैव धाता न विष्णुर्न रुद्रो
न कालो न वा पञ्चभूतानि नाशा ।
तदा कारणीभूतसत्वैकमूर्तिः
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ४॥
न मीमांसका नैव कालादितर्का
न साङ्ख्या न योगा न वेदान्तवेदाः ।
न देवा विदुस्ते निराकारभावं
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ५॥
न ते नामगोत्रे न ते जन्ममृत्यू
न ते धामचेष्टे न ते दुःखसौख्ये ।
न ते मित्रशत्रू न ते बन्धमोक्षौ
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ६॥
न बाला न च त्वं वयस्का न वृद्धा
न च स्त्री न षण्ढः पुमान्नैव च त्वम् ।
न च त्वं सुरो नासुरो नो नरो वा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ७॥
जले शीतलत्वं शुचौ दाहकत्वं
विधौ निर्मलत्वं रवौ तापकत्वम् ।
तवैषाम्बिके यस्य कस्यापि शक्तिः
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ८॥
पपौ क्ष्वेडमुग्रं पुरा यन्महेशः
पुनः संहरत्यन्तकाले जगच्च ।
तवैव प्रसादान्न च स्वस्य शक्त्या
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ९॥
करालाकृतीन्याननानि श्रयन्ती
भजन्ती करास्त्रादि बाहुल्यमित्थम् ।
जगत्पालनायाऽसुराणां वधाय
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १०॥
रुचन्ती शिवाभिर्वहन्ती कपालं
जयन्ती सुरारीन् वधन्ती प्रसन्ना ।
नटन्ती पतन्ती चलन्ती हसन्ती
त्वमेका परब्रह्मरूपेण सिद्धा ॥ ११॥
अपादाऽपि वाताधिकं धावसि त्वं
श्रुतिभ्यां विहीनाऽपि शब्दं शृणोषि ।
अनासाऽपि जिघ्रस्यनेत्राऽपि पश्य-
स्यजिह्वाऽपि नानारसास्वादविज्ञा
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १२॥
यथा बिम्बमेकं रवेरम्बरस्थं
प्रतिच्छायया यावदेकोदकेषु ।
समुद्भासतेऽनेकरूपं यथावत्
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १३॥
यथा भ्रामयित्वा मृदं चक्रमध्ये
कुलालो विधत्ते शरावे घटं च ।
महामोहयन्त्रेषु भूतान्यशेषान्
तथा मानुषांस्त्वं सृजस्यादिसर्गे ॥ १४॥
त्वमेका परब्रह्मरूपेण सिद्धा ॥
यथा रङ्गरज्वर्कदृष्टिष्वकस्मात्
नॄणां रूपदर्वीकराम्बुभ्रमः स्यात् ।
जगत्यत्र तत्तन्मये तद्वदेव ।
त्वमेकैव तत् तन्निदत्ता समस्तम् ॥ १५॥
त्वमेका परब्रह्मरूपेण सिद्धा ॥
महाज्योतिरेकार सिंहासनं यत्-
स्वकीयान् सुरान् वाहयस्युग्रमूर्ते
अवष्टभ्य पद्भ्यां शिवं भैरवं च ।
स्थिता तेन मध्ये भवत्यैव मुख्या
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १६॥
कुयोगासने योगमुद्राभ्यनीतिः
कुशोभायुपोतस्य बालाननं च
जगन्मातरादृक् तवाऽपूर्वलीला ।
कथं कारमस्मद्विधैर्देवि गम्या
त्वमेका परब्रह्मरूपेण सिद्धा ॥ १७॥
विशुद्धा परा चिन्मयी स्वप्रकाशा-
मृतानन्दरूपा जगद्व्यापिका च ।
तवेतद्विधा या निजाकारमूर्तिः
किमस्माभिरन्तर्हृदि ध्यायितव्या ॥
१८॥
त्वमेका परब्रह्मरूपेण सिद्धा ॥
महाघोरकालानलज्वलज्ज्वाला
हित्यत्त्यन्तवासा महाटाट्टहासा ।
जटाभारकाला महामुण्डमाला
विशाला त्वमीदृङ्मया ध्यायशम्ब ॥ १९॥
त्वमेका परब्रह्मरूपेण सिद्धा ॥
तपो नैव कुर्वन् वपुः सीदयामि
व्रजन्नापि तीर्थं पदे खञ्जयामि ।
पठन्नापि वेदान् जनिं यापयामि
त्वदङ्घ्रिद्वयं मङ्गलं साधयामि ॥ २०॥
त्वमेका परब्रह्मरूपेण सिद्धा ॥
तिरस्कुर्वतोऽन्यामरोपासनार्चे
परित्यक्तधर्माध्वरस्यास्य जन्तोः ।
त्वदाराधनान्यस्तचित्तस्य किं मे
करिष्यन्त्यमी धर्मराजस्य दूताः ॥ २१॥
त्वमेका परब्रह्मरूपेण सिद्धा ॥
न मन्ये हरिं नो विधातारमीशं
न वह्निं न ह्यर्कं न चेन्द्रादिदेवान् ।
शिवोदीरितानेकवाक्यप्रबन्धैः
त्वदर्चाविधानं विशत्वम्ब मत्यां ॥ २२॥
त्वमेका परब्रह्मरूपेण सिद्धा ॥
नरा मां विनिन्दन्तु नाम त्यजेन्मां
त्यजेद्बान्धवा ज्ञातयः सन्त्यजन्तु ।
यमीया भटा नारके पातयन्तु
त्वमेका गतिर्मे त्वमेका गतिर्मे ॥ २३॥
त्वमेका परब्रह्मरूपेण सिद्धा ॥
महाकालरुद्रोदितस्तोत्रमेतत्
सदा भक्तिभावेन योऽध्येति भक्तः
न चापन्न न शोको न रोगो न मृत्यु-
र्भवेत् सिद्धिरन्ते च कैवल्यलाभः
त्वमेका परब्रह्मरूपेण सिद्धा ॥ २४॥
इदं शिवायाः कथितं सुधाधाराख्यं
स्तवं ।
एतस्य सतताभ्यासात् सिद्धिः
करतलेस्थिता ॥
एतत्स्तोत्रं च कवचं पद्यं
त्रितयमप्यदः ।
पठनीयं प्रयत्नेन नैमित्तिकसमर्पणे
॥
सौम्येन्दीवरनीलनीरदघटाप्रोद्दामदेहच्छटा
लास्योन्मादनिनादमङ्गलचयैः
श्रोण्यन्तदोलज्जटाः ।
सा काली करवालकालकलना हन्त्वश्रियं
चण्डिका
काली
क्रोधकरालकालभयदोन्मादप्रमोदालया
नेत्रोपान्तकृतान्तदैत्यनिवहाप्रोद्दान
देहामया ।
पायाद्वो जयकालिका प्रवलिका
हुङ्कारघोरानना
भक्तानामभयप्रदा विजयदा
विश्वेशसिद्धासना ॥
करालोन्मुखी कालिका भीमकान्ता
कटिव्याघ्रचर्मावृता दानवन्ता ।
हूं हूं कड्मडी नादिनी कालिका तु
प्रसन्ना सदा नः प्रसन्नान् पुनातु ॥
इति श्रीसुधाधाराकाली स्तोत्रम्
समाप्तम् ॥
इति महाकालसंहितायां श्रीगुह्यकाल्याः सुधाधारास्तवः सम्पूर्णः॥
0 Comments