वैदिक शिव पूजन विधि

वैदिक शिव पूजन विधि 

किसी भी पूजन से पूर्व पूजन सामाग्री को यथाक्रम यथास्थान रखकर पूर्व या उत्तर दिशा की ओर मुख करके शुद्ध आसन पर बैठकर पहले आचमन और प्राणायाम, पवित्री-धारण, शरीर-शुद्धि और आसन-शुद्धि कर लेनी चाहिये। तत्पश्चात् स्वस्ति का पाठ करे, फिर संकल्प कर गौरी-गणपति पूजन, कलश स्थापन, पुण्याहवाचन और नवग्रह मण्डल का पूजन करना चाहिये । इन पूजन विधियों के लिए  डी पी कर्मकांड की सीरीज का अवलोकन करें। इसके बाद भगवान शिव का वैदिक पूजन करने के लिए पहले शिव-परिवार उनके परिकर-परिच्छद एवं पार्षदों का पूजन करना चाहिये । तत्पश्चात् ही भगवान शिव जी का पूजन प्रारम्भ करें-

वैदिक शिव पूजन विधि Shiv pujan

शिव पूजन विधि

Shiv pujan

शिव पूजन सरल विधि

गणेश -पूजन

ॐ लम्बोदरं महाकायं गजवक्त्रं चतुर्भुजम् ।

आवाहयाम्यहं देवं गणेशं सिद्धिदायकम्  ॥

पूजन पश्चात् प्रार्थना करे -

ॐ गजवदनमचिन्त्यं तीक्ष्णदंष्टं̭ त्रिनेत्रं

वृहदुदरमशेषं थ्नूतिराजं पुराणम् ।

अमरवरसुपूज्यं  रख्नवर्णं सुरेशं पशुपति

सुतमीशं विघ्नराजं नमामि सकलविघ्नविनाशनद्वारा ॥                                           

माता पार्वती-पूजन

ॐ रेमादि तनयां देवी वरदां शङ्करप्रियाम् ।

लम्बोदरस्य जननीं त्वं पुजां करोम्यहम् ॥

पूजन पश्चात् प्रार्थना करे -

ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।

ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥

कार्तिकेय-पूजन

ॐ यदक्रन्द: प्रथमं जायमान

उद्यन्त्समुद्रादुत वा पुरीषात् ।

श्येनस्य पक्षा हरिणस्य बाहू

उपस्तुत्यं महि जातं ते अर्वन् ॥

पूजन पश्चात् प्रार्थना करे --

ॐ यत्र बाणा: सम्पतन्ति कुमारा विशिखा इव ।

तन्न इन्द्रो बृहस्पतिरदिति: शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥

नन्दीश्वर-पूजन

ॐ महाकालयम महावीर्यं शिव वाहनं उत्तमम

गणनामत्वा प्रथम वन्दे नंदिश्वरम महाबलम ॥

पूजन पश्चात् प्रार्थना करे -

ॐ प्रैतु वाजी कनिक्रदन्नान्दद्रासभ: पत्वा ।

भरन्नग्निं पुरीष्यं मा पाद्यायुष: पुरा ॥

वीरभद्र-पूजन

ॐ कुद्रु: सदुष्टष्ठपुट: स धर्जटिजर्टां

तडिद्वहिलसटोग्ररोचिषम् ।

उत्कृत्य रुद्र: सहसोत्थितो हसन्

गम्भीरनादो विससर्ज तां भुवि ॥

ततोऽतिकायस्तनुवा  स्पृशन्दिवं ।

पूजन पश्चात् प्रार्थना करे -

ॐ भद्रो नो अग्निराहुतो भद्रा राति:

सुभग भद्रो अध्वर: ।

भद्रा उत प्रशस्तय: ॥

कुबेर-पूजन

ॐ कुविदग्ङ  यवमन्तो यवं

चिद्यथा दान्त्यनुपूर्व वियूय ।

इहेहैषां कृणुहि भोजनानि ये

बर्हिषो नम उक्तिं यजन्ति ॥

पूजन पश्चात् प्रार्थना करे --

ॐ वय सोम व्रते तव मनस्तनूषु बिभ्रत: ।

प्रजावन्त: सचेमहि ॥

कीर्तिमुख-पूजन

ॐ असवे स्वाहा वसवे स्वाहा

विभुवे स्वाहा विवस्वते स्वाहा

गणश्रिये स्वाहा गणपतये स्वाहाऽभिभुवे

स्वाहाऽधिपतये स्वाहा शूषाय स्वाहा स

सर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा

मलिम्लुचाय स्वहा दिवा पतयते स्वाहा ॥

पूजन पश्चात् प्रार्थना करे --

ॐ ओजश्च मे सहश्च म आत्मा च मे

तनूश्च मे शर्म च मे वर्म च मेंऽगानि

च मेऽस्थीनि च मे परु षि च मे

शरीराणि च मे आयुश्च मे

जरा च मे यज्ञेन कल्पन्ताम् ।

सर्प-पूजन

ॐ सर्वे नागा: प्रीयन्तां मे ये केचित् पृथिवीतले ।

ये च हेलिमरीचिस्था येऽन्तरे दिवि संस्थिता:॥

ये नदीषु महानागा ये सरस्वतिगामिन:।

ये च वापीतड़ागेषु तेषु सर्वेषु वै नम:॥

पूजन पश्चात् प्रार्थना करे --

ॐ अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलं

शन्खपालं ध्रूतराष्ट्रं च तक्षकं कालियं तथा

एतानि नव नामानि नागानाम च

महात्मनं सायमकाले पठेन्नीत्यं प्रातक्काले

विशेषतः तस्य विषभयं नास्ति सर्वत्र विजयी भवेत ll

ॐ नव कुलाय विध्महे विषदन्ताय

धी माहि तन्नो सर्प प्रचोदयात ll

वैदिक शिव पूजन विधि

शिव पूजन प्रारम्भ-

शिव पूजन करने के लिए हाथ में विविध सामाग्री लेकर मंत्रोच्चार पश्चात्  शिवजी को अर्पित(चढ़ाते)जाएँ-

शिवजी का ध्यान -

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं

रत्नाकल्पोज्ज्वलान्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।

पद्मासीनं समन्तात् स्तुतममरगणैव्यघ्रिकृति वसानं

विश्वद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

ॐ नमस्ते रुद्र मन्यव उतो त इषवे नम: ।

बाहुभ्यामुत ते नम: ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

ध्यानार्थे बिल्वपत्रं समर्पयामि। (अक्षत व बिल्वपत्र चढ़ा दे)

आसन --

ॐ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी।

तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

आसनार्थे बिल्वपत्राणी समर्पयामि । (आसन के लिये बिल्वपत्र चढ़ाये)

पाद्य-

ॐ वामिषुं गिरिशन्तं हस्ते बिभर्ष्यस्तवे ।

शिवां गिरित्र तां कुरु मा हि सी: पुरुषं जगत् ॥

पादयो: पाद्यं समर्पयामि । (जल चढ़ाये )

अर्घ्य -

ॐ शिवने वचसा त्वा गिरिशाच्छा वदामसि ।

यथा न: सर्वमिज्जगदयक्ष्म सुमना असत् ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

हस्तयोरर्घ्य समर्पयामि । (अर्घ्य समर्पित करे )

आचमन --

ॐ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।

अर्हीश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योऽधराची: परा सुव ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

आचमनीयं जलं समर्पयामि । (जल चढ़ाये )

स्नान

ॐ वरुणस्योत्तम्भनमसि वरुणस्य

सकम्भ सर्ज्जनीस्थो ।

वरुणस्य ऋतसदन्यसि वरुणस्य

ऋतसदनमसि वरुणस्य ऋतसदनमासीद् ॥

ॐ असौ यस्ताम्रो अरुण उत बभ्रु: सुमन्ग्ड़ल: ।

ये चैन रुद्रा अभितो दिक्षु श्रिता: सहस्त्रशोऽवैषा हेड ईमहे ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

स्नानीयं जलं समर्पयामि ।

स्नानान्ते आचमनीयं जलं च समर्पयामि । 

( स्नानीय और आचमनीय जल चढ़ाये )

पय:स्नान --

ॐ पय: पृथिव्यां पय ओषधीषु

पयो दिव्यन्तरिक्षे पयो धा: ।

पयस्वती: प्रदिश: सन्तु मह्यम् ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

पय:स्नानं समर्पयामि ।

पय:स्नानान्ते शुध्दोदक स्नानं समर्पयमि,

शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि । 

(दूध से स्नान कराये, पुन: शुध्द जल से स्नान कराये और आचमन के लिये जल चढा़ये)

दधिस्नान --

ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिन: ।

सुरभि नो मुखा करत्प्र ण आयू षि तारिषत् ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

दधिस्नानं समर्पयामि ।

दधिस्नानान्ते शुध्दोदक स्नानं समर्पयामि,

शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।

(दही से स्नान कराकर शुध्द जल से स्नान कराये तथा आचमन के लिये जल चढ़ाये)

घृतस्नान --

ॐ घृतं मिमिक्षे घृतमस्य

योनिर्घृते श्रितो घृतम्वस्य धाम ।

अनुष्वधमा वह मादयस्व

स्वाहाकृतं वृषभ वक्षि हव्यम् ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

घृतस्नानं समर्पयामि ।

घृतस्नानान्ते शुध्दोदकस्नानं समर्पयामि,

शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।

(घृत से स्नान कराकर शुध्द जल से स्नान कराये और पुन: आचमन के लिये जल चढ़ाये)

मधुस्नान --

ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धव: ।

माध्वीर्न: सन्त्वोषधी: ॥

मधु नक्तमुतोषसो मधुमत्पार्थिव रज: ।

मधु द्यौरस्तु न: पिता ॥

मधुमान्नो वनस्पतिर्मधुमाँ२ अस्तु सूर्य: ।

माध्वीर्गावो भवन्तु न: ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

मधुस्नानं समर्पयामि ।

मधुस्नानान्ते शुध्दोदकस्नानं समर्पयामि,

शुध्दोदकस्नानान्ते आचमनीयं जल समर्पयामि । 

(मधु से स्नान कराकर शुध्द जल से स्नान कराये तथा आचमन के लिये जल चढ़ाये)

शर्करास्नान --

ॐ अपारसमुद्रयस सूर्ये सन्त समाहितम् ।

अपा रसस्य यो रसस्तं वो गृह्माम्युत्तममुपयामगृहीतो-

ऽसीन्द्राय त्व जुष्टं गृह्माम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

शर्करास्नानं समर्पयामि ।

शर्करास्नानान्ते शुध्दोदकस्नानं समर्पयामि,

शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि । 

(शर्करा से स्नान कराकर शुध्द जल से स्नान कराये तथा आचमन के लिये जल चढा़ये)

पञ्चामृतस्नान --

ॐ पञ्च नद्य: सरस्वतीमपि यन्ति सस्त्रोतस: ।

सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥

ॐ भूर्भव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवय नम:,

पञ्चामृतस्नानं समर्पयामि ।

पञ्चामृतस्नानान्ते शुध्दोदकस्नानं समर्पयामि,

शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि । 

पञ्चामृत से स्नान कराकर शुध्द जल से स्नान कराये तथा आचमन के लिये जल चढा़ये )

गन्धोदकस्नान --

ॐ अ शुना तेअ शु: पृच्यतां परुषा परु: ।

गन्धस्ते सोममवतु मदाय रसो अच्युत: ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

गन्धोदकस्नानं समर्पयामि ।

गन्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि । 

( गन्धोदक से स्नान कराकर आचमन के लिये जल चढा़ये )

शुध्दोदकस्नान --

ॐ शुध्दवाल: सर्वशुध्दवालो मणिवालस्त आश्विना:

श्येत: श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा

यामा अवलिप्ता रौद्रा नभोरुपा: पार्जन्या ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

शुध्दोदकस्नानं समर्पयामि । 

( शुध्द जल से स्नान कराये )

आचमनीय जल --

ॐ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।

अहींश्च सर्वाञ्चम्भयन्त्सर्वश्च यातुधान्योऽधराची: परा सुव ॥

ॐ भूर्भूव: स्व: श्रीनर्मदेश्वरसाम्बदाशिवाय नम:,

आचमनीयं जलं समर्पयामि । 

( आचमन के लिये जल चढा़ये )

अभिषेक --

शिव पूजन में शुध्द जल, गंगाजल अथवा दुग्धादि से लिंगाष्टक स्त्रोतम्, शिवमहिम्न स्तोत्रम् अथवा रुद्राष्टाध्यायी आदि से अथवा निम्न मन्त्रों का पाठ करते हुए शिवलिंग का अभिषेक करे --

ॐ नमस्ते रुद्र मन्यव उतो त इषवे नम: ।

बाहुभ्यामुत ते नम: ॥

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ॥

तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥

यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।

शिवां गिरित्र तां कुरु मा हि सी: पुरुषं जगत् ॥

शिवेन न: सर्वमिज्जगदयक्ष्म सुमना असत् ॥

अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।

अहींश्च सर्वाञ्चम्भयन्त्सर्वाश्च यातुधान्योऽधराची: परा सुव ॥

असौ यस्ताम्रो अरुण उत बभ्रु: सुमन्ड़ल: ।

ये चैन रुद्रा अभितो दिक्षु श्रिता: सहस्त्रशोऽवैषा हेड ईमहे ॥

असौ योऽवसर्पति नीलग्रीवो विलोहित:।

उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्य: स दूष्टो मृडयाति न: ॥

नमोऽस्तु नीलग्रीवाय सहस्त्राक्षाय मीढुषे ।

अथो ये अस्य स्त्वनोऽहं तेभ्योऽकरं नम: ॥

प्रमुञ्च  धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्

याश्च ते हस्त इषव: परा ता भगवो वप ॥

विज्यं धनु: कपर्दिनो विशल्यो बाणवाँ२ उत ।

अनेशन्नस्य या इषव आभुरस्य निषन्ड़धि: ॥

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनु: ।

तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परि भुज ॥

परि ते धन्वनो हेतिरस्मान्वृणक्त विश्वत: ।

अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् ॥

अवतत्य धनुष्य सहस्त्राक्ष शतेषुधे ।

निशीर्य शल्यानां मुखा शिवो न: सुमना भव ॥

नमस्त आयुधायानातताय धृष्णवे ।

उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।

मा नो वधी: पितरं मोत मातरं मा न: प्रियास्तन्वो रुद्र रीरिष: ॥

मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिष: ।

मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्त: सदमित त्वा हवामहे ॥

अभिषेक के अनन्तर शुध्दोदक-स्नान कराये । तत्पश्चात् 'ॐ द्यौ: शान्ति:' शान्तिक मन्त्रों से शान्त्यभिषेक करें।

वस्त्र --

ॐ असौ योऽवसर्पति नीलग्रीवो विलोहित: ।

उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्य: स दृष्टो मृडयाति न: ॥

ॐ भूर्भूव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

वस्त्रं समर्पयामि, वस्त्रान्ते आचमनीयं जलं समर्पयामि ।

(वस्त्र चढा़ये तथा आचमन के लिये जल चढा़ये )

यज्ञोपवीत --

ॐ ब्रह्म ज्ज्ञानप्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः। 

स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः॥

ॐ नमोऽस्तु नोलग्रीवाय सहस्त्राक्षाय मीढुषे ।

अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नम: ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

यज्ञोपवीतं समर्पयामि ।

यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

(यज्ञोपवीत सम्रर्पित करे तथा आचमन के लिये जल चढा़ये)

उपवस्त्र --

ॐ सुजातो ज्योतिषा सह शर्म वरुथमाऽसदत्स्व: ।

वासो अग्ने विश्वरुप सं व्यवस्व विभावसो ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

उपवस्त्रं समर्पयामि, उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।

(उपवस्त्र चढ़ाये आचमन के लिये जल चढ़ाये)

गन्ध--

ॐ नमः श्वभ्यः श्वपतिभ्यश्च वो नमो

नमो भवाय च रुद्राय च नमः। 

शर्वाय च पशुपतये च नमो

नीलग्रीवाय च शितिकण्ठाय च ॥

ॐ प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम् ।

याश्च ते हस्त इषव: परा ता भगवो वप ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरासाम्बसदाशिवाय नम:,

गन्धानुलेपनं समर्पयामि । (चन्दन लगावें)

( शिव पूजन में शिव लिंग पर भस्म चढ़ाने का विधान है)

भस्म

अग्निहोत्र समुदभूतं विरजाहोमपाजितम,

गृहाण भस्म हे स्वामिन  भक्तानां भूतिदाय ॥

सर्वपापहरं भस्म दिव्यज्योति स्समप्रभम् ।

सर्वक्षेमकरं पुण्यं गृहाण परमेश्वर ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

भस्मस्नान समर्पयामि । (भस्मचढ़ाये )

सुगन्धित द्रव्य --

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

सुगन्धिद्रव्यं समर्पयामि । ( सुगन्धित द्र्व्य चढ़ाये )

अक्षत --

ॐ व्रीहयश्च मे यवाश्च मे माषाश्च मे

तिलाश्च मे मुद्गाश्च मे खल्वाश्व मे

प्रियड्गवश्च मेऽणवश्च मे श्यामाकाश्च मे

नीवाराश्च मे गोधूमाश्च मे

मसूराश्च मे यज्ञेन कल्पन्ताम् ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

अक्षतान् समर्पयामि । ( अक्षत चढा़ये )

पुष्पमाला --

ॐ नमः पार्याय चावार्याय च नमः

प्रतरणाय चोत्तरणाय च । 

नमस्तीर्थ्याय च कूल्याय च नमः

शष्प्याय च फेन्याय च ॥

ॐ विज्यं धनु: कपर्दिनो विशल्यो बाणवाँ२ उत ।

अनेशन्नस्य या इषव आभुरस्य निषनॆड़्धि: ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

पुष्पमालां समर्पयामि । (पुष्प्माला पहनावें)

बिल्वपत्र --

ॐ नमो बिल्मिने च कवाचिने च

नमो वर्मिणे च वरुथिने च नम:। 

श्रुताय च श्रुतसेनाय च

नमो दुन्दुभ्याय चाहनन्याय च ॥

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम् ।

त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

बिल्वपत्राणि समर्पयामि । ( बिल्वपत्र चढ़ाये )

शिव पूजन में बिल्वाष्टकं, रूद्रसूक्तं, त्वरित रूद्रं, रुद्राष्टकं अथवा महालिंगम् स्तोत्र का पाठ करते हुए शिव लिंग पर बिल्वपत्र चढ़ाते जाएँ।

शमीपत्र

अमंगलानां च शमनीं शमनीं दुष्कृतस्य च ।

दु:स्वप्रनाशिनीं धन्यां प्रपद्येहं शमीं शुभाम् ।।

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

शमीपत्राणि समर्पयामि । (शमीपत्र चढ़ाये )

नानापरिमलद्रव्य --

ॐ अहिरिव भोगै: पर्येति बाहुं

ज्याया हेतिं परिबाधमान: ।

हस्तघ्नो विश्वा वयुनानि विद्वान्

पुमान् पुमा सं परि पातु विश्वत: ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

नानापरिमल द्रव्याणि समर्पयामि ।

(विविध परिमलद्रव्य चढ़ाये)

शिव पूजन करने के लिए हाथ में अक्षत व बिल्वपत्र लेकर शिव जी के अंगो का पूजन करें-

ॐ अघोराय नम:पादौ पूजयामि ।

ॐ शर्वाय नम:जङ्घे पूजयामि ।

ॐ विरूपाक्षाय नम:जानुनी पूजयामि ।

ॐ विश्वरूपिणे नम:गुल्फौ पूजयामि ।

ॐ त्र्यम्बकाय नम:गुह्यां पूजयामि ।

ॐ कपर्दिने नम:नाभि पूजयामि ।

ॐ भैरवाय नम:उदरं पूजयामि ।

ॐ शूलपाणये नम:नेत्र: पूजयामि ।

ॐ ईशानाय नम: शिर: पूजयामि ।

ॐ महेश्वराय नम:सर्वाङ्ग पूजयामि ।

धूप --

ॐ नमः कपर्दिने च व्युप्त केशाय च

नमः सहस्त्राक्षाय च शतधन्वने च । 

नमो गिरिशयाय च शिपिविष्टाय च

नमो मेढुष्टमाय चेषुमते च ॥

ॐ या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनु: ।

तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परि भुज ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

धूपमा घ्रापयामि । (धूप दें )

दीप --

ॐ नमः आराधे चात्रिराय च

नमः शीघ्रयाय च शीभ्याय च । 

नमः ऊर्म्याय चावस्वन्याय च

नमो नादेयाय च द्वप्याय च ॥

ॐ परि ते धन्वनो हेतिरस्मान् वृणवतु विश्वत: ।

अथो य इषुधिस्तवारे अस्मन्नि धेहि तम् ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

दीपं दर्शयामि॥  (दीप दिखलाये और हाथ धो ले)

नैवेद्य --

ॐ नमो ज्येष्ठाय च कनिष्ठाय च

नमः पूर्वजाय चापरजाय च । 

नमो मध्यमाय चापगल्भाय च

नमो जघन्याय च बुधन्याय च ॥

ॐ अवतत्य धनुष्ट्व सहस्त्राक्ष शतेषुधे ।

निशीर्य शल्यानां मुखा शिवो न: सुमना भव ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:

नैवेद्यं निवेदयामि ।

नैवेद्यान्ते ध्यानम्,

ध्यानान्ते आचमनीयं जलं समर्पयामि ।

(नैवेद्य निवेदित करे, तदनन्तर भगवान् का ध्यान करके आचमनके लिये जल चढ़ाये )

करोद्वर्तन --

ॐ सिञ्चति अप्रि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च ।

सुरायै बभ्रूवै मदे किन्त्वो वदति किन्त्व: ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

करोद्वर्तनार्थे चन्दनानुलेपनं समर्पयामि । (चन्दन का चढ़ाये)

ऋतुफल --

ॐ या: फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी: ।

बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हस: ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

ऋतुफलानि समर्पयामि ॥ (ऋतुफल समर्पित करे)

धतूराफल-

ॐ कार्षिरसि समुद्रस्य त्वाक्षित्या उन्नयामि ।

समापो अद्भिररग्मत समोषधिभिरोषधि: ॥

धीरधैर्यपरीक्षार्थं धारितं परमेष्ठिना ।

धत्तूरं कण्टकाकीर्णं गृहाण परमेश्वर ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

धतूराफलानि समर्पयामि॥ (धतूराफल समर्पित करे)

ताम्बूल-

ॐ इमा रुद्राय तवसे कपर्दिने

क्षयद्वीराय प्रभरामहे मतीः । 

यशा शमशद् द्विपदे चतुष्पदे विश्वं

पुष्टं ग्रामे अस्तिमन्ननातुराम् ॥

ॐ नमस्त आयुधायानातताय धृष्णवे ।

उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥

ॐ भूर्भूव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

मुखवासार्थे सपूगीफलं ताम्बूलपत्रं समर्पयामि ।

( पान और सुपारी चढ़ाये )

दक्षिणा --

ॐ यद्दत्तं यत्परादान यत्पूर्त याश्च दक्षिणा: ।

तदाग्निर्वैश्वकर्मण: स्वर्देवेषु नो दधत् ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

कृताया: पूजाया: सादुण्यार्थे द्रव्यदक्षिणां समर्यपामि ।

( द्रव्य-दक्षिणा चढ़ाये )               

आरती --

ॐ आ रात्रि पार्थिव रज:

पितुरप्रायि धामभि: ।

दिव: सदा सिबृहती वितिष्ठस

आ त्वेषं वर्तते तम: ॥

इमा रुद्राय तवसे कपर्दिने

क्षयद्वीराय प्र भरामहे मतीः ।

यथा शमसद्द्विपदे चतुष्पदे

विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥

मृळा नो रुद्रोत नो मयस्कृधि

क्षयद्वीराय नमसा विधेम ते ।

यच्छं च योश्च मनुरायेजे पिता

तदश्याम तव रुद्र प्रणीतिषु ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

कर्पूरार्तिक्यदीपं दर्शयामि । (कपूर की आरती करे)

प्रदक्षिणा-

ॐ मा नो महान्तमुत मा नो ऽअर्ब्भकं

मा न ऽउक्षन्तमुत मा न ऽउक्षितम् ।

मा नो व्वधी: पितरं मोत मातरं

मा न: प्रियास्तन्वो रुद्र रीरिष: ॥

मा नस्तोके तनये मा न आयौ

मा नो गोषु मा नो अश्वेषु रीरिषः ।

वीरान्मा नो रुद्र भामितो

वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥

ॐ भूर्भुव: स्व: श्रीनर्मदेश्वरसाम्बसदाशिवाय नम:,

प्रदक्षिणां समर्यपामि। (प्रदक्षिणा करे )

पुष्पाञ्जलि-

नमः सर्वहितार्थाय जगदाधार हेतवे ।

साष्टांगोयं प्रणामस्ते प्रयत्नेन मया कृत:।।

पापोहं पाप कर्माहं पापात्मा पाप संभव:।

त्राहि मां पार्वतीनाथ सर्वपापहरो भव ।।

पुजां अहं न जानामि त्वं शरणं जगदीश्वरं

सर्व पाप हरो शिव अभयं करोमि महेश्वरं ॥

मङ्गलं भगवान शम्भु मङ्गलं वृषभध्वजः ।

मङ्गलं पार्वतीनाथो मंगलायतनो शिव: ॥

अथ मन्त्र पुष्पाञ्जलि:

ॐ भूर्भुवः स्व: श्रीनर्मदेश्वर साम्बसदाशिवाय नमः,

प्रार्थनापूर्वक नमस्कारान् समर्पयामि॥

(पुष्प अर्पित करें)

प्रार्थना-

नागेंद्रहाराय त्रिलोचनाय

भस्मांग रागाय महेश्वराय । 

नित्याय शुद्धाय दिगंबराय

तस्मै न काराय नम: शिवाय:॥

मंदाकिनी सलिल चंदन चर्चिताय

नंदीश्वर प्रमथनाथ महेश्वराय । 

मंदारपुष्प बहुपुष्प सुपूजिताय

तस्मै म काराय नम: शिवाय:॥

शिवाय गौरी वदनाब्जवृंद

सूर्याय दक्षाध्वरनाशकाय । 

श्री नीलकंठाय वृषभद्धजाय

तस्मै शि काराय नम: शिवाय:॥

वशिष्ठ कुम्भोम्दवगौतमार्य

मुनीन्द्रदेवार्चित शेखराय

चन्द्रार्कवैश्वानरलोचनाय तस्मै

व काराय नम: शिवाय:॥

यक्षस्वरूपाय जटाधराय पिनाकहस्ताय

सनातनाय दिव्याय देवाय दिगम्बराय

तस्मै य काराय नम: शिवाय:॥

अवन्तिकायां विहितावतारं

मुक्तिप्रदानाय च सज्जनानाम् ।

अकालमृत्यो: परिरक्षणार्थं

वन्दे महाकालमहासुरेशम् ।।

सौराष्ट्रदेशे विशदेऽतिरम्ये

ज्योतिर्मयं चन्द्रकलावतंसम् ।

भक्तिप्रदानाय कृपावतीर्णं

तं सोमनाथं शरणं प्रपद्ये ।।

कावेरिकानर्मदयो: पवित्रे

समागमे सज्जनतारणाय ।

सदैव मान्धातृपुरे

वसन्तमोंकारमीशं शिवमेकमीडे ।।

वैदिक शिव पूजन विधि

शिव आरती

ओम जय गंगाधर हर । 

शिव जय गिरिजाधीश,

शिव जय गौरीनाथ ।

त्वं मां पालय नित्यं,

त्वं मां पालय शंभो,

कृपया जगदीश । 

ओम हर हर हर महादेव ॥

कैलासे गिरिशिखरे कल्पद्रुमविपिने,

शिव कल्पद्रुमविपिने,

गुंजति मधुकर पुंजे (२),

कुंजवने गहने ।

कोकिल कूजति खेलति हंसावलिललिता,

शिव हंसा वलिललिता । 

रचयति कलाकलापं (२),

नृत्यति मुदसहिता,

ओम हर हर हर महादेव ॥१॥ 

तस्मिंल्ललितसुदेशे शालामणिरचिता,

शिव शालामणिरचिता । 

तन्मध्ये हरनिकटे (२),

गौरीमुदसहिता क्रीडां रचयति भूषां रंजितनिजमीशं,

शिव रंजितनिजमीशं । 

इन्द्रादिक सुरसेवित,

ब्रम्हादिक सुरसेवित (२) प्रणमति ते शीर्षम,

ओम हर हर हर महादेव ॥ २॥

विबुधवधूर्बहु नृत्यति हृदये मुदसहिता,

शिव हृदये मुदसहिता । 

किन्नरगानं कुरुते (२), सप्तस्वरसहिता ।

धिनकत थै थै धिनकत मृदंग वादयते,

शिव मृदंग वादयते । 

क्वण क्वण ललिता वेणु (२),

र्मधुरं नादयते,

ओम हर हर हर महादेव ॥३॥

रुणु रुणु चरणे रचयति नूपुरमुज्वलितं,

शिव नूपुरमुज्वलितं । 

चक्रावर्ते भ्रमयति (२),

कुरुते तां धिक ताम ।

तां तां लुपचुप तालं नादयते,

शिव तालं नादयते ।

अंगुष्ठांगुलिनादं (२),

लास्यकतां कुरुते,

ओम हर हर हर महादेव ॥४॥

कर्पुरद्युतिगौरं पंचाननसहितं,

शिव पंचाननसहितं । 

त्रिनयनशशिधरमौलि: (२),

विषधरंकण्ठयुतम ।

सुन्दरजटाकलापं पावकयुतभालं

शिव पावकयुतभालं ।

डमरुत्रिशुलपिनाकं(२),

करधृतनृकपालं,

ओम हर हर हर महादेव ॥५॥

शंखनिनादं कृत्वा झल्लरि नादयते,

शिव झल्लरि नादयते । 

नीराजयते ब्रम्हा,

नीराजयते विष्णुर्वेदऋचां पठते ।

इति मृदुचरणसरोजं हृत्कमले धृत्वा,

शिव हृत्कमले धृत्वा । 

अवलोकयति महेशं,

अवलोकयति सुरेशं,

ईशम अभिनत्वा । 

ओम हर हर हर महादेव ॥६॥

रुण्डै: रचयति मालां पन्नगमुपवीतं,

शिव पन्नगमुपवीतं । 

वामविभागे गिरिजा,

वामविभागे गौरी रुपमतिललितम ।

सुन्दरसकलशरीरे कृतभस्माभरणं,

शिवकृतभस्माभरणं । 

इति वृषभध्वजरुपं,

हरशिवशंकररुपं, तापत्रयहरणं,

ओम हर हर हर महादेव ॥७॥

ध्यानं आरति समये हृदये इति कृत्वा,

शिव हृदये इति कृत्वा । 

रामं त्रिजटानाथं (२),

ईशम अभिनत्वा ।

संगीतमेवं प्रतिदिनपठनं यः कुरुते,

शिव पठनं यः कुरुते ।

शिवसायुज्यं गच्छति (२),

भक्त्या यः श्रुणुते । 

ओम हर हर हर महादेव ॥८॥

ओम जय गंगाधर हर,

शिव जय गिरिजाधीश,

शिव जय गौरीनाथ ।

त्वं मां पालय नित्यं,

त्वं मां पालय शम्भो,

कृपया जगदीश ।

ओम हर हर हर महादेव ॥

इति: वैदिक शिव-पूजन विधि: ॥

About कर्मकाण्ड

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 $type={blogger} :

Post a Comment