विष्णुपञ्जरस्तोत्र

विष्णुपञ्जरस्तोत्र

'पञ्जर'का अर्थ है-रक्षक। यह विष्णु का स्तोत्र हम सबका रक्षक है, इसलिये 'विष्णुपञ्जरस्तोत्र' कहा जाता है। यहाँ अग्निपुराण और श्रीब्रह्माण्डपुराण अन्तर्गत विष्णुपञ्जरम् दिया गया है। 

विष्णुपञ्जरस्तोत्र

श्री विष्णुपञ्जरम् अग्निपुराणान्तर्गतम्

विष्णुपञ्जरम् स्तोत्र

श्रीविष्णुपञ्जरस्तोत्र

पुष्कर उवाच 

त्रिपुरञ्जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरं ।

शङ्करस्य द्विजश्रेष्ठ रक्षणाय निरूपितं ॥१॥

पुष्कर कहते हैं-द्विजश्रेष्ठ परशुराम! पूर्वकाल में भगवान् ब्रह्मा ने त्रिपुरसंहार के लिये उद्यत शंकर की रक्षा के लिये 'विष्णुपञ्जर' नामक स्तोत्र का उपदेश किया था।

वागीशेन च शक्रस्य बलं हन्तुं प्रयास्यतः ।

तस्य स्वरूपं वक्ष्यामि तत्त्वं शृणु जयादिमत् ॥२॥

इसी प्रकार बृहस्पति ने बल दैत्य का वध करने के लिये जानेवाले इन्द्र की रक्षा के लिये उक्त स्तोत्र का उपदेश दिया था। मैं विजय प्रदान करनेवाले उस विष्णुपञ्जर का स्वरूप बतलाता हूँ, सुनो ।

विष्णुपञ्जरम् 

विष्णुः प्राच्यां स्थितश्चक्री हरिर्दक्षिणतो गदी ।

प्रतीच्यां शार्ङ्गधृग्विष्णुर्जिष्णुः खड्गी ममोत्तरे ॥३॥

मेरे पूर्वभाग में चक्रधारी विष्णु एवं दक्षिणपार्श्व में गदाधारी श्रीहरि स्थित हैं। पश्चिमभाग में शाङ्गपाणि विष्णु और उत्तरभाग में नन्दक-खङ्गधारी जनार्दन विराजमान हैं।

हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ।

क्रोडरूपी हरिर्भूमौ नरसिंहोऽम्बरे मम ॥४॥

भगवान् हृषीकेश दिक्कोणों में एवं जनार्दन मध्यवर्ती अवकाश में मेरी रक्षा कर रहे हैं। वराहरूपधारी श्रीहरि भूमि पर तथा भगवान् नृसिंह आकाश में प्रतिष्ठित होकर मेरा संरक्षण कर रहे हैं।

क्षुरान्तममलञ्चक्रं भ्रमत्येतत्सुदर्शनं ।

अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ॥५॥

जिसके किनारे के भागों में छुरे जुड़े हुए हैं, वह यह निर्मल 'सुदर्शनचक्र' घूम रहा है। यह जब प्रेतों तथा निशाचरों को मारने के लिये चलता है, उस समय इसकी किरणों की ओर देखना किसी के लिये भी बहुत कठिन होता है।

गदा चेयं सहस्रार्चिःप्रदीप्तपावकोज्ज्वला ।

रक्षोभूतपिशाचानां डाकिनीनाञ्च नाशनी ॥६॥

भगवान् श्रीहरि की यह 'कौमोदकी' गदा सहस्रों ज्वालाओं से प्रदीप्त पावक के समान उज्ज्वल है। यह राक्षस, भूत, पिशाच और डाकिनियों का विनाश करनेवाली है।

शार्ङ्गविस्फूर्जितञ्चैव वासुदेवस्य मद्रिपून् ।

तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन् हन्त्वशेषतः ॥७॥

भगवान् वासुदेव के शार्ङ्गधनुष की टंकार मेरे शत्रुभूत मनुष्य, कूष्माण्ड, प्रेत आदि और तिर्यग्योनिगत जीवों का पूर्णतया संहार करे।

खड्गधारोज्ज्वलज्योत्स्नानिर्धूता ये समाहिताः ।

ते यान्तु शाम्यतां सद्यो गरुडेनेव पन्नगाः ॥८॥

जो भगवान् श्रीहरि की खड्गधारामयी उज्ज्वल ज्योत्स्ना में स्नान कर चुके हैं, वे मेरे समस्त शत्रु उसी प्रकार तत्काल शान्त हो जायें, जैसे गरुड के द्वारा मारे गये सर्प शान्त हो जाते हैं।

ये कूष्माण्डास्था यक्षा ये दैत्या ये निशाचराः ।

प्रेता विनायकाः क्रूरा मनुष्या जम्भगाः खगाः ॥९॥

सिंहादयश्च पशवो दन्दशूकाश्च पन्नगाः ।

सर्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः ॥१०॥

जो कूष्माण्ड, यक्ष, राक्षस, प्रेत, विनायक, क्रूर मनुष्य, शिकारी पक्षी, सिंह आदि पशु एवं डसनेवाले सर्प हों, वे सब-के-सब सच्चिदानन्दस्वरूप श्रीकृष्ण के शङ्खनाद से आहत हो सौम्यभाव को प्राप्त हो जायें।

चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः ।

बलौजसञ्च हर्तारश्छायाविभ्रंशकाश्च ये ॥११॥

ये चोपभोगहर्तारो ये च लक्षणनाशकाः ।

कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ॥१२॥

जो मेरी चित्तवृत्ति और स्मरणशक्ति का हरण करते हैं, जो मेरे बल और तेज का नाश करते हैं तथा जो मेरी कान्ति या तेज को विलुप्त करनेवाले हैं, जो उपभोग सामग्री को हर लेनेवाले तथा शुभ लक्षणों का नाश करनेवाले हैं, वे कूष्माण्डगण श्रीविष्णु के सुदर्शनचक्र के वेग से आहत होकर विनष्ट हो जायें।

बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।

ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् ॥१३॥

देवाधिदेव भगवान् वासुदेव के संकीर्तन से मेरी बुद्धि, मन और इन्द्रियों को स्वास्थ्यलाभ हो।

पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ।

तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ॥१४॥

मेरे आगे-पीछे, दायें-बायें तथा कोणवर्तिनी दिशाओं में सब जगह जनार्दन श्रीहरि का निवास हो। सबके पूजनीय, मर्यादा से कभी च्युत न होनेवाले अनन्तरूप परमेश्वर जनार्दन के चरणों में प्रणत होनेवाला कभी दुखी नहीं होता।

यथा परं ब्रह्म हरिस्तथा परः जगत्स्वरूपश्च स एव केशवः ।

सत्येन तेनाच्युतनामकीर्तनात्प्रणाशयेत्तु त्रिविधं ममाशुभं ॥१५॥

जैसे भगवान् श्रीहरि परब्रह्म हैं, उसी प्रकार वे परमात्मा केशव भी जगत्स्वरूप हैं इस सत्य के प्रभाव से तथा भगवान् अच्युत के नामकीर्तन से मेरे त्रिविध पापों का नाश हो जाय ।

इत्यादिमहापुराणे आग्नेये विष्णुपञ्जरं नाम सप्तत्यधिकद्विशततमोऽध्यायः ।।

इस प्रकार आदि आग्नेय(अग्नि) महापुराण में " श्रीविष्णुपञ्जरस्तोत्र का कथन' नामक दो सौ सत्तरवां अध्याय पूरा हुआ॥ २७० ॥

श्रीविष्णु पञ्जर स्तोत्रम् श्रीब्रह्माण्डपुराणान्तर्गतम्

श्रीगणेशाय नमः ।

ॐ अस्य श्रीविष्णुपञ्जरस्तोत्रमन्त्रस्य नारद ऋषिः । अनुष्टुप् छन्दः ।

श्रीविष्णुः परमात्मा देवता । अहं बीजम् । सोहं शक्तिः । ॐ ह्रीं कीलकम् ।

मम सर्वदेहरक्षणार्थं जपे विनियोगः ।

नारद ऋषये नमः मुखे । श्रीविष्णुपरमात्मदेवतायै नमः हृदये ।

अहं बीजं गुह्ये । सोहं शक्तिः पादयोः । ॐ ह्रीं कीलकं पादाग्रे ।

ॐ ह्रांह्रींह्रूंह्रैंह्रौंह्रः इति मन्त्रः ।

ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः ।

ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः ।

ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।

इति करन्यासः ।

अथ हृदयादिन्यासः । ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा ।

ॐ ह्रूं शिखायै वषट् । ॐ ह्रैं कवचाय हुम् ।

ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् । इति अङ्गन्यासः ।

अहंबीजप्राणायामं मन्त्रत्रयेण कुर्यात् ।

                     अथ ध्यानम् ।

परं परस्मात्प्रकृतेरनादिमेकं निविष्टं बहुधा गुहायाम् ।

सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथम् ॥ १॥

श्रीविष्णुपञ्जरस्तोत्रम्

ॐ विष्णुपञ्जरकं दिव्यं सर्वदुष्टनिवारणम् ।

उग्रतेजो महावीर्यं सर्वशत्रुनिकृन्तनम् ॥ २॥

त्रिपुरं दहमानस्य हरस्य ब्रह्मणोदितम् ।

तदहं सम्प्रवक्ष्यामि आत्मरक्षाकरं नृणाम् ॥ ३॥

पादौ रक्षतु गोविन्दो जङ्घे चैव त्रिविक्रमः ।

ऊरू मे केशवः पातु कटिं चैव जनार्दनः ॥ ४॥

नाभिं चैवाच्युतः पातु गुह्यं चैव तु वामनः ।

उदरं पद्मनाभश्च पृष्ठं चैव तु माधवः ॥ ५॥

वामपार्श्वं तथा विष्णुर्दक्षिणं मधुसूदनः ।

बाहू वै वासुदेवश्च हृदि दामोदरस्तथा ॥ ६॥

कण्ठं रक्षतु वाराहः कृष्णश्च मुखमण्डलम् ।

माधवः कर्णमूले तु हृषीकेशश्च नासिके ॥ ७॥

नेत्रे नारायणो रक्षेल्ललाटं गरुडध्वजः ।

कपोलौ केशवो रक्षेद्वैकुण्ठः सर्वतोदिशम् ॥ ८॥

श्रीवत्साङ्कश्च सर्वेषामङ्गानां रक्षको भवेत् ।

पूर्वस्यां पुण्डरीकाक्ष आग्नेय्यां श्रीधरस्तथा ॥ ९॥

दक्षिणे नारसिंहश्च नैरृत्यां माधवोऽवतु ।

पुरुषोत्तमो मे वारुण्यां वायव्यां च जनार्दनः ॥ १०॥

गदाधरस्तु कौबेर्यामीशान्यां पातु केशवः ।

आकाशे च गदा पातु पाताले च सुदर्शनम् ॥ ११॥

सन्नद्धः सर्वगात्रेषु प्रविष्टो विष्णुपञ्जरः ।

विष्णुपञ्जरविष्टोऽहं विचरामि महीतले ॥ १२॥

राजद्वारेऽपथे घोरे सङ्ग्रामे शत्रुसङ्कटे ।

नदीषु च रणे चैव चोरव्याघ्रभयेषु च ॥ १३॥

डाकिनीप्रेतभूतेषु भयं तस्य न जायते ।

रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर ॥ १४॥

रक्षन्तु देवताः सर्वा ब्रह्मविष्णुमहेश्वराः ।

जले रक्षतु वाराहः स्थले रक्षतु वामनः ॥ १५॥

अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥

दिवा रक्षतु मां सूर्यो रात्रौ रक्षतु चन्द्रमाः ॥ १६॥

पन्थानं दुर्गमं रक्षेत्सर्वमेव जनार्दनः ।

रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पगः ॥ १७॥

स्त्रीहन्ता बालघाती च सुरापो वृषलीपतिः ।

मुच्यते सर्वपापेभ्यो यः पठेन्नात्र संशयः ॥ १८॥

अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।

विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् ॥ १९॥  

आपदो हरते नित्यं विष्णुस्तोत्रार्थसम्पदा ।

यस्त्विदं पठते स्तोत्रं विष्णुपञ्जरमुत्तमम् ॥ २०॥  

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।

गोसहस्रफलं तस्य वाजपेयशतस्य च ॥ २१॥

अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।

सर्वकामं लभेदस्य पठनान्नात्र संशयः ॥ २२॥

जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।

ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ २३॥

इति श्रीब्रह्माण्डपुराणे इन्द्रनारदसंवादे श्रीविष्णुपञ्जरस्तोत्रं सम्पूर्णम् ॥

Post a Comment

0 Comments