गरुड द्वादशनाम स्तोत्र

गरुड द्वादशनाम स्तोत्र

श्रीगरुडजी के इन द्वादशनाम (बारह नामों) का नित्य पाठ करने से उस पर किसी भी प्रकार के विष का प्रभाव नहीं पड़ता और सभी मनोरथ सिद्ध होता है, इसे गरुड़ स्तव भी कहा जाता है । यहाँ इस द्वादशनाम स्तोत्र के अतिरिक्त भी गरुडोपनिषद् में वर्णित श्रीगरुडनामावलि दिया जा रहा है ।

गरुड द्वादशनाम स्तोत्र

गरुड द्वादशनाम स्तोत्र

श्रीगरुडस्य द्वादशनाम स्तोत्रम्

सुपर्णं वैनतेयं च नागारिं नागभीषणम् ।

जितान्तकं विषारिं च अजितं विश्वरूपिणम् ।

गरुत्मन्तं खगश्रेष्ठं तार्क्ष्यं कश्यपनन्दनम् ॥ १॥

द्वादशैतानि नामानि गरुडस्य महात्मनः ।

यः पठेत् प्रातरुत्थाय स्नाने वा शयनेऽपि वा ॥ २॥

विषं नाक्रामते तस्य न च हिंसन्ति हिंसकाः ।

सङ्ग्रामे व्यवहारे च विजयस्तस्य जायते ।

बन्धनान्मुक्तिमाप्नोति यात्रायां सिद्धिरेव च ॥ ३॥

महात्मा गरुडजी के बारह नाम इस प्रकार हैं- १- सुपर्ण (सुंदरपंखवाले) २- वैनतेय (विनता के पुत्र ) ३- नागारि ( नागों के शत्रु) ४- नागभीषण (नागों के लिये भयंकर ) ५- जितान्तक ( काल को भी जीतनेवाले ) ६- विषारिं (विष के शत्रु ) ७- अजित ( अपराजेय ) ८-विश्वरूपी ( सर्बस्वरूप ) ९- गरुत्मान् ( अतिशय पराक्रमसम्पन्न ) १०- खगश्रेष्ठ ( पक्षियोंमे सर्वश्रेष्ठ ) ११- तार्क्ष (गरुड ) १२- कश्यपनन्दन ( महर्षि कश्यपके पुत्र ) इन बारह नामों का जो नित्य प्रातःकाल उठकर स्नान के समय या सोते समय पाठ करता है, उस पर किसी भी प्रकार के विष का प्रभाव नहीं पड़ता, उसे कोई हिंसक प्राणी मार नहीं सकता, युद्ध में तथा व्यवहार में उसे विजय प्राप्त होती है, वह बन्धन से मुक्ति प्राप्त कर लेता है और उसे यात्रा में सिद्धि मिलती है ।

॥ इति बृहद्तन्त्रसारे श्रीगरुडस्य द्वादशनामस्तोत्रम् सम्पूर्णम् ॥

श्रीगरुडनामावलि 

गरुडोपनिषदुद्धृता श्रीगरुडनामावलिः

 

ॐ गं गरुडाय नमः ।

ॐ हरिवल्लभाय नमः ।

ॐ स्वस्तिकीकृतदक्षिणपादाय नमः ।

ॐ अकुञ्चितवामपादाय नमः ।

ॐ प्राञ्जलीकृतदोर्युग्माय नमः ।

ॐ वामकटकीकृतानन्ताय नमः ।

ॐ यज्ञसूत्रीकृतवासुकये नमः ।

ॐ कटिसूत्रीकृततक्षकाय नमः ।

ॐ हारीकृतकर्कोटकाय नमः ।

ॐ सपद्मदक्षिणकर्णाय नमः । १०

ॐ समहापद्मवामकर्णाय नमः ।

ॐ सशङ्खशिरस्काय नमः ।

ॐ भुजान्तरगुलिकाय नमः ।

ॐ पौण्ड्रकालिकनागचामर सुवीजिताय नमः ।

ॐ एलापुत्रकादि नागसेव्यमानाय नमः ।

ॐ मुदान्विताय नमः ।

ॐ कपिलाक्षाय नमः ।

ॐ गरुत्मते नमः ।

ॐ सुवर्णसदृशप्रभाय नमः ।

ॐ आजानुतः सुपर्णाभाय नमः । २०

ॐ आकट्योस्तु हिनप्रभाय नमः ।

ॐ आकन्धङ्कुङ्कुमारुणाय नमः ।

ॐ शत चन्द्रनिभाननाय नमः ।

ॐ नीलाग्रनासिकावक्त्राय नमः ।

ॐ सुमहच्चारुकुण्डलाय नमः ।

ॐ दंष्ट्राकरालवदनाय नमः ।

ॐ मुकुटोज्ज्वलाय नमः ।

ॐ कुङ्कुमारुणसर्वाङ्गाय नमः ।

ॐ कुन्देन्दुधवलानाय नमः ।

ॐ विष्णुवाहाय नमः । ३०

ॐ नागभूषणाय नमः ।

ॐ विषतूलराश्यनलाय नमः ।

ॐ भगवते नमः ।

ॐ श्रीमहागरुडाय नमः ।

ॐ पक्षीन्द्राय नमः ।

ॐ विष्णुवल्लभाय नमः ।

ॐ त्र्यैलोक्यपरिपूजिताय नमः ।

ॐ उग्राय नमः ।

ॐ भयङ्कराय नमः ।

ॐ कालानलरूपाय नमः । ४०

ॐ वज्रनखाय नमः ।

ॐ वज्रतुण्डाय नमः ।

ॐ वज्रदन्ताय नमः ।

ॐ वज्रदंष्ट्राय नमः ।

ॐ वज्रपुच्छाय नमः ।

ॐ वज्रपक्षालक्षित शरीराय नमः ।

ॐ अप्रतिशानाय नमः ।

ॐ दुष्टविषदूषणाय नमः ।

ॐ स्पृष्ट विषनाशाय नमः ।

ॐ दन्दशूकविषदारणाय नमः । ५०

ॐ प्रलीनविषप्रणाशाय नमः ।

ॐ सर्वविषनाशाय नमः ।

ॐ चन्द्रमण्डलसङ्काशाय नमः ।

ॐ सूर्यमण्डलमुष्टिकाय नमः ।

ॐ पृथ्वीमण्डलमुद्राङ्गाय नमः ।

ॐ क्षिपस्वाहामन्त्राय नमः ।

ॐ सुपर्णाय नमः ।

ॐ गरुत्मते नमः ।

ॐ त्रिवृच्छिराय नमः ।

ॐ गायत्रीचक्षुषे नमः । ६०

ॐ स्तोमात्मने नमः ।

ॐ सामतनवे नमः ।

ॐ वासुदेव्यबृहद्रथन्तरपक्षाय नमः ।

ॐ यङ्ञायङ्ञियपुच्छाय नमः ।

ॐ छन्दोङ्गाय नमः ।

ॐ धिष्णिशफाय नमः ।

ॐ यजुर्नाम्ने नमः ।

ॐ ईं बीजाय नमः ।

ॐ स्त्र्यं बीजाय नमः ।

ॐ अनन्तकदूतविषहराय नमः । ७०

ॐ वासुकिदूतविषहराय नमः ।

ॐ तक्षकदूतविषहराय नमः ।

ॐ कर्कोटकदूतविषहराय नमः ।

ॐ पद्मकदूतविषहराय नमः ।

ॐ महापद्मकदूतविषहराय नमः ।

ॐ शब्ददूतविषहराय नमः ।

ॐ गुलिकदूतविषहराय नमः ।

ॐ पौण्ड्रकालिकदूतविषहराय नमः ।

ॐ नागकदूतविषहराय नमः ।

ॐ लूताविषहराय नमः । ८०

ॐ प्रलूताविषहराय नमः ।

ॐ वृश्चिकविषहराय नमः ।

ॐ घोटकविषहराय नमः ।

ॐ स्थावरविषहराय नमः ।

ॐ जङ्गमकविषहराय नमः ।

ॐ दिव्यानां महानागानां विषहराय नमः ।

ॐ महानागादिरूपाणां विषहराय नमः ।

ॐ मूषिकविषहराय नमः ।

ॐ गृहगौलिकविषहराय नमः ।

ॐ गृहगोधिकविषहराय नमः । ९०

ॐ घ्रणापविषहराय नमः ।

ॐ गृहगिरिगह्वरकालानल वल्मीकोद्भूतानां विषहराय नमः ।

ॐ तार्णविषहराय नमः ।

ॐ पौर्णविषहराय नमः ।

ॐ काष्ठदारुवृक्षकोटररत विषहराय नमः ।

ॐ मूलत्वग्दारुनिर्यासपत्रपुष्पफलोद्भूत विषहराय नमः ।

ॐ दुष्टकीटकपिश्वानमार्जाल जम्बूकव्या घ्र वराह विषहराय नमः ।

ॐ जरायुजाण्डजोद्भिज्जस्वेदजानां विषहराय नमः ।

ॐ शस्त्रबाणक्षत स्फोटव्रण महाव्रण कृतानां विषहराय नमः ।

ॐ कृत्रिमविषहराय नमः । १००

ॐ भूतवेतालकूष्काण्णपिशाच प्रेतराक्षसयक्षभयप्रदानां

                                      विषहराय नमः ।

ॐ विषतुण्डानां विषहराय नमः ।

ॐ विषदन्तानां विषहराय नमः ।

ॐ विषदंष्ट्रानां विषहराय नमः ।

ॐ विषाङ्गानां विषहराय नमः ।

ॐ विषपुच्छानां विषहराय नमः ।

ॐ विश्वचाराणां विषहराय नमः ।

ॐ निर्विशेष सुपर्णाय परस्मै परब्रह्मणे नमः । १०८

इति श्रीगरुडस्य द्वादशनाम च गरुडोपनिषदुद्धृता श्रीगरुडनामावलिः स्तोत्रम् समाप्ता ।

Post a Comment

0 Comments