सरस्वती सूक्त
सप्तशती के नवार्णमंत्र में ९ अक्षर हैं,उसी प्रकार सप्तशती के अंगों की संख्या भी ९ ही है। जिसमें कि स्तोत्रत्रय कवच, अर्गला व कीलक तथा रहस्यत्रय अर्थात् मूर्तिरहस्य, वैकृतिकरहस्य और प्राधानिकरहस्य इन षडंग को तो उजागर किया गया है, परंतु सूक्तत्रय अर्थात् लक्ष्मीसूक्त, कालीसूक्त व सरस्वती सूक्त को अति गोपनीय रूप से छिपाया गया है।
सरस्वतिसूक्त
इस सरस्वतीसूक्त को ब्रह्माजी ने लक्ष्मीसूक्त
को विष्णुजी ने तथा कालीसूक्त को स्वयं भगवान् शङ्कर ने कहा है। अतः सर्व ज्ञानदात्री
इस सरस्वति सूक्त का पाठ सप्तशती के साथ ही अवश्य करें। इसके पाठ के बिना सप्तशती
फल नहीं देता। इसे अत्यंत ही गोपनीय रखा गया है, पाठकों के लाभार्थ ही इसे प्रकाशित किया जा रहा है।
सरस्वती सूक्तम्
Sarasvati suktam
श्रीसरस्वती सूक्त
ॐ अस्य
श्रीत्रिमूर्तिमहासरस्वतीसूक्तस्य ब्रह्मा ऋषिः त्रिष्टुबनुष्टुब्जगत्यश्छन्दांसि
श्रीमहासरस्वती देवता श्रीमहासरस्वती प्रसादसिद्ध्यर्थे जपे विनियोगः ।।
अथ षडङ्गन्यासः ।।
ॐ क्लां अङ्गुष्ठाभ्यां नमः ।।
ॐ क्लीं तर्जनीभ्यां नमः ॥
ॐ क्लूं मध्यमाभ्यां नमः ।।
ॐ क्लैं अनामिकाभ्यां नमः ॥
ॐ क्लौं कनिष्ठिकाभ्यां नमः ।।
ॐ क्लः करतलकरपृष्ठाभ्यां नमः ॥
अथ ध्यानम्
गौरीदेहसमुद्भवां शशिधरां क्लीं
सात्त्विकीं सत्प्रियां
बाणेक्षं मुसलं त्रिशूलवरदं शङ्खं च
घण्टां करैः ।
बिभ्राणां हल कार्मुकं सुविलसत्सौन्दर्यरूपां
परां
पद्माभां हि निशुम्भशुम्भमथिनीं
वन्दे महाशारदाम् ।।
सरस्वति सूक्तम्
राजोवाच
मुने कथय सर्वज्ञ भूयः
किञ्चिदनुत्तमम् ।
तत्त्वमेतस्य सर्वस्य येन
सिद्धिरवाप्यते ।।१।।
ऋषिरुवाच
भूयः श्रृणुमहाभाग
देवीमाहात्म्यमुत्तमम् ।
विना येन स्तवश्चायं निर्जीवो
नृपनन्दन ।।२ ।।
दृष्ट्वा शुम्भं विनिहतं दारुणं
देवकण्टकम् ।
आजग्मुःपरमानन्दाद्
ब्रह्मविष्णुमहेश्वराः ।।३ ।।
देव्याः स्तुतिं समाधातुं
गणानालक्षसंयुताः ।
आज्ञामादाय देवेशाः कर्तुं
दर्शनमादरात् ।। ४।।
बद्धाञ्जलिपुटाः साक्षात् तुष्टुवुः
क्रमशः शिवाम् ।
लोकानां च हितार्थाय देवीसूक्तानि
पार्थिव ।।५।।
ब्रह्मा सरस्वतीसूक्तं
लक्ष्मीसूक्तं जनार्दनः ।
सूक्तं तथा महाकाल्याः शङ्करः
स्वयमब्रवीत् ।।६।।
ब्रह्मोवाच
अजां पुराणीममरासनातनीं चतुर्भुजां
पुस्तकाक्षधारिणीम् ।
वराभयाभ्यामनुशोभिहस्तां नमामि तां
जाड्यजराविनाशिनीम् ।। ७।।
सरस्वतीं तामनुनौमि वाचं वाचः
प्रदां हंसवराधिरूढाम् ।
मुक्तामणिद्योतितकण्ठहारां
भाग्यैकलभ्यां परमां पवित्राम् ।। ८।।
श्रीकण्ठशक्तित्रयशोभमानां
दशारतूर्येणकृतानुरूपाम् ।
पञ्चारवासां धृतखड्गहस्तां सरस्वतीं
तां प्रणमामि देवीम् ।।९।।
कलाढ्ययन्त्रां मणिकोटिहारां
विहारयन्त्रां विलसैकशोभाम् ।
स्वच्छां चिदाभां स्फटिकानुरूपां
सरस्वतीं तां प्रणमामि देवीम् ।।१०।।
वाक्कामकायैः परमैः पवित्रैः
रमारमाहींवरदानदक्षैः ।
बीजैरमीभिःकपिबीजयुक्तैः
क्लींयुग्ममिश्रैरितिमन्त्रराजः ।।११।।
एकेनचैकेन च युग्मकेन
द्वाभ्यामथैकेन तथैव शेषैः ।
कराङ्गलिप्तैः परमोत्तमोऽयं निहन्ति
पापानि च साधकानाम् ।।१२।।
हठेन वै श्रृङ्खलया च श्रेण्या
विधातृपत्न्या च तथैववाचा ।
श्रीं क्लींसुवन्द्या किल शोभया च
न्यासैरमीभिः परितोऽपि शम्भुः ।। १३।।
द्रव्येणहोमात्सकलार्थसिद्धिः
सुकिंशुकैर्वागपिसिद्धिमृच्छेत् ।
तत्साकमाज्येन रमानिवासः
सुपायसेनापि च वेदसिद्धिः ।।१४।।
न चाम्ब ते महिमानं विदामः सरस्वतीं
तां प्रथितं च लोके ।
जानन्ति किम्बुद्भुदभूमितोये जडा
वयं ब्रह्महरीशमुख्याः ।। १५।।
तथैव वाचा च वयं वदामो
जिघ्रामशक्ताहि तथैव जीवाः ।
पश्याम हे रूपमिदं महेशि स्पृशामि
साक्षात्तव पादयुग्मम् ।। १६।।
स्वादंविदामस्तवशक्तियोगात् गृह्णीम
हे तव शक्त्या महेशि ।
गच्छाम हे तव
शक्तिप्रभावादानन्दयुक्तास्त्वयि संनिवेशात् ।। १७।।
आत्मामनस्त्त्वं
त्वमेवासिदेहस्त्वमेव पञ्चेन्द्रियपञ्चतत्त्वम् ।
साम्नां त्वमेव विषयः समुख्यः
परापरात्मा सकलं त्वमेव ॥१८।।
रविश्च ते चन्द्रमाश्च ते तारकाश्च
ते भूमिश्च ते जलंच ते
तेजश्च ते वायुश्च नभश्च ते शब्दश्च
ते स्पर्शश्च ते रूपंच ते
रसश्च ते गन्धश्च ते श्रोत्रंच ते त्वक्च
ते चक्षुश्च ते
जिह्वाच ते घ्राणंच ते प्राणश्च ते
ऽपानश्च ते समानश्च ते
व्यानश्च ते उदानश्च ते नागश्च ते
कूर्मश्च ते कृकलश्च ते
देवदत्तश्च ते धनञ्जयश्च ते
भूतात्माच ते परमात्माच ते
विद्यात्माच ते सर्वात्माच ते त्वय्येव
चित्तं विनिवेशयन्ताम् ।।१९।।
यदा न चाहं भुवनानि जीवा न
चास्तिविष्णुर्न च पार्वतीशः ।
न चेश्वरो नापि सदाशिवश्च त्वमेव
चासीरितिवाभविष्या ।।
पञ्चस्वरावापिसदाशिवस्य त्वमेव
चासीस्सुशिवा भाविष्यसि ।। २०।।
कालस्त्वमेवासि जगत्त्रयाणां
स्वभावतुर्यादि कलात्वमेव ।
त्वमेवविश्वं च परात्मशक्तिर्नमामि
ते पादयुगं सरस्वति ।।२१।।
त्वमेववाणी
निखिलाश्चवेदास्त्वंशब्दशक्तिश्च तथार्थशक्तिः ।
त्वंब्रह्मविद्यासि परापरेशी
त्वांब्रह्मशक्तिं शरणंप्रपद्ये ॥ २२।।
सूक्तं तवेदं सुभगे सरस्वति
प्रातश्च मध्याह्न इहेतिसायम् ।
पठन्ति येशुद्धधियःसुचित्ताः
श्रीभोगमोक्षान् सहसा लभन्ते ।।२३।।
न ते कुयोनिं न दरिद्रतां च कर्ह्यात्मतापं
न च ते लभन्ते ।
त एव धन्याश्च त एव पूज्याः सर्वत्र
सन्मानयुताभवन्ति ।। २४।।
इदं शरण्यं विरजं सुधामयं
तत्त्वस्वरूपं जगतां त्रयाणाम् ।
ते प्राप्नुवन्ति
प्रकटप्रभावास्त्वां सर्वयोनीं शरणंप्रपद्ये ॥ २५।।
ऋषिरुवाच
स्तुत्यानया देववाण्या
सर्वसारस्वरूपया ।
प्रसन्ना देवदेवेशी
महापूर्वासरस्वती ॥२६।।
आविर्भूतामहादेवी ब्रह्मसंतोषकारिणी
।
उवाच वचनं दिव्यं
ब्रह्मानन्दप्रदायकम् ।। २७।।
श्रीदेव्युवाच
स्तुत्यानया च ते ब्रह्मन् भृशं
तोषसमन्विता ।
प्रीतास्मि क्रियतां देव वरं
संतोषकारकम् ।। २८।।
ब्रह्मोवाच
त्वदर्चने मनो देवि दृढं भवतु
सर्वदा ।
एष एव वरः साक्षादुत्तमो व्रियते
मया ।।२९।।
स्वसूक्तैश्चापिदेवेशि तेजो दिव्यं
विधीयताम् ।
येन कार्याणि सिध्यन्ति साधकानां
महात्मनाम् ।।३०।।
श्रीदेव्युवाच
सर्वदा ते मनोदेव कुलधर्मे सुपूजिते
।
दृढंभवतुसूक्तेन प्रसादान्मे परन्तप
।।३१।।
सर्वसिद्धिप्रदं चास्तु
परमानन्ददायकम् ।
विनासूक्तं पठेद्यस्तु स्तोत्रं
सप्तशतीं तथा ।। ३२।।
मातृगामी सविज्ञेयो नरकावासतत्परः ।
ममावज्ञापराधेन ब्रह्मघ्नानां गतिं
व्रजेत् ।। ३३।।
ऋषिरुवाच ॥
एवमुक्त्वा वचोदेवी
तूष्णीमासीन्नृपोत्तम ।।३४।।
इति सरस्वती सूक्तं सम्पूर्णम्।।
0 Comments