देवीरहस्य नाम स्तोत्र

देवीरहस्य नाम स्तोत्र

दुर्गासप्तशती अथवा चण्डीनवशतीमन्त्रमाला के पाठ करने के समय यदि इस देवीरहस्य नाम स्तोत्र का पाठ किया जाता है तो देवी की कृपा की प्राप्ति होती है।

देवीरहस्य नाम स्तोत्र

श्रीदेवीरहस्यनामस्तोत्रम्

अस्य श्रीदेवीरहस्यनामस्तोत्रमालामहामन्त्रस्य, श्रीदक्षिणामूर्ति ऋषिः, अनुष्टुप्छंद: चिन्तामणि श्रीमहाविद्येश्वरीदेवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकम् श्री देवीप्रसादसिध्यर्थे रहस्यनामपारायणे विनियोगः॥

ॐ ऐं क्लीं सौः इत्यादि करहृदयन्यासः ।।

देवी रहस्य नाम स्तोत्र

ध्यानम् ॥

सकुङ्कुमविलेपनामळिकचुम्बिकस्तूरिकाम् ।

समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।

अशेषजनमोहिनीं अरुणमाल्यभूषाम्बराम् ।

जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ १॥

श्रीदेवीरहस्यनामस्तोत्रम्

अथ नामानि ।।

श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।

चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ।।१॥

उद्यद्भानुसहस्त्राभा चतुर्बाहुसमन्विता ।

रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥२॥

मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ।

निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ॥३॥

चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।

कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ४॥

अष्टमीचन्द्रविभ्राजदळिकस्थलशोभिता ।

मुखचन्द्रकळङ्काभमृगनाभिविशेषका ॥५॥

वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका ।

वक्त्रलक्षी परवाहचलन्मीनाभलोचना ॥६॥

नवचम्पकपुष्पाभनासादण्डविराजिता ।

ताराकान्तितिरस्कारिनासाभरणभासुरा ॥७॥

कदम्बमञ्जरीक्लुप्तकर्णपूरमनोहरा ।

ताटङ्कयुगळीभूततपनोडुपमण्डला ॥८॥

पद्मरागशिलादर्शपरिभाविकपोलभूः ।

नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छ्दा ॥९॥

शुद्धविद्याङकुराकारद्विजपङ्क्तिद्वयोज्ज्वला ।

कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ।।१०॥

निजसल्लापमाधुर्यविनिर्भर्त्सितकच्छपी ।

मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ॥११॥

अनाकलितसादृश्यचुबुक श्रीविराजिता ।

कामेशबद्धमाङ्गल्यसूत्रशोभितकन्थरा ॥१२॥

कनकाङ्गदकेयूरकमनीयभुजान्विता ।

रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥१३॥

कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।

नाभ्यालवालरोमाळिलताफलकुचद्वयी ॥१४॥

लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।

स्तनभारदळन्मध्यपट्टबन्धक त्रया ॥१५॥

अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।

रत्नकिङ्किणिकारम्यरशनादामभूषिता ।।१६॥

कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।

माणिक्यमकुटाकारजानुद्वयविराजिता ॥१७॥

इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका ।

गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥१८॥

नखदीधितिसञ्छन्ननमज्जनतमोगुणा ।

पदद्वयप्रभाजालपराकृतसरोरुहा ॥१९॥

शिञ्जानमणिमञ्जीरमण्डित श्रीपदाम्बुजा ।

मराळीमन्दगमना महालावण्यशेवधिः ॥२०॥

सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।

शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥२१॥

सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका ।

चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ॥२२॥

महापद्माटवीसंस्था कदम्बवनवासिनी ।

सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥२३॥

देवर्षिगणसङ्घातस्तूयमानात्मवैभवा ।

भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ।।२४॥

सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।

अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ।।२५॥

चक्रराजरथारूढसर्वायुधपरिष्कृता ।

गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥२६॥

किरिचक्ररथारूढदण्डनाथापुरस्कृता ।

ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ।।२७॥

भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।

नित्या पराक्रमाटोपनिरीक्षणसमुत्सुका ॥२८॥

भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।

मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥२९॥

विशुक्रप्राणहरणवाराही वीर्यनन्दिता ।

कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ।।३०॥

महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।

भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥३१॥

कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।

महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥३२॥

कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।

ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥३३॥

हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः ।

श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ।।३४॥

कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।

शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥३५॥

मूलमन्त्रात्मिका मूलकूटत्रयकळेबरा ।

कुलामृतैकरसिका कुलसङ्केतपालिनी ॥३६॥

कुलाङ्गना कुलान्तस्था कौळिनी कुलयोगिनी ।

अकुला समयान्तस्था समयाचारतत्परा ॥३७॥

मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।

मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥३८॥

आज्ञाचक्रान्तराळस्था रुद्रग्रन्थिविभेदिनी ।

सहस्त्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥३९॥

तटिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता ।

महाशक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥

श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ॥४०॥

इति रहस्यनामानि ॥

***

Post a Comment

0 Comments