द्वादशलिङगतोभद्रमण्डलदेवता

द्वादशलिङगतोभद्रमण्डलदेवता

इससे पूर्व आपने डी पी कर्मकांड की सीरिज में भाग- १६ पढ़ा । अब डी पी कर्मकांड भाग-१७ में भद्रमण्डलदेवता स्थापन अंतर्गत् द्वादशलिङगतोभद्रमण्डलदेवता स्थापन पढ़ेंगे। इनमें खण्डेन्दु (सफेद), कृष्ण शृंखला (काली), वल्ली (हरे), भद्र (लाल), वापी (सफेद), परिधि (पीला), कर्णिकायुक्त अष्टदल कमल कैसे व किस रंग से बनाया जाता है इस विषय में आपने पूर्व भाग सर्वतोभद्रमंडल में जान चुके हैं अतः यहाँ इन्हें नहीं लिखा जा रहा है सीधे ही भद्रमण्डलदेवता स्थापन को दिया जा रहा है।

टीप- सभी मन्त्रों में ॐ -नमः। आवाहयामि, स्थापयामि ॥ के साथ पढ़ते जाएँ ।

द्वादशलिङगतोभद्रमण्डलदेवता

भद्रमण्डलदेवतास्थापनम्‌ 

डी पी कर्मकांड भाग १७-द्वादशलिङगतोभद्रमण्डलदेवता

चतुस्त्रिंशद्रेखात्मकं द्वादशलिङगतो भद्रमण्डलदेवतास्थापनम्‌

मण्डले कर्णिकान्तराले मध्ये ईशानत: ईशानकोणे खण्डेन्दौ ईशान्याम्‌ - ॐ गुरवे० । आग्नेय्याम्‌ - गणपतये० । नैऋत्याम्‌ - दुर्गायै० । वायव्याम्‌ - क्षेत्रपालाय० । भद्रमध्ये - सदाशिवाय० । ततोऽष्टदले - पूर्वस्याम्‌ - पूर्वे - कालाग्निद्राय० । तत्रैव - कूर्माय० । तत्रैव - मंडूकाय० । आग्नेय्याम्‌ - वराहाय० । तत्रैव - अनन्ताय० । दक्षिणस्याम्‌ - पृथिव्यै० । तत्रैव स्कंदाय० । तत्रैव - सुधासिन्धवे० । नैऋत्याम्‌ - नलाय० । तत्रैव एद्माय० । पश्चिमायाम्‌ - पत्रेभ्यो० । तत्रैव - केसरेभ्यो० । तत्रेव - कर्णिकायै ० । वायव्याम्‌ - सिंहासनाय० । तत्रैव - पद्मासनाय ० । उत्तरस्याम्‌ - धर्माय० । तत्रैव - ज्ञानाय० ० । तत्रैव -वैराग्याव० । ईशान्याम्‌ - ऐश्वर्याय० । तत्रैव - चिदाकाशाय० । पद्ममध्ये - योगपीठाय० । तत:कर्णिकोपरिपूर्वतश्चतुर्दिक्षु - पृथिव्यै० । कपालाय० । सप्तसरिद्भयो ० । सप्तसागरभ्यो० । कर्णिकासमीपे चत्वारि श्वेतभद्राणि सन्ति तेषु पूर्वादि चतुर्दिक्षु - तत्पुरुषाय० । अघोराय० । सद्योजाताय० । वामदेवाय० । तत्समीपे कृष्णान्यष्टभद्राणि सन्ति तेषु ईशान्याद्यष्टदिक्षु - भगवत्यै ० । उमायै० । शंकरप्रियायै० । पार्वत्यै० । गौर्यै० । काल्यै० । कौम्यै० । विश्वंभर्यै० । तत:कृष्णभद्राण्यध: अष्टौ रक्तभद्राणि सन्ति तेषु ईशान्याद्यष्टदिक्षु - नन्दिने ० । महाकालाय० । महावृषभाय० । भॄंगकिरीतिने० । स्कंदाय ० । उमापतये० । चंडेश्वराय० । योगसूत्राय० । चतुर्लिङ्गोपरि श्वेतभद्राणि सन्ति तेषु पूर्वादि चतुर्दिक्षु - धात्रे० । मित्राय० । यमाय० । रुद्राय० । तत्समीपे लिङ्गोपरि अष्टौपीतभद्राणि सन्ति तेषु ईशान्याद्यष्टदिक्षु - वरुणाय० । सूर्याय० । भगाय० । विवस्वते० । पुरुषोत्तमाय० । सवित्रे० । त्वष्ट्रे० । विष्णवे० । ततो द्वादशलिङ्गतोदेवतानां स्थापनम्‌ - पूर्वे - शिवाय० । तद्दक्षिणे - एकनेत्राय० । तद्दक्षिणे - एकरुद्राय० । दक्षिणस्याम्‌ - त्रिमूर्तये० । तत्पश्चिमे - श्रीकंठाय० । तत्पश्चिमे - वामदेवाय ० । पश्चिमायाम्‌ - ज्येष्ठाय० । तदुत्तरे - श्रेष्ठाय० । तदुत्तरे - रुद्राय० । उत्तरे - कालाय० । तत्पूर्वे - कलविकरणाय० ।

तत्पूर्वे - बलविकरणाय० । तत: श्वेतषोडशवापीषु प्रत्येकं देवतास्थापनम्‌ - अणिमायै० । महिमायै० । लघिमायै० । गरिमायै० । प्राप्त्यै० । प्राकाम्यै० । ईशितायै० । वशितायै० । ब्राह्‌म्यै० । माहेश्वर्यै० । कौमार्यै० । वैष्णव्यै० । वाराहयै० । इन्द्राण्यै० । चामुण्डायै० । चण्डिकायै० । ततो वापीसमीपे अष्टरक्त भद्राणि सन्ति तेषु ईशान्याद्यष्टदिक्षु - असिताङभैरवाय० । रुरुभैरवाय० । चण्डभैरवाय० । क्रोधभैरवाय० । उन्मत्तभैरवाय० । कालभैरवाय० । भीषणभैरवाय० । संहारभैरवाय० । ईशान्याद्यष्टदिक्षु वल्लीदेवतास्थापनम्‌ - घृताच्यै० । मेनकायै० । रम्भायै० । उर्वश्यै० । तिलोत्तमायै० । सुकेशायै० । मंजुघोषायै० । अप्सरोभ्यो० । ततो मण्डलमध्ये परिधिसमीपे शृङखलादेवता: स्थापयेत्‌ - आग्नेय्याम्‌ - भवाय० । शिवाय० । रुद्राय० । पशुपतये० । उग्राय० । भीमाय० । महादेवाय० । ईशानाय० । अनन्ता० । वासुकये० । नैऋत्याम्‌ - तक्षकाय० । कुलीरकाय० । कर्कोटकाय० । शङखपालाय० । कंबलाय० । अश्वतराय० । वैन्याय० । अंगाय० । हैहयाय० । अर्जुनाय० । वायव्याम्‌ - शाकुंतलेयाय० । भरताय० । नलाय० । रामाय० । सार्वभौमाय० । निषधाय० । विंध्याचलाय० । माल्यवते० । पारियात्राय० । सहयाय० । ऐशान्याम्‌ - हेमकूटाय० । गंधमादनाय० । कुलाचलाय० । हिमवते० । रैवताय० । देवगिरये० । मलयाचलाय० । कनकाचलाय० । पृथिव्यै० । अनन्ताय० । आग्नेयादि चतुर्दिक्षु खण्डेन्दुषु - अग्निकुमाराभ्यां० । विश्वेभ्यो देवेभ्यो० । पितृभ्यो० । नागेभ्यो० । ततो मंडलाद्बहि: सत्त्वपरिधौपूर्वादिक्रमेण - इन्द्राय० । अग्नये० । यमाय० । निऋतये० । वरुणाय० । वायवे० । कुबेराय० । ईशानाय० । ततो रक्तपरिधौ पूर्वादिक्रमेण - वज्राय० । शक्तये० । दण्डाय० । खडगाय० । पाशाय अंकुशाय० । गदायै० । त्रिशूलाय० । ऊर्ध्वायां - पद्याय० । अध :--- चक्राय० । तत: कृष्णपरिधौ पूर्वादिक्रमेण - कश्यपाय० । अत्रये० । भरद्वाजाय० । विश्वमित्राय० । गौतमाय० । जमदग्नये० । वसिष्ठाय० । अरुन्धत्यै० । पूर्वे - ऋग्वेदाय० । दक्षिणे - यजुर्वेदाय० । पश्चिमे - सामवेदाय० । उत्तरे - अथर्ववेदाय० ।

॥ इति (३४) चतुस्त्रिंशद्रे खात्मकद्वादशलिंगतोभद्रमंडलदेवतास्थापनम्‌ ॥

About कर्मकाण्ड

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 $type={blogger} :

Post a Comment