षोडशी हृदय स्तोत्र

षोडशी हृदय स्तोत्र

श्रीषोडशी हृदय स्तोत्र अथवा ललिता त्रिपुरसुन्दरी हृदय स्तोत्र का जो मनुष्य पाठ करता है,उनका दुःख, दरिद्रता तथा कल्याण होता है ।

षोडशी हृदय स्तोत्र

श्रीषोडशीहृदयम् अथवा श्रीललितात्रिपुरसुन्दरीहृदयस्तोत्रम्

॥ अथ श्रीषोडशीहृदयप्रारम्भः ॥

कैलासे करुणाक्रान्ता परोपकृतिमानसा ।

पप्रच्छ करुणासिन्धुं सुप्रसन्नं महेश्वरम् ॥ १॥

कैलाश के शिखर पर प्रसन्न बैठे हुए करुणासिन्धु शिव जी से परोपकार की भावना से करुणार्द्र पार्वती जी ने पूछा।

श्रीपार्वत्युवाच ॥

आगामिनि कलौ ब्रह्मन् धर्मकर्मविवर्जिताः ।

भविष्यन्ति जनास्तेषां कथं श्रेयो भविष्यति ॥ २॥

पार्वती जी बोली: हे ब्रह्मन् ! आने वाले कलियुग में लोग जब धर्म-कर्म से रहित हो जायेंगे तो उन लोगों का कल्याण कैसे होगा?

श्रीशिव उवाच ॥

श्रृणु देवि प्रवक्ष्यामि तव स्नेहान्महेश्वरि ।

दुर्लभं त्रिषु लोकेषु सुन्दरीहृदयस्तवम् ॥ ३॥

ये नरा दुःखसन्तप्ता दारिद्रयहतमानसाः ।

अस्यैव पाठमात्रेण तेषां श्रेयो भविष्यति ॥ ४॥

श्रीशिव जी बोले : हे महेश्वरि देवि ! सुनो मैं तुम्हारे स्नेह से तीनों लोकों में दुर्लभ सुन्दरी हृदय स्तोत्र को कहूंगा । जो मनुष्य दुःखसंतप्त तथा दरिद्रता से हतमानस हैं, उनका इसी स्तोत्र के पाठ मात्र से कल्याण होगा।

श्रीषोडशी ललितात्रिपुरसुन्दरी हृदय स्तोत्रम्

विनियोगः

ॐ अस्य श्रीमहाषोडशीहृदयस्तोत्रमन्त्रस्य आनन्दभैरव ऋषिः ।

देवी गायत्री छन्दः । श्रीमहात्रिपुरसुन्दरी देवता ।

ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् ।

धर्मार्थकाममोक्षार्थे जपे (पाठे) विनियोगः ।

॥ अथ ऋष्यादिन्यासः ॥

ॐ आनन्दभैरवऋषये नमः शिरसि ।

देवी गायत्री छन्दसे नमः मुखे ।

श्रीमहात्रिपुरसुन्दरीदेवतायै नमः हृदये ।

ऐं बीजाय नमः नाभौ ।

सौः शक्तये नमः स्वाधिष्ठाने ।

क्लीं कीलकाय नमः मूलाधारे ।

विनियोगाय नमः पादयोः ॥

॥ इति ऋष्यादिन्यासः ॥

॥ अथ करन्यासः ॥

ऐं ह्रीं क्लीं अङ्गुष्ठाभ्यां नमः ।

क्लीं श्रीं सौः ऐं तर्जनीभ्यां नमः ।

सौः ॐ ह्रीं श्रीं मध्यमाभ्यां नमः ।

ऐं कएलह्रीं हसकलह्रीं अनामिकाभ्यां नमः ।

क्लीं सकल कनिष्ठिकाभ्यां नमः ।

सौः सौः ऐं क्लीं ह्रीं श्रीं करतलकरपृष्ठाभ्यां नमः ।

॥ इतिकरन्यास ॥   

॥ अथ हृदयादिषडङ्गन्यासः ॥

ऐं ह्रीं क्लीं हदयाय नमः ।

क्लीं श्रीं सौः ऐं शिरसे स्वाहा ।

सौः ॐ ह्रीं श्रीं शिखायै वषट् ।

ऐं कएलह्रीं हसकलह्रीं कवचाय हुम् ।

क्लीं सकल नेत्रत्रयाय वौषट् ।

सौः सौः ऐं क्लीं ह्रीं श्रीं अस्त्राय फट् ॥

॥ इति हृदयादिषडङ्गन्यासः ॥

॥ अथ ध्यानम् ॥

बालव्यक्तविभाकरामितनिभां भव्यप्रदां भारती-

    मीषत्फुल्लमुखाम्बुजस्मितकरैराशाभवान्धापहाम् ।

पाशं साभयमङ्कुशं च वरदं सम्बिभ्रतीं भूतिदां

    भ्राजन्तीं चतुरम्बुजाकृतकरैर्भक्त्या भजे षोडशीम् ॥ ५॥

॥ इति ध्यानम् ॥

श्रीषोडशी ललितात्रिपुरसुन्दरी हृदय स्तोत्रम्

सुन्दरी सकलकल्मषापहा कोटिकञ्जकमनीयकान्तिभृत् ।

कोटिकल्पकृतपुण्यकर्मणा पूजनीयपदपुण्यपुष्करा ॥ ६॥

शर्वरीशसमसुन्दरानना श्रीशशक्तिसुकृताश्रयाश्रिता ।

सज्जनानुशरणीयसत्पदा सङ्कटे सुरगणैः सुवन्दिता ॥ ७॥

या सुरासुररणे जवान्विता आजघान जगदम्बिकाऽजिता ।

तां भजामि जननीं जगज्जनिं युद्धयुक्तदितिजान्सुदुर्जयान् ॥ ८॥

योगिनां हृदयसङ्गतां शिवां योगयुक्तमनसां यतात्मनाम् ।

जाग्रतीं जगति यत्नतो द्विजा यां जपन्ति हृदि तां भजाम्यहम्  ॥ ९॥

कल्पकास्तु कलयन्ति कालिकां यत्कला कलिजनोपकारिका ।

कौलिकालिकलितान्घ्रिपङ्कजां तां भजामि कलिकल्मषापहाम् ॥ १०॥

बालार्कानन्तशोचिर्न्निजतनुकिरणैर्द्दीपयन्तीं दिगन्तान्

दीप्तैर्द्देदीप्तमानां दनुजदलवनानल्पदावानलाभाम् ।

दान्तोदन्तोग्रचितां दलितदितिसुतां दर्शनीयां दुरन्तां

देवीं दीनार्द्रचित्तां हृदि मुदितमनाः षोडशीं संस्मरामि ॥ ११॥

धीरान्धन्यान्धरित्रीधवविधृतशिरो धूतधूल्यब्जपादां

घृष्टान्धाराधराधो विनिधृतचपलाचारुचन्दप्रभाभाम् ।

धर्म्यान्धूतोपहारान्धरणिसुरधवोद्धारिणीं ध्येयरूपां

धीमद्धन्यातिधन्यान्धनदधनवृतां सुन्दरीं चिन्तयामि ॥ १२॥

जयतु जयतु जल्पा योगिनी योगयुक्ता

जयतु जयतु सौम्या सुन्दरी सुन्दरास्या ।

जयतु जयतु पद्मा पद्मिनी केशवस्य

जयतु जयतु काली कालिनी कालकान्ता ॥ १३॥

जयतु जयतु खर्वा षोडशी वेदहस्ता

जयतु जयतु धात्री धर्मिणी धातृशान्तिः ।

जयतु जयतु वाणी ब्रह्मणो ब्रह्मवन्द्या

जयतु जयतु दुर्गा दारिणी देवशत्रोः ॥ १४॥

देवि त्वं सृष्टिकाले कमलभवभृता राजसी रक्तरूपा

रक्षाकाले त्वमम्बा हरिहृदयधृता सात्विकी श्वेतरूपा ।

भूरिक्रोधा भवान्ते भवभवनगता तामसी कृष्णरूपा

एताश्चान्यास्त्वमेव क्षितमनुजमला सुन्दरी केवलाद्या ॥ १५॥

सुमलशमनमेतद्देवि गोप्यं गुणज्ञे

    ग्रहणमननयोग्यं षोडशीयं खलघ्नम् ।

सुरतरुसमशीलं सम्प्रदं पाठकानां

    प्रभवति हृदयाख्यं स्तोत्रमत्यन्तमान्यम् ॥ १६॥

इदं त्रिपुरसुन्दर्याः षोडश्याः परमाद्भुतम् ।

यः श्रृणोति नरः स्तोत्रं स सदा सुखमश्नुते ॥ १७॥

न शूद्राय प्रदातव्यं शठाय मलिनात्मने ।

देयं दान्ताय भक्ताय ब्राह्मणाय विशेषतः ॥ १८॥

इति श्रीषोडशीहृदयस्तोत्रं अथवा श्रीललितात्रिपुरसुन्दरीह्रिदयस्तोत्रम् समाप्तम् ।

Post a Comment

0 Comments