गणपतिस्तोत्रम्

गणपतिस्तोत्रम्

भगवान गणेश की कृपा प्राप्ति के लिए और उनसे मनोवांक्षित सिद्धि प्राप्ति के लिए श्रीमच्छङ्कराचार्यविरचित गणपतिस्तोत्रम् का नित्य पाठ करें।

गणपतिस्तोत्रम्

गणपतिस्तोत्रम्

सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं

      गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम् ।

चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं

      प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥ १॥

किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं

      प्रचण्डरत्नकङ्कणं प्रशोभिताङ्ङ्घ्रयष्टिकम् ।

प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं

      सरलहेमनूपुरं प्रशोभिताङ्घ्रिपङ्कजम् ॥ २॥

सुवर्णदण्डमण्डितप्रचण्डचारुचामरं

      गृहप्रतीर्णसुन्दरं युगक्षणं प्रमोदितम् ।

कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं

      षडक्षरस्वरूपिणं भजेद्गजेन्द्ररूपिणम् ॥ ३॥

विरिञ्चिविष्णुवन्दितं विरूपलोचनस्तुतिं

      गिरीशदर्शनेच्छया समर्पितं पराशया ।

निरन्तरं सुरासुरैः सपुत्रवामलोचनैः

      महामखेष्टमिष्टकर्मसु (स्मृतं) भजामि तुन्दिलम् ॥ ४॥

मदौघलुब्धचञ्चलार्कमञ्जुगुञ्जितारवं

      प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम् ।

अनन्यभक्तिमानवं प्रचण्डमुक्तिदायकं

      नमामि नित्यमादरेण वक्रतुण्डनायकम् ॥ ५॥

दारिद्र्यविद्रावणमाशु कामदं स्तोत्रं पठेदेतदजस्रमादरात् ।

पुत्रीकलत्रस्वजनेषु मैत्री पुमान्मवेदेकवरप्रसादात् ॥६॥

      इति श्रीमच्छङ्कराचार्यविरचितं गणपतिस्तोत्रं सम्पूर्णम् ।

गणपति स्तोत्रम् २  

जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्वलिं बध्नता

     स्त्रष्टुं वारिभवोद्भवेन भुवनं शेषेण धर्तुं धरम् ।

पार्वत्या महिषासुरप्रमथने सिद्धाधिपैः सिद्धये

     ध्यातः पञ्चशरेण विश्वजितये पायात् स नागाननः ॥ १॥

विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाड्

     विघ्नव्यालकुलाभिमानगरुडो विघ्नेभपञ्चाननः ।

विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाम्बुधेर्वाडवो

     विघ्नाघौधघनप्रचण्डपवनो विघ्नेश्वरः पातु नः ॥ २॥

खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं

     प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम् ।

दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकर

     वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ॥ ३॥

गजाननाय महसे प्रत्यूहतिमिरच्छिदे ।

अपारकरुणापूरतरङ्गितदृशे नमः ॥ ४॥

अगजाननपद्मार्कं गजाननमहर्निशम् ।

अनेकदन्तं भक्तानामेकदन्तमुपास्महे ॥ ५॥

श्वेताङ्गं श्वेतवस्त्रं सितकुसुमगणैः पूजितं श्वेतगन्धैः

     क्षीराब्धौ रत्नदीपैः सुरनरतिलकं रत्नसिंहासनस्थम् ।

दोर्भिः पाशाङ्कुशाब्जाभयवरमनसं चन्द्रमौलिं त्रिनेत्रं

     ध्यायेच्छान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम् ॥ ६॥

आवाहये तं गणराजदेवं रक्तोत्पलाभासमशेषवन्द्यम् ।

विघ्नान्तकं विघ्नहरं गणेशं भजामि रौद्रं सहितं च सिद्ध्या ॥ ७॥

यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथाऽन्ये ।

विश्वोद्गतेः कारणमीश्वरं वा तस्मै नमो विजविनाशनाय ॥ ८॥

विघ्नेश वीर्याणि विचित्रकाणि वन्दीजनैर्मागधकैः स्मृतानि ।

श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥ ९॥

गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन् ।

वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदन्त एवं त्यजत प्रभीतीः ॥ १०॥          

अनेकविघ्नान्तक वक्रतुण्ड स्वसंज्ञवासिंश्च चतुर्भुजेति ।

कवीश देवान्तकनाशकारिन् वदन्त एवं त्यजत प्रभीतीः ॥ ११॥

अनन्तचिद्रूपमयं गणेशं ह्यभेदभेदादिविहीनमाद्यम् ।

हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ १२॥

विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् ।

सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ १३॥

यदीयवीर्येण समर्थभूता माया तया संरचितं च विश्वम् ।

नागात्मकं ह्यात्मतया प्रतीतं तमेकदन्तं शरणं व्रजामः ॥ १४॥

सर्वान्तरे संस्थितमेकमूढं यदाज्ञया सर्वमिदं विभाति ।

अनन्तरूपं हृदि बोधकं वै तमेकदन्तं शरणं व्रजामः ॥ १५॥

यं योगिनो योगबलेन साध्यं कुर्वन्ति तं कः स्तवनेन नौति ।

अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ १६॥

देवेन्द्रमौलिमन्दारमकरन्दकणारुणाः ।

विघ्नान् हरन्तु हेरम्बचरणाम्बुजरेणवः ॥ १७॥

एकदन्तं महाकायं लम्बोदरगजाननम् ।

विघ्ननाशकरं देवं हेरम्बं प्रणमाम्यहम् ॥ १८॥

यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत् ।

तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ १९॥

इति श्रीगणपतिस्तोत्रं सम्पूर्णम् ।

Post a Comment

0 Comments