recent

Slide show

[people][slideshow]

Ad Code

Responsive Advertisement

JSON Variables

Total Pageviews

Blog Archive

Search This Blog

Fashion

3/Fashion/grid-small

Text Widget

Bonjour & Welcome

Tags

Contact Form






Contact Form

Name

Email *

Message *

Followers

Ticker

6/recent/ticker-posts

Slider

5/random/slider

Labels Cloud

Translate

Lorem Ipsum is simply dummy text of the printing and typesetting industry. Lorem Ipsum has been the industry's.

Pages

कर्मकाण्ड

Popular Posts

सूर्याष्टोत्तरशतनामस्तोत्र

सूर्याष्टोत्तरशतनामस्तोत्र

यहाँ भगवान श्री सूर्यनारायण से शुभ आशिष प्राप्त करने व नित्य पाठ के निमित्त नरसिंहपुराण में वर्णित विश्वकर्मकृत सूर्याष्टोत्तरशतनामस्तोत्रं व इनका केवल नामावली दिया जा रहा है ।

सूर्याष्टोत्तरशतनामस्तोत्र

नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृत

भरद्वाज उवाच --

यैः स्तुतो नामभिस्तेन सविता विश्वकर्मणा ।

तान्यहं श्रोतुमिच्छामि वद सूत विवस्वतः ॥ १॥

सूत उवाच --

तानि मे श्रृणु नामानि यैः स्तुतो विश्वकर्मणा ।

सविता तानि वक्ष्यामि सर्वपापहराणि ते ॥ २॥

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।

तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड आशुगः ॥ ३॥

हिरण्यगर्भः कपिलस्तपनो भास्करो रविः ।

अग्निगर्भोऽदितेः पुत्रः शम्भुस्तिमिरनाशनः ॥ ४॥

अंशुमानंशुमाली च तमोघ्नस्तेजसां निधिः ।

आतपी मण्डली मृत्युः कपिलः सर्वतापनः ॥ ५॥

हरिर्विश्वो महातेजाः सर्वरत्नप्रभाकरः ।

अंशुमाली तिमिरहा ऋग्यजुस्सामभावितः ॥ ६॥

प्राणाविष्करणो मित्रः सुप्रदीपो मनोजवः ।

यज्ञेशो गोपतिः श्रीमान् भूतज्ञः क्लेशनाशनः ॥ ७॥

अमित्रहा शिवो हंसो नायकः प्रियदर्शनः ।

शुद्धो विरोचनः केशी सहस्रांशुः प्रतर्दनः ॥ ८॥

धर्मरश्मिः पतंगश्च विशालो विश्वसंस्तुतः ।

दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः ॥ ९॥

भ्राजिष्णुर्ज्योतिषामीशो विजिष्णुर्विश्वभावनः ।

प्रभविष्णुः प्रकाशात्मा ज्ञानराशिः प्रभाकरः ॥ १०॥

आदित्यो विश्वदृग् यज्ञकर्ता नेता यशस्करः ।

विमलो वीर्यवानीशो योगज्ञो योगभावनः ॥ ११॥

अमृतात्मा शिवो नित्यो वरेण्यो वरदः प्रभुः ।

धनदः प्राणदः श्रेष्ठः कामदः कामरूपधृक् ॥ १२॥

तरणिः शाश्वतः शास्ता शास्त्रज्ञस्तपनः शयः ।

वेदगर्भो विभुर्वीरः शान्तः सावित्रिवल्लभः ॥ १३॥

ध्येयो विश्वेश्वरो भर्ता लोकनाथो महेश्वरः ।

महेन्द्रो वरुणो धाता विष्णुरग्निर्दिवाकरः ॥ १४॥

एतैस्तु नामभिः सूर्यः स्तुतस्तेन महात्मना ।

उवाच विश्वकर्माणं प्रसन्नो भगवान् रविः ॥ १५॥

भ्रमिमारोप्य मामत्र मण्डलं मम शातय ।

त्वत्बुद्धिस्थं मया ज्ञातमेवमौष्ण्यं शमं व्रजेत् ॥ १६॥

इत्युक्तो विश्वकर्मा च तथा स कृतवान् द्विज ।

शान्तोष्णः सविता तस्य दुहितुर्विश्वकर्मणः ॥ १७॥

संज्ञायाश्चाभवद्विप्र भानुस्त्वष्टारमब्रवीत् ।

त्वया यस्मात् स्तुतोऽहं वै नाम्नामष्टशतेन च ॥ १८॥

वरं वृणीष्व तस्मात् त्वं वरदोऽहं तवानघ ।

इत्युक्तो भानुना सोऽथ विश्वकर्माब्रवीदिदम् ॥ १९॥

वरदो यदि मे देव वरमेतं प्रयच्छ मे ।

एतैस्तु नामभिर्यस्त्वां नरः स्तोष्यति नित्यशः ॥ २०॥

तस्य पापक्षयं देव कुरु भक्तस्य भास्कर ॥ २१॥

तेनैवमुक्तो दिनकृत् तथेति

त्वष्टारमुक्त्वा विरराम भास्करः ।

संज्ञां विशङ्कां रविमण्डलस्थितां

कृत्वा जगामाथ रविं प्रसाद्य ॥ २२॥

इति श्रीनरसिंहपुराणे एकोनविंशोऽध्यायः ॥ १९॥

 

सूर्याष्टोत्तरशतनामस्तोत्र

नरसिंहपुराणे सूर्याष्टोत्तरशतनामावलिः विश्वकर्मकृता

 

ॐ आदित्याय नमः । ॐ सवित्रे नमः । ॐ सूर्याय नमः । ॐ खगाय नमः । 

ॐ पूष्णे नमः । ॐ गभस्तिमते नमः । ॐ तिमिरोन्मथनाय नमः । 

ॐ शम्भवे नमः । ॐ त्वष्ट्रे नमः । ॐ मार्तण्डाय नमः  । ॐ आशुगाय नमः ।

ॐ हिरण्यगर्भाय नमः । ॐ कपिलाय नमः । ॐ तपनाय नमः । 

ॐ भास्कराय नमः । ॐ रवये नमः । ॐ अग्निगर्भाय नमः ।

ॐ अदितेः पुत्राय नमः । ॐ शम्भवे नमः । ॐ तिमिरनाशनाय नमः ।

ॐ अंशुमते नमः । ॐ अंशुमालिने नमः । ॐ तमोघ्नाय नमः । ॐ तेजसां निधये नमः ।

ॐ आतपिने नमः । ॐ मण्डलिने नमः । ॐ मृत्यवे नमः । 

ॐ कपिलाय नमः । ॐ सर्वतापनाय नमः । ॐ हरये नमः ।

ॐ विश्वाय नमः । ॐ महातेजसे नमः । 

ॐ सर्वरत्नप्रभाकराय नमः । ॐ अंशुमालिने नमः । ॐ तिमिरघ्ने नमः ।

ॐ ऋग्यजुस्सामभाविताय नमः । ॐ प्राणाविष्करणाय नमः । 

ॐ मित्राय नमः । ॐ सुप्रदीपाय नमः । ॐ मनोजवाय नमः ।

ॐ यज्ञेशाय नमः । ॐ गोपतये नमः । ॐ श्रीमते नमः । ॐ भूतज्ञाय नमः । ॐ क्लेशनाशनाय नमः ।

ॐ अमित्रघ्ने नमः । ॐ शिवाय नमः । ॐ हंसाय नमः । ॐ नायकाय नमः । ॐ प्रियदर्शनाय नमः । ॐ शुद्धाय नमः ।

ॐ विरोचनाय नमः । ॐ केशिने नमः । ॐ सहस्रांशवे नमः । ॐ प्रतर्दनाय नमः । ॐ धर्मरश्मये नमः ।

ॐ पतङ्गाय नमः । ॐ विशालाय नमः । ॐ विश्वसंस्तुताय नमः । ॐ दुर्विज्ञेयगतये नमः ।

ॐ शूराय नमः । ॐ तेजोराशये नमः । ॐ महायशसे नमः । ॐ भ्राजिष्णवे नमः ।

ॐ ज्योतिषामीशाय नमः । ॐ विष्णवे नमः । ॐ जिष्णवे नमः । ॐ विश्वभावनाय नमः । ॐ प्रभविष्णवे नमः ।

ॐ प्रकाशात्मने नमः । ॐ ज्ञानराशये नमः । ॐ प्रभाकराय नमः । ॐ आदित्याय नमः । ॐ विश्वदृशे नमः 

ॐ यज्ञकर्त्रे नमः । ॐ नेत्रे नमः । ॐ यशस्कराय नमः । ॐ विमलाय नमः । ॐ वीर्यवते नमः । ॐ ईशाय नमः ।

ॐ योगज्ञाय नमः । ॐ योगभावनाय नमः । ॐ अमृतात्मने नमः । ॐ शिवाय नमः । ॐ नित्याय नमः ।

ॐ वरेण्याय नमः । ॐ वरदाय नमः । ॐ प्रभवे नमः । ॐ धनदाय नमः । ॐ प्राणदाय नमः । ॐ श्रेष्ठाय नमः ।

ॐ कामदाय नमः । ॐ कामरूपधृके नमः । ॐ तरणये नमः । ॐ शाश्वताय नमः । ॐ शास्त्रे नमः ।

ॐ शास्त्रज्ञाय नमः । ॐ तपनाय नमः । ॐ शयाय नमः । ॐ वेदगर्भाय नमः ।

ॐ विभवे नमः । ॐ वीराय नमः । ॐ शान्ताय नमः । ॐ सावित्रीवल्लभाय नमः । ॐ ध्येयाय नमः ।

ॐ विश्वेश्वराय नमः । ॐ भर्त्रे नमः । ॐ लोकनाथाय नमः । ॐ महेश्वराय नमः । ॐ महेन्द्राय नमः ।

ॐ वरुणाय नमः । ॐ धात्रे नमः । ॐ विष्णवे नमः । ॐ अग्नये नमः । ॐ दिवाकराय नमः ।

इति नरसिंहपुराणे सूर्याष्टोत्तरशतनामावलिः विश्वकर्मकृता समाप्ता ।

इति सूर्याष्टोत्तरशतनामस्तोत्र व नामावलिः समाप्त ।

No comments:

vehicles

[cars][stack]

business

[business][grids]

health

[health][btop]