पंचांगुली पूजन

पंचांगुली पूजन

पंचांगुली अर्थात् पांचों अंगुलियों की साधना। इसमें प्रयुक्त यंत्र का पूजन निम्न विधि से करें।

पंचांगुली यंत्र पूजन

पंचांगुली यंत्र पूजन विधि

Panchanguli pujan vidhi

पंचांगुली यंत्र व देवी पूजन विधि

ध्यान

ॐ भूर्भुवः स्वः श्री पंचांगुली देवीं ध्यायामि ।

आवाहन

ॐ आगच्छागच्छ देवेशि ! त्रैलोक्य तिमिरापहे ।

क्रियमाणां मया पूजां गृहाण सुरसत्तमे ।।

ॐ भूर्भुवः स्वः पंचांगुली देवताभ्यो नमः आवाहनं समर्पयामि ।।

आसन

रम्यं सुशोभनं दिव्यं सर्व सौख्य करं शुभम् ।

आसनञ्च मया दत्तं गृहाण परमेश्वरि ! ।।

ॐ भूर्भुवः स्वः पंचांगुली देवताभ्यो नमः आसनं समर्पयामि ।।

पाद्य

उष्णोदकं निर्मलञ्च सर्व सौगन्ध्य संयुक्तम् ।

पाद प्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः पंचांगुली देवताभ्यो नमः पाद्यं समर्पयामि ।।

अर्घ्य

ॐ अर्घ्यं गृहाण देवेशि ! गन्ध पुष्पाक्षतैः सह ।

करुणां कुरु मे देवि ! गृहाणार्घ्यं नमोऽस्तु ते ।।

आचमनीय

सर्व तीर्थ समानीतं सुगन्धिं निर्मलं जलम् ।

आचम्यतां मया दत्तं गृहीत्वा परमेश्वरि ।।

स्नान

गंगा सरस्वती रेवा पयोष्णी नर्मदा जलैः ।

स्नापिताऽसि मया देवि! ततः शान्तिं कुरुष्व मे ।।

पय स्नान

कामधेनु समुत्पन्नं सर्वेषां जीवनं परम् ।

पावनं यज्ञ हेतुश्च पयः स्नानार्थमर्पितम् ।।

दधि स्नान

पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।

दध्यानीतं मया देवि ! स्नानार्थं प्रतिगृह्यताम् ।।

घृत स्नान

नवनीत समुत्पन्नं सर्व सन्तोष कारकम् ।

घृतं तुभ्यं प्रदस्यामि स्नानार्थं प्रतिगृह्यताम् ।।

मधु स्नान

तरुपुष्प समुद्भूतं सुस्वादु मधुरं मधु ।

तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ।।

शर्करा स्नान

इक्षुसार समुद्भूता शर्करा पुष्टिकारिका ।

मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् ।।

पंचामृत स्नान

पयो दधि घृतं चैव मधु च शर्करा युतम् ।

पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् ।।

वस्त्र

सर्वभूषाधिके सौम्ये लोक लज्जा निवारिणे ।

मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम् ।।

यज्ञोपवीत

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवता मयम् ।

उपवीतं मया दत्तं गृहाण परमेश्वरि ।।

गन्ध

श्री खण्ड चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।

विलेपनं सुरश्रेष्ठ! चन्दनं प्रतिगृह्यताम् ।।

अक्षत

अक्षताश्च सुरश्रेष्ठ! कुंकुमाक्ताः सुशोभिताः ।

मया निवेदिता भक्त्या गृहाण परमेश्वरि ।।

पुष्प

ॐ माल्यादीनि सुगंधीनि मालत्यादीनि वै प्रभो ।

मयानीतानि पुष्पाणि प्रीत्यर्थं प्रतिगृह्यताम् ।।

सौभाग्य द्रव्य

श्वेत चूर्ण रक्त चूर्ण हरिद्रा कुंकुमान्वितैः ।

नानापरिमल द्रव्यैः प्रीयतां परमेश्वरि ।।

धूप

वनस्पति रसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।

आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।।

दीप

आज्यं च वर्तिसंयुक्तं वन्हिना योजितं मया ।

दीपं गृहाण देवेशि ! त्रैलोक्य तिमिरापहा ।।

नैवेद्य

नैवेद्यं गृह्यतां देवि! भक्तिं मे ह्यचलां कुरु ।

ईप्सितं मे वरं देहि परत्रेह परां गतिम् ।।

ताम्बूल    

पूंगीफलं महद्दिव्यं नागवल्ली दलैर्युतम् ।

एलादि चूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम् ।।

ऋतु फल

इदं फलं मया देवि ! स्थापितं पुरतस्तव ।

तेन मे सफला वाप्तिर्भवेज्जन्मनि जन्मनि ।।

दक्षिणा

हिरण्य गर्भ गर्भस्थं हेमबीजं विभावसोः ।

अनन्त पुण्य फलद मतः शांतिं प्रयच्छ मे ।।

कर्पूर आरती

ॐ आरार्ति पार्थिव रजः पितुर प्रायिधामभिः ।

दिव सदा सि बृहती वितिष्ठ स आत्वेषं वर्तते तमः ॥

ॐ कदली गर्भ सम्भूतं कर्पूरं च प्रदीपितम् ।

आरार्तिक्यमहं कुर्वे पश्य मे वरदो भव ।।

मंत्र पुष्पाञ्जलि

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि

प्रथमान्यासन् तेहनाकं महिमानः सचन्त

यत्र पूर्वे साद्ध्याः सन्ति देवाः ।

मानसी प्रदक्षिणा

यानि कानि च पापानि जन्मान्तर कृतानि च ।

तानि तानि प्रदश्यन्ति प्रदक्षिणां पदे पदे ।।

विशेषार्ध्य

नमस्ते देवदेवेश नमस्ते धरणीधर ।

नमस्ते जगदाधार अर्घ्यं नः प्रतिगृह्यताम् ।।

वरदत्वं वरं देहि वांछितं वांछितार्थद ।

अनेन सफलार्येण फलदोऽस्तु सदा मम ।।

गतं पापं गतं दुःखं गतं दारिद्र्यमेव च ।

आगता सुख सम्पत्तिः पुण्योऽहं तव दर्शनात् ।।

पंचांगुली पूजन

पूजा के पश्चात् यंत्र की विशेष पूजा प्रारम्भ की जाय ।

आगे जारी........... पंचांगुली साधना

Post a Comment

0 Comments