गुरु कीलक

गुरु कीलक

दुर्गासप्तशती अथवा चण्डीनवशतीमन्त्रमाला के पाठ करने के समय यदि इस गुरु कीलक का पाठ किया जाता है तो सर्वसिद्धि की प्राप्ति होती है।

गुरुकीलक

गुरुकीलक

Guru kilak

गुरुकीलकम्

अथ गुरुकीलकम् ॥

पुरा सनत्कुमाराय दत्तमेतन्मयानघ ।

संवर्ताय ददौ तच्च न चान्यस्मै ददौ च तत् ॥१ ॥

सर्वत्र चण्डीपाठस्य प्राचुर्येण महीतले ।

ब्रह्मकाण्डः कर्मकाण्डः तन्त्रकाण्डश्च सर्वदा ॥२॥

अभूत्प्रतिहतोऽनेन शीघ्रसिद्धिप्रदायिना ।

तथा तेषां च सार्थक्यं कर्तु कामेन भूतले ॥३ ॥

दानप्रतिग्रहत्वेन मन्त्रोऽयं कीलितो मया ।

दानप्रतिग्रहाख्यं यत्कीलकं समुदाहृतम् ॥४॥

तदारभ्य च मन्त्रोऽयं कीलकेनाभिकीलितः।

न सर्वेषां भवेत्सिद्दयै ये कीलकपराङ्मुखाः ॥५॥

ये नराः कीलकेनेमं जपन्ति परया मुदा ।

तेषां देवी प्रसन्ना स्यात्ततः सर्वाः समृद्धयः ॥६ ॥

त्वत्प्रसूतस्त्वदाज्ञप्तस्त्वद्वासस्त्वत्परायणः ।

त्वन्नामचिन्तनपरस्त्वदर्थेऽहं नियोजितः ॥७ ॥

मयार्पितमिदं सर्वं तव स्वं परमेश्वरी ।

राष्ट्रं बलं कोशगृहं सैन्यमन्यच्च साधनम् ॥८॥

त्वदधीनं करिष्यामि यत्रार्थे त्वं नियोक्ष्यसि ।

तत्र देवी सदा वर्ते तवाज्ञामेव पालयन् ।।९॥

इति सञ्चिन्त्य मनसा स्वार्जितानि धनानि च ।

कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥१०॥

समर्पयेन्महादेव्यै स्वार्जितं सकलं धनम् ।

राष्ट्रं बलं कोशगृहं नवं यद्यदुपार्जितम् ॥११॥

अस्मिन्मासि मया देव तुभ्यमेतत् समर्पितम् ।

इति ध्यात्वा ततो देव्याः प्रसादात्प्रतिगृह्य च ॥१२॥

विभज्य पञ्चधा सर्वं त्र्यंशान्स्वार्थं प्रकल्पयेत् ।

देवपित्रतिथीनां च क्रियार्थं त्वेकमादिशेत् ।।१३॥

एकांश गुरवे दद्यात्तेन देवी प्रसीदति ।

तस्य राज्यं बलं सैन्यं कोशः साधु विवर्धते ॥१४॥

नानारत्नाकरः श्रीमान्यथा पर्वणि वारिधिः ।

ज्ञात्वा नवाक्षरं मन्त्रं जीवब्रह्मसमाश्रयम् ॥१५॥

तत्त्वमस्यादिवाक्यानां सारं संसारभेषजम् ।

नवशत्याख्यमन्त्रस्य (सप्तशत्याख्यमन्त्रस्य) यावज्जीवमहं जपम् ॥१६॥

कुर्वंस्ततो न प्रमादं प्राप्नुयामिति निश्चयम् ।

कृत्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ॥ १७॥

माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत् ।

अनिराकरणं मेऽस्तु अनिराकरणं मम ॥१८॥

इति वेदान्तमूर्धन्ये छान्दोग्यस्य प्रपञ्चनात् ।

प्रारभ्य तत्परित्यागो न तस्य श्रेयसे मतः ॥१९॥

नाब्रह्मवित्कुले तस्य जायते हि कदाचन ।

न दारिद्र्यं कुले तस्य यावत्स्थास्यति मेदिनी ॥२०॥

प्रतिसंवत्सरं कुर्याच्छारदं वार्षिकं तथा ।

तेन सर्वमवाप्नोति सुरासुरसुदुर्लभम् ॥२१॥

अन्यच्च यद्यत्कल्याणं जायते तत्क्षणे क्षणे ।

सत्यं सत्यमिदं सत्यं गोपनीयं प्रयत्नतः ।।२२॥

पुत्राय ब्रह्मनिष्ठाय पित्रा देयं महात्मना ।

अन्यथा देवता तस्मै शापं दद्यान्नसंशयः ।।२३॥

इति गुरुकीलकम् ।।

***

Post a Comment

0 Comments