दशपदी स्तुति

दशपदी स्तुति

माता श्रीविन्ध्यवासिनी की इस दशपदी स्तुति से आराधना सर्वमङ्गल को देनेवाला है ।

दशपदी स्तुति

विन्ध्यवासिनी दशपदी स्तुति

Dashapadi

दशपदी स्तोत्रम्

श्रीविन्ध्यवासिन्यै नमः

"सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां

शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् ।

ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैः स्तुतां

ध्यायेद् विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थञ्चाननाम्" ।।

दशपदी

सिंहस्था मृगराजगा च विजया दुर्गा च पद्मावती

नागाधीश्वरविष्टरा च ललिता लक्ष्मीः सरोजस्थिता ।

मातङ्गी च सुरत्नपीठपदवी स्तुत्याश्च सर्वाः परं

सौवर्णाम्बुजमध्यगा विजयतेतसां हि विन्ध्येश्वरी ।।१।।

हस्तास्याङ्घ्रिदशा परं त्रिनयना देवी महाकालिका

दुर्गा सिद्धिकरी जया शशिधरा ध्याता त्रिनेत्रा सताम् ।

आराध्या भुवनेश्वरी शिवशिवा युक्ता त्रिभिर्लोचनैः

सौम्या बाहुचतुष्टया त्रिनयना विन्ध्येश्वरी शङ्करी ॥ २ ॥

नीलाश्मद्युतिकालिकां भगवती कालाभ्रतुल्या जया

विद्युद्दामसमा दिवाकरनिभा दुर्गा च पद्मावती ।

ध्यातव्या च सरस्वती मतिमतां शीतांशुतुल्यप्रभा

दृश्या विन्ध्यनिवासिनी कलियुगे सौदामिनीसन्निभा ॥ ३ ॥

खड्गादिं दधती करैः सुविदिता श्यामाऽसतां भीषणा

मालाकुम्भकपालनीरजकरा पद्मावती संस्तुता ।

बालानां भुवनेश्वरी नहि तथा सौम्या सपाशाङ्कुशा

शङ्खं चक्रवराभयानि दधती विन्ध्येश्वरी वैष्णवी ॥ ४ ॥

देवी बद्धहिमांशुरत्नमुकुटा मूर्धेन्दुरेखा जया

मातङ्गी शशिखण्डधा शशिधरा दुर्गा च कामेश्वरी ।

ध्यातव्यता भुवनेश्वरीन्दुमुकुटा चन्द्रार्धपद्मावती

विन्ध्ये काऽपि निरीक्ष्यते सहृदयैरिन्दोः कलां बिभ्रती ॥ ५ ॥

कालीसर्वविभूषणावृतवपु: कह्लारमालाश्रिया

मातङ्गी करुणातरङ्गितदृशा स्तुत्या भवानी सती ।

मीन भास्वद्देहलता सुरत्ननिवहैः पद्मावती, विन्ध्यगा

ग्रैवेयाङ्गदहारकुण्डलधरा भूषामृदुर्माधवी ।।६।।

आदौ संस्तुतवांस्तथा कमलजो बोधाय कालीं हरे:

सिद्ध्यर्थं सुजनैर्जया सुरवृता कन्याभिरासेविता ।

ध्यातव्या ह्यणिमादिभिश्च किरणैः काम्यैर्भवानी वृता

विन्ध्यस्था शरणं स्वतो भुवि परञ्चाखण्डलाद्यैः स्तुता ।।७।।

भक्तानां वितनोति सौख्यनिकरं लक्ष्मीः प्रसन्नानना

मातुः पालनशिक्षणं वितनुते वक्त्रारविन्दश्रिया ।

संसारे भुवनेश्वरी स्मितमुखी स्तोतुश्च दाने सदा

विन्ध्याद्रौ पृथुलोचना शशिमुखी तापौषधिर्दर्शनात् ।।८।।

सिंहस्कन्धगता जया मृगपतिस्कन्धे च दुर्गा स्थिता

सर्वज्ञेश्वरभैरवाङ्कनिलया पद्मावती सुप्रिया ।

सिंहः पार्श्वगतः शिवोऽथ दयितः पञ्चाननो द्वावपि

प्रीतिं विन्ध्यगतोभयीं वितनुते पार्श्वस्थपञ्चानना ।।९।।

आख्याने प्रथमे स्तुता सुविधिना काली द्वितीये ततो

लक्ष्मीश्चापि सरस्वती च महती सर्वा तृतीयेऽन्ततः ।

मातङ्गी भुवनेश्वरी च विजया दुर्गा भवानी शिवा

तासां विन्ध्यनिवासिनी सकरुणा गङ्गासखीलोचना ।। १० ।।

विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् ।

सा सम्मुखगतानां हि प्रीणाति विन्ध्यवासिनी ।। ११ ।।

श्रीविन्ध्यवासिनी माता गीता दशपदीस्तुति: ।

वितनोतु सतां मोदं सर्वमङ्गलसंयुतम् ।।१२।।

॥ इति विन्ध्यवासिनी दशपदी स्तुति: ॥

Post a Comment

0 Comments