गणनायक अष्टकम्
भगवान गणेश के गणनायक अष्टकम् का
पाठ करने से सभी विघ्न-बाधा का नाश होकर पाठक विद्यावान् तथा धनवान् होता है उनका
सारे कार्य सिद्ध होता है ।
गणनायकाष्टकम्
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम्
।
लम्बोदरं विशालाक्षं वन्देऽहं
गणनायकम् ॥ १॥
मौञ्जीकृष्णाजिनधरं
नागयज्ञोपवीतिनम् ।
बालेन्दुसुकलामौलिं वन्देऽहं
गणनायकम् ॥ २॥
अम्बिकाहृदयानन्दं मातृभिः
परिवेष्टितम् ।
भक्तिप्रियं मदोन्मत्तं वन्देऽहं
गणनायकम् ॥ ३॥
चित्ररत्नविचित्राङ्गं
चित्रमालाविभूषितम् ।
चित्ररूपधरं देवं वन्देऽहं गणनायकम्
॥ ४॥
गजवक्त्रं सुरश्रेष्ठं
कर्णचामरभूषितम् ।
पाशाङ्कुशधरं देवं वन्देऽहं
गणनायकम् ॥ ४॥
मूषकोत्तममारुह्य देवासुरमहाहवे
योद्धुकामं महावीर्यं वन्देऽहं
गणनायकम् ॥ ५॥
यक्षकिन्नरगन्धर्वक्ष्
सिद्धविद्याधरैस्सदा
स्तूयमानं महाबाहुं वन्देऽहं
गणनायकम् ॥ ६॥
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम्
।
सर्वसिद्धिप्रदातारं वन्देऽहं
गणनायकम् ॥ ८॥
गणाष्टकमिदं पुण्यं यः पठे सततं नरः
सिद्ध्यन्ति सर्वकार्याणि
विद्यावान् धनवान् भवेत् ॥
इति श्रीगणनायकाष्टकं सम्पूर्णम् ।
0 Comments