सदाशिव शाकिनी कवचम्

सदाशिव शाकिनी कवचम्

श्रीरुद्रयामल उत्तरतन्त्र महातन्त्रद्दीपन सिद्धमन्त्रप्रकरण षट्चक्रप्रकाश सप्ततितम(७०)पटल में भैरवभैरवी संवाद के रूप में वर्णित इस  सदाशिव शाकिनी कवचम् अतिगुह्यसर्वसिद्धि और सर्वमनोरथ को पूर्ण करने वाला है ।

सदाशिवशाकिनीकवचम्

सदाशिवशाकिनीकवचम्

सदाशिव शाकिनी कवचम्

अथ सप्ततितमः पटलः

श्रीआनन्दभैरव उवाच

कथितं शाकिनीसारं सदाशिवफलोदयम् ।

श्रुतं परमकल्याणं भेदभाषाक्रमोदयम् ॥ ७०-१॥

इदानीं श्रोतुमिच्छामि कवचं सारदुर्लभम् ।

यस्य विज्ञानमात्रेण भवेत् साक्षात् सदाशिवः ॥ ७०-२॥

वद कान्ते शब्दमयि यदि स्नेहोऽस्ति मां प्रति ।

आनन्दभैरवं नत्वा सोवाचानन्दभैरवी ॥ ७०-३॥

श्रीआनन्दभैरवी उवाच

गुरोः परमकल्याणं कवचं कथये तव ।

सदाशिवस्य शाकिन्या भैरवानन्दविग्रह ॥ ७०-४॥

श्रृणुष्व कामदं नामाद्भुतं कवचमङ्गलम् ।

त्रैलोक्यसारभूतं च सर्वज्ञानविवर्धनम् ॥ ७०-५॥

सर्वमन्त्रौघनिकरं ज्ञानमात्रेण सिद्ध्यति ।

सर्वगूढप्रियानन्दं सामरस्यं कुलान्तरम् ॥ ७०-६॥

प्रचण्डचण्डिकातुल्यं सर्वनिर्णयसाक्षिणम् ।

सर्वबुद्धिकरानन्दं कुलयोगिमनोगतम् ॥ ७०-७॥

रामसेव्यं शिवं शम्भुसेवितं विषनाशनम् ।

अप्रकाश्यं महायोगं धनारोग्यविवर्धनम् ॥ ७०-८॥

सर्वसौभाग्यजननं सर्वानन्दकरं परम् ।

सर्वतन्त्रदुर्लभं यत् कथितं रुद्रयामले ॥ ७०-९॥

विनियोगकथनं

अस्य श्रीशाकिनीसदाशिवकामनानाममहाकवचस्य

सदाशिवऋषिर्गायत्रीच्छन्दः शाकिनी देवता

सकलहरीं जीवबीजं मायास्त्रशक्तिः कामस्वाहा कीलकं वज्रं

दंष्ट्राघोरघर्घरामहोग्राशाकिनीशक्तिः सदाशिवमहामन्त्रसिद्धये

विनियोगः ।

ॐ प्रभावा सदा पातु महाकाशाधिशाकिनी ।

त्रिगुणा चण्डिका पातु क्रोधदंष्ट्रा करालिनी ॥ ७०-१०॥

अनन्ताऽनन्तमहिमा महास्त्रदलपङ्कजम् ।

पूर्वाह्णं पातु सततं गायत्री सविता मम ॥ ७०-११॥

आकाशवाहिनी देवी शिरोमङ्गलमद्भुतम् ।

सर्वदा पातु मे गुह्यं लिङ्गं चक्रं सुधामयम् ॥ ७०-१२॥

महामण्डलमध्यस्था पातु मे भालमण्डलम् ।

सहस्रशतकोटीन्दुयोगिनीगणमण्डलम् ॥ ७०-१३॥

महाचक्रेश्वरी पातु महाचक्रेश्वरो मम ।

मुखाब्जं चण्डिका देवी दन्तावलिमनन्तकः ॥ ७०-१४॥

जिह्वाग्रं तालुमूलस्था तालुमूलं मनोजवः ।

तीक्ष्णदंष्ट्रा दन्तमध्यं कण्ठाग्रं चिबुकं शिवः ॥ ७०-१५॥

सदा पातु षोडशारं शाकिनी श्रीसदाशिवः ।

कण्ठमध्यस्थितं पातु महामोहविनाशिनी ॥ ७०-१६॥

प्रेतराजः सदा पातु महादेवी स्वपङ्कजम् ।

विद्यादेवी महाशक्तिः कूटस्थानं सदाशिवः ॥ ७०-१७॥

महाकाशावलघ्नी मे धूम्रां भोजञ्च धूर्जटी ।

कौमुदी पटलाङ्गी मे वर्णषोडशसंज्ञकम् ॥ ७०-१८॥

अकारादिकान्तवर्णान् श्रीदेवी परिपातु मे ।

हेमचित्ररथस्था मे चित्रिणी पातु मे मधु ॥ ७०-१९॥

अपर्णा या विशुद्धं मे षोडशी षोडशाक्ष्यकम् ।

पञ्चदुर्गा सहदेवः प्रत्येकं पातु मे दलम् ॥ ७०-२०॥

दीपमासहल्कीं मे प्रवरा पातु मे बला ।

व्यापिनी चानवच्छिन्ना पातु मे दलमण्डलम् ॥ ७०-२१॥

अकालतारिणी दुर्गा शुक्रं चक्रं सदावतु ।

शाकिनीशो महामाया परिवारान्विताऽवतु ॥ ७०-२२॥

पञ्चरश्मिनीलकण्ठो मधुपूरं स्वपीठकम् ।

सदा पातु कण्ठपङ्केरुहाश्रयस्वरानपि ॥ ७०-२३॥

कण्ठस्वर्गः सदा पातु कन्दर्पेशो मनोगतिः ।

शाकिनी शाकविभवा शाकेशी शाकसम्भवा ॥ ७०-२४॥

शाकम्भरीश्वरा पातु सुमना दलषोडशम् ।

सदाशिवः सदा पातु परिवारगणैः सह ॥ ७०-२५॥

हृदयं शाकिनी देवी शिरःस्थानं सदावतु ।

काकिनीसहितं पातु द्वादशारं कुलेश्वरी ॥ ७०-२६॥

दलद्वादशकं पातु कामनाथः सदाशिवः ।

अभेदरूपिणी पातु कादिठान्ताक्षरं मम ॥ ७०-२७॥

वाणी मे हृदयग्रन्थिर्देशं तु कपिलेश्वरः ।

पायान्मेघं च सूर्यास्या विमाया हृत्सु कर्णिकाम् ॥ ७०-२८॥

तालहस्ता महावाणी पातु मे हृदयान्तरम् ।

शोषिणी मोहिनी वह्निः पातु मे हृदयाम्बुजम् ॥ ७०-२९॥

पिलापिप्पलादेशो रतिर्मे हृदयेप्सितम् ।

योगिनीकुलदन्तश्च पातु मे हृत्स्वरानपि ॥ ७०-३०॥

केकरेशो गूढसंज्ञा वज्रधारी हृदम्बुजम् ।

एकलिङ्गी सदा पातु हृदयान्तः शिवं मम ॥ ७०-३१॥

तदधो मण्डलं पातु भेदाभेदविवर्जिता ।

अकाललक्षणः पातु पाशिनी नाभिमण्डलम् ॥ ७०-३२॥

कालकूटस्वरूपो मे नाभिपद्मं प्रपातु मे ।

चन्द्रचूडा विधुमुखी शाकिनी मे दशाम्बुजम् ॥ ७०-३३॥

त्रिवृत्ताकारमुद्रा मे पातु रुद्रश्च लाकिनीम् ।

त्रिखण्डारोहणः पातु डादिफान्ताक्षरानपि ॥ ७०-३४॥

कालिका कपिला कृष्णा घनावाला कपालिनी ।

ललिता तारिणी सर्वां महामाया दशच्छदम् ॥ ७०-३५॥

परिपातु कामदुर्गा लाकिनी पातु मे सदा ।

सदाशिवः पातु नित्यं मणिपूरं कुलस्थलम् ॥ ७०-३६॥

जाड्यनाशकरी दुर्गा मुण्डमालाविभूषिता ।

मां पातु सप्तरोधात्मा केशवेशी महापदम् ॥ ७०-३७॥

अभया चण्डिका कृष्णा कालिका कुलपण्डिता ।

वज्रवर्णा धारणाख्या धरा धात्री क्षमा रमा ॥ ७०-३८॥

वासुकी वसुधा वाच्या सर्वाणी सर्वमङ्गला ।

पार्वती सर्वशक्तिस्था पार्वणे परिपातु माम् ॥ ७०-३९॥

रणे राजकुले द्यूते वादे मानापमानके ।

गेहेऽरण्ये प्रान्तरे च जले चानलमध्यके ॥ ७०-४०॥

सर्वाणी सर्वदा पातु महातन्त्रार्थभूषिता ।

विजया पद्मिनी जाया जानकी कमलावती ॥ ७०-४१॥

एताः पान्तु दिग्विदिक्षु महापातकनाशनाः ।

अन्तरं पातु लिङ्गस्था लिङ्गमूलाम्बुजं मम ॥ ७०-४२॥

कर्णिकां पातु सततं काञ्चीपीठस्थिता शिवा ।

अतिवेगान्विता पातु वह्निमण्डलमेव मे ॥ ७०-४३॥

राक्षसीशा सदा पातु जम्बुद्वीपनिवासिनी ।

जाह्नवी भास्करा मौना मलयस्था मलाङ्गजा ॥ ७०-४४॥

मतितप्ता पापहन्त्री परिपातु विभाकरी ।

लयस्थानं सदा पातु कुञ्जरेश्वरसंस्थिता ॥ ७०-४५॥

विंशत्यर्णमहाविद्या लम्बमाना कुलस्थली ।

मन्दिरे पातु मां नित्यं वित्तसंहारकारिणी ॥ ७०-४६॥

अनन्तशयना पातु वटमूलनिवासिनी ।

प्रलये मां काली पातु वटपत्रनिवासिनी ॥ ७०-४७॥

केवलाख्या सदा पातु महाकूर्चस्वरूपिणी ।

आयुरारोग्यदात्री मे धनं राज्यं सदावतु ॥ ७०-४८॥

कामरूपं गृहं पीठं परिपातु महाबला ।

बलाका घोरदंष्ट्रा मे उदरं पातु सर्वदा ॥ ७०-४९॥

सर्वरोगहरा पातु मुण्डमालाविभूषिता ।

आनन्दो नन्दनाथो मे हृदूर्ध्वाब्जं सदाऽवतु ॥ ७०-५०॥

षट्पद्मं सर्वदा पातु नानारूपविहारिणी ।

अकलङ्का निराधारा नित्यपुष्टा निरिन्द्रिया ॥ ७०-५१॥

षोडशोर्ध्वं महापद्मं द्विदलं पातु सर्वदा ।

दिग्विदिक्षु सदा पातु शाकिन्याद्यष्टशक्तयः ॥ ७०-५२॥

अतिगुप्तस्थलं पातु पापनाशकरी परा ।

क्षालनाख्या लिङ्गगुह्ये पातु मे पावनं प्रभा ॥ ७०-५३॥

विप्रचित्ता कोटराक्षी लिपिभूता सरस्वती ।

चतुर्दलं सदा पातु विभूतिः कामया सह ॥ ७०-५४॥

पान्तु विद्याः सदैताश्च रिपुपक्षविनाशनाः ।

कटिदेशं सदा पातु चामुण्डा शूलधारिणी ॥ ७०-५५॥

त्रिनेत्रा सर्वदा पातु भूर्भुवःस्वःस्वरूपिणी ।

वसन्तादिकलाः पान्तु पामरोग्रप्रतापिनी ॥ ७०-५६॥

षड्भुजा सर्वदा पातु वेदहस्ता प्रपातु माम् ।

अतिविद्या सर्वविद्या चण्डविद्या प्रपातु माम् ॥ ७०-५७॥

वारुणी मदिरा पातु सर्वाङ्गं शाकिनी मम ।

गृहोदरी सदा पातु सर्वाङ्गं वज्रधारिणी ॥ ७०-५८॥

उल्कामुखी सदा पातु भृगुवंशसमुद्भवा ।

अकालतारिणी दुर्गा ललिता धर्मधारिणी ॥ ७०-५९॥

विंशत्यर्णा महाविद्या सर्वत्र सर्वदाऽवतु ।

हसकलहरीं विद्या परिपातु सदाशिवा ॥ ७०-६०॥

सहस्रवदना वाणी परिपातु जलोदरी ।

जलरूपा सदा पातु महोज्ज्वलकलेवरा ॥ ७०-६१॥

षोडशी सकलहरीं सर्वाणी पातु पार्वती ।

महामत्ता सदा पातु कामनाथप्रपूरका ॥ ७०-६२॥

वामदेवी सदा पातु सर्वाङ्गे देहदेवता ।

कामपीठस्थिता दुर्गा परिवारगणावृता ॥ ७०-६३॥

सदाशिवः सदा पातु सामवेदस्वरूपगा ।

श्मशानवासिनी देवी महाकालसमन्विता ॥ ७०-६४॥

आर्या देवी सदा पातु माता पातु महाकला ।

सर्वत्र कपिला पातु महाभगवतीश्वरी ॥ ७०-६५॥

फलश्रुतिकथनं

 इति ते कथितं नाथ महाविद्याफलप्रदम् ।

कवचं दुर्लभं लोके तव स्नेहात् प्रकाशितम् ॥ ७०-६६॥

अतिगुह्यतरं ज्ञानं कवचं सर्वसिद्धिदम् ।

अमलोदारचित्तः सन् पूजयित्वा सदाशिवम् ॥ ७०-६७॥

तथा श्रीशाकिनीदेव्याः पूजनं सुमहत्फलम् ।

राज्यदं धनदं वाञ्छासिद्धिदं धर्मसिद्धिदम् ॥ ७०-६८॥

वाचां सिद्धिं करे प्राप्य अष्टसिद्धिः करे भवेत् ।

काकिनीदर्शनं प्राप्य शाकिनीदर्शनं भवेत् ॥ ७०-६९॥

मन्त्रसिद्धिं तन्त्रसिद्धिं क्रियासिद्धिं लभेद् ध्रुवम् ।

आकाशगामिनी सिद्धिः करे तस्य विराजते ॥ ७०-७०॥

पुरुषो दक्षिणे बाहौ योषिद्वामभुजे तथा ।

धृत्वा कवचराजं तु राजत्वं लभते ध्रुवम् ॥ ७०-७१॥

महापातककोटीश्च हत्वा राजत्वमालभेत् ।

वने वृक्षतलेऽश्वत्थमूले स्थित्वा पठेद् यदि ॥ ७०-७२॥

त्रिसन्ध्यं दशधा जप्त्वा शतधा वा सहस्रधा ।

स भवेत् कल्पवृक्षेशो भूमीशो नात्र संशयः ॥ ७०-७३॥

कोटिवर्षसहस्राणि चिरजीवी स योगिराट् ।

महासिद्धो भवेद् धीमान् महापातकनाशकृत् ॥ ७०-७४॥

मासार्धेन भवेद् योग्यो विप्रो गुणसमन्वितः ।

वर्षैकेण क्षत्रियश्च वैश्यो वर्षचतुष्टये ॥ ७०-७५॥

शूद्रो द्वादशवर्षेण योगी भवति पाठतः ।

एवं महाफलं नित्यं कवचं यः पठेत् सुधीः ॥ ७०-७६॥

भोगमोक्षौ करे तस्य किमन्यैर्बहुभाषितैः ॥ ७०-७७॥

इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे

षट्चक्रप्रकाशे भैरवभैरवीसंवादे सदाशिवशाकिनीकवचफलादेशो

नाम सप्ततितमः पटलः ॥ ७०॥

Post a Comment

0 Comments