श्रीसदाशिवकवचस्तोत्रम्

श्रीसदाशिवकवचस्तोत्रम्

इससे पूर्व आपने श्रीरुद्रयामल के उत्तरतन्त्र से प्रासादाख्य मन्त्र कवच को पढ़ा।इसी क्रम में अब यहाँ भगवान श्री सदाशिव से प्रासाद स्वरूप आशीर्वाद प्राप्त करने के लिए श्रीभैरवतन्त्र से श्रीसदाशिवकवचस्तोत्रम् दिया जा रहा है।

श्रीसदाशिवकवचस्तोत्रम्

श्रीसदाशिवकवचस्तोत्रम्

श्रीदेव्युवाच-

भगवन्देवदेवेश सर्वाम्नाय प्रपूजित ।

सर्वं मे कथितं देव कवचं न प्रकाशितम् ॥ १॥

प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय ।

सर्वरक्षाकरं देव यदि स्नेहोऽस्ति मां प्रति ॥ २॥

श्रीभगवानुवाच-

प्रासादमन्त्रकवचस्य वामदेवऋषिः ।

पन्क्तिश्छन्दः । सदाशिवो देवता ।

सकलाभीष्टसिद्धये जपे विनियोगः ।

शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ।

षडक्षरस्वरूपो मे वदनं तु महेश्वरः ॥ ३॥

पञ्चाक्षरात्मा भगवान्भुजौ मे परिरक्षतु ।

मृत्युञ्जयस्त्रिबीजात्मा आस्यं रक्षतु मे सदा ॥ ४॥

वटमूलं समासीनो दक्षिणामूर्तिरव्ययः ।

सदा मां सर्वदः पातु षट्त्रिंशार्णस्वरूपधृक् ॥ ५॥

द्वाविंशार्णात्मको रुद्रो दक्षिणः परिरक्षतु ।

त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ ६॥

चिन्तामणिर्बीजरूपो ह्यर्धनारीश्वरो हरः ।

सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ ७॥

एकाक्षरस्वरूपात्मा कूटव्यापी महेश्वरः ।

मार्तण्डभैरवो नित्यं पादौ मे परिरक्षतु ॥ ८॥

तुम्बुराख्यो महाबीजस्वरूपः त्रिपुरान्तकः ।

सदा मां रणभूमौ च रक्षतु त्रिदशाधिपः ॥ ९॥

ऊर्ध्वमूर्द्धानमीशानो मम रक्षतु सर्वदा ।

दक्षिणास्यं तत्पुरुषः पायान्मे गिरिनायकः ॥ १०॥

अघोराख्यो महादेवः पूर्वास्यं परिरक्षतु ।

वामदेवः पश्चिमास्यं सदा मे परिरक्षतु ॥ ११॥

उत्तरास्यं सदा पातु सद्योजातस्वरूपधृक् ।

इत्थं रक्षाकरं देवि कवचं देवदुर्लभम् ॥ १२॥

प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ।

पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ॥ १३॥

कीर्तिश्रीकान्तिमेधायुः सहितो भवति ध्रुवम् ।

कण्ठे यो धारयेदेतत्कवचं मत्स्वरूपकम् ॥ १४॥

युद्धे च जयमाप्नोति द्यूते वादे स साधकः ।

कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥ १५॥

देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः ।

कवचं शिरसा यस्तु धारयेद्यतमानसः ॥ १६॥

करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः ।

भूर्जपत्रे त्विमां विद्यां शुक्लपक्षेण वेष्टिताम् ॥ १७॥

रजतोदरसंविष्टां कृत्वा वा धारयेत्सुधीः ।

संप्राप्य महतीं लक्ष्मीमन्ते मद्देहरूपभाक् ॥ १८॥

यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।

शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ १९॥

अन्यथा सिद्धिहानिः स्यात्सत्यमेतन्मनोरमे ।

तव स्नेहान्महादेवि कथितं कवचं शुभम् ॥ २०॥

न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् ।

यो अर्चयेद्गन्धपुष्पाद्यैः कवचं मन्मुखोदितं

तेनार्चिता महादेवि सर्वे देवा न संशयः ॥ २१॥

इति श्रीभैरवतन्त्रे श्रीसदाशिवकवचं सम्पूर्णम् ।

About कर्मकाण्ड

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 $type={blogger} :

Post a Comment