ईश्वर स्तोत्र
भगवान शिव को ईशान या ईश्वर भी कहते
हैं । शिव की आठ मूतियों में ईश्वर भी एक है। यहाँ श्री रुद्रयामल के उत्तरतन्त्र महातन्त्रोद्दीपन अनाहत पद्म षष्टितम
पटल(६०) में सुरस्तवनम् या ईश्वर स्तोत्रम् नाम से तथा सिद्धमन्त्रप्रकरण के षट्चक्रप्रकाश
भैरवीभैरवसंवाद द्विषष्टितम पटल(६२) में ईश्वर स्तोत्र नाम से दिया गया है। ईश्वर
के इस स्तोत्र के पाठ करने से अकालमृत्यु से रक्षा होती है और पाठक दीर्घजीवी होता
है ।
ईश्वर स्तोत्रं अथवा सुरस्तवनम्
अथ षष्टितमः पटलः
आनन्दभैरव उवाच
वद कान्ते परानन्दे रहस्यं
कुलसुन्दरि ।
यस्य विज्ञानमात्रेण भवेद् गङ्गाधरो
हरिः ॥ ६०-१॥
ईश्वरस्य स्तवब्रह्मपरं
निर्वाणसाधनम् ।
शोभाकोटियोगपतेर्योगेन्द्रस्य
परापतेः ॥ ६०-२॥
ईश्वरं के न मानन्ति ब्रह्मविष्णुशिवादयः
।
तस्य स्मरणमात्रेण महावाग्ग्मी च
मृत्युजित् ॥ ६०-३॥
मन्त्री वेदान्तसिद्धान्तं तं
भजन्ति महर्षयः ।
देवा मनुष्या गन्धर्वास्तं भजन्ति
महेश्वरम् ॥ ६०-४॥
अकालमृत्युहरणं सर्वदा सर्वतोमुखम्
।
सदा तस्य स्तवं दिव्यं
श्रोतुमिच्छामि शाङ्करि ॥ ६०-५॥
सुरस्तवनं
श्रीआनन्दभैरवी उवाच
कौल त्वं श्रृणु शङ्करप्रियकरं
स्तोत्रं तदीशस्य च
श्रीनाथाय नमः कुलेश परमप्राणेश
तुभ्यं मुदा ।
सानन्दाय नमो भवाय पतये लोकेश्वरायो
ॐ नमो
भूतेशाय गणाधिपाय यतये श्रीशूलिने
ते नमः ॥ ६०-६॥
कान्ताय प्रणवाय योगपतये
योगेश्वरायो ॐ नमो
महारायाक्षरेश्वराय महते नित्याय
नित्यं नमः ।
स्वाधिष्ठानविभेदकाय हरये
मूलाब्जसम्भेदिने ।
नाभेरम्बुजभेदिने
हृदयाम्भोद्भिदकायों नमः ॥ ६०-७॥
कालाय प्रणवाय मायवशिने नित्यं नमो
भास्वते
मोक्षाय प्रमथेश्वराय कवये
खट्वाङ्गहस्ताय ते ।
भक्तिश्रीनिधये महेन्द्रखचराय
मायाश्रयायों नमो ।
विज्ञानाय शिवाय सूक्ष्मगतये गूढाय
भूयो नमः ॥ ६०-८॥
सर्वज्ञाय जयाय भूतिपतये भूतेश्वराय
प्रभो
पञ्चास्याय हराय देवपतये गौरीश्वराय
श्रिये ।
भोगायान्तरगामिने
हरिहरायानन्दचिद्रूपिणे
कल्याणाय भगाय शुद्धमतिभिर्नित्यं
नमस्ते नमः ॥ ६०-९॥
गोविन्दप्रियवल्लभाय विधये
ब्रह्मादिकोत्पत्तये
उत्पत्तिस्थितिसंहृतिप्रकृतये
बाह्याय विश्वेश्वर ।
तुभ्यं काल नमो नमः
प्रलययोगोल्लासिने भूभृते
विज्ञाताय गिरीन्द्रपूजित विभो
भूताधिपायानिशम् ॥ ६०-१०॥
गौरीशाय गणार्चिताय मनसे मान्याय
भूवासिने
भूतोत्साहमहीशनाथशशिचूडाय प्रधानाय
ते ।
नित्यं नित्यकलाकुलाय फणिचूडाय
प्रबुद्धाय ते
तेजःशान्तिपते सतां पतिपते
निर्वाससे ते नमः ॥ ६०-११॥
शोभाकोटियुताय चन्द्रकिरणाह्लादाय
सूक्ष्माय ते
तुभ्यं नाथ नमो नमः
प्रणमतामानन्दसिन्धूत्सवा ।
हेरम्ब
श्रयकार्तिकेयजनकानन्दप्रियाय प्रभो
पित्रे सर्वसुखाय सर्वपतये
श्रीनीलकण्ठेश्वर ॥ ६०-१२॥
त्रिब्रह्मार्पितभूतये सुरतये
श्रीभास्वते योगिना-
मानन्दोदयकारिणे कुलपते ते नाथ
तुभ्यं नमः ।
ब्रह्मानन्दकुलाय रौप्यगिरये
सौन्दर्यसंसिद्धये
सर्वानन्दकराय सम्परतरायाढ्याय
सत्यं नमः ॥ ६०-१३॥
काशीशं कौशिकीशं सुरतरुकिरणं
कारणाख्यं सुखाख्यं
गौरीशं गङ्गिरीशं
गुरुमगुरुगिरिश्रेणिलिप्ताङ्गवङ्गम् ।
घोषाख्यं मञ्जुघोषं घनगणघटितं
घोरसङ्घट्टनादं
चार्वीशं राघवेशं घनहृदि घटमामीश्वरं घौटकेशम् ॥
६०-१४॥
लाक्षाभाण्डं विशालो वसति तव करे
स्थावरो जङ्गमो वा
भूताध्यक्षो वशिष्ठः स्वपरिजनकुले
सर्वदा पाहि शम्भो ।
भक्तिज्ञानं न दातुं
चपलमलमणिश्रेणिमाला विलोला
लोकाभीतो कलङ्की
विधिशतमुकुटश्रीपदाम्भोरुहं ते ॥ ६०-१५॥
धूर्तः शौरिः प्रशान्तो
विमलमधुरसामोदमानोऽप्रमत्तो
मायामोहापदेवी सुरमदमदनो
दानसम्मानदाता ।
त्वं नाथं श्रीपदाम्भोरुहविमलतले ते
कथं ना सुरक्षे
पूर्वास्यो दक्षिणास्यो धनपतिवदनः
पश्चिमास्यो मुनिस्त्वम् ॥ ६०-१६॥
भेदी सिद्धान्तविद्याधरनिधिकिरणः
कारणोऽनन्तशक्ति-
र्यः साक्षात् कामधेनुः स च धनपतिपः
सर्वभोगानुरागी ।
पादाम्भोजे हि नित्यं कलगिरिसुतानाथ
ते योगिपत्वम् ।
चित्तं मे चञ्चलाख्यं शशिधरकिरणो
वाक्पते योगसिद्धिः ॥ ६०-१७॥
कपर्दी श्रीखड्गासिवरगदया वेदभुजया
घनच्छायासङ्कोचरचनावशच्छद्मविजयः ।
जयी जेता जायेर्जयमनुकरोतु श्रियतमो
ज्वलज्झञ्झावाते क्षणधर इह क्रोध
इति मे ॥ ६०-१८॥
अथाऽऽज्ञा
चक्रान्तर्गतविवरमाच्छन्नजटिलः
प्रतिज्ञाभङ्गस्थकटकशतकोटिप्रकटितः
।
कुठारस्ते क्रोधी कमठकटवासी कठिनहा
ककाराद्यं नत्वा दशकिरणमानोऽवतु सदा
॥ ६०-१९॥
सुधाखण्डादेव्याः स्तवनपठनेन
प्रियकरं
पदाम्भोजं चेति प्रचयति स्वभाग्यं
कुलपते ।
प्रधाने भूखण्डे जयति यदि
मृत्युञ्जयपदं
विनोदं भूयोगं पचति सहसा प्रेमतरलः
॥ ६०-२०॥
यद्येवं प्रपठेदिदमनियतं
कौलावलीसंयुतं
स्तोत्रं
साररहस्यभारपरमानन्दैकचित्तस्थलम् ।
योगीन्द्रावगतित्वमुक्तफलदं
सर्वेश्वरत्वं पदं
चन्द्रादित्यसमागतं
परपदाह्लादैकमात्रं लभेत् ॥ ६०-२१॥
ते शम्भो यदि
पादाम्भोरुहमङ्गलवल्लिका ।
पूज्यते सर्वदा योगी
निर्वाणगुणसिद्धये ॥ ६०-२२॥
किन्न सिद्ध्यति भ्रूमध्ये
शिवभक्तिप्रसादतः ॥ ६०-२३॥
इति श्री रुद्रयामले उत्तरतन्त्रे
महातन्त्रोद्दीपने अनाहत पद्मे सुरस्तवनं नाम षष्टितमः पटलः ॥ ६०॥
ईश्वर स्तोत्रम् २
अथ द्विषष्टितमः पटलः
श्रीआनन्दभैरवी उवाच
अथ नाथ प्रवक्ष्येऽहं
काकिनीगुरुदेवयोः ।
मन्त्रोद्धारस्तव ज्ञानं येन सिद्धो
भवेद् यतिः ॥ ६२-१॥
एतत्स्तवनपाठेन
सहस्राख्यान्तसिद्धिषु ।
राजत्वं
लभते सद्योऽथवा योगी च सम्पदि ॥ ६२-२॥
यथा जनकराजा च विषये गुरुभक्तिमान्
।
महासिद्धो महाज्ञानी तथा भवति साधकः
॥ ६२-३॥
सुरा नागा रुद्रगणाः सर्वे
विद्यार्थसेवकाः ।
योगी ज्ञानी तथा सिद्धाः खेचरा
यक्षराक्षसाः ॥ ६२-४॥
मुनयः क्रोधवेतालास्तथा
चण्डेश्वरादयः ।
एतच्छुभस्तवेन्द्रेण स्तुत्वा
सर्वत्र सिद्धिगाः ॥ ६२-५॥
पूर्णः
पूर्णेन्दुबिम्बाननकमलकटाक्षादघौघापहारी
नारीन्धाता विधाता समवति न च तान्
योगयोग्यान् महेन्द्रान् ।
सम्पत्तिप्राणयोगी
निरवधिवरदानन्दगोप्ता शरीरो
बालो मृत्युञ्जयस्य प्रभुरिति भयहा
पातु मे गुप्तदेहम् ॥ ६२-६॥
कामक्रोधापहन्ता जनयति भरतान्
भारतान् पातु पृथ्वीं
यो योगी भावयोगी मम कुलफलदः सर्वदा
शं करोतु ।
तत्क्रोडे लोकचक्रं
तिलतुलतुलसेसन्निभं भाति सूक्ष्मं
तच्छ्रीनाथाङ्घ्रिपादद्वयमजरमहं
भावये हृत्प्रपञ्चे ॥ ६२-७॥
मायां मोहे विवेकी
शत-कितव-रिपूच्छेदकः प्रेरकस्थ-
कोर्षाणी गुप्ततन्द्रावनिभवमनुजो यो
महामङ्गलस्थः ।
लोकातीतो तितीरो जय जय करुणानाथ
दाता तपस्वी
मन्त्रोद्धारार्थगुप्तं समवति य इह
प्राणनाथं तमीडे ॥ ६२-८॥
भावान्तो योऽतिगुर्वी हृदि
जयकमलेऽतेऽमरप्रत्यथर्वो
वाग्देवी देवतायै नम इति मनुना
मोहितो वाक्पतीशः ।
मन्त्रार्थोद्दीपनाख्यो
विजयसखाकोटिभिर्वेष्टितो यो
बालार्कानन्दरश्मिप्रचयशतमखः पातु
मां दुःखजालात् ॥ ६२-९॥
हृष्टाङ्गा
सङ्गताङ्गाननविमलशिखाकोटिभिर्वर्जितो यो
मन्त्राच्चैतन्यहर्ता प्रणवमयशिवं
तत्सदान्ते शिवं च ।
ध्यात्वा माहेश्वरायां नम इति
जपनात् ते महेन्द्राधिपः स्यात्
कालीपुत्रः स एव त्वमभयवरदः सेव्यते
यैः स मुक्तः ॥ ६२-१०॥
हंसः प्राणाविहन्ता
त्वमखिलवरदस्त्वं निदानः प्रधानः
शान्तीशस्त्वं प्रतिष्ठः प्रणवशिवसदाभद्रमाहेश्वराय
।
अन्तेऽत्युच्चैर्नमोऽन्ते मनुमिह
जपते सम्पदे दोषभङ्गा-
दानन्दाब्धौ त्वमीशो गुरुरिह चपलं
चापलं मां प्रपाहि ॥ ६२-११॥
आनन्दोद्रेककारी त्वमपि सकरुणासागरो
भक्तिदाता
दाता विद्याधरीणां त्वमपि सुररिपुः
पार्वतीप्राणनाथः ।
तारे बिन्द्वाधराढ्यं
क्षरमथविधुमत्तं मन्त्रमेकाक्षरं ते
तारान्तं त्र्यक्षरन्तं प्रजपति यदि
यो योगिराड् भूतले स्यात् ॥ ६२-१२॥
सर्पाण्डस्थं सुसिद्धो हरविधुमधरं
चन्द्रबिन्दुस्वरूपं
जप्त्वा नित्यं विलोमं प्रणवमृतिहरं
वह्निकान्ता तदन्ते ।
एतद्रूपं पदं यो भजति वरगतं
हेममञ्जीरनादं
मम्रेक्षानन्दचित्तं
विजयवरकुलानन्ददः प्राणगं ते ॥ ६२-१३॥
उच्चाटे मोहने वाप्यरिवशसमये
शान्तिपुष्ट्यान्तवश्ये
ते मन्त्रान् योजयित्वा जपति यदि
सुधीः श्रीपदाब्जावलम्बी ।
सिध्येत् षट्कर्मसारं परमगुरुगतः स
भवेत् कल्पशाखी
राजेन्द्रः सर्वलोके धनपतिसदृशः
शम्भुनाथप्रसादात् ॥ ६२-१४॥
खान्तं शक्रादिरूढं विधुनयनयुतं
कामबीजं त्रिशक्तिं
चाद्येऽन्ते ॐ शिवायानलवधुमिलितं यो
जपेन्नाथमन्त्रम् ।
तेनाम्नायो जपित्वा कुलपथनिरतः
साधकः श्रीवरेण्यः
किं तस्यासाध्यसिद्धिं त्रिजगति स
सुखी सन्मुखी योगमार्गी ॥ ६२-१५॥
सर्वातीतो विहारी पदगतिरहितः
सर्वगामी विरामी
हस्ताभावो विनेता निरवधिवरदः
सर्वरूपी विरूपी ।
मन्त्रज्ञस्त्वं सुमन्त्री महमयसमयः
संशयासारहन्ता
मन्ता विश्वेश्वरीणां
परपशुपतयेऽन्ते नमः पातु नम्रम् ॥ ६२-१६॥
योगी भोगी विरागी त्वमतुलविभवः
सम्भवः पञ्चचूडो
वाणी शेषः प्रियेशः शशिग्रथितमृडाशोभिताङ्गो
ह्यनङ्गः ।
कामो माया रमेशः प्रथमदिनकरश्रेणि
शोभावलिप्तः
सर्वाङ्गं यः प्रपायादमलकमलगः
क्रोधगो योऽवलोकम् ॥ ६२-१७॥
एतच्छ्रीशङ्करस्तोत्रं यः
पठेन्नियतः शुचिः ।
संवत्सराद् भवेत् सिद्धिः
सर्वज्ञानप्रदायिनी ॥ ६२-१८॥
शुचौ वाप्यशुचौ स्तौति भक्त्या यः साधकोत्तमः
।
स सर्वयातनामुक्तो योगी
ग्रन्थिविभेदकः ॥ ६२-१९॥
अकस्मात् सिद्धिमाप्नोति
प्रेमानन्दसुभक्तिदाम् ।
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः
स्मृतः ॥ ६२-२०॥
न स्नानं न जपः कार्यं न
पूजादिविधानकम् ।
केवलं स्तवपाठेनानाहते सुस्थिरो
भवेत् ॥ ६२-२१॥
चिरञ्जीवी वीतरागो वीतसंसारभावनः ।
पठित्वा धारयित्वा च योगभ्रष्टो न
सम्भवेत् ।
अनायासे योगसिद्धिं प्राप्नोति
विपुलां श्रियम् ॥ ६२-२२॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे
भैरवीभैरवसंवादे ईश्वरस्तोत्रविन्यासो नाम द्विषष्टितमः पटलः ॥ ६२॥
0 Comments