स्वर्णाकर्षण भैरव स्तोत्रम्

स्वर्णाकर्षण भैरव स्तोत्रम्

यह श्री स्वर्णाकर्षण भैरव स्तोत्रम् रुद्रयामल तन्त्र में ईश्वर और दत्तात्रेय के संवादरूप में कहा गया है। इसके आरम्भ में श्रीमार्कण्डेय ऋषि ने इस स्तोत्र के लिए पूछा है तथा श्रीनन्दिकेश्वर ने लोकोपकार की दृष्टि से इसका कथन किया है। वहीं इसका फल कहा गया है कि-यह दुर्लभ स्तोत्र है, सर्वपापों का नाशक है। सर्वविध सम्पत्ति का दाता, दरिद्रता को मिटाने वाला, आपत्ति निवारक, अष्टविध ऐश्वर्यदाता, विजयप्रद, कीर्तिकारी, सौन्दर्यकर, स्वर्णादि अष्टसिद्धि का दाता सर्वोत्तम एवं भुक्ति-मुक्ति को देने वाला है। महाभैरव के भक्त, सेवाभावी, निर्धन तथा गुरुभक्त को यह स्वर्णाकर्षण भैरव स्तोत्रम् देना चाहिए। इतना कहकर ब्रह्मा, विष्णु और शिवरूप श्री भैरव का यह स्तोत्र सुनाया गया है।

इस स्वर्णाकर्षण भैरव स्तोत्रम् का विनियोग, ऋष्यादिन्यास, करन्यास, हृदयादिन्यास, ध्यान और मुद्राप्रदर्शन करके भक्तिपूर्वक पाठ करना चाहिए।

पूरा स्वर्णाकर्षण भैरव स्तोत्र तीन अंशों में है, जिनमें पहला अंश स्तोत्र की प्राप्ति के उपक्रम और महत्त्व का सूचक है। दूसरा अंश मूल स्तोत्ररूप है, जिसमें श्री स्वर्णाकर्षण भैरव के प्रस्तुत स्तोत्र के विनियोग, ऋष्यादिन्यास, करन्यास, हृदयादिन्यास, ध्यान एवं मुद्रा-प्रदर्शन का निर्देश करके नमस्कार सहित नामावलीरूप स्तोत्र का पाठ दिया है। तीसरा अंश स्तोत्र की फलश्रुति का है,जिसमें स्तोत्र-पाठ के फल और पाठ-विधि के संकेत हैं।

इस स्वर्णाकर्षण भैरव स्तोत्रम् फलश्रुति का सार यह है कि-महाभैरव का यह स्तोत्र अति दुर्लभ है, मन्त्रात्मक, महापुण्य एवं सर्वैश्वर्य का दाता है। इसके एकाग्रचित्त होकर एकान्त में पाठ से पापमुक्ति, महान् लक्ष्मी, चिन्तामणि-कामधेनु-कल्पतरु के समान अष्ट ऐश्वर्य तथा शीघ्र ही स्वर्णराशि की प्राप्ति होती है। त्रिकाल दस पाठ करने से स्वप्न में साक्षात भैरव भगवान् पधारकर तत्काल स्वर्णराशि प्रदान करते हैं। प्रतिदिन आठ आवृत्ति करने से साधक एक सप्ताह में ही इच्छित फल प्राप्त करता है। नित्य पाठ से सर्व वशीकरण, अचल लक्ष्मी की प्राप्ति, भयनाश, शत्रुनाश, दरिद्रयनाश तथा अक्षयसौख्य प्राप्त होते हैं।

स्वर्णाकर्षण भैरव स्तोत्रम्

श्री स्वर्णाकर्षण भैरव स्तोत्रम् प्रारम्भ

(स्तोत्र-प्राप्ति का उपक्रम एवं महत्त्व)

श्रीमार्कण्डेय उवाच -

भगवन् प्रमथाधीश शिवतुल्यपराक्रम ।

पूर्वमुक्तस्त्वया मन्त्रो भैरवस्य महात्मनः ॥ १॥

इदानीं श्रोतुमिच्छामि तस्य स्तोत्रमनुत्तमम् ।

तत्केनोक्तं पुरा स्तोत्रं पठनात् तस्य किं फलम् ॥ २॥

तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे नन्दिकेश्वर ।

नन्दिकेश्वर उवाच -

अयं प्रश्नो महाभाग! लोकानामुपकारकः ॥ ३॥

स्तोत्रं बटुकनाथस्य दुर्लभं भुवनत्रये ।

सर्वपापप्रशमनं सर्वसम्पत्प्रदायकम् ॥ ४॥

दारिद्रयनाशनं पुंसामापदामपहारकम् ।

अष्टैश्वर्यप्रदं नृणां पराजयविनाशनम् ॥ ५॥

महाकीर्तिप्रदं पुंसामसौन्दर्यविनाशनम् ।

स्वर्णाद्यष्टमहासिद्धिप्रदायकमनुत्तमम् ॥ ६॥

भक्तिमुक्तिप्रदं स्तोत्रं भैरवस्य महात्मनः ।

महाभैरवभक्ताय सेविने निर्धनाय च ॥ ७॥

निजभक्ताय वक्तव्यमन्यथा शापमाप्नुयात् ।

स्तोत्रमेतद् भैरवस्य ब्रह्मविष्णुशिवात्मकम् ॥ ८॥

श्रृणुष्व रुचितो ब्रह्मन् ! सर्वकामप्रदायकम् ।

 

स्वर्णाकर्षण भैरव स्तोत्रम्

विनियोगः -

ॐ अस्य श्रीस्वर्णाकर्षणभैरवस्तोत्रं मन्त्रस्य ब्रह्मा ऋषिः,अनुष्टुप् छन्दः, श्रीस्वर्णाकर्षणभैरवदेवता, ह्रीं बीजं, क्लीं शक्तिः, सः कीलकं, मम दारिद्र्यनाशार्थे पाठे विनियोगः ॥

ऋष्यादिन्यासः -

ब्रह्मर्षये नमः शिरसि ।

अनुष्टुप्छन्दसे नमः मुखे ।

स्वर्णाकर्षणभैरवाय नमः हृदि ।

ह्रीं बीजाय नमः गुह्ये ।

क्लीं शक्तये नमः पादयोः ।

सः कीलकाय नमः नाभौ ।

विनियोगाय नमः सर्वाङ्गे ।

ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥

कर-हृदयादिन्यासः -

ह्रां अङ्गुष्ठाभ्यां नमः । हृदयाय नमः ।

ह्रीं तर्जनीभ्यां नमः । शिरसे स्वाहा ।

ह्रूं मध्यमाभ्यां नमः । शिखायै वषट् ।

ह्रैं अनामिकाभ्यां नमः । कवचाय हुम् ।

ह्रौं कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् ।

ह्रः करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट ॥

अथ ध्यानम् -

पारिजातद्रुमआन्तारे स्थिते माणिक्यमण्डपे ।

सिंहासनगतं वन्दे भैरवं स्वर्णदायकम् ॥

गाङ्गेयपात्रं डमरूं त्रिशूलं वरं करैः सन्दधतं त्रिनेत्रं ।

देव्या युतं तप्तसुवर्णवर्णं स्वर्णाकृषं भैरवमाश्रयामि ॥

मुद्रा - कमण्डलुडमरुत्रिशूलवरमुद्रा दर्शयेत् ।

मन्त्रः -

ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं

अजामलवद्धाय लोकेश्वराय स्वर्णाकर्षणभैरवाय

मम दारिद्र्यविद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ॥


अथ स्वर्णाकर्षण भैरव स्तोत्रम् -

ॐ नमस्ते भैरवेशाय ब्रह्मविष्णुशिवात्मने ।

नमस्त्रैलोक्यवन्द्याय वरदाय वरात्मने ॥ १॥

रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।

दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ २॥

नमस्तेऽनेकहस्ताय अनेकशिरसे नमः ।

नमस्तेऽनेकनेत्राय अनेकविभवे नमः ॥ ३॥

नमस्तेऽनेककण्ठाय अनेकांसाय ते नमः ।

नमस्तेऽनेकपार्श्वाय नमस्ते दिव्यतेजसे ॥ ४॥

अनेकायुधयुक्ताय अनेकसुरसेविने ।

अनेकगुणयुक्ताय महादेवाय ते नमः ॥ ५॥

नमो दारिद्र्यकालाय महासम्पद्प्रदायिने ।

श्रीभैरवीसंयुक्ताय त्रिलोकेशाय ते नमः ॥ ६॥

दिगम्बर नमस्तुभ्यं दिव्याङ्गाय नमो नमः ।

नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ ७॥

सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे ।

अजिताय नमस्तुभ्यं जितमित्राय ते नमः ॥ ८॥

नमस्ते रुद्ररूपाय महावीराय ते नमः ।

नमोऽस्त्त्वनन्तवीर्याय महाघोराय ते नमः ॥ ९॥

नमस्ते घोरघोराय विश्वघोराय ते नमः ।

नमः उग्राय शान्ताय भक्तानां शान्तिदायिने ॥ १०॥    

गुरवे सर्वलोकानां नमः प्रणवरूपिणे ।

नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ॥ ११॥

नमस्ते कामराजाय योषितकामाय ते नमः ।

दीर्घमायास्वरूपाय महामायाय ते नमः ॥ १२॥

सृष्टिमायास्वरूपाय निसर्गसमयाय ते ।

सुरलोकसुपूज्याय आपदुद्धारणाय च ॥ १३॥

नमो नमो भैरवाय महादारिद्र्यनाशिने ।

उन्मूलने कर्मठाय अलक्ष्म्याः सर्वदा नमः ॥ १४॥

नमो अजामलवद्धाय नमो लोकेश्वराय ते ।

स्वर्णाकर्षणशीलाय भैरवाय नमो नमः ॥ १५॥

मम दारिद्र्यविद्वेषणाय लक्ष्याय ते नमः ।

नमो लोकत्रयेशाय स्वानन्दनिहिताय ते ॥ १६॥

नमः श्रीबीजरूपाय सर्वकामप्रदायिने ।

नमो महाभैरवाय श्रीभैरव नमो नमः ॥ १७॥

धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ।

नमः प्रसन्न आदिदेवाय ते नमः ॥ १८॥

नमस्ते मन्त्ररूपाय नमस्ते मन्त्ररूपिणे ।

नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ॥ १९॥

नमः सुवर्णवर्णाय महापुण्याय ते नमः ।

नमः शुद्धाय बुद्धाय नमः संसारतारिणे ॥ २०॥

नमो देवाय गुह्याय प्रचलाय नमो नमः ।

नमस्ते बालरूपाय परेषां बलनाशिने ॥ २१॥

नमस्ते स्वर्ण संस्थाय नमो भूतलवासिने ।

नमः पातालवासाय अनाधाराय ते नमः ॥ २२॥

नमो नमस्ते शान्ताय अनन्ताय नमो नमः ।

द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ॥ २३॥

नमोऽनमादि सिद्धाय स्वर्णहस्ताय ते नमः ।

पूर्णचन्द्रप्रतीकाश वदनाम्भोजशोभिने ॥ २४॥

नमस्तेऽस्तुस्वरूपाय स्वर्णालङ्कारशोभिने ।

नमः स्वर्णाकर्षणाय स्वर्णाभाय नमो नमः ॥ २५॥

नमस्ते स्वर्णकण्ठाय स्वर्णाभाम्बरधारिणे ।

स्वर्णसिंहानस्थाय स्वर्णपादाय ते नमः ॥ २६॥

नमः स्वर्णभपादाय स्वर्णकाञ्चीसुशोभिने ।

नमस्ते स्वर्णजङ्घाय भक्तकामदुधात्मने ॥ २७॥

नमस्ते स्वर्णभक्ताय कल्पवृक्षस्वरूपिणे ।

चिन्तामणिस्वरूपाय नमो ब्रह्मादिसेविने ॥ २८॥

कल्पद्रुमाघः संस्थाय बहुस्वर्णप्रदायिने ।

नमो हेमाकर्षणाय भैरवाय नमो नमः ॥ २९॥

स्तवेनानेन सन्तुष्टो भव लोकेश भैरव ।

पश्य मां करुणादृष्ट्या शरणागतवत्सल ॥ ३०॥


स्वर्णाकर्षण भैरव स्तोत्रम् फलश्रुति-

श्रीमहाभैरवस्येदं स्तोत्रमुक्तं सुदुर्लभम् ।

मन्त्रात्मकं महापुण्यं सर्वेश्वर्यप्रदायकम् ॥ ३१॥

यः पठेन्नित्यमेकाग्रं पातकै स प्रमुच्यते ।

लभते महतीं लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ ३२॥

चिन्तामणिमवाप्नोति धेनु कल्पतरुं ध्रुवम् ।

स्वर्णराशिमवाप्नोति शीघ्नमेव न संशयः ॥ ३३॥

त्रिसन्ध्यं यः पठेत्स्तोत्रं दशावृत्या नरोत्तमः ।

स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ ३४॥

स्वर्णराशि ददात्यस्यै तत्क्षणं नात्र संशयः ।

अष्टावृत्या पठेत् यस्तु सन्ध्यायां वा नरोत्तमम् ॥ ३५॥

लभते सकलान् कामान् सप्ताहान्नात्र संशयः ।

सर्वदः यः पठेस्तोत्रं भैरवस्य महात्मनाः ॥ ३६॥

लोकत्रयं वशीकुर्यादचलां लक्ष्मीमवाप्नुयात् ।

नभयं विद्यते क्वापि विषभूतादि सम्भवम् ॥ ३७॥

म्रियते शत्रवस्तस्य अलक्ष्मी नाशमाप्नुयात् ।

अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ ३८॥

अष्ट पञ्चाद्वर्णाढ्यो मन्त्रराजः प्रकीर्तितः ।

दारिद्र्यदुःखशमनः व स्वर्णाकर्षण कारकः ॥ ३९॥

य एन सञ्चयेद्धीमान् स्तोत्रं वा प्रपठेत् सदा ।

महा भैरवसायुज्यं सोऽन्तकाले लभेद् ध्रुवम् ॥ ४०॥

इति श्रीरुद्रयामले तन्त्रे ईश्वर-दत्तात्रेयसंवादे स्वर्णाकर्षण-भैरवस्तोत्रं सम्पूर्णम्॥

Post a Comment

0 Comments