पूजन विधि, ज्योतिष, स्तोत्र संग्रह, व्रत कथाएँ, मुहूर्त, पुजन सामाग्री आदि

कटाक्ष शतक

कटाक्ष शतक

कटाक्ष शतक महाकवि मूक द्वारा रचित मूक पंचशती नामक स्तोत्र संग्रह का एक हिस्सा है, जो देवी कामाक्षी की कृपा और उनकी कटाक्ष (एक प्रकार की तिरछी दृष्टि) के महत्व पर केंद्रित है। यह स्तोत्र देवी की सुंदर और दयालु दृष्टि का वर्णन करता है, जो भक्तों की सभी इच्छाओं को पूरा करती है, अज्ञानता व जीवन में सभी बाधाओं को दूर करती है और मोक्ष का मार्ग प्रशस्त करती है।

काटाक्ष शतक

कटाक्षशतकम्

Kataksha shatakam

मूकपञ्चशति ४ - कटाक्षशतकम्

कटाक्ष शतक स्तोत्रम्

कटाक्षशतकं

॥ कटाक्षशतकम् ॥

मोहान्धकारनिवहं विनिहन्तुमीडे

मूकात्मनामपि महाकवितावदान्यान् ।

श्रीकाञ्चिदेशशिशिरीकृतिजागरूकान्

एकाम्रनाथतरुणीकरुणावलोकान् ॥ १॥

मातर्जयन्ति ममताग्रहमोक्षणानि

माहेन्द्रनीलरुचिशिक्षणदक्षिणानि ।

कामाक्षि कल्पितजगत्त्रयरक्षणानि

त्वद्वीक्षणानि वरदानविचक्षणानि ॥ २॥

आनङ्गतन्त्रविधिदर्शितकौशलानाम्

आनन्दमन्दपरिघूर्णितमन्थराणाम् ।

तारल्यमम्ब तव ताडितकर्णसीम्नां

कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥ ३॥

कल्लोलितेन करुणारसवेल्लितेन

कल्माषितेन कमनीयमृदुस्मितेन ।

मामञ्चितेन तव किंचन कुञ्चितेन

कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥ ४॥

साहाय्यकं गतवती मुहुरर्जनस्य

मन्दस्मितस्य परितोषितभीमचेताः ।

कामाक्षि पाण्डवचमूरिव तावकीना

कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥ ५॥

अस्तं क्षणान्नयतु मे परितापसूर्यम्

आनन्दचन्द्रमसमानयतां प्रकाशम् ।

कालान्धकारसुषुमां कलयन्दिगन्ते

कामाक्षि कोमलकटाक्षनिशागमस्ते ॥ ६॥

ताटाङ्कमौक्तिकरुचाङ्कुरदन्तकान्तिः

कारुण्यहस्तिपशिखामणिनाधिरूढः ।

उन्मूलयत्वशुभपादपमस्मदीयं

कामाक्षि तावककटाक्षमतङ्गजेतन्द्रः ॥ ७॥

छायाभरणे जगतां परितापहारी

ताटङ्करत्नमणितल्लजपल्लवश्रीः ।

कारुण्यनाम विकिरन्मकरन्दजालं

कामाक्षि राजति कटाक्षसुरद्रुमस्ते ॥ ८॥

सूर्याश्रयप्रणयिनी मणिकुण्डलांशु-

लौहित्यकोकनदकाननमाननीया ।

यान्ती तव स्मरहराननकान्तिसिन्धुं

कामाक्षि राजति कटाक्षकलिन्दकन्या ॥ ९॥

प्राप्नोति यं सुकृतिनं तव पक्षपातात्

कामाक्षि वीक्षणविलासकलापुरन्ध्री ।

सद्यस्तमेव किल मुक्तिवधूर्वृणीते

तस्मान्नितान्तमनयोरिदमैकमत्यम् ॥ १०॥

यान्ती सदैव मरुतामनुकूलभावं

भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा ।

कामाक्षि कौतुकतरङ्गितनीलकण्ठा

कादम्बिनीव तव भाति कटाक्षमाला ॥ ११॥

गङ्गाम्भसि स्मितमये तपनात्मजेव

गङ्गाधरोरसि नवोत्पलमालिकेव ।

वक्त्रप्रभासरसि शैवलमण्डलीव

कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥ १२॥

संस्कारतः किमपि कन्दलितान् रसज्ञ-

केदारसीम्नि सुधियामुपभोगयोग्यान् ।

कल्याणसूक्तिलहरीकलमांकुरान्नः

कामाक्षि पक्ष्मलयतु त्वदपाङ्गमेघः ॥ १३॥

चाञ्चल्यमेव नियतं कलयन्प्रकृत्या

मालिन्यभूः श्रतिपथाक्रमजागरूकः ।

कैवल्यमेव किमु कल्पयते नतानां

कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥ १४॥

संजीवने जननि चूतशिलीमुखस्य

संमोहने शशिकिशोरकशेखरस्य ।

संस्तम्भने च ममताग्रहचेष्टितस्य

कामाक्षि वीक्षणकला परमौषधं ते ॥ १५॥

नीलोऽपि रागमधिकं जनयन्पुरारेः

लोलोऽपि भक्तिमधिकां दृढयन्नराणाम् ।

वक्रोऽपि देवि नमतां समतां वितन्वन्

कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥ १६॥

कामद्रुहो हृदययन्त्रणजागरूका

कामाक्षि चञ्चलदृगञ्चलमेखला ते ।

आश्चर्यमम्ब भजतां झटिति स्वकीय-

सम्पर्क एव विधुनोति समस्तबन्धान् ॥ १७॥

कुण्ठीकरोतु विपदं मम कुञ्चितभ्रू-

चापाञ्चितः श्रितविदेहभवानुरागः ।

रक्षोपकारमनिशं जनयञ्जगत्यां

कामाक्षि राम इव ते करुणाकटाक्षः ॥ १८॥

श्रीकामकोटि शिवलोचनशोषितस्य

श‍ृङ्गारबीजविभवस्य पुनःप्ररोहे ।

प्रेमाम्भसार्द्रमचिरात्प्रचुरेण शङ्के

केदारमम्ब तव केवलदृष्टिपातम् ॥ १९॥

माहात्म्यशेवधिरसौ तव दुर्विलङ्घ्य-

संसारविन्ध्यगिरिकुण्ठनकेलिचुञ्चुः ।

धैर्याम्बुधिं पशुपतेश्चुलकीकरोति

कामाक्षि वीक्षणविजृम्भणकुम्भजन्मा ॥ २०॥

पीयूषवर्षवशिशिरा स्फुटदुत्पलश्री-

मैत्री निसर्गमधुरा कृततारकाप्तिः ।

कामाक्षि संश्रितवती वपुरष्टमूर्तेः

ज्योत्स्नायते भगवति त्वदपाङ्गमाला ॥ २१॥

अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञम्

अम्भोजकाननमिवाञ्चितकण्टकाभम् ।

भृङ्गीव चुम्बति सदैव सपक्षपाता

कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥ २२॥

केशप्रभापटलनीलवितानजाले

कामाक्षि कुण्डलमणिच्छविदीपशोभे ।

शङ्के कटाक्षरुचिरङ्गतले कृपाख्या

शैलूषिका नटति शंकरवल्लभे ते ॥ २३॥

अत्यन्तशीतलमतन्द्रयतु क्षणार्धम्

अस्तोकविभ्रममनङ्गविलासकन्दम् ।

अल्पस्मितादृतमपारकृपाप्रवाहम्

अक्षिप्ररोहमचिरान्मयि कामकोटि ॥ २४॥

मन्दाक्षरागतरलीकृतिपारतन्त्र्यात्

कामाक्षि मन्थरतरां त्वदपाङ्गडोलाम् ।

आरुह्य मन्दमतिकौतुकशालि चक्षुः

आनन्दमेति मुहुरर्धशशाङ्कमौलेः ॥ २५॥

त्रैयम्बकं त्रिपुरसुन्दरि हर्म्यभूमि-

रङ्गं विहारसरसी करुणाप्रवाहः ।

दासाश्च वासवमुखाः परिपालनीयं

कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥ २६॥

वागीश्वरी सहचरी नियमेन लक्ष्मीः

भ्रूवल्लरीवशकरी भुवनानि गेहम् ।

रूपं त्रिलोकनयनामृतमम्ब तेषां

कामाक्षि येषु तव वीक्षणपारतन्त्री ॥ २७॥

माहेश्वरं झटिति मानसमीनमम्ब

कामाक्षि धैर्यजलधौ नितरां निमग्नम् ।

जालेन श‍ृङ्खलयति त्वदपाङ्गनाम्ना

विस्तारितेन विषमायुधदाशकोऽसौ ॥ २८॥

उन्मथ्य बोधकमलाकारमम्ब जाड्य-

स्तम्बेरमं मम मनोविपिने भ्रमन्तम् ।

कुण्ठीकुरुष्व तरसा कुटिलाग्रसीम्ना

कामाक्षि तावककटाक्षमहाङ्कुशेन ॥ २९॥

उद्वेल्लितस्तबकितैर्ललितैर्विलासैः

उत्थाय देवि तव गाढकटाक्षकुञ्जात् ।

दूरं पलाययतु मोहमृगीकुलं मे

कामाक्षि स्तवरमनुग्रहकेसरीन्द्रः ॥ ३०॥

स्नेहादृतां विदलितोत्पलकन्तिचोरां

जेतारमेव जगदीश्वरि जेतुकामः ।

मानोद्धतो मकरकेतुरसौ धुनीते

कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥ ३१॥

श्रौतीं व्रजन्नपि सदा सरणिं मुनीनां

कामाक्षि सन्ततमपि स्मृतिमार्गगामी ।

कौटिल्यमम्ब कथमस्थिरतां च धत्ते

चौर्यं च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२॥

नित्यं श्रेतुः परिचितौ यतमानमेव

नीलोत्पलं निजसमीपनिवासलोलम् ।

प्रीत्यैव पाठयति वीक्षणदेशिकेन्द्रः

कामाक्षी किन्तु तव कालिमसम्प्रदायम् ॥ ३३॥

भ्रान्त्वा मुहुः स्तबकितस्मितफेनराशौ

कामाक्षि वक्त्ररुचिसंचयवारिराशौ ।

आनन्दति त्रिपुरमर्दननेत्रलक्ष्मीः

आलम्ब्य देवि तव मन्दमपाङ्गसेतुम् ॥ ३४॥

श्यामा तव त्रिपुरसुन्दरि लोचनश्रीः

कामाक्षि कन्दलितमेदुरतारकान्तिः ।

ज्योत्स्नावती स्मितरुचापि कथं तनोति

स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥ ३५॥

कालाञ्जनं च तव देवि निरीक्षणं च

कामाक्षि साम्यसरणिं समुपैति कान्त्या ।

निश्शेषनेत्रसुलभं जगतीषु पूर्व-

मन्यत्त्रिनेत्रसुलभं तुहिनाद्रिकन्ये ॥ ३६॥

धूमाङ्कुरो मकरकेतनपावकस्य

कामाक्षि नेत्ररुचिनीलिमचातुरी ते ।

अत्यन्तमद्भुतमिदं नयनत्रयस्य

हर्षोदयं जनयते हरुणाङ्कमौलेः ॥३७॥

आरभ्भलेशसमये तव वीक्षणस्स

कामाक्षि मूकमपि वीक्षणमात्रनम्रम् ।

सर्वज्ञता सकललोकसमक्षमेव

कीर्तिस्वयंवरणमाल्यवती वृणीते ॥ ३८॥

कालाम्बुवाह उव ते परितापहारी

कामाक्षि पुष्करमधःकुरुते कटाख़्षः ।

पूर्वः परं क्षणरुचा समुपैति मैत्री-

मन्यस्तु स।ततरुचिं प्रकटीकरोति ॥ ३९॥

सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद-

साहाय्यकेन विचरन्नपवर्गमार्गे ।

संसारपङ्कनिचये न पतत्यमूं ते

कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ॥ ४०॥

कामाक्षि सन्ततमसौ हरिनीलरत्न-

स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः ।

बद्धोऽपि भक्तिनिगलैर्मम चित्तहस्ती

स्तम्भं च बन्धमपि मुञ्चति हन्त चित्रम् ॥ ४१॥

कामाक्षि काष्णर्यमपि सन्ततमञ्जनं च

बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः ।

वैमल्यमन्वहमनञ्जनता च भूयः

स्थैर्यं च भक्तहृदयाय कथं ददाति ॥ ४२॥

मन्दस्मितस्तबकितं मणिकुण्डलांशु-

स्तोमप्रवालरुचिरं शिशिरीकृताशम् ।

कामाक्षि राजति कटाक्षरुचेः कदम्बम्

उद्यानमम्ब करुणाहरिणेक्षणायाः ॥ ४३॥

कामाक्षि तावककटाक्षमहेन्द्रनील-

सिंहासनं श्रितवतो मकरध्वजस्य ।

साम्राज्यमङ्गलविधौ मुणिकुण्डलश्रीः

नीराजनोत्सवतरङ्गितदीपमाला ॥ ४४॥

मातः क्षणं स्नपय मां तव वीक्षितेन

मन्दाक्षितेन सुजनैरपरोक्षितेन ।

कामाक्षि कर्मतिमिरोत्करभास्करेण

श्रेयस्करेण मधुपद्युतितस्करेण ॥ ४५॥

प्रेमापगापयसि मज्जनमारचय्य

युक्तः स्मितांशुकृतभस्मविलेपनेन ।

कामाक्षि कुण्डलमणिद्युतिभिर्जटालः

श्रीकण्ठमेव भजते तव दृष्टिपातः ॥ ४६॥

कैवल्यदाय करुणारसकिंकराय

कामाक्षि कन्दलितविभ्रमशंकराय ।

आलोकनाय तव भक्तशिवंकराय

मातर्नमोऽस्तु परतन्त्रितशंकराय ॥ ४७॥

साम्राज्यमङ्गलविधौ मकरध्वजस्य

लोलालकालिकृततोरणमाल्यशोभे ।

कामेश्वरि प्रचलदुत्पलवैजयन्ती-

चातुर्यमेति तव चञ्चलदृष्टिपातः ॥ ४८॥

मार्गेण मञ्जुकचकान्तितमोवृतेन

मन्दायमानगमना मदनातुरासौ ।

कामाक्षि दृष्टिरयते तव शंकराय

संकेतभूमिमचिरादभिसारिकेव ॥ ४९॥

व्रीडनुवृत्तिरमणीकृतसाहचर्या

शैवालितां गलरुचा शशिशेखरस्य ।

कामाक्षि कान्तिसरसीं त्वदपाङ्गलक्ष्मीः

मन्दं समाश्रयति मज्जनखेलनाय ॥ ५०॥

काषायमंशुकमिव प्रकटं दधानो

माणिक्यकुण्डलरुचिं ममताविरोधी ।

श्रुत्यन्तसीमनि रतः सुतरां चकास्ति

कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥ ५१॥

पाषाण एव हरिनीलमणिर्दिनेषु

प्रम्लनतां कुवलयं प्रकटीकरोति ।

नौमित्तिको जलदमेचकिमा ततस्ते

कामाक्षि शून्यमुपमनमपाङ्गलक्ष्म्याः ॥ ५२॥

श‍ृङ्गारविभ्रमवती सुतरां सलज्जा

नासाग्रमौक्तिकरुचा कृतमन्दहासा ।

श्यामा कटाक्षसुषमा तव युक्तमेतत्

कामाक्षि चुम्बति दिगम्बरवक्त्रबिम्बम् ॥ ५३॥

नीलोत्पलेन मधुपेन च दृष्टिपातः

कामाक्षि तुल्य इति ते कथमामनन्ति ।

शैत्येन निन्दयति यदन्वहमिन्दुपादान्

पाथोरुहेण यदसौ कलहायते च ॥ ५४॥

ओष्ठप्रभापटलविद्रुममुद्रिते ते

भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ ।

कामाक्षि वारिभरपूरणलम्बमान-

कालाम्बुवाहसरणिं लभते कटाक्षः ॥ ५५॥

मन्दस्मितैर्धवलिता मणिकुण्डलांशु-

सम्पर्कलोहितरुचिस्त्वदपाङ्गधारा ।

कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च

नीलोत्पलैश्च रचितेव विभाति माला ॥ ५६॥

कामाक्षि शीतलकृपारसनिर्झराम्भः-

सम्पर्कपक्ष्मलरुचिस्त्वदपाङ्गमाला ।

गोभिः सदा पुररिपोरभिलष्यमाणा

दूर्वाकदम्बकविडम्बनमातनोति ॥ ५७॥

हृत्पङ्कजं मम विकासयतु प्रमुष्ण-

न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा ।

दोषानुषङ्गजडतां जगतां धुनानः

कामाक्षि वीक्षणविलासदिनोदयस्ते ॥ ५८॥

चक्षुर्विमोहयति चन्द्रविभूषणस्य

कामाक्षि तावककटाक्षतमःप्ररोहः ।

प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां

प्राकाश्यमेव नयतीति परं विचित्रम् ॥ ५९॥

कामाक्षि वीक्षणरुचा युधि निर्जितं ते

नीलोत्पलं निरवशेषगताभिमानम् ।

आगत्य तत्परिसरं श्रवणवतंस-

व्योजेन नूनमभयार्थनमातनोति ॥ ६०॥

आश्चर्यमम्ब मदानाभ्युदयावलम्बः

कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते ।

धैर्यं विधूय तनुते हृदि रागबन्धं

शम्भोस्तदेव विपरीततया मुनीनाम् ॥ ६१॥

जन्तोः सकृत्प्रणमतो जगदीड्यतां च

तेजास्वितां च निशितां च मतिं सभायाम् ।

कामाक्षि माक्षिकझरीमिव वैखरीं च

लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ॥ ६२॥

कादम्बिनी किमयते न जलानुषङ्गं

भृङ्गावली किमुररीकुरुते न पद्मम् ।

किं वा कलिन्दतनया सहते न भङ्गं

कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥ ६३॥

काकोलपावकतृणीकरणेऽपि दक्षः

कामाक्षि बालकसुधाकरशेखरस्य ।

अत्यन्तशीतलतमोऽप्यनुपारतं ते

चित्तं विमोहयति चित्रमयं कटाक्षः ॥ ६४॥

कार्पण्यपूरपरिवर्धितमम्ब मोह-

कन्दोद्गतं भवमयं विषपादपं मे ।

तुङ्गं छिनत्तु तुहिनाद्रिसुते भवत्याः

काञ्चीपुरेश्वरि कटाक्षकुठारधारा ॥ ६५॥

कामाक्षि घोरभवरोगचिकित्सनार्थ-

मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् ।

तत्रापि देवि लभते सुकृती कदाचि-

दन्यस्य दुर्लभमपाङ्गमहौषधं ते ॥ ६६॥

कामाक्षि देशिककृपांकुरमाश्रयन्तो

नानातपोनियमनाशितपाशबन्धाः ।

वासालयं तव कटाक्षममुं महान्तो

लब्ध्वा सुखं समाधियो विचरन्ति लोके ॥ ६७॥

साकूतसंलपितसम्भृतमुग्धहासं

व्रीडानुरागसहचारि विलोकनं ते ।

कामाक्षि कामपरिपन्थिनि मारवीर-

साम्राज्यविभ्रमदशां सफलीकरोति ॥ ६८॥

कामाक्षि विभ्रमबलैकनिधिर्विधाय

भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् ।

स्वाधीनतां तव निनाय शशाङ्कमौले-

रङ्गार्धराज्यसुखलाभमपाङ्गवीरः ॥ ६९॥

कामांकुरैकनिलयस्तव दृष्टिपातः

कामाक्षि भक्तमनसां प्रददातु कामान् ।

रागान्वितः स्वयमपि प्रकटीकरोति

वैराग्यमेव कथमेष महामुनीनाम् ॥ ७०॥

कालाम्बुवाहनिवहैः कलहायते ते

कामाक्षि कालिममदेन सदा कटाक्षः ।

चित्रं तथापि नितराममुमेव दृष्ट्वा

सोत्कण्ठ एव रमते किल नीलकण्ठः ॥ ७१॥

कामाक्षि मन्मथरिपुं प्रति मारताप-

मोहान्धकारजलदागमनेन नृत्यन् ।

दुष्कर्मकञ्चुकिकुलं कबलीकरोतु

व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ॥ ७२॥

कामाक्षि मन्मथरिपोरवलोकनेषु

कान्तं पयोजमिव तावकमक्षिपातम् ।

प्रेमागमो दिवसवद्विकचीकरोति

लज्जाभरो रजनिवन्मुकुलीकरोति ॥ ७३॥

मूको विरिञ्चति परं पुरुषः कुरूपः

कन्दर्पति त्रिदशराजति किम्पचानः ।

कामाक्षि केवलमुपक्रमकाल एव

लीलातरङ्गितकटाक्षरुचः क्षणं ते ॥ ७४॥

नीलालका मधुकरन्ति मनोज्ञनासा-

मुक्तारुचः प्रकटकन्दबिसाङ्कुरन्ति ।

कारुण्यमम्ब मकरन्दति कामकोटि

मन्ये ततः कमलमेव विलोचनं ते ॥ ७५॥

आकांक्ष्यमाणफलदानविचक्षणायाः ।

कामाक्षि तावककटाक्षककामधेनोः ।

सम्पर्क एव कथमम्ब विमुक्तपाश-

बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥ ७६॥

संसारघर्मपरितापजुषां नराणां

कामाक्षि शीतलतराणि तवेक्षितानि ।

चन्द्रातपन्ति घनचन्दनकर्दमन्ति

मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥ ७७॥

प्रेमाम्बुराशिसततस्नपितानि चित्रं

कामाक्षि तावककटाक्षनिरीक्षणानि ।

सन्धुक्षयन्ति मुहुरिन्धनराशिरीत्या

मारद्रुहो मनसि मन्मथचित्रभानुम् ॥ ७८॥

कालाञ्जनप्रतिभटं कमनीयकान्त्या

कन्दर्पतन्त्रकलया कलितानुभावम् ।

काञ्चीविहाररसिके कलुषार्तिचोरं

कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥ ७९॥

क्रान्तेन मन्मथदेन विमोह्यमान-

स्वान्तेन चूततरुमूलगतस्य पुंसः ।

कान्तेन किंचिदवलोकय लोचनस्य

प्रान्तेन मां जननि काञ्चिपुरीविभूषे ॥ ८०॥

कामाक्षि कोऽपि सुजनास्त्वदपाङ्गसंगे

कण्ठेन कन्दलितकालिमसम्प्रदायाः ।

उत्तंसकल्पितचकोरकुटुम्बपोषा

नक्तन्दिवसप्रसवभूनयना भवन्ति ॥ ८१॥

नीलोत्पलप्रसवकान्तिनिर्दशनेन

कारुण्यविभ्रमजुषा तव वीक्षणेन ।

कामाक्षि कर्मजलधेः कलशीसुतेन

पाशत्रयाद्वयममी परिमोचनीयाः ॥ ८२॥

अत्यन्तचञ्चलमकृत्रिममञ्जनं किं

झंकारभङ्गिरहिता किमु भृङ्गमाला ।

धूमाङ्कुरः किमु हुताशनसंगहीनः

कामाक्षि नेत्ररुचिनीलिमकन्दली ते ॥ ८३॥

कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति-

बीजाय विभ्रममदोदयघूर्णिताय ।

कन्दर्पदर्पपुनरुद्भवसिद्धिदाय

कल्याणदाय तव देवि दृगञ्चलाय ॥ ८४॥

दर्पाङ्कुरो मकरकेतनविभ्रमाणां

निन्दाङ्कुरो विदलितोत्पलचातुरीणाम् ।

दीपाङ्कुरो भवतमिस्रकदम्बकानां

कामाक्षि पालयतु मां त्वदपाङ्गपातः ॥ ८५॥

कैवल्यदिव्यमणिरोहणपर्वतेभ्यः

कारुण्यनिर्झरपयःकृतमञ्जनेभ्यः ।

कामाक्षि किंकरितशङ्करमानसेभ्य-

स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥ ८६॥

अल्पीय एव नवमुत्पलमम्ब हीना

मीनस्य वा सरणिरम्बुरुहां च किं वा ।

दूरे मृगीदृगसमञ्जसमञ्जनं च

कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥ ८७॥

मिश्रीभवद्गरलपङ्किलशङ्करोरस्-

सीमाङ्गणे किमपि रिङ्खणमादधानः ।

हेलावधूतललितश्रवणोत्पलोऽसौ

कामाक्षि बाल इव राजति ते कटाक्षः ॥ ८८॥

प्रौढिकरोति विदुषां नवसूक्तिधाटी-

चूताटवीषु बुधकोकिललाल्यमानम् ।

माध्वीरसं परिमलं च निरर्गलं ते

कामाक्षि वीक्षणविलासवसन्तलक्ष्मीः ॥ ८९॥

कूलंकषं वितनुते करुणाम्बुवर्षी

सारस्वतं सुकृतिनः सुलभं प्रवाहम् ।

तुच्छीकरोति यमुनाम्बुतरङ्गभङ्गीं

कामाक्षि किं तव कटाक्षमहाम्बुवाहः ॥ ९०॥

जगर्ति देवि करुणाशुकसुन्दरी ते

ताटङ्करत्नरुचिदाडिमखण्डशोणे ।

कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज-

माहेन्द्रनीलमणिपञ्जरमध्यभागे ॥ ९१॥

कामाक्षि सत्कुवलयस्य सगोत्रभावा-

दाक्रामति श्रुतिमसौ तव दृष्टिपातः ।

किंच स्फुटं कुटिलतां प्रकटीकरोति

भ्रूवल्लरीपरिचितस्य फलं किमेतत् ॥ ९२॥

एषा तवाक्षिसुषमा विषमायुधस्य

नाराचवर्षलहरी नगराजकन्ये ।

शंके करोति शतधा हृदि धैर्यमुद्रां

श्रीकामकोटि यदसौ शिशिरांशुमौलेः ॥ ९३॥

बाणेन पुष्पधनुषः परिकल्प्यमान-

त्राणेन भक्तमनसां करुणाकरेण ।

कोणेन कोमलदृशस्तव कामकोटि

शोणेन शोषय शिवे मम शोकसिन्धुम् ॥ ९४॥

मारद्रुहा मुकुटसीमनि लाल्यमाने

मन्दाकिनीपयसि ते कुटिलं चरिष्णुः ।

कामाक्षि कोपरभसाद्वलमानमीन-

सन्देहमङ्कुरयति क्षणमक्षिपातः ॥ ९५॥

कामाक्षि संवलितमौक्तिककुण्डलांशु-

चञ्चत्सितश्रवणचामरचातुरीकः ।

स्तम्भे निरन्तरमपाङ्गमये भवत्या

बद्धश्चकास्ति मकरध्वजमत्तहस्ती ॥ ९६॥

यावत्कटाक्षरजनीसमयागमस्ते

कामाक्षि तावदचिरान्नमतां नराणाम् ।

आविर्भवत्यमृतदीधितिबिम्बमम्ब

संविन्मयं हृदयपूर्वगिरीन्द्रशृङ्गे ॥ ९७॥

कामाक्षि कल्पविटपीव भवत्कटाक्षो

दित्सुः समस्तविभवं नमतां नराणाम् ।

भृङ्गस्य नीलनलिनस्य च कान्तिसम्प-

त्सर्वस्वमेव हरतीति परं विचित्रम् ॥ ९८॥

अत्यन्तशीतलमनर्गलकर्मपाक-

काकोलहारि सुलभं सुमनोभिरेतत् ।

पीयूषमेव तव वीक्षणमम्ब किन्तु

कामाक्षि नीलमिदमित्ययमेव भेदः ॥ ९९॥

अज्ञातभक्तिरसमप्रसरद्विवेक-

मत्यन्तगर्वमनधीतसमस्तशास्त्रम् ।

अप्राप्तसत्यमसमीपगतं च मुक्तेः

कामाक्षि नैव तव स्पृहयति दृष्टिपातः ॥ १००॥

(कामाक्षि मामवतु ते करुणाकटाक्षः)

पातेन लोचनरुचेस्तव कामकोटि

पोतेन पतकपयोधिभयातुराणाम् ।

पूतेन तेन नवकाञ्चनकुण्डलांशु-

वीतेन शीतलय भूधरकन्यके माम् ॥ १०१॥

कटाक्षशतकं सम्पूर्णम् ॥

आगे जारी.... मूक पञ्च शति 5 - मन्दस्मिता शतकम्

Post a Comment

Previous Post Next Post