Slide show
Ad Code
JSON Variables
Total Pageviews
Blog Archive
-
▼
2021
(800)
-
▼
July
(105)
- मृतसञ्जीवन स्तोत्रम्
- शिवमहिमा
- महामृत्युञ्जय
- श्रीरुद्रकोटीश्वराष्टकम्
- महालिङ्गस्तुति
- श्री शिवस्तुती
- शिवमहापुराण – प्रथम विद्येश्वरसंहिता – अध्याय 25
- शिवमहापुराण –विद्येश्वरसंहिता – अध्याय 24
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 23
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 22
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 21
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 20
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 19
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 18
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 17
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 16
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 15
- शिवमहापुराण –विद्येश्वरसंहिता – अध्याय 14
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 13
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 12
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 11
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 10
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 09
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 08
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 07
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 06
- शिव षडक्षर स्तोत्र
- शिव पंचाक्षर स्तोत्र
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 05
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 04
- शिवमहापुराण – विद्येश्वरसंहिता – अध्याय 03
- शिवमहापुराण –विद्येश्वरसंहिता – अध्याय 02
- शिवमहापुराण – प्रथम विद्येश्वरसंहिता – अध्याय 01
- भैरव ताण्डव स्तोत्रम्
- आपदुद्धारक बटुकभैरवाष्टोत्तर शतनाम स्तोत्रम्
- क्षेत्रपाल भैरवाष्टक स्तोत्रम्
- क्षेत्रपाल चालीसा
- स्वर्णाकर्षण भैरव स्तोत्रम्
- महाकाल ककाराद्यष्टोत्तरशतनाम स्तोत्रम्
- महाकालसहस्रनामस्तोत्रम्
- महाकाल सहस्रनाम स्तोत्रम्
- महाकाल स्तोत्र
- महाकाल मङ्गलम्
- अष्ट भैरव
- गुरु गीता तृतीय अध्याय
- गुरु गीता द्वितीय अध्याय
- गुरु गीता
- शिवस्तुति
- महामृत्युञ्जय कवच
- महामृत्युञ्जयकवचम्
- महाकाल स्तुति
- शिवानन्दलहरी
- अष्टमूर्ति स्तोत्रम्
- भैरव चालीसा
- श्रीकण्ठेश अष्टक स्तुति स्तोत्रम्
- श्रीसदाशिवकवचस्तोत्रम्
- सदाशिव कवचम्
- सदाशिव स्तोत्रम्
- सदाशिव स्वरूपाणि
- ब्रह्मा स्तुति
- ईश्वर प्रार्थना स्तोत्रम्
- ईश्वर स्तोत्र
- शिव स्तुति
- ईशानस्तवः
- शिव ताण्डव स्तोत्रम्
- लिंगाष्टक स्त्रोतम्
- द्वादश ज्योतिर्लिंग
- शिव स्तुति
- शिवस्तुति
- दारिद्र्य दहन शिवस्तोत्रम्
- सर्प सूक्त
- मनसा स्तोत्र
- नागपंचमी
- श्री जगन्नाथ स्तोत्र
- श्रीजगन्नाथ सहस्रनाम स्तोत्रम्
- जगन्नाथगीतामृतम्
- श्री जगन्नाथ अष्टकम्
- शिवमहापुराण माहात्म्य – अध्याय 07
- शिवमहापुराण माहात्म्य – अध्याय 06
- शिवमहापुराण माहात्म्य – अध्याय 05
- शिवमहापुराण माहात्म्य – अध्याय 04
- शिवमहापुराण माहात्म्य – अध्याय 03
- शिवमहापुराण माहात्म्य – अध्याय 02
- शिवमहापुराण माहात्म्य – अध्याय 01
- अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम्
- अर्धनारीश्वर सहस्रनाम स्तोत्रम्
- अर्धनारीश्वर स्तोत्र - अर्धनारीनटेश्वर स्तोत्रम्
- अर्धनारीश्वरस्तोत्रम्
- अमोघशिवकवचम्
- शिवरामाष्टकम्
- अघोरमूर्तिसहस्रनामस्तोत्रम्
- अघोरकवचम्
- अघोरस्तोत्रम्
- नीलरुद्रोपनिषद् तृतीय खण्ड
- नीलरुद्रोपनिषद् द्वितीय खण्ड
- नीलरुद्रोपनिषद् प्रथम खण्ड
- आत्मोपनिषत्
- हंसोपनिषत्
- कुण्डिका उपनिषद
- जाबाल उपनिषद
-
▼
July
(105)
Search This Blog
Fashion
Menu Footer Widget
Text Widget
Bonjour & Welcome
About Me
Labels
- Astrology
- D P karmakand डी पी कर्मकाण्ड
- Hymn collection
- Worship Method
- अष्टक
- उपनिषद
- कथायें
- कवच
- कीलक
- गणेश
- गायत्री
- गीतगोविन्द
- गीता
- चालीसा
- ज्योतिष
- ज्योतिषशास्त्र
- तंत्र
- दशकम
- दसमहाविद्या
- देवी
- नामस्तोत्र
- नीतिशास्त्र
- पञ्चकम
- पञ्जर
- पूजन विधि
- पूजन सामाग्री
- मनुस्मृति
- मन्त्रमहोदधि
- मुहूर्त
- रघुवंश
- रहस्यम्
- रामायण
- रुद्रयामल तंत्र
- लक्ष्मी
- वनस्पतिशास्त्र
- वास्तुशास्त्र
- विष्णु
- वेद-पुराण
- व्याकरण
- व्रत
- शाबर मंत्र
- शिव
- श्राद्ध-प्रकरण
- श्रीकृष्ण
- श्रीराधा
- श्रीराम
- सप्तशती
- साधना
- सूक्त
- सूत्रम्
- स्तवन
- स्तोत्र संग्रह
- स्तोत्र संग्रह
- हृदयस्तोत्र
Tags
Contact Form
Contact Form
Followers
Ticker
Slider
Labels Cloud
Translate
Pages
Popular Posts
-
मूल शांति पूजन विधि कहा गया है कि यदि भोजन बिगड़ गया तो शरीर बिगड़ गया और यदि संस्कार बिगड़ गया तो जीवन बिगड़ गया । प्राचीन काल से परंपरा रही कि...
-
रघुवंशम् द्वितीय सर्ग Raghuvansham dvitiya sarg महाकवि कालिदास जी की महाकाव्य रघुवंशम् प्रथम सर्ग में आपने पढ़ा कि-महाराज दिलीप व उनकी प...
-
रूद्र सूक्त Rudra suktam ' रुद्र ' शब्द की निरुक्ति के अनुसार भगवान् रुद्र दुःखनाशक , पापनाशक एवं ज्ञानदाता हैं। रुद्र सूक्त में भ...
Popular Posts
अगहन बृहस्पति व्रत व कथा
मार्तण्ड भैरव स्तोत्रम्
अघोरमूर्तिसहस्रनामस्तोत्रम्
इससे पूर्व श्रीरुद्रयामलतन्त्र
भैरव भैरवी संवाद के रूप में अघोरस्तोत्रम् व अघोरकवच आपने पढ़ा अब समस्त
मनोकामनाओं को सिद्ध करने वाला तथा अत्यन्त गोपनीय अघोरमूर्तिसहस्रनामस्तोत्रम् दिया
जा रहा है।
अथ अघोरमूर्तिसहस्रनामस्तोत्रम्
मूलमन्त्र
ॐ श्रीं ह्रीं क्लीं सौः क्ष्मीं
घोर घोराय ज्वल ज्वल
प्रज्वल प्रज्वल अघोरास्त्राय फट्
स्वाहा ।
। इति मूलम् ।
श्रीभैरवी उवाच -
भगवन्सर्वधर्मज्ञ विश्वाभयवरप्रद ।
सर्वेश सर्वशास्त्रज्ञ सर्वातीत
सनातन ॥ १॥
त्वमेव परमं तत्त्वं त्वमेव परमं
पदम् ।
त्वत्तोऽप्यन्यं न पश्यामि सारं
सारोत्तमोत्तमम् ॥ २॥
पुराऽस्माकं वरो दत्तो
देवदानवसङ्गरे ।
तदद्य कृपया शम्भो वरं नाथ प्रयच्छ
मे ॥ ३॥
श्रीभैरव उवाच -
भैरवि प्रेयसि त्वं मे सत्यं दत्तो
वरो मया ।
यदद्य मनसाभीष्टं तद्याचस्व
ददाम्यहम् ॥ ४॥
श्रीदेवी उवाच -
श्रीशिवः परमात्मा च
भैरवोऽघोरसंज्ञकः ।
त्रिगुणात्मा
महारुद्रस्त्रैलोक्योद्धरणक्षमः ॥ ५॥
तस्य नामसहस्रं मे वद शीघ्रं
कृपानिधे ।
वरमेतन्महादेव देहि सत्यं
मदीप्सितम् ।
अस्माद्वरं न याचेऽहं देहि चेदस्ति
मे दया ॥ ६॥
श्रीभैरव उवाच -
श्रृणुष्वैकान्तभूदेशे सानौ
कैलासभूभृतः ।
देवदानवसङ्ग्रामे यत्ते दत्तो वरो
मया ।
वरं तत्ते प्रयच्छामि चान्यद्वरय मे
वरम् ॥ ७॥
श्रीदेवी उवाच -
अतः परं न याचेऽहं वरमन्यन्महेश्वर
।
कृपया करुणाम्भोधे वद शीघ्रं
सुरार्चित ॥ ८॥
श्रीभैरव उवाच -
तव भक्त्या ब्रवीम्यद्य अघोरस्य
महात्मनः ।
नाम्नां सहस्रं परमं
त्रैलोक्योद्धरणक्षमम् ॥ ९॥
नातः परतरा विद्या नातः परतरः स्तवः
।
नातः परतरं स्तोत्रं सर्वस्वं मम
पार्वति ॥ १०॥
अकारादि क्षकारान्ता
विद्यानिधिमनुत्तमम् ।
बीजमन्त्रमयं गोप्यं गोप्तव्यं
पशुसङ्कटे ॥ ११॥
अघोरमूर्तिसहस्रनामस्तोत्रम्
ॐ अस्य श्रीअघोरमूर्तिनामसहस्रस्य
श्रीमहाकालभैरव ऋषिः,
पङ्क्ति छन्दः,
अघोरमूर्तिः परमात्मा देवता ।
ॐ बीजं,
ह्रीं शक्तिः, कुरु कुरु कीलकम् ।
अघोर विद्यासिद्ध्यर्थे जपे पाठे
विनियोगः ।
अथ न्यासः -
ह्रां अङ्गुष्ठभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूँ मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि षडङ्गन्यासः ।
अपि च-
ॐ नमो भगवते अघोराय शूलपाणये स्वाहा
हृदयाय नमः ।
रुद्रायामृतमूर्तये मां जीवय जीवय
शिरसे स्वाहा ।
नीलकण्ठाय चन्द्रजटिने शिखायै वषट्
।
त्रिपुरान्तकाय कवचाय हुम् ।
त्रिलोचनाय ऋग्यजुःसाममूर्तये
नेत्राभ्यां वौषट् ।
रुद्रायाग्नित्रयाय ज्वल ज्वल मां
रक्ष रक्ष
अघोरास्त्राय हुं फट् स्वाहा ।
अस्त्राय फट् ।
इति हृदयादि षडङ्गन्यासः एवं
करन्यासः ।
भू र्भुवः स्वरिति दिग्बन्धः ।
अथ ध्यानम् ।
श्रीचन्द्रमण्डलगताम्बुजपीतमध्ये
देवं सुधास्रविणमिन्दुकलाधरं च ।
शुद्धाक्षसूत्रकलशामृतपद्महस्तं
देवं भजामि हृदये भुवनैकनाथम् ॥
अपि च -
महाकायं महोरस्कं महादंशं महाभुजम्
।
सुधास्यं शशिमौलिं च
ज्वालाकेशोर्ध्वबन्धनम् ॥
किङ्किणीमालया युक्तं
सर्पयज्ञोपवीतिनम् ।
रक्ताम्बरधरं देवं
रक्तमालाविभूषितम् ।
पादकिङ्किणीसञ्च्छन्नं
नूपुरैरतिशोभितम् ॥
ध्यानमार्गस्थितं घोरं
पङ्कजासनसंस्थितम् ।
भजामि हृदये देवं देवं चाघोरभैरवम्
॥
। इति ध्यानम् ।
अथ मूलमन्त्रः ।
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः
।
सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः
॥
। इति मूलम् ।
अघोरमूर्तिसहस्रनामस्तोत्रम्
अथ अघोराय नमः ।
ॐ ह्रीं श्रीं क्लीं महारुद्रो
ग्लौं ग्लां अघोरभैरवः ।
क्ष्मीं कालाग्निः कलानाथः कालः
कालान्तकः कलिः ॥ १॥
श्मशानभैरवो भीमो भीतिहा
भगवान्प्रभुः ।
भाग्यदो मुण्डहस्तश्च मुण्डमालाधरो
महान् ॥ २॥
उग्रोग्ररवोऽत्युग्र उग्रतेजाश्च
रोगहा ।
रोगदो भोगदो भोक्ता सत्यः शुद्धः
सनातनः ॥ ३॥
चित्स्वरूपो महाकायो
महादीप्तिर्मनोन्मनः ।
मान्यो धन्यो यशस्कर्ता हर्ता
भर्त्ता महानिधिः ॥ ४॥
चिदानन्दश्चिदाकारश्चिदुल्लासश्चिदीश्वरः
।
चिन्त्योऽचिन्त्योऽचिन्त्यरूपः स्वरूपो
रूपविग्रही ॥ ५॥
भूतेभ्यो भूतिदो भूत्यं भूतात्मा
भूतभावनः ।
चिदानन्दः प्रकाशात्मा
सनात्माबोधविग्रहः ॥ ६॥
हृद्बोधो बोधवान् बुद्धो बुद्धिदो
बुद्धमण्डनः ।
सत्यपूर्णः सत्यसन्धः सतीनाथः
समाश्रयः ॥ ७॥
त्रैगुण्यो निर्गुणो
गुण्योऽग्रणीर्गुणविवर्जितः ।
सुभावः सुभवः स्तुत्यः स्तोता
श्रोता विभाकरः ॥ ८॥
कालकालान्धकत्रासकर्ता हर्ता
विभीषणः ।
विरूपाक्षः सहस्राक्षो विश्वाक्षो
विश्वतोमुखः ॥ ९॥
चराचरात्मा विश्वात्मा विश्वबोधो
विनिग्रहः ।
सुग्रहो विग्रहो वीरो धीरो धीरभृतां
वरः ॥ १०॥
शूरः शूली शूलहर्ता शङ्करो
विश्वशङ्करः ।
कङ्काली कलिहा कामी हासहा कामवल्लभः
॥ ११॥
कान्तारवासी कान्तास्थः
कान्ताहृदयधारणः ।
काम्यः काम्यनिधिः कान्ताकमनीयः
कलाधरः ॥ १२॥
कलेशः सकलेशश्च विकलः शकलान्तकः ।
शान्तो भ्रान्तो महारूपी सुलभो
दुर्लभाशयः ॥ १३॥
लभ्योऽनन्तो धनाधीनः सर्वगः
सामगायनः ।
सरोजनयनः साधुः साधूनामभयप्रदः ॥
१४॥
सर्वस्तुत्यः सर्वगतिः
सर्वातीतोऽप्यगोचरः ।
गोप्ता गोप्ततरो गानतत्परः
सत्यपरायणः ॥ १५॥
असहायो महाशान्तो महामूर्तो महोरगः
।
महतीरवसन्तुष्टो जगतीधरधारणः ॥ १६॥
भिक्षुः सर्वेष्टफलदो भयानकमुखः
शिवः ।
भर्गो भागीरथीनाथो भगमालाविभूषणः ॥
१७॥
जटाजूटी
स्फुरत्तेजश्चण्डांशुश्चण्डविक्रमः ।
दण्डी गणपतिर्गुण्यो गणनीयो गणाधिपः
॥ १८॥
कोमलाङ्गोऽपि क्रूरास्यो हास्यो
मायापतिः सुधीः ।
सुखदो
दुःखहा दम्भो दुर्जयो विजयी जयः ॥ १९॥
जयोऽजयो ज्वलत्तेजो
मन्दाग्निर्मदविग्रहः ।
मानप्रदो विजयदो महाकालः सुरेश्वरः
॥ २०॥
अभयाङ्को वराङ्कश्च शशाङ्ककृतशेखरः
।
लेख्यो लिप्यो विलापी च प्रतापी
प्रमथाधिपः ॥ २१॥
प्रख्यो दक्षो विमुक्तश्च रुक्षो
दक्षमखान्तकः ।
त्रिलोचनस्त्रिवर्गेशः त्रिगुणी
त्रितयीपतिः ॥ २२॥
त्रिपुरेशस्त्रिलोकेशस्त्रिनेत्रस्त्रिपुरान्तकः
।
त्र्यम्बकस्त्रिगतिः स्वक्षो
विशालाक्षो वटेश्वरः ॥ २३॥
वटुः पटुः परं पुण्यं पुण्यदो
दम्भवर्जितः ।
दम्भी विलम्भी विषेभिस्संरम्भी
सङ्ग्रही सखा ॥ २४॥
विहारी चाररूपश्च हारी
माणिक्यमण्डितः ।
विद्येश्वरो विवादी च वादभेद्यो
विभेदवान् ॥ २५॥
भयान्तको बलनिधिर्बलिकः
स्वर्णविग्रहः ।
महासीनो
विशाखी च पृषट्की पृतनापतिः ॥ २६॥
अनन्तरूपोऽनन्तश्रीः षष्टिभागो
विशाम्पतिः ।
प्रांशुः शीतांशुर्मुकुटो निरंशः
स्वांशविग्रहः ॥ २७॥
निश्चेतनो जगत्त्राता हरो
हरिणसम्भृतः ।
नागेन्द्रो नागत्वग्वासाः
श्मशानालयचारकः ॥ २८॥
विचारी सुमतिः शम्भुः सर्वः खर्वोरुविक्रमः
।
ईशः शेषः शशी सूर्यः शुद्धसागर
ईश्वरः ॥ २९॥
ईशानः परमेशानः परापरगतिः परम् ।
प्रमोदी विनयी वेद्यो विद्यारागी
विलासवान् ॥ ३०॥
स्वात्मा दयालुर्धनदो
धनदार्चनतोषितः ।
पुष्टिदस्तुष्टिदस्तार्क्ष्यो
ज्येष्ठः श्रेष्ठो विशारदः ॥ ३१॥
चामीकरोच्चयगतः सर्वगः सर्वमण्डनः ।
दिनेशः शर्वरीशश्च सन्मदोन्माददायकः
॥ ३२॥
हायनो वत्सरो नेता गायनः पुष्पसायकः
।
पुण्येश्वरो विमानस्थो विमान्यो
विमना विधुः ॥ ३३॥
विधिः सिद्धिप्रदो दान्तो गाता
गीर्वाणवन्दितः ।
श्रान्तो वान्तो विवेकाक्षो दुष्टो
भ्रष्टो निरष्टकः ॥ ३४॥
चिन्मयो वाङ्मयो वायुः शून्यः
शान्तिप्रदोऽनघः ।
भारभृद्भूतभृद्गीतो भीमरूपो भयानकः
॥ ३५॥
तच्चण्डदीप्तिश्चण्डाक्षो दलत्केशः
स्खलद्रतिः ।
अकारोऽथ निराकार इलेश ईश्वरः परः ॥
३६॥
उग्रमूर्तिरुत्सवेश ऊष्मांशुरृणहा
ऋणी ।
कल्लिहस्तो महाशूरो
लिङ्गमूर्तिर्लसद्दृशः ॥ ३७॥
लीलाज्योतिर्महारौद्रो रुद्ररूपो
जनाशनः ।
एणत्वगासनो धूर्त्तो
धूलिरागानुलेपनः ॥ ३८॥
ऐं वीजामृतपूर्णाङ्गः स्वर्णाङ्गः
पुण्यवर्धनः ।
ॐकारोकाररूपश्च तत्सर्वो अङ्गनापतिः
॥ ३९॥
अःस्वरूपो महाशान्तः स्वरवर्ण
विभूषणः ।
कामान्तकः कामदश्च कालीयात्मा
विकल्पनः ॥ ४०॥
कलात्मा कर्कशाङ्गश्च
काराबन्धविमोक्षदः ।
कालरूपः कामनिधिः केवलो जगताम्पतिः
॥ ४१॥
कुत्सितः कनकाद्रिस्थः काशीवासः
कलोत्तमः ।
कामी रामाप्रियः कुन्तः
कवर्णाकृतिरात्मभूः ॥ ४२॥
खलीनः खलताहन्ता खेटेशो मुकुटाधरः ।
खं खड्गेशः खगधरः खेटः खेचरवल्लभः ॥
४३॥
खगान्तकः खगाक्षश्च खवर्णामृतमज्जनः
।
गणेशो
गुणमार्गेयो गजराजेश्वरो गणः ॥ ४४॥
अगुणः सगुणो ग्राम्यो
ग्रीवालङ्कारमण्डितः ।
गूढो गूढाशयो गुप्तो
गणगन्धर्वसेवितः ॥ ४५॥
घोरनादो घनश्यामो घूर्णात्मा
घुर्घराकृतिः ।
घनवाहो घनेशानो घनवाहनपूजितः ॥ ४६॥
घनः सर्वेश्वरो जेशो घवर्णत्रयमण्डनः
।
चमत्कृतिश्चलात्मा च चलाचलस्वरूपकः
॥ ४७॥
चारुवेशश्चारुमूर्तिश्चण्डिकेशश्चमूपतिः
।
चिन्त्योऽचिन्त्यगुणातीतश्चितारूपः
चिताप्रियः ॥ ४८॥
चितेशश्चेतनारूपश्चिताशान्तापहारकः
।
छलभृच्छलकृच्छत्री छत्रिकश्छलकरकः ॥
४९॥
छिन्नग्रीवः छिन्नशीर्षः छिन्नकेशः
छिदारकः ।
जेता जिष्णुरजिष्णुश्च जयात्मा
जयमण्डलः ॥ ५०॥
जन्महा जन्मदो जन्यो वृजनी जृम्भणो
जटी ।
जडहा जडसेव्यश्च जडात्मा जडवल्लभः ॥ ५१॥
जयस्वरूपो जनको जलधिर्ज्वरसूदनः ।
जलन्धरस्थो जनाध्यक्षो
निराधिराधिरस्मयः ॥ ५२॥
अनादिर्जगतीनाथो जयश्रीर्जयसागरः ।
झङ्कारी झलिनीनाथः सप्ततिः
सप्तसागरः ॥ ५३॥
टङ्कारसम्भवो टाणुः टवर्णामृतवल्लभः
।
टङ्कहस्तो विटङ्कारो टीकारो
टोपपर्वतः ॥ ५४॥
ठकारी च त्रयः ठः ठः स्वरूपो
ठकुरोबली ।
डकारी डकृतीडम्बडिम्बानाथो विडम्बनः
॥ ५५॥
डिल्लीश्वरो हि डिल्लाभो
डङ्काराक्षर मण्डनः ।
ढवर्णी दुल्लियज्ञेशो ढम्बसूची
निरन्तकः ॥ ५६॥
णवर्णी शोणिनोवासो णरागी रागभूषणः ।
ताम्रापस्तपनस्तापी तपस्वी तपसां
निधिः ॥ ५७॥
तपोमयस्तपोरूपस्तपसां फलदायकः ।
तमीश्वरो
महाताली तमीचरक्षयङ्करः ॥ ५८॥
तपोद्योतिस्तपोहीनो वितानी
त्र्यम्यबकेश्वरः ।
स्थलस्थः स्थावरः स्थाणुः स्थिरबुद्धिः
स्थिरेन्द्रियः ॥ ५९॥
स्थिरङ्कृती स्थिरप्रीतिः स्थितिदः
स्थितिवांस्तथा ।
दम्भी दमप्रियो दाता दानवो
दानवान्तकः ॥ ६०॥
धर्माधर्मो धर्मगतिर्धनवान्धनवल्लभः
।
धनुर्धरो धनुर्धन्यो धीरेशो धीमयो
धृतिः ॥ ६१॥
धकारान्तो धरापालो धरणीशो धराप्रियः
।
धराधरो धरेशानो नारदो नारसोरसः ॥
६२॥
सरसो विरसो नागो नागयज्ञोपवीतवान् ।
नुतिलभ्यो
नुतीशानो नुतितुष्टो नुतीश्वरः ॥ ६३॥
पीवराङ्ग पराकारः परमेशः परात्परः ।
पारावारः परं पुण्यं परामूर्तिः परं
पदम् ॥ ६४॥
परोगम्यः परन्तेजः परंरूपः परोपकृत्
।
पृथ्वीपतिः पतिः पूतिः पूतात्मा
पूतनायकः ॥ ६५॥
पारगः पारदृश्वा च पवनः पवनात्मजः ।
प्राणदोऽपानदः पान्थः समानव्यानदो
वरम् ॥ ६६॥
उदानदः प्राणगतिः प्राणिनां
प्राणहारकः ।
पुंसां पटीयान्परमः परमं स्थानकः
पविः ॥ ६७॥
रविः पीताननः पीठं
पाठीनाकृतिरात्मवान् ।
पत्री पीतः पवित्रं च पाठनं
पाठनप्रियः ॥ ६८॥
पार्वतीशः पर्वतेशः पर्वेशः
पर्वघातनः ।
फणी फणिद
ईशानः फुल्लहस्तः फणाकृतिः ॥ ६९॥
फणिहारः फणिमूर्तिः फेनात्मा
फणिवल्लभः ।
बली बलिप्रियो बालो बालालापी
बलन्धरः ॥ ७०॥
बालको बलहस्तश्च बलिभुग्बालनाशनः ।
बलिराजो बलङ्कारी
बाणहस्तोऽर्धवर्णभृत् ॥ ७१॥
भद्री भद्रप्रदो भास्वान्भामयो
भ्रमयोनयः ।
भव्यो भावप्रियो
भानुर्भानुमान्भीमनन्दकः ॥ ७२॥
भूरिदो भूतनाथश्च भूतलं सुतलं तलम्
।
भयहा भावनाकर्ता भवहा भवघातकः ॥ ७३॥
भवो विभवदो भीतो भूतभव्यो भवप्रियः
।
भवानीशो भगेष्टश्च भगपूजनपोषणः ॥
७४॥
मकुरो मानदो मुक्तो मलिनो मलनाशनः ।
मारहर्ता महोधिश्च महस्वी
महतीप्रियः ॥ ७५॥
मीनकेतुर्महामारो महेष्वा मदनान्तकः
।
मिथुनेशो महामोहो मल्लो मल्लान्तको
मुनिः ॥ ७६॥
मरीचिः रुचिमान्योगी
मञ्जुलेशोऽमराधिपः ।
मर्दनो
मोहमर्दी च मेधावी मेदिनीपतिः ॥ ७७॥
महीपतिः सहस्रारो मुदितो मानवेश्वरः
।
मौनी मौनप्रियो मासः पक्षी माधव
इष्टवान् ॥ ७८॥
मत्सरी मापतिर्मेषो मेषोपहारतोषितः ।
माणिक्यमण्डितो मन्त्री
मणिपूरनिवासकः ॥ ७९॥
मन्दमुन्मदरूपश्च मेनकी प्रियदर्शनः
।
महेशो मेघरूपश्च मकरामृतदर्शनः ॥
८०॥
यज्ज्वा यज्ञप्रियो यज्ञो यशस्वी
यज्ञभुग्युवा ।
योधप्रियो यमप्रियो यामीनाथो
यमक्षयः ॥ ८१॥
याज्ञिको यज्ञमानश्च
यज्ञमूर्तिर्यशोधरः ।
रविः सुनयनो रत्नरसिको रामशेखरः ॥
८२॥
लावण्यं लालसो लूतो
लज्जालुर्ललनाप्रियः ।
लम्बमूर्तिविलम्बी च लोलजिह्वो
लुलुन्धरः ॥ ८३॥
वसुदो वसुमान्वास्तुवाग्भवो वटुको
वटुः ।
वीटीप्रियो विटङ्की च विटपी
विहगाधिपः ॥ ८४॥
विश्वमोदी विनयदो विश्वप्रीतो
विनायकः ।
विनान्तको विनांशको वैमानिको
वरप्रदः ॥ ८५॥
शम्भुः शचीपतिः शारसमदो वकुलप्रियः
।
शीतलः शीतरूपश्च शावरी प्रणतो वशी ॥
८६॥
शीतालुः शिशिरः शैत्यः शीतरश्मिः
सितांशुमान् ।
शीलदः शीलवान् शाली शालीनः
शशिमण्डनः ॥ ८७॥
शण्डः शण्टः शिपिविष्टः
षवर्णोज्ज्वलरूपवान् ।
सिद्धसेव्यः सितानाथः सिद्धिकः
सिद्धिदायकः ॥ ८८॥
साध्यो सुरालयः सौम्यः सिद्धिभूः
सिद्धिभावनः ।
सिद्धान्तवल्लभः स्मेरः सितवक्त्रः
सभापतिः ॥ ८९॥
सरोधीशः सरिन्नाथः सिताभश्चेतनासमः
।
सत्यपः
सत्यमूर्तिश्च सिन्धुराजः सदाशिवः ॥ ९०॥
सदेशः सदनासूरिः सेव्यमानः
सताङ्गतिः ।
सताम्भाव्यः सदानाथः
सरस्वान्समदर्शनः ॥ ९१॥
सुसन्तुष्टः सतीचेतः सत्यवादी
सतीरतः ।
सर्वाराध्यः सर्वपतिः समयी समयः
स्वयम् ॥ ९२॥
स्वयम्भूः स्वयमात्मीयः स्वयम्भावः
समात्मकः ।
सुराध्यक्षः सुरपतिः सरोजासनसेवकः ॥
९३॥
सरोजाक्षनिषेव्यश्च सरोजदललोचनः ।
सुमतिः कुमतिः स्तुत्यः
सुरनायकनायकः ॥ ९४॥
सुधाप्रियः सुधेशश्च सुधामूर्तिः
सुधाकरः ।
हीरको हीरवांश्चैव हेतुः हाटकमण्डनः
॥ ९५॥
हाटकेशो हठधरो हरिद्रत्नविभूषणः ।
हितकृद्धेतुभूतश्च हास्यदो
हास्यवक्त्रकः ॥ ९६॥
हारो हारप्रियो हारी हविष्मल्लोचनो
हरिः ।
हविष्मान्हविभुग्वाद्यो हव्यं
हविर्भुजां वरः ॥ ९७॥
हंसः परमहंसश्च हंसीनाथो हलायुधः ।
हरिदश्वो हरिस्तुत्यो हेरम्बो
लम्बितोदरः ॥ ९८॥
क्षमापतिः क्षमः क्षान्तः
क्षुराधारोऽक्षिभीमकः ।
क्षितिनाथः क्षणेष्टश्च क्षणवायुः
क्षवः क्षतः ॥ ९९॥
क्षीणश्च क्षणिकः क्षामः
क्षवर्णामृतपीठकः ।
अकारादि क्षकारान्ता
विद्यामालाविभूषणः ॥ १००॥
स्वर व्यञ्जन भूषाढ्यो ह्रस्व दीर्घ
विभूषणः ।
ॐ क्ष्मृं महाभैरवेशी ॐ श्रीं
भैरवपूर्वकः ॥ १०१॥
ॐ ह्रीं वटुकभावेशो ॐ ह्रीं
वटुकभैरवः ।
ॐ क्लीं श्मशानवासी च ॐ ह्रीं
श्मशानभैरवः ॥ १०२॥
मैं भद्रकालिकानाथः क्लीं ॐ ह्रीं
कालिकापतिः ।
ऐं सौः क्लीं त्रिपुरेशानो ॐ ह्रीं
ज्वालामुखीपतिः ॥ १०३॥
ऐं क्लीं सः शारदानाथो ॐ ह्रीं
मार्तण्डभैरवः ।
ॐ ह्रीं सुमन्तुसेव्यश्च ॐ श्रीं
ह्रीं मत्तभैरवः ॥ १०४॥
ॐ श्रीं उन्मत्तचित्तश्च ॐ श्रीं उं
उग्रभैरवः ।
ॐ श्रीं कठोरदेशश्च ॐ श्रीं ह्रीं
कठोरभैरवः ॥ १०५॥
ॐ श्रीं कामान्धकध्वंसी ॐ श्रीं
कामान्धभैरवः ।
ॐ श्रीं अष्टस्वरश्चैव ॐ श्रीं
अष्टकभैरवः ॥ १०६॥
ॐ श्रीं ह्रीं अष्टमूर्तिश्च ॐ
श्रीं चिन्मूर्तिभैरवः ।
ॐ ह्रीं हाटकवर्णश्च ॐ ह्रीं
हाटकभैरवः ॥ १०७॥
ॐ श्रीं शशाङ्क वदनः ॐ श्रीं
शीतलभैरवः ।
ॐ श्रीं शिवारुतश्चैव ॐ श्रीं
शारूकभैरवः ॥ १०८॥
ॐ श्रीं अहंस्वरूपश्च ॐ ह्रीं
श्रीमुण्डभैरवः ।
ॐ श्रीं मनोन्मनश्चैव ॐ श्रीं
मङ्गलभैरवः ॥ १०९॥
ॐ श्रीं बुद्धिमयश्चैव ॐ श्रीं
भैम्बुद्धभैरवः ।
ॐ श्रीं ऐं क्लीं नागमूर्तिः ॐ
श्रीं ह्रीं नागभैरवः ॥ ११०॥
ॐ श्रीं क्लीं कूर्ममूर्तिश्च ॐ
श्रीं कृकरभैरवः ।
ॐ ह्रीं श्रीं देवदत्तश्च ॐ श्रीं
क्लीं दत्तभैरवः ॥ १११॥
ॐ ह्रीं धनञ्जयश्चैव ॐ श्रीं
धनिकभैरवः ।
ॐ श्रीं ह्रीं रसरूपश्च ॐ श्रीं
रसिकभैरवः ॥ ११२॥
ॐ श्रीं स्पर्शरूपश्च ॐ श्रीं ह्रीं
स्पर्शभैरवः ।
ॐ श्रीं ह्रीं क्लीं स्वरूपश्च ॐ
श्रीं ह्रीं रूपभैरवः ॥ ११३॥
ॐ श्रीं सत्त्वमयश्चैव ॐ श्रीं
ह्रीं सत्त्वभैरवः ।
ॐ श्रीं रजोगुणात्मा च ॐ श्रीं
राजसभैरवः ॥ ११४॥
ॐ श्रीं तमोमयश्चैव ॐ श्रीं
तामसभैरवः ।
ॐ श्रीं धर्ममयश्चैव ॐ हीं वै
धर्मभैरवः ॥ ११५॥
ॐ श्रीं ह्रीं मध्यचैतन्यो ॐ श्रीं
चैतन्यभैरवः ।
ॐ श्रीं ह्रीं क्षितिमूर्तिश्च ॐ
ह्रीं क्षात्रिकभैरवः ॥ ११६॥
ॐ श्रीं ह्रीं जलमूर्तिश्च ॐ ह्रीं
जलेन्द्रभैरवः ।
ॐ श्रीं पवनमूर्तिश्च ॐ ह्रीं
पीठकभैरवः ॥ ११७॥
ॐ श्रीं हुताशमूर्तिश्च ॐ ह्रीं
हालाखभैरवः ।
ॐ श्रीं ह्रीं सोममूर्तिश्च ॐ श्रीं
ह्रीं सौम्यभैरवः ॥ ११८॥
ॐ श्रीं ह्रीं सूर्यमूर्तिश्च ॐ
श्रीं सौरेन्द्रभैरवः ।
ॐ जूं सः हंसरूपश्च हं सः जुं ॐ
मृत्यञ्जयः ।
ॐ चत्वारिंशदधिको ॐ श्रीं अघोरभैरवः
॥ ११९॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः
।
सर्वतः सर्वसर्वेभ्यो नमस्ते
रुद्ररूपेभ्यः ॥ १२०॥
भैरवेशोऽभयवरदाता देवजनप्रियः ।
ॐ श्रीं ह्रीं क्लीं क्ष्म्युं देवी
वै अघोरदर्शनः ॥ १२१॥
ॐ श्रीं सौन्दर्यवान्देवो ॐ
अघोरकृपानिधिः ।
सहस्रनाम इति नाम्नां सहस्रं तु
अघोरस्य जगत्प्रभुः ॥ १२२॥
तव भक्त्या मयाख्यातं त्रिषु लोकेषु
दुर्लभम् ।
अप्रकाश्यमदातव्यं गोप्तव्यं
शरजन्मनः ॥ १२३॥
बल्यं बलप्रदं स्तुत्यं स्तवनीयं
स्तवोत्तमम् ।
पठेद्वा पाठयेन्नित्यं
ध्यायेच्चेतसि नित्यशः ॥ १२४॥
अद्रष्टव्यमदीक्षाय गोप्तव्यं
पशुसङ्कटे ।
नातः परतरं किञ्चित्सर्वस्वं नास्ति
मे हृदि ॥ १२५॥
पुण्यदं पुण्यमात्मीयं सकलं निष्कलं
परम् ।
पठेन्मन्त्री निशीथे तु नग्नः
श्रीमुक्तकुन्तलः ॥ १२६॥
अनन्तं चित्सुधाकारं देवानामपि
दुर्लभम् ।
शक्त्या युक्तो जपेन्नाम्नां सहस्रं
भक्तिपूर्वकम् ॥ १२७॥
तत्क्षणात्साधकः सत्यं जीवन्मुक्तो
भविष्यति ।
भौमेऽर्क शनिवारे तु श्मशाने साधकः
पठेत् ॥ १२८॥
सद्यस्तस्य स्वयं देवो वरदस्तु
भविष्यति ।
दशावर्त्तं पठेद्रात्रौ नदीतीरेषु
धैर्यवान् ॥ १२९॥
तस्य हस्ते सदा सन्ति
त्र्यम्बकस्याष्टसिद्धयः ।
मध्याहे शिवरात्रौ च निशीथे विविधे
पठेत् ॥ १३०॥
इन्द्रादयः सुरगणा वशमेष्यन्ति
नान्यथा ।
गुरौ ब्राह्ममुहूर्ते तु
पठेद्भक्त्या च साधकः ॥ १३१॥
यावदिन्द्रः सभामध्ये तदग्रे मूकवत्
भवेत् ।
शुक्रे नद्या जले मन्त्री
पठेन्नाम्नां सहस्रकम् ॥ १३२॥
तदाप्रभृति त्रैलोक्यं मोहमेष्यति
नान्यथा ।
भौमे वनान्तरे मन्त्री
पठेत्सन्ध्यानिधौ तदा ॥ १३३॥
शत्रुः कालसमानोऽपि मृत्युमेष्यति
नान्यथा ।
त्रिसन्ध्योदयकाले तु
पठेत्साधकसत्तमः ॥ १३४॥
रम्भाद्यप्सरसः सर्वा वशमायान्ति
तत्क्षणात् ।
भौमे मध्याह्नसमये पठेच्च
कूपसन्निधौ ॥ १३५॥
सद्यो देवि महान्तं
कारिपुमुच्चाटयेद्ध्रुवम् ।
सद्यस्त्रिवारं
पठेन्नाम्नां सहस्रमुत्तमम् ॥ १३६॥
इहलोके भवेद्भोगी परे मुक्तिर्भविष्यति
।
अर्कवारे समालिख्य भूर्जत्वचि च
साधकः ॥ १३७॥
कुङ्कुमालक्तकस्तूरी गोरोचन
मनःशिलाः ।
सर्वाद्यैर्वसुभिर्मन्त्री
वेष्टयेत्ताम्ररज्जुना ॥ १३८॥
धारयेन्मूर्ध्नि सद्यस्तु
लभेत्कामान्यथेप्सितान् ।
पुत्रान्दारांश्च लक्ष्मीं च यशो
धर्मं धनानि च ॥ १३९॥
लभते नात्र संशयः सत्यमेतद्वचो मम ।
विनानेन
महादेवि पठेद्यः कवचं शुभम् ॥ १४०॥
तस्य जीवं धनं पुत्रान्
दारान्भक्षन्ति राक्षसाः ।
विनानेन जपेत् विद्यामघोरस्य च
साधकः ॥ १४१॥
तस्य कोटि जपं व्यर्थं सत्यमेतद्वचो
मम ।
बहुनात्र किमुक्तेन सहस्राख्यं
स्तवोत्तमम् ॥ १४२॥
यद्गृहे वा जपेद्यस्तु श्रावयेद्वा श्रृणोति
यः ।
स स्वयं नीलकण्ठोऽहं तत्कलत्रं
महेश्वरी ॥ १४३॥
इदं रहस्यं परमं भक्त्या तव
मयोदितम् ।
अत्यन्तदुर्लभं नाके तथात्यन्तं
महीतले ॥ १४४॥
भूमौ च दुर्लभं देवि गोपनीयं
दुरात्मनः ।
अघोरस्य महादेवि तत्त्वं परमतत्त्वकम्
॥ १४५॥
अतीव मधुरं हृद्यं परापररहस्यकम् ।
विना बलिं विना पूजां न रक्ष्यः
साधकोत्तमः ॥ १४६॥
पठनीयं दिवारात्रौ सिद्धयोऽष्टौ
भवन्ति हि ।
इदं
रहस्यं परमं रहस्यातिरहस्यकम् ॥ १४७॥
अप्रकाश्यमदातव्यमवक्तव्यं
दुरात्मने ।
यथेष्टफलदं
सद्यः कलौ शीघ्रफलप्रदम् ॥ १४८॥
गोप्यं गुप्ततरं गूढं गुप्तं
पुत्राय पार्वति ।
गोपनीयं सदागोप्यं गोप्तव्यं च
स्वयोनिवत् ॥ १४९॥
इति श्रीरुद्रयामले तन्त्रे भैरव-भैरवी संवादे अघोरमूर्तिसहस्रनामस्तवः सम्पूर्णः ॥
Related posts
vehicles
business
health
Featured Posts
Labels
- Astrology (7)
- D P karmakand डी पी कर्मकाण्ड (10)
- Hymn collection (38)
- Worship Method (32)
- अष्टक (54)
- उपनिषद (30)
- कथायें (127)
- कवच (61)
- कीलक (1)
- गणेश (25)
- गायत्री (1)
- गीतगोविन्द (27)
- गीता (34)
- चालीसा (7)
- ज्योतिष (32)
- ज्योतिषशास्त्र (86)
- तंत्र (182)
- दशकम (3)
- दसमहाविद्या (51)
- देवी (190)
- नामस्तोत्र (55)
- नीतिशास्त्र (21)
- पञ्चकम (10)
- पञ्जर (7)
- पूजन विधि (80)
- पूजन सामाग्री (12)
- मनुस्मृति (17)
- मन्त्रमहोदधि (26)
- मुहूर्त (6)
- रघुवंश (11)
- रहस्यम् (120)
- रामायण (48)
- रुद्रयामल तंत्र (117)
- लक्ष्मी (10)
- वनस्पतिशास्त्र (19)
- वास्तुशास्त्र (24)
- विष्णु (41)
- वेद-पुराण (691)
- व्याकरण (6)
- व्रत (23)
- शाबर मंत्र (1)
- शिव (54)
- श्राद्ध-प्रकरण (14)
- श्रीकृष्ण (22)
- श्रीराधा (2)
- श्रीराम (71)
- सप्तशती (22)
- साधना (10)
- सूक्त (30)
- सूत्रम् (4)
- स्तवन (109)
- स्तोत्र संग्रह (711)
- स्तोत्र संग्रह (6)
- हृदयस्तोत्र (10)
No comments: