Slide show
Ad Code
JSON Variables
Total Pageviews
Blog Archive
-
▼
2021
(800)
-
▼
June
(39)
- विष्णु
- कृष्ण
- लक्ष्मी माता
- श्रीराम
- माँ दुर्गा
- शिव
- गणेशजी
- वेद पुराण
- उपनिषद
- अमृतबिन्दु उपनिषद्
- एकाक्षर उपनिषद्
- व्रत- कथा-त्यौहार
- गर्भ उपनिषद
- अध्यात्मोपनिषत्
- कलिसंतरण उपनिषद
- रघुवंशम् पञ्चम सर्ग
- शुकरहस्योपनिषत्
- नवग्रह
- नवग्रह पूजन विधि
- नवग्रह पूजन सामग्री
- नवग्रहस्तोत्रम्
- नवग्रहसूक्तम्
- नवग्रह स्तोत्र
- नवग्रहपीडाहरस्तोत्रम्
- नवग्रह कवच
- नवग्रह चालीसा
- वट सावित्री व्रत
- यमाष्टक
- केतु अष्टोत्तरशतनामस्तोत्रम्
- केतुपञ्चविंशतिनामस्तोत्रम्
- केतुकवचम्
- केतुस्तोत्रम्
- राहुमङ्गलस्तोत्रम्
- राहु अष्टोत्तरशतनामस्तोत्रम्
- राहुपञ्चविंशतिनामस्तोत्रम्
- राहुस्तोत्रम्
- राहुकवचम्
- शनैश्चर सहस्रनामस्तोत्रम्
- शनि अष्टोत्तरशतनामस्तोत्रम्
-
▼
June
(39)
Search This Blog
Fashion
Menu Footer Widget
Text Widget
Bonjour & Welcome
About Me
Labels
- Astrology
- D P karmakand डी पी कर्मकाण्ड
- Hymn collection
- Worship Method
- अष्टक
- उपनिषद
- कथायें
- कवच
- कीलक
- गणेश
- गायत्री
- गीतगोविन्द
- गीता
- चालीसा
- ज्योतिष
- ज्योतिषशास्त्र
- तंत्र
- दशकम
- दसमहाविद्या
- देवी
- नामस्तोत्र
- नीतिशास्त्र
- पञ्चकम
- पञ्जर
- पूजन विधि
- पूजन सामाग्री
- मनुस्मृति
- मन्त्रमहोदधि
- मुहूर्त
- रघुवंश
- रहस्यम्
- रामायण
- रुद्रयामल तंत्र
- लक्ष्मी
- वनस्पतिशास्त्र
- वास्तुशास्त्र
- विष्णु
- वेद-पुराण
- व्याकरण
- व्रत
- शाबर मंत्र
- शिव
- श्राद्ध-प्रकरण
- श्रीकृष्ण
- श्रीराधा
- श्रीराम
- सप्तशती
- साधना
- सूक्त
- सूत्रम्
- स्तवन
- स्तोत्र संग्रह
- स्तोत्र संग्रह
- हृदयस्तोत्र
Tags
Contact Form
Contact Form
Followers
Ticker
Slider
Labels Cloud
Translate
Pages
Popular Posts
-
मूल शांति पूजन विधि कहा गया है कि यदि भोजन बिगड़ गया तो शरीर बिगड़ गया और यदि संस्कार बिगड़ गया तो जीवन बिगड़ गया । प्राचीन काल से परंपरा रही कि...
-
रघुवंशम् द्वितीय सर्ग Raghuvansham dvitiya sarg महाकवि कालिदास जी की महाकाव्य रघुवंशम् प्रथम सर्ग में आपने पढ़ा कि-महाराज दिलीप व उनकी प...
-
रूद्र सूक्त Rudra suktam ' रुद्र ' शब्द की निरुक्ति के अनुसार भगवान् रुद्र दुःखनाशक , पापनाशक एवं ज्ञानदाता हैं। रुद्र सूक्त में भ...
Popular Posts
अगहन बृहस्पति व्रत व कथा
मार्तण्ड भैरव स्तोत्रम्
शनैश्चर सहस्रनामस्तोत्रम्
श्रीशनैश्चरसहस्रनामस्तोत्रम् –
इससे पूर्व शनि अष्टोत्तरशतनाम स्तोत्रम् पढ़ा अब शनि ग्रह को अनुकूल बनाने के लिए श्रीशनैश्चर
सहस्रनामस्तोत्रम् व नामावली पढेंगे।
श्रीशनैश्चर सहस्रनामस्तोत्रम्
अस्य श्रीशनैश्चरसहस्रनामस्तोत्र
महामन्त्रस्य ।
काश्यप ऋषिः । अनुष्टुप् छन्दः ।
शनैश्चरो देवता । शम् बीजम् ।
नम् शक्तिः । मम् कीलकम् ।
शनैश्चरप्रसादासिद्ध्यर्थे जपे
विनियोगः ।
शनैश्चराय अङ्गुष्ठाभ्यां नमः ।
मन्दगतये तर्जनीभ्यां नमः ।
अधोक्षजाय मध्यमाभ्यां नमः ।
सौरये अनामिकाभ्यां नमः ।
शुष्कोदराय कनिष्ठिकाभ्यां नमः ।
छायात्मजाय करतलकरपृष्ठाभ्यां नमः ।
शनैश्चराय हृदयाय नमः ।
मन्दगतये शिरसे स्वाहा ।
अधोक्षजाय शिखायै वषट् ।
सौरये कवचाय हुम् ।
शुष्कोदराय नेत्रत्रयाय वौषट् ।
छायात्मजाय अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ।
। ध्यानम् ।
चापासनो गृध्रधरस्तु नीलः
प्रत्यङ्मुखः काश्यप गोत्रजातः ।
सशूलचापेषु गदाधरोऽव्यात्
सौराष्ट्रदेशप्रभवश्च शौरिः ॥
नीलाम्बरो नीलवपुः किरीटी
गृध्रासनस्थो विकृताननश्च ।
केयूरहारादिविभूषिताङ्गः
सदाऽस्तु मे मन्दगतिः प्रसन्नः ॥
अथ श्रीशनैश्चरसहस्रनामस्तोत्रम्
ॐ ॥ अमिताभाष्यघहरः अशेषदुरितापहः ।
अघोररूपोऽतिदीर्घकायोऽशेषभयानकः ॥
१॥
अनन्तो अन्नदाता
चाश्वत्थमूलजपप्रियः ।
अतिसम्पत्प्रदोऽमोघः अन्यस्तुत्या
प्रकोपितः ॥ २॥
अपराजितो अद्वितीयः अतितेजोऽभयप्रदः
।
अष्टमस्थोऽञ्जननिभः
अखिलात्मार्कनन्दनः ॥ ३॥
अतिदारुण अक्षोभ्यः अप्सरोभिः
प्रपूजितः ।
अभीष्टफलदोऽरिष्टमथनोऽमरपूजितः ॥ ४॥
अनुग्राह्यो अप्रमेय पराक्रम
विभीषणः ।
असाध्ययोगो अखिल दोषघ्नः अपराकृतः ॥
५॥
अप्रमेयोऽतिसुखदः अमराधिपपूजितः ।
अवलोकात् सर्वनाशः अश्वत्थाम
द्विरायुधः ॥ ६॥
अपराधसहिष्णुश्च अश्वत्थाम सुपूजितः
।
अनन्तपुण्यफलदो अतृप्तोऽतिबलोऽपि च
॥ ७॥
अवलोकात् सर्ववन्द्यः
अक्षीणकरुणानिधिः ।
अविद्यामूलनाशश्च अक्षय्यफलदायकः ॥
८॥
आनन्दपरिपूर्णश्च आयुष्कारक एव च ।
आश्रितेष्टार्थवरदः आधिव्याधिहरोऽपि
च ॥ ९॥
आनन्दमय आनन्दकरो आयुधधारकः ।
आत्मचक्राधिकारी च
आत्मस्तुत्यपरायणः ॥ १०॥
आयुष्करो आनुपूर्व्यः
आत्मायत्तजगत्त्रयः ।
आत्मनामजपप्रीतः आत्माधिकफलप्रदः ॥
११॥
आदित्यसंभवो आर्तिभञ्जनो आत्मरक्षकः
।
आपद्बान्धव आनन्दरूपो आयुःप्रदोऽपि
च ॥ १२॥
आकर्णपूर्णचापश्च आत्मोद्दिष्ट
द्विजप्रदः ।
आनुकूल्यो आत्मरूप प्रतिमादान
सुप्रियः ॥ १३॥
आत्मारामो आदिदेवो आपन्नार्ति
विनाशनः ।
इन्दिरार्चितपादश्च
इन्द्रभोगफलप्रदः ॥ १४॥
इन्द्रदेवस्वरूपश्च इष्टेष्टवरदायकः
।
इष्टापूर्तिप्रद इन्दुमतीष्टवरदायकः
॥ १५॥
इन्दिरारमणप्रीत
इन्द्रवंशनृपार्चितः ।
इहामुत्रेष्टफलद इन्दिरारमणार्चितः
॥ १६॥
ईद्रिय ईश्वरप्रीत ईषणात्रयवर्जितः
।
उमास्वरूप उद्बोध्य उशना
उत्सवप्रियः ॥ १७॥
उमादेव्यर्चनप्रीत
उच्चस्थोच्चफलप्रदः ।
उरुप्रकाश उच्चस्थ योगद उरुपराक्रमः
॥ १८॥
ऊर्ध्वलोकादिसञ्चारी ऊर्ध्वलोकादिनायकः
।
ऊर्जस्वी ऊनपादश्च ऋकाराक्षरपूजितः
॥ १९॥
ऋषिप्रोक्त पुराणज्ञ ऋषिभिः
परिपूजितः ।
ऋग्वेदवन्द्य ऋग्रूपी ऋजुमार्ग
प्रवर्तकः ॥ २०॥
लुळितोद्धारको लूत भवपाशप्रभञ्जनः ।
लूकाररूपको लब्धधर्ममार्गप्रवर्तकः
॥ २१॥
एकाधिपत्यसाम्राज्यप्रद एनौघनाशनः ।
एकपाद्येक एकोनविंशतिमासभुक्तिदः ॥
२२॥
एकोनविंशतिवर्षदश एणाङ्कपूजितः ।
ऐश्वर्यफलद ऐन्द्र ऐरावतसुपूजितः ॥
२३॥
ओंकार जपसुप्रीत ओंकार परिपूजितः ।
ओंकारबीज औदार्य हस्त औन्नत्यदायकः
॥ २४॥
औदार्यगुण औदार्य शील औषधकारकः ।
करपङ्कजसन्नद्धधनुश्च करुणानिधिः ॥
२५॥
कालः कठिनचित्तश्च कालमेघसमप्रभः ।
किरीटी कर्मकृत् कारयिता कालसहोदरः
॥ २६॥
कालाम्बरः काकवाहः कर्मठः
काश्यपान्वयः ।
कालचक्रप्रभेदी च कालरूपी च कारणः ॥
२७॥
कारिमूर्तिः कालभर्ता
किरीटमकुटोज्वलः ।
कार्यकारण कालज्ञः
काञ्चनाभरथान्वितः ॥ २८॥
कालदंष्ट्रः क्रोधरूपः कराळी
कृष्णकेतनः ।
कालात्मा कालकर्ता च कृतान्तः
कृष्णगोप्रियः ॥ २९॥
कालाग्निरुद्ररूपश्च
काश्यपात्मजसम्भवः ।
कृष्णवर्णहयश्चैव
कृष्णगोक्षीरसुप्रियः ॥ ३०॥
कृष्णगोघृतसुप्रीतः
कृष्णगोदधिषुप्रियः ।
कृष्णगावैकचित्तश्च
कृष्णगोदानसुप्रियः ॥ ३१॥
कृष्णगोदत्तहृदयः कृष्णगोरक्षणप्रियः
।
कृष्णगोग्रासचित्तस्य
सर्वपीडानिवारकः ॥ ३२॥
कृष्णगोदान शान्तस्य सर्वशान्ति
फलप्रदः ।
कृष्णगोस्नान कामस्य गङ्गास्नान
फलप्रदः ॥ ३३॥
कृष्णगोरक्षणस्याशु
सर्वाभीष्टफलप्रदः ।
कृष्णगावप्रियश्चैव कपिलापशुषु
प्रियः ॥ ३४॥
कपिलाक्षीरपानस्य सोमपानफलप्रदः ।
कपिलादानसुप्रीतः कपिलाज्यहुतप्रियः
॥ ३५॥
कृष्णश्च कृत्तिकान्तस्थः
कृष्णगोवत्ससुप्रियः ।
कृष्णमाल्याम्बरधरः
कृष्णवर्णतनूरुहः ॥ ३६॥
कृष्णकेतुः कृशकृष्णदेहः
कृष्णाम्बरप्रियः ।
क्रूरचेष्टः क्रूरभावः
क्रूरदंष्ट्रः कुरूपि च ॥ ३७॥
कमलापति संसेव्यः कमलोद्भवपूजितः ।
कामितार्थप्रदः कामधेनु
पूजनसुप्रियः ॥ ३८॥
कामधेनुसमाराध्यः कृपायुष विवर्धनः
।
कामधेन्वैकचित्तश्च कृपराज सुपूजितः
॥ ३९॥
कामदोग्धा च क्रुद्धश्च
कुरुवंशसुपूजितः ।
कृष्णाङ्गमहिषीदोग्धा
कृष्णेन कृतपूजनः ॥ ४०॥
कृष्णाङ्गमहिषीदानप्रियः कोणस्थ एव
च ।
कृष्णाङ्गमहिषीदानलोलुपः कामपूजितः
॥ ४१॥
क्रूरावलोकनात्सर्वनाशः
कृष्णाङ्गदप्रियः ।
खद्योतः खण्डनः खड्गधरः खेचरपूजितः
॥ ४२॥
खरांशुतनयश्चैव खगानां पतिवाहनः ।
गोसवासक्तहृदयो गोचरस्थानदोषहृत् ॥
४३॥
गृहराश्याधिपश्चैव गृहराज महाबलः ।
गृध्रवाहो गृहपतिर्गोचरो गानलोलुपः ॥
४४॥
घोरो घर्मो घनतमा घर्मी
घनकृपान्वितः ।
घननीलाम्बरधरो ङादिवर्ण सुसंज्ञितः
॥ ४५॥
चक्रवर्तिसमाराध्यश्चन्द्रमत्या
समर्चितः ।
चन्द्रमत्यार्तिहारी च चराचर
सुखप्रदः ॥ ४६॥
चतुर्भुजश्चापहस्तश्चराचरहितप्रदः ।
छायापुत्रश्छत्रधरश्छायादेवीसुतस्तथा
॥ ४७॥
जयप्रदो जगन्नीलो जपतां
सर्वसिद्धिदः ।
जपविध्वस्तविमुखो जम्भारिपरिपूजितः
॥ ४८॥
जम्भारिवन्द्यो जयदो जगज्जनमनोहरः ।
जगत्त्रयप्रकुपितो जगत्त्राणपरायणः
॥ ४९॥
जयो जयप्रदश्चैव जगदानन्दकारकः ।
ज्योतिश्च ज्योतिषां श्रेष्ठो
ज्योतिःशास्त्र प्रवर्तकः ॥ ५०॥
झर्झरीकृतदेहश्च झल्लरीवाद्यसुप्रियः
।
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी
ज्ञानमहानिधिः ॥ ५१॥
ज्ञानप्रबोधकश्चैव
ज्ञानदृष्ट्यावलोकितः ।
टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः
॥ ५२॥
टङ्कारकारकश्चैव टङ्कृतो
टाम्भदप्रियः ।
ठकारमय सर्वस्वष्ठकारकृतपूजितः ॥
५३॥
ढक्कावाद्यप्रीतिकरो डमड्डमरुकप्रियः
।
डम्बरप्रभवो डम्भो
ढक्कानादप्रियङ्करः ॥ ५४॥
डाकिनी शाकिनी भूत सर्वोपद्रवकारकः
।
डाकिनी शाकिनी भूत सर्वोपद्रवनाशकः
॥ ५५॥
ढकाररूपो ढाम्भीको णकारजपसुप्रियः ।
णकारमयमन्त्रार्थो णकारैकशिरोमणिः ॥
५६॥
णकारवचनानन्दो णकारकरुणामयः ।
णकारमय सर्वस्वो णकारैकपरायणः ॥ ५७॥
तर्जनीधृतमुद्रश्च तपसां फलदायकः ।
त्रिविक्रमनुतश्चैव त्रयीमयवपुर्धरः
॥ ५८॥
तपस्वी तपसा दग्धदेहस्ताम्राधरस्तथा
।
त्रिकालवेदितव्यश्च
त्रिकालमतितोषितः ॥ ५९॥
तुलोच्चयस्त्रासकरस्तिलतैलप्रियस्तथा
।
तिलान्न
सन्तुष्टमनास्तिलदानप्रियस्तथा ॥ ६०॥
तिलभक्ष्यप्रियश्चैव
तिलचूर्णप्रियस्तथा ।
तिलखण्डप्रियश्चैव
तिलापूपप्रियस्तथा ॥ ६१॥
तिलहोमप्रियश्चैव तापत्रयनिवारकः ।
तिलतर्पणसन्तुष्टस्तिलतैलान्नतोषितः
॥ ६२॥
तिलैकदत्तहृदयस्तेजस्वी
तेजसान्निधिः ।
तेजसादित्यसङ्काशस्तेजोमय वपुर्धरः
॥ ६३॥
तत्त्वज्ञस्तत्त्वगस्तीव्रस्तपोरूपस्तपोमयः
।
तुष्टिदस्तुष्टिकृत्
तीक्ष्णस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ ६४॥
तिलदीपप्रियश्चैव तस्य पीडानिवारकः
।
तिलोत्तमामेनकादिनर्तनप्रिय एव च ॥
६५॥
त्रिभागमष्टवर्गश्च स्थूलरोमा
स्थिरस्तथा ।
स्थितः स्थायी स्थापकश्च
स्थूलसूक्ष्मप्रदर्शकः ॥ ६६॥
दशरथार्चितपादश्च दशरथस्तोत्रतोषितः
।
दशरथ प्रार्थनाकॢप्त दुर्भिक्ष
विनिवारकः ॥ ६७॥
दशरथ प्रार्थनाकॢप्त वरद्वय
प्रदायकः ।
दशरथस्वात्मदर्शी च दशरथाभीष्टदायकः
॥ ६८॥
दोर्भिर्धनुर्धरश्चैव
दीर्घश्मश्रुजटाधरः ।
दशरथस्तोत्रवरदो दशरथाभीप्सितप्रदः
॥ ६९॥
दशरथस्तोत्रसन्तुष्टो दशरथेन
सुपूजितः ।
द्वादशाष्टमजन्मस्थो
देवपुङ्गवपूजितः ॥ ७०॥
देवदानवदर्पघ्नो दिनं
प्रतिमुनिस्तुतः ।
द्वादशस्थो द्वादशात्मा सुतो द्वादश
नामभृत् ॥ ७१॥
द्वितीयस्थो
द्वादशार्कसूनुर्दैवज्ञपूजितः ।
दैवज्ञचित्तवासी च दमयन्त्या
सुपूजितः ॥ ७२॥
द्वादशाब्दंतु दुर्भिक्षकारी
दुःस्वप्ननाशनः ।
दुराराध्यो दुराधर्षो दमयन्ती
वरप्रदः ॥ ७३॥
दुष्टदूरो दुराचार शमनो दोषवर्जितः
।
दुःसहो दोषहन्ता च दुर्लभो
दुर्गमस्तथा ॥ ७४॥
दुःखप्रदो दुःखहन्ता दीप्तरञ्जित
दिङ्मुखः ।
दीप्यमान मुखाम्भोजो दमयन्त्याः
शिवप्रदः ॥ ७५॥
दुर्निरीक्ष्यो दृष्टमात्र
दैत्यमण्डलनाशकः ।
द्विजदानैकनिरतो द्विजाराधनतत्परः ॥
७६॥
द्विजसर्वार्तिहारी च द्विजराज
समर्चितः ।
द्विजदानैकचित्तश्च द्विजराज
प्रियङ्करः ॥ ७७॥
द्विजो द्विजप्रियश्चैव
द्विजराजेष्टदायकः ।
द्विजरूपो द्विजश्रेष्ठो दोषदो
दुःसहोऽपि च ॥ ७८॥
देवादिदेवो देवेशो देवराज सुपूजितः
।
देवराजेष्ट वरदो देवराज प्रियङ्करः
॥ ७९॥
देवादिवन्दितो
दिव्यतनुर्देवशिखामणिः ।
देवगानप्रियश्चैव देवदेशिकपुङ्गवः ॥
८०॥
द्विजात्मजासमाराध्यो ध्येयो धर्मी
धनुर्धरः ।
धनुष्मान् धनदाता च
धर्माधर्मविवर्जितः ॥ ८१॥
धर्मरूपो धनुर्दिव्यो
धर्मशास्त्रात्मचेतनः ।
धर्मराज प्रियकरो धर्मराज सुपूजितः
॥ ८२॥
धर्मराजेष्टवरदो धर्माभीष्टफलप्रदः
।
नित्यतृप्तस्वभावश्च
नित्यकर्मरतस्तथा ॥ ८३॥
निजपीडार्तिहारी च निजभक्तेष्टदायकः
।
निर्मासदेहो नीलश्च निजस्तोत्र
बहुप्रियः ॥ ८४॥
नळस्तोत्र प्रियश्चैव नळराजसुपूजितः
।
नक्षत्रमण्डलगतो नमतां प्रियकारकः ॥
८५॥
नित्यार्चितपदाम्भोजो निजाज्ञा
परिपालकः ।
नवग्रहवरो नीलवपुर्नळकरार्चितः ॥
८६॥
नळप्रियानन्दितश्च नळक्षेत्रनिवासकः
।
नळपाक प्रियश्चैव नळपद्भञ्जनक्षमः ॥
८७॥
नळसर्वार्तिहारी च
नळेनात्मार्थपूजितः ।
निपाटवीनिवासश्च नळाभीष्टवरप्रदः ॥
८८॥
नळतीर्थसकृत् स्नान सर्वपीडानिवारकः
।
नळेशदर्शनस्याशु साम्राज्यपदवीप्रदः
॥ ८९॥
नक्षत्रराश्यधिपश्च नीलध्वजविराजितः
।
नित्ययोगरतश्चैव नवरत्नविभूषितः ॥
९०॥
नवधा भज्यदेहश्च नवीकृतजगत्त्रयः ।
नवग्रहाधिपश्चैव नवाक्षरजपप्रियः ॥
९१॥
नवात्मा नवचक्रात्मा
नवतत्त्वाधिपस्तथा ।
नवोदन प्रियश्चैव नवधान्यप्रियस्तथा
॥ ९२॥
निष्कण्टको निस्पृहश्च निरपेक्षो
निरामयः ।
नागराजार्चितपदो नागराजप्रियङ्करः ॥
९३॥
नागराजेष्टवरदो नागाभरण भूषितः ।
नागेन्द्रगान निरतो नानाभरणभूषितः ॥
९४॥
नवमित्र स्वरूपश्च
नानाश्चर्यविधायकः ।
नानाद्वीपाधिकर्ता च
नानालिपिसमावृतः ॥ ९५॥
नानारूप जगत् स्रष्टा
नानारूपजनाश्रयः ।
नानालोकाधिपश्चैव
नानाभाषाप्रियस्तथा ॥ ९६॥
नानारूपाधिकारी च नवरत्नप्रियस्तथा
।
नानाविचित्रवेषाढ्यो नानाचित्र
विधायकः ॥ ९७॥
नीलजीमूतसङ्काशो नीलमेघसमप्रभः ।
नीलाञ्जनचयप्रख्यो
नीलवस्त्रधरप्रियः ॥ ९८॥
नीचभाषा प्रचारज्ञो नीचे
स्वल्पफलप्रदः ।
नानागम विधानज्ञो नानानृपसमावृतः ॥
९९॥
नानावर्णाकृतिश्चैव
नानावर्णस्वरार्तवः ।
नागलोकान्तवासी च नक्षत्रत्रयसंयुतः
॥ १००॥
नभादिलोकसम्भूतो
नामस्तोत्रबहुप्रियः ।
नामपारायणप्रीतो नामार्चनवरप्रदः ॥
१०१॥
नामस्तोत्रैकचित्तश्च
नानारोगार्तिभञ्जनः ।
नवग्रहसमाराध्यो नवग्रह भयापहः ॥
१०२॥
नवग्रहसुसम्पूज्यो नानावेद सुरक्षकः
।
नवग्रहाधिराजश्च नवग्रहजपप्रियः ॥
१०३॥
नवग्रहमयज्योतिर्नवग्रह वरप्रदः ।
नवग्रहाणामधिपो नवग्रह सुपीडितः ॥
१०४॥
नवग्रहाधीश्वरश्च नवमाणिक्यशोभितः ।
परमात्मा परब्रह्म परमैश्वर्यकारणः
॥ १०५॥
प्रपन्नभयहारी च प्रमत्तासुरशिक्षकः
।
प्रासहस्तः पङ्गुपादः प्रकाशात्मा
प्रतापवान् ॥ १०६॥
पावनः परिशुद्धात्मा पुत्रपौत्र
प्रवर्धनः ।
प्रसन्नात्सर्वसुखदः प्रसन्नेक्षण
एव च ॥ १०७॥
प्रजापत्यः प्रियकरः
प्रणतेप्सितराज्यदः ।
प्रजानां जीवहेतुश्च प्राणिनां
परिपालकः ॥ १०८॥
प्राणरूपी प्राणधारी प्रजानां
हितकारकः ।
प्राज्ञः प्रशान्तः प्रज्ञावान्
प्रजारक्षणदीक्षितः ॥ १०९॥
प्रावृषेण्यः प्राणकारी
प्रसन्नोत्सववन्दितः ।
प्रज्ञानिवासहेतुश्च पुरुषार्थैकसाधनः
॥ ११०॥
प्रजाकरः प्रातिकूल्यः पिङ्गळाक्षः
प्रसन्नधीः ।
प्रपञ्चात्मा प्रसविता पुराण
पुरुषोत्तमः ॥ १११॥
पुराण पुरुषश्चैव पुरुहूतः
प्रपञ्चधृत् ।
प्रतिष्ठितः प्रीतिकरः प्रियकारी
प्रयोजनः ॥ ११२॥
प्रीतिमान् प्रवरस्तुत्यः
पुरूरवसमर्चितः ।
प्रपञ्चकारी पुण्यश्च पुरुहूत
समर्चितः ॥ ११३॥
पाण्डवादि सुसंसेव्यः प्रणवः
पुरुषार्थदः ।
पयोदसमवर्णश्च
पाण्डुपुत्रार्तिभञ्जनः ॥ ११४॥
पाण्डुपुत्रेष्टदाता च पाण्डवानां
हितङ्करः ।
पञ्चपाण्डवपुत्राणां
सर्वाभीष्टफलप्रदः ॥ ११५॥
पञ्चपाण्डवपुत्राणां सर्वारिष्ट
निवारकः ।
पाण्डुपुत्राद्यर्चितश्च पूर्वजश्च
प्रपञ्चभृत् ॥ ११६॥
परचक्रप्रभेदी च पाण्डवेषु वरप्रदः
।
परब्रह्म स्वरूपश्च पराज्ञा
परिवर्जितः ॥ ११७॥
परात्परः पाशहन्ता परमाणुः
प्रपञ्चकृत् ।
पातङ्गी पुरुषाकारः परशम्भुसमुद्भवः
॥ ११८॥
प्रसन्नात्सर्वसुखदः
प्रपञ्चोद्भवसम्भवः ।
प्रसन्नः परमोदारः पराहङ्कारभञ्जनः
॥ ११९॥
परः परमकारुण्यः परब्रह्ममयस्तथा ।
प्रपन्नभयहारी च प्रणतार्तिहरस्तथा
॥ १२०॥
प्रसादकृत् प्रपञ्चश्च पराशक्ति
समुद्भवः ।
प्रदानपावनश्चैव प्रशान्तात्मा
प्रभाकरः ॥ १२१॥
प्रपञ्चात्मा प्रपञ्चोपशमनः
पृथिवीपतिः ।
परशुराम समाराध्यः परशुरामवरप्रदः ॥
१२२॥
परशुराम चिरञ्जीविप्रदः परमपावनः ।
परमहंसस्वरूपश्च परमहंससुपूजितः ॥
१२३॥
पञ्चनक्षत्राधिपश्च
पञ्चनक्षत्रसेवितः ।
प्रपञ्च रक्षितश्चैव प्रपञ्चस्य
भयङ्करः ॥ १२४॥
फलदानप्रियश्चैव फलहस्तः फलप्रदः ।
फलाभिषेकप्रियश्च फल्गुनस्य वरप्रदः
॥ १२५॥
फुटच्छमित पापौघः फल्गुनेन
प्रपूजितः ।
फणिराजप्रियश्चैव फुल्लाम्बुज
विलोचनः ॥ १२६॥
बलिप्रियो बली
बभ्रुर्ब्रह्मविष्ण्वीश क्लेशकृत् ।
ब्रह्मविष्ण्वीशरूपश्च
ब्रह्मशक्रादिदुर्लभः ॥ १२७॥
बासदर्ष्ट्या प्रमेयाङ्गो
बिभ्रत्कवचकुण्डलः ।
बहुश्रुतो बहुमतिर्ब्रह्मण्यो
ब्राह्मणप्रियः ॥ १२८॥
बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः
।
बालार्कद्युतिमान्बालो बृहद्वक्षा
बृहत्तनुः ॥ १२९॥
ब्रह्माण्डभेदकृच्चैव
भक्तसर्वार्थसाधकः ।
भव्यो भोक्ता भीतिकृच्च
भक्तानुग्रहकारकः ॥ १३०॥
भीषणो भैक्षकारी च भूसुरादि
सुपूजितः ।
भोगभाग्यप्रदश्चैव भस्मीकृत
जगत्त्रयः ॥ १३१॥
भयानको भानुसूनुर्भूतिभूषित विग्रहः
।
भास्वद्रतो भक्तिमतां सुलभो
भ्रुकुटीमुखः ॥ १३२॥
भवभूत गणैःस्तुत्यो भूतसंघसमावृतः ।
भ्राजिष्णुर्भगवान्भीमो
भक्ताभीष्टवरप्रदः ॥ १३३॥
भवभक्तैकचित्तश्च
भक्तिगीतस्तवोन्मुखः ।
भूतसन्तोषकारी च भक्तानां
चित्तशोधनः ॥ १३४॥
भक्तिगम्यो भयहरो भावज्ञो
भक्तसुप्रियः ।
भूतिदो भूतिकृद् भोज्यो भूतात्मा
भुवनेश्वरः ॥ १३५॥
मन्दो मन्दगतिश्चैव मासमेव
प्रपूजितः ।
मुचुकुन्द समाराध्यो मुचुकुन्द
वरप्रदः ॥ १३६॥
मुचुकुन्दार्चितपदो महारूपो महायशाः
।
महाभोगी महायोगी महाकायो महाप्रभुः
॥ १३७॥
महेशो महदैश्वर्यो मन्दार
कुसुमप्रियः ।
महाक्रतुर्महामानी महाधीरो महाजयः ॥
१३८॥
महावीरो महाशान्तो मण्डलस्थो
महाद्युतिः ।
महासुतो महोदारो महनीयो महोदयः ॥
१३९॥
मैथिलीवरदायी च मार्ताण्डस्य
द्वितीयजः ।
मैथिलीप्रार्थनाकॢप्त दशकण्ठ
शिरोपहृत् ॥ १४०॥
मरामरहराराध्यो महेन्द्रादि
सुरार्चितः ।
महारथो महावेगो मणिरत्नविभूषितः ॥
१४१॥
मेषनीचो महाघोरो महासौरिर्मनुप्रियः
।
महादीर्घो महाग्रासो
महदैश्वर्यदायकः ॥ १४२॥
महाशुष्को महारौद्रो मुक्तिमार्ग
प्रदर्शकः ।
मकरकुम्भाधिपश्चैव
मृकण्डुतनयार्चितः ॥ १४३॥
मन्त्राधिष्ठानरूपश्च
मल्लिकाकुसुमप्रियः ।
महामन्त्र स्वरूपश्च
महायन्त्रस्थितस्तथा ॥ १४४॥
महाप्रकाशदिव्यात्मा
महादेवप्रियस्तथा ।
महाबलि समाराध्यो महर्षिगणपूजितः ॥
१४५॥
मन्दचारी महामायी माषदानप्रियस्तथा
।
माषोदन प्रीतचित्तो
महाशक्तिर्महागुणः ॥ १४६॥
यशस्करो योगदाता यज्ञाङ्गोऽपि
युगन्धरः ।
योगी योग्यश्च याम्यश्च योगरूपी
युगाधिपः ॥ १४७॥
यज्ञभृद् यजमानश्च योगो योगविदां
वरः ।
यक्षराक्षसवेताळ
कूष्माण्डादिप्रपूजितः ॥ १४८॥
यमप्रत्यधिदेवश्च युगपद् भोगदायकः ।
योगप्रियो योगयुक्तो यज्ञरूपो
युगान्तकृत् ॥ १४९॥
रघुवंश समाराध्यो रौद्रो
रौद्राकृतिस्तथा ।
रघुनन्दन सल्लापो रघुप्रोक्त
जपप्रियः ॥ १५०॥
रौद्ररूपी रथारूढो राघवेष्ट वरप्रदः
।
रथी रौद्राधिकारी च राघवेण समर्चितः
॥ १५१॥
रोषात्सर्वस्वहारी च राघवेण
सुपूजितः ।
राशिद्वयाधिपश्चैव रघुभिः परिपूजितः
॥ १५२॥
राज्यभूपाकरश्चैव राजराजेन्द्र
वन्दितः ।
रत्नकेयूरभूषाढ्यो रमानन्दनवन्दितः
॥ १५३॥
रघुपौरुषसन्तुष्टो
रघुस्तोत्रबहुप्रियः ।
रघुवंशनृपैःपूज्यो रणन्मञ्जीरनूपुरः
॥ १५४॥
रविनन्दन राजेन्द्रो
रघुवंशप्रियस्तथा ।
लोहजप्रतिमादानप्रियो
लावण्यविग्रहः ॥ १५५॥
लोकचूडामणिश्चैव लक्ष्मीवाणीस्तुतिप्रियः
।
लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः
॥ १५६॥
लोकाध्यक्षो लोकवन्द्यो
लक्ष्मणाग्रजपूजितः ।
वेदवेद्यो वज्रदेहो
वज्राङ्कुशधरस्तथा ॥ १५७॥
विश्ववन्द्यो विरूपाक्षो
विमलाङ्गविराजितः ।
विश्वस्थो वायसारूढो विशेषसुखकारकः
॥ १५८॥
विश्वरूपी विश्वगोप्ता विभावसु
सुतस्तथा ।
विप्रप्रियो विप्ररूपो विप्राराधन
तत्परः ॥ १५९॥
विशालनेत्रो विशिखो
विप्रदानबहुप्रियः ।
विश्वसृष्टि समुद्भूतो
वैश्वानरसमद्युतिः ॥ १६०॥
विष्णुर्विरिञ्चिर्विश्वेशो
विश्वकर्ता विशाम्पतिः ।
विराडाधारचक्रस्थो
विश्वभुग्विश्वभावनः ॥ १६१॥
विश्वव्यापारहेतुश्च
वक्रक्रूरविवर्जितः ।
विश्वोद्भवो विश्वकर्मा विश्वसृष्टि
विनायकः ॥ १६२॥
विश्वमूलनिवासी च विश्वचित्रविधायकः
।
विश्वाधारविलासी च व्यासेन
कृतपूजितः ॥ १६३॥
विभीषणेष्टवरदो वाञ्छितार्थप्रदायकः
।
विभीषणसमाराध्यो विशेषसुखदायकः ॥
१६४॥
विषमव्ययाष्टजन्मस्थोऽप्येकादशफलप्रदः
।
वासवात्मजसुप्रीतो वसुदो
वासवार्चितः ॥ १६५॥
विश्वत्राणैकनिरतो
वाङ्मनोतीतविग्रहः ।
विराण्मन्दिरमूलस्थो वलीमुखसुखप्रदः
॥ १६६॥
विपाशो विगतातङ्को विकल्पपरिवर्जितः
।
वरिष्ठो वरदो वन्द्यो विचित्राङ्गो
विरोचनः ॥ १६७॥
शुष्कोदरः शुक्लवपुः शान्तरूपी
शनैश्चरः ।
शूली शरण्यः शान्तश्च
शिवायामप्रियङ्करः ॥ १६८॥
शिवभक्तिमतां श्रेष्ठः शूलपाणी
शुचिप्रियः ।
श्रुतिस्मृतिपुराणज्ञः
श्रुतिजालप्रबोधकः ॥ १६९॥
श्रुतिपारग सम्पूज्यः
श्रुतिश्रवणलोलुपः ।
श्रुत्यन्तर्गतमर्मज्ञः
श्रुत्येष्टवरदायकः ॥ १७०॥
श्रुतिरूपः श्रुतिप्रीतः
श्रुतीप्सितफलप्रदः ।
शुचिश्रुतः शान्तमूर्तिः
श्रुतिश्रवणकीर्तनः ॥ १७१॥
शमीमूलनिवासी च शमीकृतफलप्रदः ।
शमीकृतमहाघोरः शरणागतवत्सलः ॥ १७२॥
शमीतरुस्वरूपश्च
शिवमन्त्रज्ञमुक्तिदः ।
शिवागमैकनिलयः शिवमन्त्रजपप्रियः ॥
१७३॥
शमीपत्रप्रियश्चैव शमीपर्णसमर्चितः
।
शतोपनिषदस्तुत्यः
शान्त्यादिगुणभूषितः ॥ १७४॥
शान्त्यादिषड्गुणोपेतः
शङ्खवाद्यप्रियस्तथा ।
श्यामरक्तसितज्योतिः
शुद्धपञ्चाक्षरप्रियः ॥ १७५॥
श्रीहालास्यक्षेत्रवासी श्रीमान्
शक्तिधरस्तथा ।
षोडशद्वयसम्पूर्णलक्षणः
षण्मुखप्रियः ॥ १७६॥
षड्गुणैश्वर्यसंयुक्तः
षडङ्गावरणोज्वलः ।
षडक्षरस्वरूपश्च षट्चक्रोपरि
संस्थितः ॥ १७७॥
षोडशी षोडशान्तश्च
षट्शक्तिव्यक्तमूर्तिमान् ।
षड्भावरहितश्चैव षडङ्गश्रुतिपारगः ॥
१७८॥
षट्कोणमध्यनिलयः
षट्शास्त्रस्मृतिपारगः ।
स्वर्णेन्द्रनीलमकुटः
सर्वाभीष्टप्रदायकः ॥ १७९॥
सर्वात्मा सर्वदोषघ्नः
सर्वगर्वप्रभञ्जनः ।
समस्तलोकाभयदः सर्वदोषाङ्गनाशकः ॥
१८०॥
समस्तभक्तसुखदः सर्वदोषनिवर्तकः ।
सर्वनाशक्षमः सौम्यः
सर्वक्लेशनिवारकः ॥ १८१॥
सर्वात्मा सर्वदा तुष्टः
सर्वपीडानिवारकः ।
सर्वरूपी सर्वकर्मा सर्वज्ञः
सर्वकारकः ॥ १८२॥
सुकृती सुलभश्चैव सर्वाभीष्टफलप्रदः
।
सूर्यात्मजः सदातुष्टः
सूर्यवंशप्रदीपनः ॥ १८३॥
सप्तद्वीपाधिपश्चैव सुरासुरभयङ्करः
।
सर्वसंक्षोभहारी च सर्वलोकहितङ्करः
॥ १८४॥
सर्वौदार्यस्वभावश्च
सन्तोषात्सकलेष्टदः ।
समस्तऋषिभिःस्तुत्यः समस्तगणपावृतः
॥ १८५॥
समस्तगणसंसेव्यः सर्वारिष्टविनाशनः
।
सर्वसौख्यप्रदाता च
सर्वव्याकुलनाशनः ॥ १८६॥
सर्वसंक्षोभहारी च सर्वारिष्ट
फलप्रदः ।
सर्वव्याधिप्रशमनः
सर्वमृत्युनिवारकः ॥ १८७॥
सर्वानुकूलकारी च
सौन्दर्यमृदुभाषितः ।
सौराष्ट्रदेशोद्भवश्च
स्वक्षेत्रेष्टवरप्रदः ॥ १८८॥
सोमयाजि समाराध्यः सीताभीष्ट
वरप्रदः ।
सुखासनोपविष्टश्च सद्यःपीडानिवारकः
॥ १८९॥
सौदामनीसन्निभश्च
सर्वानुल्लङ्घ्यशासनः ।
सूर्यमण्डलसञ्चारी
संहारास्त्रनियोजितः ॥ १९०॥
सर्वलोकक्षयकरः सर्वारिष्टविधायकः ।
सर्वव्याकुलकारी च सहस्रजपसुप्रियः
॥ १९१॥
सुखासनोपविष्टश्च
संहारास्त्रप्रदर्शितः ।
सर्वालङ्कार संयुक्तकृष्णगोदानसुप्रियः
॥ १९२॥
सुप्रसन्नः सुरश्रेष्ठः सुघोषः
सुखदः सुहृत् ।
सिद्धार्थः सिद्धसङ्कल्पः सर्वज्ञः
सर्वदः सुखी ॥ १९३॥
सुग्रीवः सुधृतिः सारः सुकुमारः
सुलोचनः ।
सुव्यक्तः सच्चिदानन्दः सुवीरः
सुजनाश्रयः ॥ १९४॥
हरिश्चन्द्रसमाराध्यो
हेयोपादेयवर्जितः ।
हरिश्चन्द्रेष्टवरदो हंसमन्त्रादि
संस्तुतः ॥ १९५॥
हंसवाह समाराध्यो हंसवाहवरप्रदः ।
हृद्यो हृष्टो हरिसखो हंसो
हंसगतिर्हविः ॥ १९६॥
हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः
।
हविर्होता
हंसगतिर्हंसमन्त्रादिसंस्तुतः ॥ १९७॥
हनूमदर्चितपदो हलधृत् पूजितः सदा ।
क्षेमदः क्षेमकृत्क्षेम्यः
क्षेत्रज्ञः क्षामवर्जितः ॥ १९८॥
क्षुद्रघ्नः क्षान्तिदः क्षेमः
क्षितिभूषः क्षमाश्रयः ।
क्षमाधरः क्षयद्वारो
नाम्नामष्टसहस्रकम् ॥ १९९॥
वाक्येनैकेन वक्ष्यामि वाञ्चितार्थं
प्रयच्छति ।
तस्मात्सर्वप्रयत्नेन नियमेन
जपेत्सुधीः ॥ २००॥
॥ इति शनैश्चरसहस्रनामस्तोत्रम्
सम्पूर्णम् ॥
शनैश्चर सहस्रनामस्तोत्रम्
श्रीशनैश्चरसहस्रनामावळिः
ॐ अमिताभाषिणे नमः । ॐ अघहराय नमः ।
ॐ अशेषदुरितापहाय नमः ।
ॐ अघोररूपाय नमः । ॐ अतिदीर्घकायाय
नमः । ॐ अशेषभयानकाय नमः ।
ॐ अनन्ताय नमः । ॐ अन्नदात्रे नमः ।
ॐ अश्वत्थमूलजपप्रियाय नमः ।
ॐ अतिसम्पत्प्रदाय नमः । ॐ अमोघाय
नमः । ॐ अन्यस्तुत्याप्रकोपिताय नमः ।
ॐ अपराजिताय नमः । ॐ अद्वितीयाय नमः
। ॐ अतितेजसे नमः ।
ॐ अभयप्रदाय नमः । ॐ अष्टमस्थाय नमः
। ॐ अञ्जननिभाय नमः ।
ॐ अखिलात्मने नमः । ॐ अर्कनन्दनाय
नमः । ॐ अतिदारुणाय नमः ।
ॐ अक्षोभ्याय नमः । ॐ अप्सरोभिः
प्रपूजिताय नमः । ॐ अभीष्टफलदाय नमः ।
ॐ अरिष्टमथनाय नमः । ॐ अमरपूजिताय
नमः । ॐ अनुग्राह्याय नमः ।
ॐ अप्रमेयपराक्रमविभीषणाय नमः । ॐ
असाध्ययोगाय नमः ।
ॐ अखिलदोषघ्नाय नमः । ॐ अपराकृताय
नमः । ॐ अप्रमेयाय नमः ।
ॐ अतिसुखदाय नमः । ॐ अमराधिपपूजिताय
नमः ।
ॐ अवलोकात्सर्वनाशाय नमः । ॐ
अश्वत्थामद्विरायुधाय नमः ।
ॐ अपराधसहिष्णवे नमः । ॐ
अश्वत्थामसुपूजिताय नमः ।
ॐ अनन्तपुण्यफलदाय नमः । ॐ अतृप्ताय
नमः । ॐ अतिबलाय नमः ।
ॐ अवलोकात्सर्ववन्द्याय नमः । ॐ
अक्षीणकरुणानिधये नमः ।
ॐ अविद्यामूलनाशाय नमः । ॐ
अक्षय्यफलदायकाय नमः ।
ॐ आनन्दपरिपूर्णाय नमः । ॐ
आयुष्कारकाय नमः ।
ॐ आश्रितेष्टार्थवरदाय नमः । ॐ
आधिव्याधिहराय नमः ।
ॐ आनन्दमयाय नमः । ॐ आनन्दकराय नमः
। ॐ आयुधधारकाय नमः ।
ॐ आत्मचक्राधिकारिणे नमः । ॐ
आत्मस्तुत्यपरायणाय नमः ।
ॐ आयुष्कराय नमः । ॐ आनुपूर्व्याय
नमः । ॐ आत्मायत्तजगत्त्रयाय नमः ।
ॐ आत्मनामजपप्रीताय नमः । ॐ
आत्माधिकफलप्रदाय नमः ।
ॐ आदित्यसंभवाय नमः । ॐ
आर्तिभञ्जनाय नमः । ॐ आत्मरक्षकाय नमः ।
ॐ आपद्बान्धवाय नमः । ॐ आनन्दरूपाय
नमः । ॐ आयुःप्रदाय नमः ।
ॐ आकर्णपूर्णचापाय नमः । ॐ आत्मोद्दिष्टद्विजप्रदाय
नमः ।
ॐ आनुकूल्याय नमः । ॐ
आत्मरूपप्रतिमादानसुप्रियाय नमः ।
ॐ आत्मारामाय नमः । ॐ आदिदेवाय नमः
। ॐ आपन्नार्तिविनाशनाय नमः ।
ॐ इन्दिरार्चितपादाय नमः । ॐ
इन्द्रभोगफलप्रदाय नमः ।
ॐ इन्द्रदेवस्वरूपाय नमः । ॐ
इष्टेष्टवरदायकाय नमः ।
ॐ इष्टापूर्तिप्रदाय नमः । ॐ
इन्दुमतीष्टवरदायकाय नमः ।
ॐ इन्दिरारमणप्रीताय नमः । ॐ
इन्द्रवंशनृपार्चिताय नमः ।
ॐ इहामुत्रेष्टफलदाय नमः । ॐ
इन्दिरारमणार्चिताय नमः ।
ॐ ईद्रियाय नमः । ॐ ईश्वरप्रीताय
नमः । ॐ ईषणात्रयवर्जिताय नमः ।
ॐ उमास्वरूपाय नमः । ॐ उद्बोध्याय
नमः । ॐ उशनाय नमः ।
ॐ उत्सवप्रियाय नमः । ॐ
उमादेव्यर्चनप्रीताय नमः ।
ॐ उच्चस्थोच्चफलप्रदाय नमः । ॐ
उरुप्रकाशाय नमः । ॐ उच्चस्थयोगदाय नमः ।
ॐ उरुपराक्रमाय नमः । ॐ ऊर्ध्वलोकादिसञ्चारिणे नमः ।
ॐ ऊर्ध्वलोकादिनायकाय नमः । ॐ
ऊर्जस्विने नमः । ॐ ऊनपादाय नमः ।
ॐ ऋकाराक्षरपूजिताय नमः । ॐ
ऋषिप्रोक्तपुराणज्ञाय नमः ।
ॐ ऋषिभिः परिपूजिताय नमः । ॐ
ऋग्वेदवन्द्याय नमः ।
ॐ ऋग्रूपिणे नमः । ॐ
ऋजुमार्गप्रवर्तकाय नमः । ॐ लुळितोद्धारकाय नमः ।
ॐ लूतभवपाश प्रभञ्जनाय नमः । ॐ
लूकाररूपकाय नमः ।
ॐ लब्धधर्ममार्गप्रवर्तकाय नमः । ॐ
एकाधिपत्यसाम्राज्यप्रदाय नमः ।
ॐ एनौघनाशनाय नमः । ॐ एकपादे नमः । ॐ
एकस्मै नमः ।
ॐ एकोनविंशतिमासभुक्तिदाय नमः । ॐ
एकोनविंशतिवर्षदशाय नमः ।
ॐ एणाङ्कपूजिताय नमः । ॐ
ऐश्वर्यफलदाय नमः । ॐ ऐन्द्राय नमः ।
ॐ ऐरावतसुपूजिताय नमः । ॐ
ओंकारजपसुप्रीताय नमः ।
ॐ ओंकारपरिपूजिताय नमः । ॐ
ओंकारबीजाय नमः ।
ॐ औदार्यहस्ताय नमः ।ॐ
औन्नत्यदायकाय नमः । ॐ औदार्यगुणाय नमः ।
ॐ औदार्यशीलाय नमः । ॐ औषधकारकाय
नमः ।
ॐ करपङ्कजसन्नद्धधनुषे नमः । ॐ
करुणानिधये नमः । ॐ कालाय नमः ।
ॐ कठिनचित्ताय नमः । ॐ
कालमेघसमप्रभाय नमः । ॐ किरीटिने नमः ।
ॐ कर्मकृते नमः । ॐ कारयित्रे नमः ।
ॐ कालसहोदराय नमः ।
ॐ कालाम्बराय नमः । ॐ काकवाहाय नमः
। ॐ कर्मठाय नमः ।
ॐ काश्यपान्वयाय नमः । ॐ
कालचक्रप्रभेदिने नमः । ॐ कालरूपिणे नमः ।
ॐ कारणाय नमः । ॐ कारिमूर्तये नमः ।
ॐ कालभर्त्रे नमः ।
ॐ किरीटमकुटोज्ज्वलाय नमः । ॐ कार्यकारणकालज्ञाय
नमः ।
ॐ काञ्चनाभरथान्विताय नमः । ॐ
कालदंष्ट्राय नमः । ॐ क्रोधरूपाय नमः ।
ॐ कराळिने नमः । ॐ कृष्णकेतनाय नमः
। ॐ कालात्मने नमः ।
ॐ कालकर्त्रे नमः । ॐ कृतान्ताय नमः
। ॐ कृष्णगोप्रियाय नमः ।
ॐ कालाग्निरुद्ररूपाय नमः । ॐ
काश्यपात्मजसम्भवाय नमः ।
ॐ कृष्णवर्णहयाय नमः । ॐ
कृष्णगोक्षीरसुप्रियाय नमः ।
ॐ कृष्णगोघृतसुप्रीताय नमः । ॐ
कृष्णगोदधिषुप्रियाय नमः ।
ॐ कृष्णगावैकचित्ताय नमः । ॐ
कृष्णगोदानसुप्रियाय नमः ।
ॐ कृष्णगोदत्तहृदयाय नमः । ॐ
कृष्णगोरक्षणप्रियाय नमः ।
ॐ कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकाय
नमः ।
ॐ कृष्णगोदान शान्तस्य सर्वशान्ति
फलप्रदाय नमः ।
ॐ कृष्णगोस्नान कामस्य गङ्गास्नान
फलप्रदाय नमः ।
ॐ कृष्णगोरक्षणस्याशु
सर्वाभीष्टफलप्रदाय नमः ।
ॐ कृष्णगावप्रियाय नमः । ॐ
कपिलापशुषुप्रियाय नमः ।
ॐ कपिलाक्षीरपानस्य सोमपानफलप्रदाय
नमः ।
ॐ कपिलादानसुप्रीताय नमः । ॐ
कपिलाज्यहुतप्रियाय नमः ।
ॐ कृष्णाय नमः । ॐ कृत्तिकान्तस्थाय
नमः । ॐ कृष्णगोवत्ससुप्रियाय नमः ।
ॐ कृष्णमाल्याम्बरधराय नमः । ॐ
कृष्णवर्णतनूरुहाय नमः ।
ॐ कृष्णकेतवे नमः । ॐ कृशकृष्णदेहाय
नमः । ॐ कृष्णाम्बरप्रियाय नमः ।
ॐ क्रूरचेष्टाय नमः । ॐ क्रूरभावाय
नमः । ॐ क्रूरदंष्ट्राय नमः ।
ॐ कुरूपिणे नमः । ॐ कमलापति
संसेव्याय नमः ।
ॐ कमलोद्भवपूजिताय नमः । ॐ
कामितार्थप्रदाय नमः ।
ॐ कामधेनु पूजनसुप्रियाय नमः । ॐ
कामधेनुसमाराध्याय नमः ।
ॐ कृपायुषविवर्धनाय नमः । ॐ
कामधेन्वैकचित्ताय नमः ।
ॐ कृपराज सुपूजिताय नमः । ॐ
कामदोग्ध्रे नमः । ॐ क्रुद्धाय नमः ।
ॐ कुरुवंशसुपूजिताय नमः । ॐ
कृष्णाङ्गमहिषीदोग्ध्रे नमः ।
ॐ कृष्णेन कृतपूजनाय नमः । ॐ
कृष्णाङ्गमहिषीदानप्रियाय नमः ।
ॐ कोणस्थाय नमः । ॐ
कृष्णाङ्गमहिषीदानलोलुपाय नमः ।
ॐ कामपूजिताय नमः । ॐ क्रूरावलोकनात्सर्वनाशाय
नमः ।
ॐ कृष्णाङ्गदप्रियाय नमः । ॐ
खद्योताय नमः । ॐ खण्डनाय नमः ।
ॐ खड्गधराय नमः । ॐ खेचरपूजिताय नमः
।
ॐ खरांशुतनयाय नमः । ॐ खगानां
पतिवाहनाय नमः ।
ॐ गोसवासक्तहृदयाय नमः । ॐ
गोचरस्थानदोषहृते नमः ।
ॐ गृहराश्याधिपाय नमः । ॐ गृहराजमहाबलाय
नमः ।
ॐ गृध्रवाहाय नमः । ॐ गृहपतये नमः ।
ॐ गोचराय नमः ।
ॐ गानलोलुपाय नमः । ॐ घोराय नमः । ॐ
घर्माय नमः ।
ॐ घनतमसे नमः । ॐ घर्मिणे नमः । ॐ
घनकृपान्विताय नमः ।
ॐ घननीलाम्बरधराय नमः । ॐ ङादिवर्ण
सुसंज्ञिताय नमः ।
ॐ चक्रवर्तिसमाराध्याय नमः । ॐ
चन्द्रमत्यसमर्चिताय नमः ।
ॐ चन्द्रमत्यार्तिहारिणे नमः । ॐ
चराचरसुखप्रदाय नमः ।
ॐ चतुर्भुजाय नमः । ॐ चापहस्ताय नमः
। ॐ चराचरहितप्रदाय नमः ।
ॐ छायापुत्राय नमः । ॐ छत्रधराय नमः
। ॐ छायादेवीसुताय नमः ।
ॐ जयप्रदाय नमः । ॐ जगन्नीलाय नमः ।
ॐ जपतां सर्वसिद्धिदाय नमः ।
ॐ जपविध्वस्तविमुखाय नमः । ॐ
जम्भारिपरिपूजिताय नमः ।
ॐ जम्भारिवन्द्याय नमः । ॐ जयदाय
नमः । ॐ जगज्जनमनोहराय नमः ।
ॐ जगत्त्रयप्रकुपिताय नमः । ॐ
जगत्त्राणपरायणाय नमः ।
ॐ जयाय नमः । ॐ जयप्रदाय नमः । ॐ
जगदानन्दकारकाय नमः ।
ॐ ज्योतिषे नमः । ॐ ज्योतिषां
श्रेष्ठाय नमः ।
ॐ ज्योतिःशास्त्र प्रवर्तकाय नमः ।
ॐ झर्झरीकृतदेहाय नमः ।
ॐ झल्लरीवाद्यसुप्रियाय नमः । ॐ
ज्ञानमूर्तिये नमः ।
ॐ ज्ञानगम्याय नमः । ॐ ज्ञानिने नमः
। ॐ ज्ञानमहानिधये नमः ।
ॐ ज्ञानप्रबोधकाय नमः । ॐ
ज्ञानदृष्ट्यावलोकिताय नमः ।
ॐ टङ्किताखिललोकाय नमः । ॐ टङ्कितैनस्तमोरवये
नमः ।
ॐ टङ्कारकारकाय नमः । ॐ टङ्कृताय
नमः ।
ॐ टाम्भदप्रियाय नमः । ॐ ठकारमय
सर्वस्वाय नमः ।
ॐ ठकारकृतपूजिताय नमः । ॐ
ढक्कावाद्यप्रीतिकराय नमः ।
ॐ डमड्डमरुकप्रियाय नमः । ॐ
डम्बरप्रभवाय नमः ।
ॐ डम्भाय नमः । ॐ
ढक्कानादप्रियङ्कराय नमः ।
ॐ डाकिनी शाकिनी भूत
सर्वोपद्रवकारकाय नमः ।
ॐ डाकिनी शाकिनी भूत
सर्वोपद्रवनाशकाय नमः ।
ॐ ढकाररूपाय नमः । ॐ ढाम्भीकाय नमः
। ॐ णकारजपसुप्रियाय नमः ।
ॐ णकारमयमन्त्रार्थाय नमः । ॐ
णकारैकशिरोमणये नमः ।
ॐ णकारवचनानन्दाय नमः । ॐ
णकारकरुणामयाय नमः ।
ॐ णकारमय सर्वस्वाय नमः । ॐ
णकारैकपरायणाय नमः ।
ॐ तर्जनीधृतमुद्राय नमः । ॐ तपसां
फलदायकाय नमः ।
ॐ त्रिविक्रमनुताय नमः । ॐ
त्रयीमयवपुर्धराय नमः ।
ॐ तपस्विने नमः । ॐ तपसा दग्धदेहाय
नमः । ॐ ताम्राधराय नमः ।
ॐ त्रिकालवेदितव्याय नमः । ॐ
त्रिकालमतितोषिताय नमः ।
ॐ तुलोच्चयाय नमः । ॐ त्रासकराय नमः
। ॐ तिलतैलप्रियाय नमः ।
ॐ तिलान्न सन्तुष्टमनसे नमः । ॐ
तिलदानप्रियाय नमः ।
ॐ तिलभक्ष्यप्रियाय नमः । ॐ
तिलचूर्णप्रियाय नमः ।
ॐ तिलखण्डप्रियाय नमः । ॐ
तिलापूपप्रियाय नमः ।
ॐ तिलहोमप्रियाय नमः । ॐ
तापत्रयनिवारकाय नमः ।
ॐ तिलतर्पणसन्तुष्टाय नमः । ॐ
तिलतैलान्नतोषिताय नमः ।
ॐ तिलैकदत्तहृदयाय नमः । ॐ
तेजस्विने नमः । ॐ तेजसान्निधये नमः ।
ॐ तेजसादित्यसङ्काशाय नमः । ॐ
तेजोमयवपुर्धराय नमः ।
ॐ तत्त्वज्ञाय नमः । ॐ तत्त्वगाय
नमः । ॐ तीव्राय नमः ।
ॐ तपोरूपाय नमः । ॐ तपोमयाय नमः । ॐ
तुष्टिदाय नमः ।
ॐ तुष्टिकृते नमः । ॐ तीक्ष्णाय नमः
। ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणात्मकाय नमः । ॐ
तिलदीपप्रियाय नमः ।
ॐ तस्यपीडानिवारकाय नमः । ॐ
तिलोत्तमामेनकादिनर्तनप्रियाय नमः ।
ॐ त्रिभागमष्टवर्गाय नमः । ॐ
स्थूलरोम्णे नमः । ॐ स्थिराय नमः ।
ॐ स्थिताय नमः । ॐ स्थायिने नमः । ॐ
स्थापकाय नमः ।
ॐ स्थूलसूक्ष्मप्रदर्शकाय नमः । ॐ
दशरथार्चितपादाय नमः ।
ॐ दशरथस्तोत्रतोषिताय नमः ।
ॐ
दशरथप्रार्थनाकॢप्तदुर्भिक्षविनिवारकाय नमः ।
ॐ
दशरथप्रार्थनाकॢप्तवरद्वयप्रदायकाय नमः ।
ॐ दशरथस्वात्मदर्शिने नमः । ॐ
दशरथाभीष्टदायकाय नमः ।
ॐ दोर्भिर्धनुर्धराय नमः । ॐ
दीर्घश्मश्रुजटाधराय नमः ।
ॐ दशरथस्तोत्रवरदाय नमः । ॐ
दशरथाभीप्सितप्रदाय नमः ।
ॐ दशरथस्तोत्रसन्तुष्टाय नमः । ॐ
दशरथेन सुपूजिताय नमः ।
ॐ द्वादशाष्टमजन्मस्थाय नमः । ॐ
देवपुङ्गवपूजिताय नमः ।
ॐ देवदानवदर्पघ्नाय नमः । ॐ दिनं
प्रतिमुनिस्तुताय नमः ।
ॐ द्वादशस्थाय नमः । ॐ
द्वादशात्मसुताय नमः ।
ॐ द्वादशनामभृते नमः । ॐ
द्वितीयस्थाय नमः । ॐ द्वादशार्कसूनवे नमः ।
ॐ दैवज्ञपूजिताय नमः । ॐ
दैवज्ञचित्तवासिने नमः ।
ॐ दमयन्त्यासुपूजिताय नमः । ॐ
द्वादशाब्दंतु दुर्भिक्षकारिणे नमः ।
ॐ दुःस्वप्ननाशनाय नमः । ॐ
दुराराध्याय नमः । ॐ दुराधर्षाय नमः ।
ॐ दमयन्तीवरप्रदाय नमः । ॐ
दुष्टदूराय नमः ।
ॐ दुराचारशमनाय नमः । ॐ दोषवर्जिताय
नमः । ॐ दुःसहाय नमः ।
ॐ दोषहन्त्रे नमः । ॐ दुर्लभाय नमः
। ॐ दुर्गमाय नमः ।
ॐ दुःखप्रदाय नमः । ॐ दुःखहन्त्रे
नमः ।
ॐ दीप्तरञ्जितदिङ्मुखाय नमः । ॐ
दीप्यमान मुखाम्भोजाय नमः ।
ॐ दमयन्त्याःशिवप्रदाय नमः । ॐ
दुर्निरीक्ष्याय नमः ।
ॐ दृष्टमात्रदैत्यमण्डलनाशकाय नमः ।
ॐ द्विजदानैकनिरताय नमः ।
ॐ द्विजाराधनतत्पराय नमः । ॐ
द्विजसर्वार्तिहारिणे नमः ।
ॐ द्विजराज समर्चिताय नमः । ॐ
द्विजदानैकचित्ताय नमः ।
ॐ द्विजराज प्रियङ्कराय नमः । ॐ
द्विजाय नमः । ॐ द्विजप्रियाय नमः ।
ॐ द्विजराजेष्टदायकाय नमः । ॐ
द्विजरूपाय नमः ।
ॐ द्विजश्रेष्ठाय नमः । ॐ दोषदाय
नमः । ॐ दुःसहाय नमः ।
ॐ देवादिदेवाय नमः । ॐ देवेशाय नमः
।
ॐ देवराज सुपूजिताय नमः । ॐ
देवराजेष्टवरदाय नमः ।
ॐ देवराज प्रियङ्कराय नमः । ॐ
देवादिवन्दिताय नमः ।
ॐ दिव्यतनवे नमः । ॐ देवशिखामणये
नमः ।
ॐ देवगानप्रियाय नमः । ॐ
देवदेशिकपुङ्गवाय नमः ।
ॐ द्विजात्मजासमाराध्याय नमः । ॐ
ध्येयाय नमः ।
ॐ धर्मिणे नमः । ॐ धनुर्धराय नमः ।
ॐ धनुष्मते नमः ।
ॐ धनदात्रे नमः । ॐ
धर्माधर्मविवर्जिताय नमः ।
ॐ धर्मरूपाय नमः । ॐ धनुर्दिव्याय
नमः ।
ॐ धर्मशास्त्रात्मचेतनाय नमः । ॐ
धर्मराज प्रियकराय नमः ।
ॐ धर्मराज सुपूजिताय नमः । ॐ
धर्मराजेष्टवरदाय नमः ।
ॐ धर्माभीष्टफलप्रदाय नमः । ॐ
नित्यतृप्तस्वभावाय नमः ।
ॐ नित्यकर्मरताय नमः । ॐ
निजपीडार्तिहारिणे नमः ।
ॐ निजभक्तेष्टदायकाय नमः । ॐ
निर्मासदेहाय नमः ।
ॐ नीलाय नमः । ॐ
निजस्तोत्रबहुप्रियाय नमः ।
ॐ नळस्तोत्रप्रियाय नमः । ॐ
नळराजसुपूजिताय नमः ।
ॐ नक्षत्रमण्डलगताय नमः । ॐ
नमतांप्रियकारकाय नमः ।
ॐ नित्यार्चितपदाम्भोजाय नमः । ॐ
निजाज्ञापरिपालकाय नमः ।
ॐ नवग्रहवराय नमः । ॐ नीलवपुषे नमः
। ॐ नळकरार्चिताय नमः ।
ॐ नळप्रियानन्दिताय नमः । ॐ
नळक्षेत्रनिवासकाय नमः ।
ॐ नळपाकप्रियाय नमः । ॐ
नळपद्भञ्जनक्षमाय नमः ।
ॐ नळसर्वार्तिहारिणे नमः । ॐ
नळेनात्मार्थपूजिताय नमः ।
ॐ निपाटवीनिवासाय नमः । ॐ
नळाभीष्टवरप्रदाय नमः ।
ॐ नळतीर्थसकृत् स्नान
सर्वपीडानिवारकाय नमः ।
ॐ नळेशदर्शनस्याशु
साम्राज्यपदवीप्रदाय नमः ।
ॐ नक्षत्रराश्यधिपाय नमः । ॐ
नीलध्वजविराजिताय नमः ।
ॐ नित्ययोगरताय नमः । ॐ
नवरत्नविभूषिताय नमः ।
ॐ नवधाभज्यदेहाय नमः । ॐ
नवीकृतजगत्त्रयाय नमः ।
ॐ नवग्रहाधिपाय नमः । ॐ
नवाक्षरजपप्रियाय नमः ।
ॐ नवात्मने नमः । ॐ नवचक्रात्मने
नमः ।
ॐ नवतत्त्वाधिपाय नमः । ॐ नवोदन
प्रियाय नमः ।
ॐ नवधान्यप्रियाय नमः । ॐ
निष्कण्टकाय नमः ।
ॐ निस्पृहाय नमः । ॐ निरपेक्षाय नमः
। ॐ निरामयाय नमः ।
ॐ नागराजार्चितपदाय नमः । ॐ
नागराजप्रियङ्कराय नमः ।
ॐ नागराजेष्टवरदाय नमः । ॐ
नागाभरणभूषिताय नमः ।
ॐ नागेन्द्रगान निरताय नमः । ॐ
नानाभरणभूषिताय नमः ।
ॐ नवमित्रस्वरूपाय नमः । ॐ
नानाश्चर्यविधायकाय नमः ।
ॐ नानाद्वीपाधिकर्त्रे नमः । ॐ
नानालिपिसमावृताय नमः ।
ॐ नानारूपजगत्स्रष्ट्रे नमः । ॐ
नानारूपजनाश्रयाय नमः ।
ॐ नानालोकाधिपाय नमः । ॐ
नानाभाषाप्रियाय नमः ।
ॐ नानारूपाधिकारिणे नमः । ॐ
नवरत्नप्रियाय नमः ।
ॐ नानाविचित्रवेषाढ्याय नमः । ॐ
नानाचित्रविधायकाय नमः ।
ॐ नीलजीमूतसङ्काशाय नमः । ॐ
नीलमेघसमप्रभाय नमः ।
ॐ नीलाञ्जनचयप्रख्याय नमः । ॐ
नीलवस्त्रधरप्रियाय नमः ।
ॐ नीचभाषाप्रचारज्ञाय नमः । ॐ नीचे
स्वल्पफलप्रदाय नमः ।
ॐ नानागम विधानज्ञाय नमः । ॐ
नानानृपसमावृताय नमः ।
ॐ नानावर्णाकृतये नमः । ॐ
नानावर्णस्वरार्तवाय नमः ।
ॐ नागलोकान्तवासिने नमः । ॐ
नक्षत्रत्रयसंयुताय नमः ।
ॐ नभादिलोकसम्भूताय नमः । ॐ
नामस्तोत्रबहुप्रियाय नमः ।
ॐ नामपारायणप्रीताय नमः । ॐ
नामार्चनवरप्रदाय नमः ।
ॐ नामस्तोत्रैकचित्ताय नमः । ॐ
नानारोगार्तिभञ्जनाय नमः ।
ॐ नवग्रहसमाराध्याय नमः । ॐ
नवग्रहभयापहाय नमः ।
ॐ नवग्रहसुसम्पूज्याय नमः । ॐ नानावेदसुरक्षकाय
नमः ।
ॐ नवग्रहाधिराजाय नमः । ॐ
नवग्रहजपप्रियाय नमः ।
ॐ नवग्रहमयज्योतिषे नमः । ॐ
नवग्रहवरप्रदाय नमः ।
ॐ नवग्रहाणामधिपाय नमः । ॐ नवग्रह
सुपीडिताय नमः ।
ॐ नवग्रहाधीश्वराय नमः । ॐ
नवमाणिक्यशोभिताय नमः ।
ॐ परमात्मने नमः । ॐ परब्रह्मणे नमः
। ॐ परमैश्वर्यकारणाय नमः ।
ॐ प्रपन्नभयहारिणे नमः । ॐ
प्रमत्तासुरशिक्षकाय नमः ।
ॐ प्रासहस्ताय नमः । ॐ पङ्गुपादाय
नमः । ॐ प्रकाशात्मने नमः ।
ॐ प्रतापवते नमः । ॐ पावनाय नमः । ॐ
परिशुद्धात्मने नमः ।
ॐ पुत्रपौत्रप्रवर्धनाय नमः । ॐ
प्रसन्नात्सर्वसुखदाय नमः ।
ॐ प्रसन्नेक्षणाय नमः । ॐ
प्रजापत्याय नमः । ॐ प्रियकराय नमः ।
ॐ प्रणतेप्सितराज्यदाय नमः । ॐ
प्रजानां जीवहेतवे नमः ।
ॐ प्राणिनां परिपालकाय नमः । ॐ
प्राणरूपिणे नमः ।
ॐ प्राणधारिणे नमः । ॐ प्रजानां
हितकारकाय नमः ।
ॐ प्राज्ञाय नमः । ॐ प्रशान्ताय नमः
। ॐ प्रज्ञावते नमः ।
ॐ प्रजारक्षणदीक्षिताय नमः । ॐ
प्रावृषेण्याय नमः ।
ॐ प्राणकारिणे नमः । ॐ
प्रसन्नोत्सववन्दिताय नमः ।
ॐ प्रज्ञानिवासहेतवे नमः । ॐ
पुरुषार्थैकसाधनाय नमः ।
ॐ प्रजाकराय नमः । ॐ प्रातिकूल्याय
नमः । ॐ पिङ्गळाक्षाय नमः ।
ॐ प्रसन्नधिये नमः । ॐ प्रपञ्चात्मने
नमः । ॐ प्रसवित्रे नमः ।
ॐ पुराणपुरुषोत्तमाय नमः । ॐ
पुराणपुरुषाय नमः । ॐ पुरुहूताय नमः ।
ॐ प्रपञ्चधृते नमः । ॐ प्रतिष्ठिताय
नमः । ॐ प्रीतिकराय नमः ।
ॐ प्रियकारिणे नमः । ॐ प्रयोजनाय
नमः । ॐ प्रीतिमते नमः ।
ॐ प्रवरस्तुत्याय नमः । ॐ
पुरूरवसमर्चिताय नमः ।
ॐ प्रपञ्चकारिणे नमः । ॐ पुण्याय
नमः ।
ॐ पुरुहूत समर्चिताय नमः । ॐ
पाण्डवादि सुसंसेव्याय नमः ।
ॐ प्रणवाय नमः । ॐ पुरुषार्थदाय नमः
। ॐ पयोदसमवर्णाय नमः ।
ॐ पाण्डुपुत्रार्तिभञ्जनाय नमः । ॐ
पाण्डुपुत्रेष्टदात्रे नमः ।
ॐ पाण्डवानां हितङ्कराय नमः ।
ॐ पञ्चपाण्डवपुत्राणां
सर्वाभीष्टफलप्रदाय नमः ।
ॐ पञ्चपाण्डवपुत्राणां सर्वारिष्ट
निवारकाय नमः ।
ॐ पाण्डुपुत्राद्यर्चिताय नमः । ॐ
पूर्वजाय नमः । ॐ प्रपञ्चभृते नमः ।
ॐ परचक्रप्रभेदिने नमः । ॐ
पाण्डवेषु वरप्रदाय नमः ।
ॐ परब्रह्मस्वरूपाय नमः । ॐ
पराज्ञापरिवर्जिताय नमः ।
ॐ परात्पराय नमः । ॐ पाशहन्त्रे नमः
। ॐ परमाणवे नमः ।
ॐ प्रपञ्चकृते नमः । ॐ पातङ्गिने
नमः । ॐ पुरुषाकाराय नमः ।
ॐ परशम्भुसमुद्भवाय नमः । ॐ
प्रसन्नात्सर्वसुखदाय नमः ।
ॐ प्रपञ्चोद्भवसम्भवाय नमः । ॐ
प्रसन्नाय नमः ।
ॐ परमोदाराय नमः । ॐ पराहङ्कारभञ्जनाय
नमः । ॐ पराय नमः ।
ॐ परमकारुण्याय नमः । ॐ
परब्रह्ममयाय नमः ।
ॐ प्रपन्नभयहारिणे नमः । ॐ
प्रणतार्तिहराय नमः ।
ॐ प्रसादकृते नमः । ॐ प्रपञ्चाय नमः
। ॐ पराशक्ति समुद्भवाय नमः ।
ॐ प्रदानपावनाय नमः । ॐ
प्रशान्तात्मने नमः । ॐ प्रभाकराय नमः ।
ॐ प्रपञ्चात्मने नमः । ॐ
प्रपञ्चोपशमनाय नमः । ॐ पृथिवीपतये नमः ।
ॐ परशुराम समाराध्याय नमः । ॐ
परशुरामवरप्रदाय नमः ।
ॐ परशुराम चिरञ्जीविप्रदाय नमः । ॐ
परमपावनाय नमः ।
ॐ परमहंसस्वरूपाय नमः । ॐ
परमहंससुपूजिताय नमः ।
ॐ पञ्चनक्षत्राधिपाय नमः । ॐ
पञ्चनक्षत्रसेविताय नमः ।
ॐ प्रपञ्चरक्षित्रे नमः । ॐ
प्रपञ्चस्यभयङ्कराय नमः ।
ॐ फलदानप्रियाय नमः । ॐ फलहस्ताय
नमः । ॐ फलप्रदाय नमः ।
ॐ फलाभिषेकप्रियाय नमः । ॐ
फल्गुनस्य वरप्रदाय नमः ।
ॐ फुटच्छमितपापौघाय नमः । ॐ
फल्गुनेन प्रपूजिताय नमः ।
ॐ फणिराजप्रियाय नमः । ॐ फुल्लाम्बुज
विलोचनाय नमः ।
ॐ बलिप्रियाय नमः । ॐ बलिने नमः । ॐ
बभ्रुवे नमः ।
ॐ ब्रह्मविष्ण्वीशक्लेशकृते नमः । ॐ
ब्रह्मविष्ण्वीशरूपाय नमः ।
ॐ ब्रह्मशक्रादिदुर्लभाय नमः । ॐ
बासदर्ष्ट्या प्रमेयाङ्गाय नमः ।
ॐ बिभ्रत्कवचकुण्डलाय नमः । ॐ
बहुश्रुताय नमः । ॐ बहुमतये नमः ।
ॐ ब्रह्मण्याय नमः । ॐ
ब्राह्मणप्रियाय नमः । ॐ बलप्रमथनाय नमः ।
ॐ ब्रह्मणे नमः । ॐ बहुरूपाय नमः । ॐ
बहुप्रदाय नमः ।
ॐ बालार्कद्युतिमते नमः । ॐ बालाय
नमः । ॐ बृहद्वक्षसे नमः ।
ॐ बृहत्तनवे नमः । ॐ
ब्रह्माण्डभेदकृते नमः ।
ॐ भक्तसर्वार्थसाधकाय नमः । ॐ
भव्याय नमः । ॐ भोक्त्रे नमः ।
ॐ भीतिकृते नमः । ॐ
भक्तानुग्रहकारकाय नमः । ॐ भीषणाय नमः ।
ॐ भैक्षकारिणे नमः । ॐ भूसुरादि
सुपूजिताय नमः ।
ॐ भोगभाग्यप्रदाय नमः । ॐ
भस्मीकृतजगत्त्रयाय नमः ।
ॐ भयानकाय नमः । ॐ भानुसूनवे नमः । ॐ
भूतिभूषितविग्रहाय नमः ।
ॐ भास्वद्रताय नमः । ॐ भक्तिमतां
सुलभाय नमः । ॐ भ्रुकुटीमुखाय नमः ।
ॐ भवभूतगणैःस्तुत्याय नमः । ॐ
भूतसंघसमावृताय नमः ।
ॐ भ्राजिष्णवे नमः । ॐ भगवते नमः । ॐ
भीमाय नमः ।
ॐ भक्ताभीष्टवरप्रदाय नमः । ॐ
भवभक्तैकचित्ताय नमः ।
ॐ भक्तिगीतस्तवोन्मुखाय नमः । ॐ
भूतसन्तोषकारिणे नमः ।
ॐ भक्तानां चित्तशोधनाय नमः । ॐ
भक्तिगम्याय नमः । ॐ भयहराय नमः ।
ॐ भावज्ञाय नमः । ॐ भक्तसुप्रियाय
नमः । ॐ भूतिदाय नमः ।
ॐ भूतिकृते नमः । ॐ भोज्याय नमः । ॐ
भूतात्मने नमः ।
ॐ भुवनेश्वराय नमः । ॐ मन्दाय नमः ।
ॐ मन्दगतये नमः ।
ॐ मासमेवप्रपूजिताय नमः । ॐ मुचुकुन्दसमाराध्याय
नमः ।
ॐ मुचुकुन्दवरप्रदाय नमः । ॐ
मुचुकुन्दार्चितपदाय नमः ।
ॐ महारूपाय नमः । ॐ महायशसे नमः । ॐ
महाभोगिने नमः ।
ॐ महायोगिने नमः । ॐ महाकायाय नमः ।
ॐ महाप्रभवे नमः ।
ॐ महेशाय नमः । ॐ महदैश्वर्याय नमः
। ॐ मन्दारकुसुमप्रियाय नमः ।
ॐ महाक्रतवे नमः । ॐ महामानिने नमः
। ॐ महाधीराय नमः ।
ॐ महाजयाय नमः । ॐ महावीराय नमः । ॐ
महाशान्ताय नमः ।
ॐ मण्डलस्थाय नमः । ॐ महाद्युतये
नमः । ॐ महासुताय नमः ।
ॐ महोदाराय नमः । ॐ महनीयाय नमः । ॐ
महोदयाय नमः ।
ॐ मैथिलीवरदायिने नमः । ॐ
मार्ताण्डस्यद्वितीयजाय नमः ।
ॐ मैथिलीप्रार्थनाकॢप्तदशकण्ठशिरोपहृते
नमः ।
ॐ मरामरहराराध्याय नमः । ॐ
महेन्द्रादि सुरार्चिताय नमः ।
ॐ महारथाय नमः । ॐ महावेगाय नमः ।
ॐ मणिरत्नविभूषिताय नमः । ॐ
मेषनीचाय नमः ।
ॐ महाघोराय नमः । ॐ महासौरये नमः । ॐ
मनुप्रियाय नमः ।
ॐ महादीर्घाय नमः । ॐ महाग्रासाय नमः
। ॐ महदैश्वर्यदायकाय नमः ।
ॐ महाशुष्काय नमः । ॐ महारौद्राय
नमः ।
ॐ मुक्तिमार्गप्रदर्शकाय नमः । ॐ
मकरकुम्भाधिपाय नमः ।
ॐ मृकण्डुतनयार्चिताय नमः । ॐ
मन्त्राधिष्ठानरूपाय नमः ।
ॐ मल्लिकाकुसुमप्रियाय नमः । ॐ
महामन्त्रस्वरूपाय नमः ।
ॐ महायन्त्रस्थिताय नमः । ॐ
महाप्रकाशदिव्यात्मने नमः ।
ॐ महादेवप्रियाय नमः । ॐ महाबलि
समाराध्याय नमः ।
ॐ महर्षिगणपूजिताय नमः । ॐ
मन्दचारिणे नमः ।
ॐ महामायिने नमः । ॐ माषदानप्रियाय
नमः ।
ॐ माषोदन प्रीतचित्ताय नमः । ॐ
महाशक्तये नमः ।
ॐ महागुणाय नमः । ॐ यशस्कराय नमः । ॐ
योगदात्रे नमः ।
ॐ यज्ञाङ्गाय नमः । ॐ युगन्धराय नमः
। ॐ योगिने नमः ।
ॐ योग्याय नमः । ॐ याम्याय नमः । ॐ
योगरूपिणे नमः ।
ॐ युगाधिपाय नमः । ॐ यज्ञभृते नमः ।
ॐ यजमानाय नमः ।
ॐ योगाय नमः । ॐ योगविदां वराय नमः
।
ॐ
यक्षराक्षसवेताळकूष्माण्डादिप्रपूजिताय नमः ।
ॐ यमप्रत्यधिदेवाय नमः । ॐ
युगपद्भोगदायकाय नमः ।
ॐ योगप्रियाय नमः । ॐ योगयुक्ताय
नमः ।ॐ यज्ञरूपाय नमः ।
ॐ युगान्तकृते नमः । ॐ
रघुवंशसमाराध्याय नमः ।
ॐ रौद्राय नमः । ॐ रौद्राकृतये नमः
।
ॐ रघुनन्दन सल्लापाय नमः । ॐ
रघुप्रोक्त जपप्रियाय नमः ।
ॐ रौद्ररूपिणे नमः । ॐ रथारूढाय नमः
।
ॐ राघवेष्ट वरप्रदाय नमः । ॐ रथिने
नमः । ॐ रौद्राधिकारिणे नमः ।
ॐ राघवेण समर्चिताय नमः । ॐ
रोषात्सर्वस्वहारिणे नमः ।
ॐ राघवेण सुपूजिताय नमः । ॐ
राशिद्वयाधिपाय नमः ।
ॐ रघुभिः परिपूजिताय नमः । ॐ
राज्यभूपाकराय नमः ।
ॐ राजराजेन्द्रवन्दिताय नमः । ॐ रत्नकेयूरभूषाढ्याय
नमः ।
ॐ रमानन्दनवन्दिताय नमः । ॐ
रघुपौरुषसन्तुष्टाय नमः ।
ॐ रघुस्तोत्रबहुप्रियाय नमः । ॐ
रघुवंशनृपैःपूज्याय नमः ।
ॐ रणन्मञ्जीरनूपुराय नमः । ॐ
रविनन्दनाय नमः । ॐ राजेन्द्राय नमः ।
ॐ रघुवंशप्रियाय नमः । ॐ
लोहजप्रतिमादानप्रियाय नमः ।
ॐ लावण्यविग्रहाय नमः । ॐ
लोकचूडामणये नमः ।
ॐ लक्ष्मीवाणीस्तुतिप्रियाय नमः । ॐ
लोकरक्षाय नमः ।
ॐ लोकशिक्षाय नमः । ॐ
लोकलोचनरञ्जिताय नमः ।
ॐ लोकाध्यक्षाय नमः । ॐ लोकवन्द्याय
नमः ।
ॐ लक्ष्मणाग्रजपूजिताय नमः । ॐ
वेदवेद्याय नमः ।
ॐ वज्रदेहाय नमः । ॐ वज्राङ्कुशधराय
नमः । ॐ विश्ववन्द्याय नमः ।
ॐ विरूपाक्षाय नमः । ॐ
विमलाङ्गविराजिताय नमः ।
ॐ विश्वस्थाय नमः । ॐ वायसारूढाय
नमः । ॐ विशेषसुखकारकाय नमः ।
ॐ विश्वरूपिणे नमः । ॐ
विश्वगोप्त्रे नमः । ॐ विभावसु सुताय नमः ।
ॐ विप्रप्रियाय नमः । ॐ विप्ररूपाय
नमः । ॐ विप्राराधन तत्पराय नमः ।
ॐ विशालनेत्राय नमः । ॐ विशिखाय नमः
।
ॐ विप्रदानबहुप्रियाय नमः । ॐ
विश्वसृष्टि समुद्भूताय नमः ।
ॐ वैश्वानरसमद्युतये नमः । ॐ
विष्णवे नमः । ॐ विरिञ्चये नमः ।
ॐ विश्वेशाय नमः । ॐ विश्वकर्त्रे
नमः । ॐ विशाम्पतये नमः ।
ॐ विराडाधारचक्रस्थाय नमः । ॐ
विश्वभुजे नमः । ॐ विश्वभावनाय नमः ।
ॐ विश्वव्यापारहेतवे नमः । ॐ
वक्रक्रूरविवर्जिताय नमः ।
ॐ विश्वोद्भवाय नमः । ॐ विश्वकर्मणे
नमः ।
ॐ विश्वसृष्टि विनायकाय नमः । ॐ
विश्वमूलनिवासिने नमः ।
ॐ विश्वचित्रविधायकाय नमः । ॐ
विश्वाधारविलासिने नमः ।
ॐ व्यासेन कृतपूजिताय नमः । ॐ
विभीषणेष्टवरदाय नमः ।
ॐ वाञ्छितार्थप्रदायकाय नमः । ॐ
विभीषणसमाराध्याय नमः ।
ॐ विशेषसुखदायकाय नमः ।
ॐ
विषमव्ययाष्टजन्मस्थोऽप्येकादशफलप्रदाय नमः ।
ॐ वासवात्मजसुप्रीताय नमः । ॐ
वसुदाय नमः । ॐ वासवार्चिताय नमः ।
ॐ विश्वत्राणैकनिरताय नमः । ॐ
वाङ्मनोतीतविग्रहाय नमः ।
ॐ विराण्मन्दिरमूलस्थाय नमः । ॐ
वलीमुखसुखप्रदाय नमः ।
ॐ विपाशाय नमः । ॐ विगतातङ्काय नमः
। ॐ विकल्पपरिवर्जिताय नमः ।
ॐ वरिष्ठाय नमः । ॐ वरदाय नमः । ॐ
वन्द्याय नमः ।
ॐ विचित्राङ्गाय नमः । ॐ विरोचनाय
नमः । ॐ शुष्कोदराय नमः ।
ॐ शुक्लवपुषे नमः । ॐ शान्तरूपिणे
नमः । ॐ शनैश्चराय नमः ।
ॐ शूलिने नमः । ॐ शरण्याय नमः । ॐ
शान्ताय नमः ।
ॐ शिवायामप्रियङ्कराय नमः । ॐ
शिवभक्तिमतां श्रेष्ठाय नमः ।
ॐ शूलपाणये नमः । ॐ शुचिप्रियाय नमः
।
ॐ श्रुतिस्मृतिपुराणज्ञाय नमः । ॐ
श्रुतिजालप्रबोधकाय नमः ।
ॐ श्रुतिपारगसम्पूज्याय नमः । ॐ
श्रुतिश्रवणलोलुपाय नमः ।
ॐ श्रुत्यन्तर्गतमर्मज्ञाय नमः । ॐ
श्रुत्येष्टवरदायकाय नमः ।
ॐ श्रुतिरूपाय नमः । ॐ
श्रुतिप्रीताय नमः । ॐ श्रुतीप्सितफलप्रदाय नमः ।
ॐ शुचिश्रुताय नमः । ॐ शान्तमूर्तये
नमः । ॐ श्रुतिश्रवणकीर्तनाय नमः ।
ॐ शमीमूलनिवासिने नमः । ॐ
शमीकृतफलप्रदाय नमः ।
ॐ शमीकृतमहाघोराय नमः । ॐ
शरणागतवत्सलाय नमः ।
ॐ शमीतरुस्वरूपाय नमः । ॐ
शिवमन्त्रज्ञमुक्तिदाय नमः ।
ॐ शिवागमैकनिलयाय नमः । ॐ
शिवमन्त्रजपप्रियाय नमः ।
ॐ शमीपत्रप्रियाय नमः । ॐ शमीपर्णसमर्चिताय
नमः ।
ॐ शतोपनिषदस्तुत्याय नमः । ॐ
शान्त्यादिगुणभूषिताय नमः ।
ॐ शान्त्यादिषड्गुणोपेताय नमः । ॐ
शङ्खवाद्यप्रियाय नमः ।
ॐ श्यामरक्तसितज्योतिषे नमः । ॐ
शुद्धपञ्चाक्षरप्रियाय नमः ।
ॐ श्रीहालास्यक्षेत्रवासिने नमः । ॐ
श्रीमते नमः । ॐ शक्तिधराय नमः ।
ॐ षोडशद्वयसम्पूर्णलक्षणाय नमः । ॐ
षण्मुखप्रियाय नमः ।
ॐ षड्गुणैश्वर्यसंयुक्ताय नमः । ॐ
षडङ्गावरणोज्ज्वलाय नमः ।
ॐ षडक्षरस्वरूपाय नमः । ॐ
षट्चक्रोपरि संस्थिताय नमः ।
ॐ षोडशिने नमः । ॐ षोडशान्ताय नमः ।
ॐ षट्शक्तिव्यक्तमूर्तिमते नमः ।
ॐ षड्भावरहिताय नमः । ॐ
षडङ्गश्रुतिपारगाय नमः ।
ॐ षट्कोणमध्यनिलयाय नमः । ॐ
षट्शास्त्रस्मृतिपारगाय नमः ।
ॐ स्वर्णेन्द्रनीलमकुटाय नमः । ॐ
सर्वाभीष्टप्रदायकाय नमः ।
ॐ सर्वात्मने नमः । ॐ सर्वदोषघ्नाय
नमः । ॐ सर्वगर्वप्रभञ्जनाय नमः ।
ॐ समस्तलोकाभयदाय नमः । ॐ
सर्वदोषाङ्गनाशकाय नमः ।
ॐ समस्तभक्तसुखदाय नमः । ॐ
सर्वदोषनिवर्तकाय नमः ।
ॐ सर्वनाशक्षमाय नमः । ॐ सौम्याय
नमः ।
ॐ सर्वक्लेशनिवारकाय नमः । ॐ
सर्वात्मने नमः ।
ॐ सर्वदातुष्टाय नमः । ॐ
सर्वपीडानिवारकाय नमः ।
ॐ सर्वरूपिणे नमः । ॐ सर्वकर्मणे
नमः । ॐ सर्वज्ञाय नमः ।
ॐ सर्वकारकाय नमः । ॐ सुकृते नमः । ॐ
सुलभाय नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः । ॐ
सूर्यात्मजाय नमः ।
ॐ सदातुष्टाय नमः । ॐ
सूर्यवंशप्रदीपनाय नमः ।
ॐ सप्तद्वीपाधिपाय नमः । ॐ
सुरासुरभयङ्कराय नमः ।
ॐ सर्वसंक्षोभहारिणे नमः । ॐ
सर्वलोकहितङ्कराय नमः ।
ॐ सर्वौदार्यस्वभावाय नमः । ॐ
सन्तोषात्सकलेष्टदाय नमः ।
ॐ समस्तऋषिभिःस्तुत्याय नमः । ॐ
समस्तगणपावृताय नमः ।
ॐ समस्तगणसंसेव्याय नमः । ॐ
सर्वारिष्टविनाशनाय नमः ।
ॐ सर्वसौख्यप्रदात्रे नमः । ॐ
सर्वव्याकुलनाशनाय नमः ।
ॐ सर्वसंक्षोभहारिणे नमः । ॐ
सर्वारिष्टफलप्रदाय नमः ।
ॐ सर्वव्याधिप्रशमनाय नमः । ॐ
सर्वमृत्युनिवारकाय नमः ।
ॐ सर्वानुकूलकारिणे नमः । ॐ
सौन्दर्यमृदुभाषिताय नमः ।
ॐ सौराष्ट्रदेशोद्भवाय नमः । ॐ
स्वक्षेत्रेष्टवरप्रदाय नमः ।
ॐ सोमयाजि समाराध्याय नमः । ॐ
सीताभीष्टवरप्रदाय नमः ।
ॐ सुखासनोपविष्टाय नमः । ॐ
सद्यःपीडानिवारकाय नमः ।
ॐ सौदामनीसन्निभाय नमः । ॐ
सर्वानुल्लङ्घ्यशासनाय नमः ।
ॐ सूर्यमण्डलसञ्चारिणे नमः । ॐ
संहारास्त्रनियोजिताय नमः ।
ॐ सर्वलोकक्षयकराय नमः । ॐ
सर्वारिष्टविधायकाय नमः ।
ॐ सर्वव्याकुलकारिणे नमः । ॐ
सहस्रजपसुप्रियाय नमः ।
ॐ सुखासनोपविष्टाय नमः । ॐ
संहारास्त्रप्रदर्शिताय नमः ।
ॐ
सर्वालङ्कारसंयुक्तकृष्णगोदानसुप्रियाय नमः । ॐ सुप्रसन्नाय नमः ।
ॐ सुरश्रेष्ठाय नमः । ॐ सुघोषाय नमः
। ॐ सुखदाय नमः ।
ॐ सुहृदे नमः । ॐ सिद्धार्थाय नमः ।
ॐ सिद्धसङ्कल्पाय नमः ।
ॐ सर्वज्ञाय नमः । ॐ सर्वदाय नमः । ॐ
सुखिने नमः ।
ॐ सुग्रीवाय नमः । ॐ सुधृतये नमः ।
ॐ साराय नमः ।
ॐ सुकुमाराय नमः । ॐ सुलोचनाय नमः ।
ॐ सुव्यक्ताय नमः ।
ॐ सच्चिदानन्दाय नमः । ॐ सुवीराय
नमः । ॐ सुजनाश्रयाय नमः ।
ॐ हरिश्चन्द्रसमाराध्याय नमः । ॐ
हेयोपादेयवर्जिताय नमः ।
ॐ हरिश्चन्द्रेष्टवरदाय नमः । ॐ
हंसमन्त्रादि संस्तुताय नमः ।
ॐ हंसवाह समाराध्याय नमः । ॐ
हंसवाहवरप्रदाय नमः ।
ॐ हृद्याय नमः । ॐ हृष्टाय नमः । ॐ
हरिसखाय नमः ।
ॐ हंसाय नमः । ॐ हंसगतये नमः । ॐ
हविषे नमः ।
ॐ हिरण्यवर्णाय नमः । ॐ हितकृते नमः
। ॐ हर्षदाय नमः ।
ॐ हेमभूषणाय नमः । ॐ हविर्होत्रे
नमः । ॐ हंसगतये नमः ।
ॐ हंसमन्त्रादिसंस्तुताय नमः । ॐ
हनूमदर्चितपदाय नमः ।
ॐ हलधृत्पूजिताय नमः । ॐ क्षेमदाय
नमः । ॐ क्षेमकृते नमः ।
ॐ क्षेम्याय नमः । ॐ क्षेत्रज्ञाय
नमः । ॐ क्षामवर्जिताय नमः ।
ॐ क्षुद्रघ्नाय नमः । ॐ क्षान्तिदाय
नमः । ॐ क्षेमाय नमः ।
ॐ क्षितिभूषाय नमः । ॐ क्षमाश्रयाय
नमः । ॐ क्षमाधराय नमः ।
ॐ क्षयद्वाराय नमः ।
॥ इति श्री शनैश्चरसहस्रनामावळिः
सम्पूर्णम् ॥
॥ इति श्रीशनैश्चरसहस्रनामस्तोत्रम् शनैश्चरसहस्रनामावळिः सम्पूर्णम् ॥
Related posts
vehicles
business
health
Featured Posts
Labels
- Astrology (7)
- D P karmakand डी पी कर्मकाण्ड (10)
- Hymn collection (38)
- Worship Method (32)
- अष्टक (54)
- उपनिषद (30)
- कथायें (127)
- कवच (61)
- कीलक (1)
- गणेश (25)
- गायत्री (1)
- गीतगोविन्द (27)
- गीता (34)
- चालीसा (7)
- ज्योतिष (32)
- ज्योतिषशास्त्र (86)
- तंत्र (182)
- दशकम (3)
- दसमहाविद्या (51)
- देवी (190)
- नामस्तोत्र (55)
- नीतिशास्त्र (21)
- पञ्चकम (10)
- पञ्जर (7)
- पूजन विधि (80)
- पूजन सामाग्री (12)
- मनुस्मृति (17)
- मन्त्रमहोदधि (26)
- मुहूर्त (6)
- रघुवंश (11)
- रहस्यम् (120)
- रामायण (48)
- रुद्रयामल तंत्र (117)
- लक्ष्मी (10)
- वनस्पतिशास्त्र (19)
- वास्तुशास्त्र (24)
- विष्णु (41)
- वेद-पुराण (691)
- व्याकरण (6)
- व्रत (23)
- शाबर मंत्र (1)
- शिव (54)
- श्राद्ध-प्रकरण (14)
- श्रीकृष्ण (22)
- श्रीराधा (2)
- श्रीराम (71)
- सप्तशती (22)
- साधना (10)
- सूक्त (30)
- सूत्रम् (4)
- स्तवन (109)
- स्तोत्र संग्रह (711)
- स्तोत्र संग्रह (6)
- हृदयस्तोत्र (10)
No comments: