पूजन विधि, ज्योतिष, स्तोत्र संग्रह, व्रत कथाएँ, मुहूर्त, पुजन सामाग्री आदि

चन्द्राष्टोत्तरशतनामस्तोत्रम्

 चन्द्राष्टोत्तरशतनामस्तोत्रम्

इससे पूर्व आपने चन्द्र ग्रह के अनुकूलता के लिए चन्द्र के १०८ नामों का पठन किया और अब पुनः पाठकों के लाभार्थ क एक अन्य चन्द्राष्टोत्तरशतनामस्तोत्रम् का पठन करेंगे।

श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् २

चन्द्राष्टोत्तरशतनामस्तोत्रम् २

अथ श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् ।

अथ वक्ष्ये शशिस्तोत्रं तच्छृणुष्व मुदान्वितः ॥ १॥

चन्द्रोऽमृतमयः श्वेतो विधुर्विमलरूपवान् ।

विशालमण्डलः श्रीमान् पीयूषकिरणः करी ॥ २॥

द्विजराजः शशधरः शशी शिवशिरोगृहः ।

क्षीराब्धितनयो दिव्यो महात्माऽमृतवर्षणः ॥ ३॥

रात्रिनाथो ध्वान्तहर्ता निर्मलो लोकलोचनः ।

चक्षुराह्लादजनकस्तारापतिरखण्डितः ॥ ४॥

षोडशात्मा कलानाथो मदनः कामवल्लभः ।

हंसःस्वामी क्षीणवृद्धो गौरः सततसुन्दरः ॥ ५॥

मनोहरो देवभोग्यो ब्रह्मकर्मविवर्धनः ।

वेदप्रियो वेदकर्मकर्ता हर्ता हरो हरिः ॥ ६॥

ऊर्द्ध्ववासी निशानाथः श्रृङ्गारभावकर्षणः ।

मुक्तिद्वारं शिवात्मा च तिथिकर्ता कलानिधिः ॥ ७॥

ओषधीपतिरब्जश्च सोमो जैवातृकः शुचिः ।

मृगाङ्को ग्लौः पुण्यनामा चित्रकर्मा सुरार्चितः ॥ ८॥

रोहिणीशो बुधपिता आत्रेयः पुण्यकीर्तकः ।

निरामयो मन्त्ररूपः सत्यो राजा धनप्रदः ॥ ९॥

सौन्दर्यदायको दाता राहुग्रासपराङ्मुखः ।

शरण्यः पार्वतीभालभूषणं भगवानपि ॥ १०॥

पुण्यारण्यप्रियः पूर्णः पूर्णमण्डलमण्डितः ।

हास्यरूपो हास्यकर्ता शुद्धः शुद्धस्वरूपकः॥ ११॥

शरत्कालपरिप्रीतः शारदः कुमुदप्रियः ।

द्युमणिर्दक्षजामाता यक्ष्मारिः पापमोचनः ॥ १२॥

इन्दुः कलङ्कनाशी च सूर्यसङ्गमपण्डितः ।

सूर्योद्भूतः सूर्यगतः सूर्यप्रियपरःपरः ॥ १३॥

स्निग्धरूपः प्रसन्नश्च मुक्ताकर्पूरसुन्दरः ।

जगदाह्लादसन्दर्शो ज्योतिः शास्त्रप्रमाणकः ॥ १४ ॥

सूर्याभावदुःखहर्ता वनस्पतिगतः कृती ।

यज्ञरूपो यज्ञभागी वैद्यो विद्याविशारदः ॥ १५॥

रश्मिकोटिर्दीप्तिकारी गौरभानुरिति द्विज ।

नाम्नामष्टोत्तरशतं चन्द्रस्य पापनाशनम् ॥ १६॥

चन्द्रोदये पठेद्यस्तु स तु सौन्दर्यवान् भवेत् ।

पौर्णमास्यां पठेदेतं स्तवं दिव्यं विशेषतः ॥ १७॥

स्तवस्यास्य प्रसादेन त्रिसन्ध्यापठितस्य च ।

सदाप्रसादास्तिष्ठन्ति ब्राह्मणाश्च द्विजोत्तम ॥ १८॥

श्राद्धे चापि पठेदेतं स्तवं पीयूषरूपिणम् ।

तत्तु श्राद्धमनन्तञ्च कलानाथप्रसादतः ॥ १९॥

दुःस्वप्ननाशनं पुण्यं दाहज्वरविनाशनम् ।

ब्राह्मणाद्याः पठेयुस्तु स्त्रीशूद्राः श्रृणुयुस्तथा ॥ २०॥

इति बृहद्धर्मपुराणान्तर्गतं श्रीचन्द्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।


श्रीचन्द्राष्टोत्तरशतनामावलिः २

 

ॐचन्द्राय नमः । ॐअमृतमयाय नमः । ॐश्वेताय नमः । ॐविधवे नमः । ॐविमलरूपवते नमः ।

ॐविशालमण्डलाय नमः ।ॐ श्रीमते नमः । ॐपीयूषकिरणकारिणे नमः । ॐद्विजराजाय नमः ।

ॐशशधराय नमः । ॐशशिने नमः । ॐशिवशिरोगृहाय नमः । ॐक्षीराब्धितनयाय नमः ।

ॐदिव्याय नमः ।ॐ महात्मने नमः । ॐअमृतवर्षणाय नमः । ॐरात्रिनाथाय नमः ।ॐ ध्वान्तहर्त्रे नमः ।

ॐनिर्मलाय नमः ।ॐ लोकलोचनाय नमः। ॐचक्षुषे नमः । ॐआह्लादजनकाय नमः । ॐतारापतये नमः ।

ॐअखण्डिताय नमः । ॐषोडशात्मने नमः ।ॐ कलानाथाय नमः । ॐमदनाय नमः । ॐकामवल्लभाय नमः ।

ॐ हंसःस्वामिने नमः । ॐक्षीणवृद्धाय नमः । ॐगौराय नमः । ॐसततसुन्दराय नमः । ॐमनोहराय नमः ।

ॐदेवभोग्याय नमः । ॐब्रह्मकर्मविवर्धनाय नमः । ॐवेदप्रियाय नमः । ॐवेदकर्मकर्त्रे नमः । ॐहर्त्रे नमः ।

ॐहराय नमः । ॐहरये नमः। ॐऊर्द्ध्ववासिने नमः । ॐनिशानाथाय नमः । ॐश्रृङ्गारभावकर्षणाय नमः ।

ॐमुक्तिद्वाराय नमः । ॐशिवात्मने नमः । ॐतिथिकर्त्रे नमः ।ॐ कलानिधये नमः । ॐओषधीपतये नमः ।

ॐअब्जाय नमः । ॐसोमाय नमः । ॐजैवातृकाय नमः ।ॐ शुचये नमः । ॐमृगाङ्काय नमः । ॐग्लावे नमः ।

ॐपुण्यनाम्ने नमः ।ॐ चित्रकर्मणे नमः । ॐसुरार्चिताय नमः । ॐरोहिणीशाय नमः । ॐबुधपित्रे नमः ।

ॐआत्रेयाय नमः। ॐपुण्यकीर्तकाय नमः । ॐनिरामयाय नमः । ॐमन्त्ररूपाय नमः । ॐसत्याय नमः ।

ॐ राजसे नमः । ॐधनप्रदाय नमः ।ॐ सौन्दर्यदायकाय नमः । ॐदात्रे नमः ।ॐ राहुग्रासपराङ्मुखाय नमः ।

ॐशरण्याय नमः । ॐपार्वतीभालभूषणाय नमः । ॐभगवते नमः ।ॐ पुण्याय नमः । ॐआरण्यप्रियाय नमः ।

ॐपूर्णाय नमः । ॐपूर्णमण्डलमण्डिताय नमः । ॐहास्यरूपाय नमः । ॐहास्यकर्त्रे नमः । ॐशुद्धाय नमः ।

ॐशुद्धस्वरूपकाय नमः । ॐशरत्कालपरिप्रीताय नमः । ॐशारदाय नमः । ॐकुमुदप्रियाय नमः ।

ॐद्युमणये नमः । ॐदक्षजामात्रे नमः । ॐयक्ष्मारये नमः । ॐपापमोचनाय नमः ।ॐ इन्दवे नमः ।

ॐकलङ्कनाशिने नमः । ॐसूर्यसङ्गाय नमः ।ॐ पण्डिताय नमः । ॐसूर्योद्भूताय नमः ।ॐ सूर्यगताय नमः ।

ॐसूर्यप्रियपरःपराय नमः । ॐस्निग्धरूपाय नमः ।ॐ प्रसन्नाय नमः । ॐमुक्ताकर्पूरसुन्दराय नमः ।

ॐजगदाह्लादसन्दर्शाय नमः । ॐज्योतिषे नमः । ॐशास्त्रप्रमाणकाय नमः।

ॐसूर्याभावदुःखहर्त्रे नमः । ॐवनस्पतिगताय नमः । ॐकृतिने नमः ।ॐ यज्ञरूपाय नमः ।

ॐयज्ञभागिने नमः । ॐवैद्याय नमः । ॐविद्याविशारदाय नमः । ॐरश्मिकोटिदीप्तिकारिणे

नमः । ॐगौरभानुरिति द्विजसे नमः ॥ १०९॥

इति श्रीचन्द्राष्टोत्तरशतनामस्तोत्रं समाप्त ।

Post a Comment

Previous Post Next Post