recent

Slide show

[people][slideshow]

Ad Code

Responsive Advertisement

JSON Variables

Total Pageviews

Blog Archive

Search This Blog

Fashion

3/Fashion/grid-small

Text Widget

Bonjour & Welcome

Tags

Contact Form






Contact Form

Name

Email *

Message *

Followers

Ticker

6/recent/ticker-posts

Slider

5/random/slider

Labels Cloud

Translate

Lorem Ipsum is simply dummy text of the printing and typesetting industry. Lorem Ipsum has been the industry's.

Pages

कर्मकाण्ड

Popular Posts

चन्द्राष्टोत्तरशतनामस्तोत्रम्

चन्द्राष्टोत्तरशतनामस्तोत्रम्

चन्द्र ग्रह के अनुकूलता के लिए चन्द्र के १०८ नामों श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् का पाठ करें या इन नामों से आहुति प्रदान करें ।

चन्द्राष्टोत्तरशतनामस्तोत्रम्

श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्

चन्द्र बीज मन्त्र - ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥

श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः ।

सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ १॥

जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः ।

विकर्तनानुजो वीरो विश्वेशो विदुषाम्पतिः ॥ २॥

दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः ।

अष्टमूर्तिप्रियोऽनन्त कष्टदारुकुठारकः ॥ ३॥

स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः ।

कळाधरः कालहेतुः कामकृत्कामदायकः ॥ ४॥

मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः ।

क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥ ५॥

जैवातृकः शुची शुभ्रो जयी जयफलप्रदः ।

सुधामयस्सुरस्वामी भक्तानामिष्टदायकः ॥ ६॥

भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः ।

सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥ ७॥

भयान्तकृत् भक्तिगम्यो भवबन्धविमोचकः ।

जगत्प्रकाशकिरणो जगदानन्दकारणः ॥ ८॥

निस्सपत्नो निराहारो निर्विकारो निरामयः ।

भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥ ९॥

सकलार्तिहरः सौम्यजनकः साधुवन्दितः ।

सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥ १०॥

सितच्छत्रध्वजोपेतः सीतांगो सीतभूषणः ।

श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः ॥ ११॥

दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः ।

कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥ १२॥

आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः ।

करुणारससम्पूर्णः कर्कटप्रभुरव्ययः ॥ १३॥

चतुरश्रासनारूढश्चतुरो दिव्यवाहनः ।

विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः ॥ १४॥

महेश्वरःप्रियो दान्त्यो मेरुगोत्रप्रदक्षिणः ।

ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥ १५॥

द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः ।

औदुम्बरनगावास उदारो रोहिणीपतिः ॥ १६॥

नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः ।

सकलाह्लादनकरो फलाशसमिधप्रियः ॥ १७॥

एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ।

 

चन्द्राष्टोत्तरशतनामावली

 

चन्द्र बीज मन्त्र -

ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ।

 

ॐ श्रीमते नमः ।

ॐ शशधराय नमः ।

ॐ चन्द्राय नमः ।

ॐ ताराधीशाय नमः ।

ॐ निशाकराय नमः ।

ॐ सुखनिधये नमः ।

ॐ सदाराध्याय नमः ।

ॐ सत्पतये नमः ।

ॐ साधुपूजिताय नमः ।

ॐ जितेन्द्रियाय नमः । १०

ॐ जयोद्योगाय नमः ।

ॐ ज्योतिश्चक्रप्रवर्तकाय नमः ।

ॐ विकर्तनानुजाय नमः ।

ॐ वीराय नमः ।

ॐ विश्वेशाय नमः ।

ॐ विदुषां पतये नमः ।

ॐ दोषाकराय नमः ।

ॐ दुष्टदूराय नमः ।

ॐ पुष्टिमते नमः ।

ॐ शिष्टपालकाय नमः । २०

ॐ अष्टमूर्तिप्रियाय नमः ।

ॐ अनन्ताय नमः ।

ॐ कष्टदारुकुठारकाय नमः ।

ॐ स्वप्रकाशाय नमः ।

ॐ प्रकाशात्मने नमः ।

ॐ द्युचराय नमः ।

ॐ देवभोजनाय नमः ।

ॐ कलाधराय नमः ।

ॐ कालहेतवे नमः ।

ॐ कामकृते नमः । ३०

ॐ कामदायकाय नमः ।

ॐ मृत्युसंहारकाय नमः ।

ॐ अमर्त्याय नमः ।

ॐ नित्यानुष्ठानदायकाय नमः ।

ॐ क्षपाकराय नमः ।

ॐ क्षीणपापाय नमः ।

ॐ क्षयवृद्धिसमन्विताय नमः ।

ॐ जैवातृकाय नमः ।

ॐ शुचये नमः ।

ॐ शुभ्राय नमः । ४०

ॐ जयिने नमः ।

ॐ जयफलप्रदाय नमः ।

ॐ सुधामयाय नमः ।

ॐ सुरस्वामिने नमः ।

ॐ भक्तानामिष्टदायकाय नमः ।

ॐ भुक्तिदाय नमः ।

ॐ मुक्तिदाय नमः ।

ॐ भद्राय नमः ।

ॐ भक्तदारिद्र्यभञ्जकाय नमः ।

 var  ॐ भक्तदारिद्र्यभञ्जनाय नमः ।

ॐ सामगानप्रियाय नमः । ५०

ॐ सर्वरक्षकाय नमः ।

ॐ सागरोद्भवाय नमः ।

ॐ भयान्तकृते नमः ।

ॐ भक्तिगम्याय नमः ।

ॐ भवबन्धविमोचकाय नमः ।

ॐ जगत्प्रकाशकिरणाय नमः ।

ॐ जगदानन्दकारणाय नमः ।

ॐ निस्सपत्नाय नमः ।

ॐ निराहाराय नमः ।

ॐ निर्विकाराय नमः । ६०

ॐ निरामयाय नमः ।

ॐ भूच्छयाऽऽच्छादिताय नमः ।

ॐ भव्याय नमः ।

ॐ भुवनप्रतिपालकाय नमः ।

ॐ सकलार्तिहराय नमः ।

ॐ सौम्यजनकाय नमः ।

ॐ साधुवन्दिताय नमः ।

ॐ सर्वागमज्ञाय नमः ।

ॐ सर्वज्ञाय नमः ।

ॐ सनकादिमुनिस्तुताय नमः । ७०

ॐ सितच्छत्रध्वजोपेताय नमः ।

ॐ सिताङ्गाय नमः ।

ॐ सितभूषणाय नमः ।

ॐ श्वेतमाल्याम्बरधराय नमः ।

ॐ श्वेतगन्धानुलेपनाय नमः ।

ॐ दशाश्वरथसंरूढाय नमः ।

ॐ दण्डपाणये नमः ।

ॐ धनुर्धराय नमः ।

ॐ कुन्दपुष्पोज्ज्वलाकाराय नमः ।

ॐ नयनाब्जसमुद्भवाय नमः । ८०

ॐ आत्रेयगोत्रजाय नमः ।

ॐ अत्यन्तविनयाय नमः ।

ॐ प्रियदायकाय नमः ।

ॐ करुणारससम्पूर्णाय नमः ।

ॐ कर्कटप्रभवे नमः ।

ॐ अव्ययाय नमः ।

ॐ चतुरश्रासनारूढाय नमः ।

ॐ चतुराय नमः ।

ॐ दिव्यवाहनाय नमः ।

ॐ विवस्वन्मण्डलाग्नेयवाससे नमः । ९०

ॐ वसुसमृद्धिदाय नमः ।

ॐ महेश्वरप्रियाय नमः ।

ॐ दान्ताय नमः ।

ॐ मेरुगोत्रप्रदक्षिणाय नमः ।

ॐ ग्रहमण्डलमध्यस्थाय नमः ।

ॐ ग्रसितार्काय नमः ।

ॐ ग्रहाधिपाय नमः ।

ॐ द्विजराजाय नमः ।

ॐ द्युतिलकाय नमः ।

ॐ द्विभुजाय नमः । १००

ॐ द्विजपूजिताय नमः ।

ॐ औदुम्बरनगावासाय नमः ।

ॐ उदाराय नमः ।

ॐ रोहिणीपतये नमः ।

ॐ नित्योदयाय नमः ।

ॐ मुनिस्तुत्याय नमः ।

ॐ नित्यानन्दफलप्रदाय नमः ।

ॐ सकलाह्लादनकराय नमः । १०८

ॐ पलाशेध्मप्रियाय नमः ।

 । इति चन्द्राष्टोत्तरशतनामावलिः सम्पूर्णा ।

No comments:

vehicles

[cars][stack]

business

[business][grids]

health

[health][btop]