श्रीकृष्णसहस्रनाम स्तोत्र
गर्गाचार्य ने कहा- आपके इस बेटे के नाम अनेक होंगे जैसे कर्म करता जाएगा वैसे नए नाम होते जाएंगे लेकिन क्योंकि इसने इस बार काला रंग पाया है इसलिए इसका एक नाम कृष्ण होगा इससे पहले यह कई रंगों में आया है। मैया बोली बाबा यह कैसा नाम बताया है इसे बोलने में तो मेरी जीभ ने चक्कर खाया है। कोई आसान नाम बतला देना तब गर्गाचार्य कहने लगे मैया तुम इसे कन्हैया, कान्हा, किशन या किसना कह लेना। यह सुन मैया मुस्कुरा उठी और सारी उम्र कान्हा कहकर बुलाती रही।
श्रीकृष्ण के नाम श्रीकृष्ण का
बाल रूप भगवान 'श्रीहरि' अर्थात विष्णु
निर्वाण मोक्ष प्रदान करने वाले हैं, इसीलिए वे 'कृष्ण' कहे गये हैं। हिन्दू धार्मिक मान्यताओं और
ग्रंथों में श्रीकृष्ण को स्वयं भगवान विष्णु का अवतार माना गया है। सभी देवताओं
में इन्हें सर्वश्रेष्ठ कहा गया है। श्रीकृष्ण का नाम लेने मात्र से ही सभी पाप कट
जाते हैं। इनका भजन, कीर्तन और भक्ति करने से बड़ा पुण्य
मिलता है।
गर्गसंहितान्तर्गतम् श्रीकृष्णसहस्रनाम स्तोत्रम्
गर्ग उवाच
अथोग्रसेनो नृपतिः पुत्रस्याशां
विसृज्य च ।
व्यासं पप्रच्छ सन्देहं ज्ञात्वा
विश्वं मनोमयम् ॥ १॥
उग्रसेन उवाच
ब्रह्मन् केन प्रकारेण हित्वा च
जगतः सुखम् ।
भजेत् कृष्णं परंब्रह्म तन्मे
व्याख्यातुमर्हसि ॥ २॥
व्यास उवाच
त्वदग्रे कथयिष्यामि सत्यं हितकरं
वचः ।
उग्रसेन महाराज श्रृणुष्वैकाग्रमानसः
॥ ३॥
सेवनं कुरु राजेन्द्र
राधाश्रीकृष्णयोः परम् ।
नित्यं सहस्रनामभ्यामुभयोर्भक्तितः
किल ॥ ४॥
सहस्रनाम राधाया विधिर्जानाति भूपते
।
शङ्करो नारदश्चैव केचिद्वै
चास्मदादयः ॥ ५॥
उग्रसेन उवाच
राधिकानामसाहस्रं नारदाच्च पुरा
श्रुतम् ।
एकान्ते दिव्यशिबिरे कुरुक्षेत्रे
रविग्रहे ॥ ६॥
न श्रुतं नामसाहस्रं
कृष्णस्याक्लिष्टकर्मणः ।
वद तन्मे च कृपया येन
श्रेयोऽहमाप्नुयाम् ॥ ७॥
गर्ग उवाच
श्रुत्वोग्रसेनवचनं वेदव्यासो
महामुनिः ।
प्रशस्य तं प्रीतमनाः प्राह कृष्णं
विलोकयन् ॥ ८॥
व्यास उवाच
श्रृणु राजन् प्रवक्ष्यामि सहस्रं
नाम सुन्दरम् ।
पुरा स्वधाम्नि राधायै कृष्णेनानेन
निर्मितम् ॥ ९॥
श्रीभगवानुवाच
इदं रहस्यं किल गोपनीयं दत्ते च
हानिः सततं भवेद्धि ।
मोक्षप्रदं सर्वसुखप्रदं शं परं
परार्थं पुरुषार्थदं च ॥ १०॥
रूपं च मे कृष्णसहस्रनाम पठेत्तु
मद्रूप इव प्रसिद्धः ।
दातव्यमेवं न शठाय कुत्र न
दाम्भिकायोपदिशेत् कदापि ॥ ११॥
दातव्यमेवं करुणावृताय
गुर्वंघ्रिभक्तिप्रपरायणाय ।
श्रीकृष्णभक्ताय सतां पराय तथा
मदक्रोधविवर्जिताय ॥ १२॥
श्रीकृष्णसहस्रनाम स्तोत्र
ॐ अस्य
श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य नारायणऋषिः ।
भुजङ्गप्रयातं छन्दः । श्रीकृष्णचन्द्रो देवता ।
वासुदेवो बीजं । श्रीराधा शक्तिः । मन्मथः कीलकं ।
श्रीपूर्णब्रह्मकृष्णचन्द्रभक्तिजन्मफलप्राप्तये
जपे विनियोगः ॥॥
अथ ध्यानम् । (भुजङ्गप्रयातम्)
शिखिमुकुटविशेषं नीलपद्माङ्गदेशं
विधुमुखकृतकेशं कौस्तुभापीतवेशम् ।
मधुररवकलेशं शं भजे भ्रातृशेषं
व्रजजनवनितेशं माधवं राधिकेशम् ॥
१३॥
इति ध्यानम् ॥
हरिर्देवकीनन्दनः कंसहंता परात्मा च
पीताम्बरः पूर्णदेवः ।
रमेशस्तु कृष्णः परेशः पुराणः सुरेशोऽच्युतो
वासुदेवश्च देवः ॥ १४॥
धराभारहर्ता कृती राधिकेशः परो
भूवरो दिव्यगोलोकनाथः ।
सुदाम्नस्तथा राधिकाशापहेतुर्घृणी
मानिनीमानदो दिव्यलोकः ॥ १५॥
लसद्गोपवेषो ह्यजो राधिकात्मा
चलत्कुण्डलः कुन्तली कुन्तलस्रक् ।
रथस्थः कदा राधया दिव्यरत्नः
सुधासौधभूचारणो दिव्यवासाः ॥ १६॥
कदा वृन्दकारण्यचारी स्वलोके
महारत्नसिंहासनस्थः प्रशान्तः ।
महाहंसभै(?)श्चामरैर्वीज्यमानश्चलच्छत्रमुक्तावलीशोभमानः ॥ १७॥
सुखी कोटिकन्दर्पलीलाभिरामः
क्वणन्नूपुरालऽग्कृतांघ्रिः शुभांघ्रिः ।
सुजानुश्च रंभाशुभोरुः कृशाङ्गः
प्रतापी भुशुण्डासुदोर्दण्डखण्डः ॥ १८॥
जपापुष्पहस्तश्च
शातोदरश्रीर्महापद्मवक्षस्थलश्चन्द्रहासः ।
लसत्कुन्ददन्तश्च बिम्बाधरश्रीः
शरत्पद्मनेत्रः किरीटोज्ज्वलाभः ॥ १९॥
सखीकोटिभिर्वर्तमानो निकुञ्जे
प्रियाराधया राससक्तो नवाङ्गः ।
धराब्रह्मरुद्रादिभिः प्रार्थितः
सद्धराभारदूरीकृतार्थं प्रजातः ॥ २०॥
यदुर्देवकीसौख्यदो बन्धनच्छित्
सशेषो विभुर्योगमायी च विष्णुः ।
व्रजे नन्दपुत्रो यशोदासुताख्यो
महासौख्यदो बालरूपः शुभाङ्गः ॥ २१॥
तथा पूतनामोक्षदः श्यामरूपो
दयालुस्त्वनोभञ्जनः पल्लवांघ्रिः ।
तृणावर्तसंहारकारी च गोपो यशोदायशो
विश्वरूपप्रदर्शी ॥ २२॥
तथा गर्गदिष्टश्च भाग्योदयश्रीः
लसद्बालकेलिःसरामः सुवाचः ।
क्वणन्नूपुरैः
शब्दयुग्रिङ्गमाणस्तथा जानुहस्तैर्व्रजेशाङ्गणे वा ॥ २३॥
दधिस्पृक्च हैयङ्गवीदुग्धभोक्ता
दधिस्तेयकृद्दुग्धभुग्भाण्डभेत्ता ।
मृदं भुक्तवान् गोपजो विश्वरूपः
प्रचण्डांशुचण्डप्रभामण्डिताङ्गः ॥ २४॥
यशोदाकरैर्वर्धनं प्राप्त आद्यो
मणिग्रीवमुक्तिप्रदो दामबद्धः ।
कदा नृत्यमानो व्रजे गोपिकाभिः कदा
नन्दसन्नन्दकैर्लाल्यमानः ॥ २५॥
कदा गोपनन्दांकगोपालरूपी
कलिन्दाङ्गजाकूलगो वर्तमानः ।
घनैर्मारुतैश्च्छन्नभाण्डीरदेशे
गृहीतो वरो राधया नन्दहस्तात् ॥ २६॥
निकुञ्जे च गोलोकलोकागतेऽपि
महारत्नसङ्घैः कदम्बावृतेऽपि ।
तदा ब्रह्मणा राधिकासद्विवाहे
प्रतिष्ठां गतः पूजितः साममन्त्रैः ॥ २७॥
रसी रासयुङ्मालतीनां वनेऽपि
प्रियाराधयाऽऽराधितार्थो रमेशः ।
धरानाथ आनन्ददः श्रीनिकेतो वनेशो
धनी सुन्दरो गोपिकेशः ॥ २८॥
कदा राधया प्रापितो नन्दगेहे
यशोदाकरैर्लालितो मन्दहासः ।
भयी क्वापि वृन्दारकारण्यवासी
महामन्दिरे वासकृद्देवपूज्यः ॥ २९॥
वने वत्सचारी महावत्सहारी बकारिः
सुरैः पूजितोऽघारिनामा ।
वने वत्सकृद्गोपकृद्गोपवेषः कदा
ब्रह्मणा संस्तुतः पद्मनाभः ॥ ३०॥
विहारी तथा तालभुग्धेनुकारिः सदा
रक्षको गोविषार्थिप्रणाशी ।
कलिन्दाङ्गजाकूलगः कालियस्य दमी
नृत्यकारी फणेष्वप्रसिद्धः ॥ ३१॥
सलीलः शमी ज्ञानदः कामपूरस्तथा
गोपयुग्गोप आनन्दकारी ।
स्थिरीह्यग्निभुक्पालको बाललीलः
सुरागश्च वंशीधरः पुष्पशीलः ॥ ३२॥
प्रलम्बप्रभानाशको गौरवर्णो बलो
रोहिणीजश्च रामश्च शेषः ।
बली पद्मनेत्रश्च कृष्णाग्रजश्च
धरेशः फणीशस्तु नीलाम्बराभः ॥ ३३॥
महासौख्यदो ह्यग्निहारो व्रजेशः
शरद्ग्रीष्मवर्षाकरः कृष्णवर्णः ।
व्रजे गोपिकापूजितश्चीरहर्ता कदम्बे
स्थितश्चीरदः सुन्दरीशः ॥ ३४॥
क्षुधानाशकृद्यज्ञपत्नीमनःस्पृक्कृपाकारकः
केलिकर्तावनीशः ।
व्रजे शक्रयागप्रणाशी मिताशी
शुनासीरमोहप्रदो बालरूपी ॥ ३५॥
गिरेः पूजको नन्दपुत्रो ह्यगध्रः
कृपाकृच्च गोवर्धनोद्धारिनामा ।
तथा वातवर्षाहरो रक्षकश्च
व्रजाधीशगोपाङ्गनाशङ्कितः सन् ॥ ३६॥
अगेन्द्रोपरि शक्रपूज्यः स्तुतः
प्राङ्मृषाशिक्षको देवगोविन्दनामा ।
व्रजाधीशरक्षाकरः
पाशिपूज्योऽनुजैर्गोपजैर्दिव्यवैकुण्ठदर्शी ॥ ३७॥
चलच्चारुवंशीक्वणः कामिनीशो व्रजे
कामीनीमोहदः कामरूपः ।
रसाक्तो रसी रासकृद्राधिकेशो
महामोहदो मानिनीमानहारी ॥ ३८॥
विहारी वरो मानहृद्राधिकांगो
धराद्वीपगः खण्डचारी वनस्थः ।
प्रियो ह्यष्टवक्रर्षिद्रष्टा सराधो
महामोक्षदः पद्महारी प्रियार्थः ॥ ३९॥
वटस्थः सुरश्चन्दनाक्तः प्रसक्तो
व्रजं ह्यागतो राधया मोहिनीषु ।
महामोहकृद्गोपिकागीतकीर्ती रसस्थः
पटी दुःखिताकामिनीशः ॥ ४०॥
वने
गोपिकात्यागकृत्पादचिह्नप्रदर्शी कलाकारकः काममोही ।
वशी गोपिकामध्यगः पेशवाचः
प्रियाप्रीतिकृद्रासरक्तः कलेशः ॥ ४१॥
रसारक्तचित्तो ह्यनन्तस्वरूपः स्रजा
संवृतो वल्लवीमध्यसंस्थः ।
सुबाहुः सुपादः सुवेशः सुकेशो व्रजेशः
सखा वल्लभेशः सुदेशः ॥ ४२॥
क्वणत्किङ्किणीजालभृन्नूपुराढ्यो
लसत्कङ्कणो ह्यङ्गदी हारभारः ।
किरीटी
चलत्कुण्डलश्चाङ्गुलीयस्फुरत्कौस्तुभो मालतीमण्डिताङ्गः ॥ ४३॥
महानृत्यकृद्रासरङ्गः
कलाढ्यश्चलद्धारभो भामिनीनृत्ययुक्तः ।
कलिन्दाङ्गजाकेलिकृत्कुंकुमश्रीः सुरैर्नायिकानायकैर्गीयमानः
॥ ४४॥
सुखाढ्यस्तु राधापतिः पूर्णबोधः
कटाक्षस्मितीवल्गितभ्रूविलासः ।
सुरम्योऽलिभिः कुन्तलालोलकेशः
स्फुरद्बर्हकुन्दस्रजा चारुवेषः ॥ ४५॥
महासर्पतो नन्दरक्षापरांघ्रिः सदा
मोक्षदः शङ्खचूडप्रणाशी ।
प्रजारक्षको गोपिकागीयमानः
ककुद्मिप्रणाशप्रयासः सुरेज्यः ॥ ४६॥
कलिः क्रोधकृत्कंसमन्त्रोपदेष्टा
तथाक्रूरमन्त्रोपदेशी सुरार्थः ।
बली केशिहा पुष्पवर्षोऽमलश्रीस्तथा
नारदाद्दर्शितो व्योमहन्ता ॥ ४७॥
तथाक्रूरसेवापरः सर्वदर्शी व्रजे
गोपिकामोहदः कूलवर्ती ।
सतीराधिकाबोधदः स्वप्नकर्ता विलासी
महामोहनाशी स्वबोधः ॥ ४८॥
व्रजे शापतस्त्यक्तराधासकाशो
महामोहदावाग्निदग्धापतिश्च ।
सखीबन्धनान्मोहिताक्रूर
आरात्सखीकङ्कणैस्ताडिताक्रूररक्षी ॥ ४९॥
रथस्थो व्रजे राधया कृष्णचन्द्रः
सुगुप्तो गमी गोपकैश्चारुलीलः ।
जलेऽक्रूरसन्दर्शितो दिव्यरूपो
दिदृक्षुः पुरीमोहिनीचित्तमोही ॥ ५०॥
तथा रङ्गकारप्रणाशी सुवस्त्रःस्रजी
वायकप्रीतिकृन्मालिपूज्यः ।
महाकीर्तिदश्चापि कुब्जाविनोदी
स्फुरच्चण्डकोदण्डरुग्णप्रचण्डः ॥ ५१॥
भटार्तिप्रदः कंसदुःस्वप्नकारी
महामल्लवेषः करीन्द्रप्रहारी ।
महामात्यहा रङ्गभूमिप्रवेशी रसाढ्यो
यशःस्पृग्बली वाक्पटुश्रीः ॥ ५२॥
महामल्लहा युद्धकृत्स्त्रीवचोऽर्थी
धरानायकः कंसहन्ता यदुःप्राक् ।
सदा पूजितो ह्युग्रसेनप्रसिद्धो
धराराज्यदो यादवैर्मण्डिताङ्गः ॥ ५३॥
गुरोः पुत्रदो ब्रह्मविद्ब्रह्मपाठी
महाशङ्खहा दण्डधृक्पूज्य एव ।
व्रजे ह्युद्धवप्रेषितो गोपमोही
यशोदाघृणी गोपिकाज्ञानदेशी ॥ ५४॥
सदा स्नेहकृत्कुब्जया
पूजिताङ्गस्तथाक्रूरगेहंगमी मन्त्रवेत्ता ।
तथा पाण्डवप्रेषिताक्रूर एव सुखी
सर्वदर्शी नृपानन्दकारी ॥ ५५॥
महाक्षौहिणीहा जरासन्धमानी नृपो
द्वारकाकारको मोक्षकर्ता ।
रणी सार्वभौमस्तुतो ज्ञानदाता
जरासन्धसङ्कल्पकृद्धावदंघ्रिः ॥ ५६॥
नगादुत्पतद्द्वारिकामध्यवर्ती तथा
रेवतीभूषणस्तालचिह्नः ।
यदू रुक्मिणीहारकश्चैद्यवेद्यस्तथा
रुक्मिरूपप्रणाशी सुखाशी ॥ ५७॥
अनन्तश्च मारश्च कार्ष्णिश्च कामो
मनोजस्तथा शम्बरारी रतीशः ।
रथी मन्मथो मीनकेतुः शरी च स्मरो
दर्पको मानहा पञ्चबाणः ॥ ५८॥
प्रियः सत्यभामापतिर्यादवेशोऽथ
सत्राजितप्रेमपूरः प्रहासः ।
महारत्नदो जाम्बवद्युद्धकारी
महाचक्रधृक्खड्गधृग्रामसंधिः ॥ ५९॥
विहारस्थितः पाण्डवप्रेमकारी कलिन्दाङ्गजामोहनः
खाण्डवार्थी ।
सखा फाल्गुनप्रीतिकृन्नग्रकर्ता तथा
मित्रविन्दापतिः क्रीडनार्थी ॥ ६०॥
नृपप्रेमकृद्गोजितः सप्तरूपोऽथ
सत्यापतिः पारिबर्ही यथेष्टः ।
नृपैः संवृतश्चापि भद्रापतिस्तु
विलासी मधोर्मानिनीशो जनेशः ॥ ६१॥
शुनासीरमोहावृतः सत्सभार्यः सतार्क्ष्यो
मुरारिः पुरीसङ्घभेत्ता ।
सुवीरःशिरःखण्डनो दैत्यनाशी शरी
भौमहा चण्डवेगः प्रवीरः ॥ ६२॥
धरासंस्तुतः कुण्डलच्छत्रहर्ता
महारत्नयुग् राजकन्याभिरामः ।
शचीपूजितः शक्रजिन्मानहर्ता तथा
पारिजातापहारी रमेशः ॥ ६३॥
गृही चामरैः शोभितो
भीष्मकन्यापतिर्हास्यकृन्मानिनीमानकारी ।
तथा रुक्मिणीवाक्पटुः प्रेमगेहः
सतीमोहनः कामदेवापरश्रीः ॥ ६४॥
सुदेष्णः सुचारुस्तथा
चारुदेष्णोऽपरश्चारुदेहो बली चारुगुप्तः ।
सुती भद्रचारुस्तथा चारुचन्द्रो
विचारुश्च चारू रथी पुत्ररूपः ॥ ६५॥
सुभानुः प्रभानुस्तथा
चन्द्रभानुर्बृहद्भानुरेवाष्टभानुश्च साम्बः ।
सुमित्रः क्रतुश्चित्रकेतुस्तु
वीरोऽश्वसेनो वृषश्चित्रगुश्चन्द्रबिम्बः ॥ ६६॥
विशङ्कुर्वसुश्च श्रुतो भद्र एकः
सुबाहुर्वृषः पूर्णमासस्तु सोमः ।
वरः शान्तिरेव प्रघोषोऽथ सिंहो बलो
ह्यूर्ध्वगोवर्धनोन्नाद एव ॥ ६७॥
महाशो वृकः पावनो वह्निमित्रः
क्षुधिर्हर्षकश्चानिलोऽमित्रजिच्च ।
सुभद्रो जयः सत्यको वाम आयुर्यदुः
कोटिशः पुत्रपौत्रप्रसिद्धः ॥ ६८॥
हली दण्डधृग्रुक्मिहा
चानिरुद्धस्तथा राजभिर्हास्यगो द्यूतकर्ता ।
मधुर्ब्रह्मसूर्बाणपुत्रीपतिश्च
महासुन्दरः कामपुत्रो बलीशः ॥ ६९॥
महादैत्यसंग्रामकृद्यादवेशः
पुरीभञ्जनो भूतसंत्रासकारी ।
मृधी रुद्रजिद्रुद्रमोही मृधार्थी
तथा स्कन्दजित्कूपकर्णप्रहारी ॥ ७०॥
धनुर्भञ्जनो बाणमानप्रहारी
ज्वरोत्पत्तिकृत्संस्तुतस्तु ज्वरेण ।
भुजाच्छेदकृद्बाणसंत्रासकर्ता
मृडप्रस्तुतो युद्धकृद्भूमिभर्ता ॥ ७१॥
नृगं मुक्तिदो ज्ञानदो यादवानां
रथस्थो व्रजप्रेमपो गोपमुख्यः ।
महासुन्दरीक्रीडितः पुष्पमाली
कलिन्दाङ्गजाभेदनः सीरपाणिः ॥ ७२॥
महादंभिहा पौण्ड्रमानप्रहारो
शिरश्छेदकः काशिराजप्रणाशी ।
महाक्षौहिणीध्वंसकृच्चक्रहस्तः
पुरीदीपको राक्षसीनाशकर्ता ॥ ७३॥
अनन्तो महीध्रः फणी वानरारिः
स्फुरद्गौरवर्णो महापद्मनेत्रः ।
कुरुग्रामतिर्यग्गतो गौरवार्थः
स्तुतः कौरवैः पारिबर्ही ससाम्बः ॥ ७४॥
महावैभवी द्वारकेशो
ह्यनेकश्चलन्नारदः श्रीप्रभादर्शकस्तु ।
महर्षिस्तुतो ब्रह्मदेवः पुराणः सदा
षोडशस्त्रीसहस्रस्थितश्च ॥ ७५॥
गृही लोकरक्षापरो लोकरीतिः
प्रभुर्ह्युग्रसेनावृतो दुर्गयुक्तः ।
तथा राजदूतस्तुतो बन्धभेत्ता स्थितो
नारदप्रस्तुतः पाण्डवार्थी ॥ ७६॥
नृपैर्मन्त्रकृत्
ह्युद्धवप्रीतिपूर्णो वृतः पुत्रपौत्रैः कुरुग्रामगन्ता ।
घृणी धर्मराजस्तुतो भीमयुक्तः
परानन्ददो मन्त्रकृद्धर्मजेन ॥ ७७॥
दिशाजिद्बली राजसूयार्थकारी
जरासन्धहा भीमसेनस्वरूपः ।
तथा विप्ररूपो गदायुद्धकर्ता
कृपालुर्महाबन्धनच्छेदकारी ॥ ७८॥
नृपैः संस्तुतो ह्यागतो धर्मगेहं
द्विजैः संवृतो यज्ञसंभारकर्ता ।
जनैः पूजितश्चैद्यदुर्वाक्क्षमश्च
महामोहदोऽरेः शिरश्च्छेदकारी ॥ ७९॥
महायज्ञशोभाकरश्चक्रवर्ती
नृपानन्दकारी विहारी सुहारी ।
सभासंवृतो मानहृत्कौरवस्य तथा
शाल्वसंहारको यानहन्ता ॥ ८०॥
सभोजश्च वृष्णिर्मधुःशूरसेनो
दशार्हो यदुर्ह्यंधको लोकजिच्च ।
द्युमन्मानहा वर्मधृग्दिव्यशस्त्री
स्वबोधः सदा रक्षको दैत्यहन्ता ॥ ८१॥
तथा दन्तवक्त्रप्रणाशी
गदाधृग्जगत्तीर्थयात्राकरः पद्महारः ।
कुशी सूतहन्ता कृपाकृत्स्मृतीशोऽमलो
बल्वलाङ्गप्रभाखण्डकारी ॥ ८२॥
तथा भीमदुर्योधनज्ञानदातापरो
रोहिणीसौख्यदो रेवतीशः ।
महादानकृद्विप्रदारिद्र्यहा च सदा
प्रेमयुक् श्रीसुदाम्नः सहायः ॥ ८३॥
तथा भार्गवक्षेत्रगन्ता सरामोऽथ
सूर्योपरागश्रुतः सर्वदर्शी ।
महासेनया चास्थितः स्नानयुक्तो
महादानकृन्मित्रसम्मेलनार्थी ॥ ८४॥
तथा पाण्डवप्रीतिदः कुन्तिजार्थी
विशालाक्षमोहप्रदः शान्तिदश्च ।
वटे राधिकाराधनो गोपिकाभिः
सखीकोटिभी राधिकाप्राणनाथः ॥ ८५॥
सखीमोहदावाग्निहा वैभवेशः
स्फुरत्कोटिकन्दर्पलीलाविशेषः ।
सखीराधिकादुःखनाशी विलासी सखीमध्यगः
शापहा माधवीशः ॥ ८६॥
शतं वर्षविक्षेपहृन्नन्दपुत्रस्तथा
नन्दवक्षोगतः शीतलाङ्गः ।
यशोदाशुचः स्नानकृक्द्दुःखहन्ता
सदागोपिकानेत्रलग्नो व्रजेशः ॥ ८७॥
स्तुतो देवकीरोहिणीभ्यां सुरेन्द्रो
रहो गोपिकाज्ञानदो मानदश्च ।
तथा संस्तुतः पट्टराज्ञीभिराराद्धनी
लक्ष्मणाप्राणनाथः सदा हि ॥ ८८॥
त्रिभिः षोडशस्त्रीसहस्रस्तुताङ्गः
शुको व्यासदेवः सुमन्तुः सितश्च ।
भरद्वाजको गौतमो ह्यासुरिः
सद्वसिष्ठः शतानन्द आद्यः सरामः ॥ ८९॥
मुनिः पर्वतो नारदो धौम्य
इन्द्रोऽसितोऽत्रिर्विभाण्डः प्रचेताः कृपश्च ।
कुमारः सनन्दस्तथा याज्ञवल्क्यः
ऋभुर्ह्यङ्गिरा देवलः श्रीमृकण्डः ॥ ९०॥
मरीची क्रतुश्चौर्वको लोमशश्च
पुलस्त्यो भृगुर्ब्रह्मरातो वसिष्ठः ।
नरश्चापि नारायणो दत्त एव तथा
पाणिनिः पिङ्गलो भाष्यकारः ॥ ९१॥
सकात्यायनो विप्रपातञ्जलिश्चाथ
गर्गो गुरुर्गीष्पतिर्गौतमीशः ।
मुनिर्जाजलिः कश्यपो गालवश्च द्विजः
सौभरिश्चर्ष्यश्रृङ्गश्च कण्वः ॥ ९२॥
द्वितश्चैकतश्चापि जातूद्भवश्च घनः
कर्दमस्यात्मजः कर्दमश्च ।
तथा भार्गवः कौत्सकश्चारुणस्तु
शुचिः पिप्पलादो मृकण्डस्य पुत्रः ॥ ९३॥
सपैलःस्तथा जैमिनिः सत्सुमन्तुर्वरो
गाङ्गलः स्फोटगेहः फलादः ।
सदा पूजितो ब्राह्मणः सर्वरूपी
मुनीशो महामोहनाशोऽमरः प्राक् ॥ ९४॥
मुनीशस्तुतः शौरिविज्ञानदाता
महायज्ञकृच्चाभृतस्नानपूज्यः ।
सदा दक्षिणादो नृपैः पारिबर्ही
व्रजानन्ददो द्वारिकागेहदर्शी ॥ ९५॥
महाज्ञानदो देवकीपुत्रदश्चासुरैः
पूजितो हीन्द्रसेनादृतश्च ।
सदा फाल्गुनप्रीतिकृत्
सत्सुभद्राविवाहे द्विपाश्वप्रदो मानयानः ॥ ९६॥
भुवं दर्शको मैथिलेन प्रयुक्तो
द्विजेनाशु राज्ञास्थितो ब्राह्मणैश्च ।
कृती मैथिले लोकवेदोपदेशी
सदावेदवाक्यैः स्तुतः शेषशायी ॥ ९७॥
परीक्षावृतो ब्राह्मणैश्चामरेषु
भृगुप्रार्थितो दैत्यहा चेशरक्षी ।
सखा चार्जुनस्यापि मानप्रहारी तथा
विप्रपुत्रप्रदो धामगन्ता ॥ ९८॥
विहारस्थितो माधवीभिः कलाङ्गो
महामोहदावाग्निदग्धाभिरामः ।
यदुर्ह्युग्रसेनो नृपोऽक्रूर एव तथा
चोद्धवः शूरसेनश्च शूरः ॥ ९९॥
हृदीकश्च सत्राजितश्चाप्रमेयो गदः
सारणः सात्यकिर्देवभागः ।
तथा मानसः सञ्जयः श्यामकश्च वृको
वत्सको देवको भद्रसेनः ॥ १००॥
नृपोऽजातशत्रुर्जयो माद्रिपुत्रोऽथ
भीमः कृपो बुद्धिचक्षुश्च पाण्डुः ।
तथा शन्तनुर्देवबाह्लीक एवाथ
भूरिश्रवाश्चित्रवीर्यो विचित्रः ॥ १०१॥
शलश्चापि दुर्योधनः कर्ण एव
सुभद्रासुतो विष्णुरातः प्रसिद्धः ।
सजन्मेजयः पाण्डवः कौरवश्च तथा
सर्वतेजा हरिः सर्वरूपी ॥ १०२॥
व्रजं ह्यागतो राधया पूर्णदेवो वरो
रासलीलापरो दिव्यरूपी ।
रथस्थो नवद्वीपखण्डप्रदर्शी
महामानदो गोपजो विश्वरूपः ॥ १०३॥
सनन्दश्च नन्दो वृषो वल्लभेशः
सुदामार्जुनः सौबलस्तोक एव ।
सकृष्णो शुकः सद्विशालर्षभाख्यः
सुतेजस्विकः कृष्णमित्रो वरूथः ॥ १०४॥
कुशेशो वनेशस्तु वृन्दावनेशस्तथा
मथुरेशाधिपो गोकुलेशः ।
सदा गोगणो गोपतिर्गोपिकेशोऽथ
गोवर्धनो गोपतिः कन्यकेशः ॥ १०५॥
अनादिस्तु चात्मा हरिः पूरुषश्च परो
निर्गुणो ज्योतिरूपो निरीहः ।
सदा निर्विकारः प्रपञ्चात् परश्च
ससत्यस्तु पूर्णः परेशस्तु सूक्ष्मः ॥ १०६॥
द्वारकायां तथा चाश्वमेधस्य कर्ता
नृपेणापि पौत्रेण भूभारहर्ता ।
पुनः श्रीव्रजे रासरङ्गस्य कर्ता
हरी राधया गोपिकानां च भर्ता ॥ १०७॥
सदैकस्त्वनेकः प्रभापूरिताङ्गस्तथा
योगमायाकरः कालजिच्च ।
सुदृष्टिर्महत्तत्त्वरूपः प्रजातः
सकूटस्थ आद्याङ्कुरो वृक्षरूपः ॥ १०८॥
विकारस्थितश्च ह्यहङ्कार एव
सवैकारिकस्तैजसस्तामसश्च ।
मनो दिक्समीरस्स्तु सूर्यः
प्रचेतोऽश्विवह्निश्च शक्रो ह्युपेन्द्रस्तु मित्रः ॥ १०९॥
श्रुतिस्त्वक्च
दृग्घ्राणजिह्वागिरश्च भुजामेढ्रकः पायुरङ्घ्रिः सचेष्टः ।
धराव्योमवार्मारुतश्चैव तेजोऽथ रूपं
रसो गन्धशब्दस्पृशश्च ॥ ११०॥
सचित्तश्च बुद्धिर्विराट्
कालरूपस्तथा वासुदेवो जगत्कृद्धताङ्गः ।
तथाण्डे शयानः सशेषः सहस्रस्वरूपो
रमानाथ आद्योऽवतारः ॥ १११॥
सदा सर्गकृत्पद्मजः कर्मकर्ता तथा
नाभिपद्मोद्भवो दिव्यवर्णः ।
कविर्लोककृत्कालकृत्सूर्यरूपो
निमेषो भवो वत्सरान्तो महीयान् ॥ ११२॥
तिथिर्वारनक्षत्रयोगाश्च लग्नोऽथ मासो घटी च क्षणः काष्ठिका च ।
मुहूर्तस्तु यामो ग्रहा यामिनी च
दिनं चर्क्षमालागतो देवपुत्रः ॥ ११३॥
कृतो द्वापरस्तु त्रितस्तत्कलिस्तु
सहस्रं युगस्तत्र मन्वन्तरश्च ।
लयः पालनं सत्कृतिस्तत्परार्धं
सदोत्पत्तिकृद्द्व्यक्षरो ब्रह्मरूपः ॥ ११४॥
तथा रुद्रसर्गस्तु कौमारसर्गो मुनेः
सर्गकृद्देवकृत्प्राकृतस्तु ।
श्रुतिस्तु स्मृतिः स्तोत्रमेवं
पुराणं धनुर्वेद इज्याथ गान्धर्ववेदः ॥ ११५॥
विधाता च नारायणः सत्कुमारो
वराहस्तथा नारदो धर्मपुत्रः ।
मुनिः कर्दमस्यात्मजो दत्त एव
सयज्ञोऽमरो नाभिजः श्रीपृथुश्च ॥ ११६॥
सुमत्स्यश्च कूर्मश्च धन्वन्तरिश्च
तथा मोहिनी नारसिंहः प्रतापी ।
द्विजो वामनो रेणुकापुत्ररूपो
मुनिर्व्यासदेवः श्रुतिस्तोत्रकर्ता ॥ ११७॥
धनुर्वेदभाग्रामचन्द्रावतारः
ससीतापतिर्भारहृद्रावणारिः ।
नृपः सेतुकृद्वानरेन्द्रप्रहारी
महायज्ञकृद्राघवेन्द्रः प्रचण्डः ॥ ११८॥
बलः कृष्णचन्द्रस्तु कल्किः
कलेशस्तु बुद्धः प्रसिद्धस्तु हंसःस्तथाश्वः ।
ऋषीन्द्रोऽजितो देववैकुण्ठनाथो
ह्यमूर्तिश्च मन्वन्तरस्यावतारः ॥ ११९॥
गजोद्धारणः श्रीमनुर्ब्रह्मपुत्रो
नृपेन्द्रस्तु दुष्यन्तजो दानशीलः ।
सद्दृष्टः श्रुतो भूत एवं
भविष्यद्भवत्स्थावरो जङ्गमोऽल्पं महच्च ॥ १२०॥
इति श्रीभुजङ्गप्रयातेन चोक्तं हरे
राधिकेशस्य नाम्नां सहस्रम् ।
पठेद्भक्तियुक्तो द्विजः सर्वदा हि
कृतार्थो भवेत्कृष्णचन्द्रस्वरूपः ॥ १२१॥
महापापराशिं भिनत्ति श्रुतं यत्सदा
वैष्णवानां प्रियं मङ्गलं च ।
इदं रासराकादिने चाश्विनस्य तथा
कृष्णजन्माष्टमीमध्य एव ॥ १२२॥
तथा चैत्रमासस्य राकादिने वाथ
भाद्रे च राधाष्टमी सद्दिने वा ।
पठेद्भक्तियुक्तस्त्विदं पूजयित्वा
चतुर्धा सुमुक्तिं तनोति प्रशस्तः ॥ १२३॥
पठेत्कृष्णपुर्यां च वृन्दावने वा
व्रजे गोकुले वापि वंशीवटे वा ।
वटे वाक्षये वा तटे सूर्यपुत्र्याः
स भक्तोऽथ गोलोकधाम प्रयाति ॥ १२४॥
भजेद्भक्तिभावाच्च सर्वत्रभूमौ हरिं
कुत्र चानेन गेहे वने वा ।
जहाति क्षणं नो हरिस्तं च भक्तं
सुवश्यो भवेन्माधवः कृष्णचन्द्रः ॥ १२५॥
सदा गोपनीयं सदा गोपनीयं सदा
गोपनीयं प्रयत्नेन भक्तैः ।
प्रकाश्यं न नाम्नां सहस्रं हरेश्च
न दातव्यमेवं कदा लम्पटाय ॥ १२६॥
इदं पुस्तकं यत्र गेहेऽपि
तिष्ठेद्वसेद्राधिकानाथ आद्यस्तु तत्र ।
तथा षड्गुणाः सिद्धयो द्वादशापि
गुणैस्त्रिंशद्भिर्लक्षणैस्तु प्रयान्ति ॥ १२७॥
इति श्रीमद्गर्गसंहितायां
अश्वमेधखण्डे श्रीकृष्णसहस्रनामवर्णनं
नामैकोनषष्टितमोऽध्यायः ॥ दशमखण्डे अध्याय ५९॥
0 Comments