पंचमुखहनुमत्कवचम्
हनुमान जी की कवच श्रृंखला में इससे
पूर्व आपने पञ्चमुखि वीरहनूमत्कवचम् पढ़ा । अब इसी पञ्चमुखि क्रम में पंचमुखहनुमत्कवचम्
दिया जा रहा है । जिसे की सुदर्शनसंहिता से लिया गया है ।जिसके लिए कहा गया है कि
इसके पाठ से निर्बल, रोगी व महाव्याध्याधि
से पीडित भी महाबलवान हो जाता है।
अथ श्रीपञ्चमुखीहनुमत्कवचम्
श्रीपार्वत्युवाच ।
सदाशिव वरस्वामिञ्ज्ञानद प्रियकारकः
।
कवचादि मया सर्वं देवानां संश्रुतं
प्रिय ॥ १॥
इदानीं श्रोतुमिच्छामि कवचं
करुणानिधे ।
वायुसूनोर्वरं येन नान्यदन्वेषितं
भवेत् ।
साधकानां च सर्वस्वं हनुमत्प्रीति
वर्द्धनम् ॥ २॥
श्रीशिव उवाच ।
देवेशि दीर्घनयने दीक्षादीप्तकलेवरे
।
मां पृच्छसि वरारोहे न कस्यापि
मयोदितम् ॥ ३॥
कथं वाच्यं हनुमतः कवचं कल्पपादपम्
।
स्रीरूपा त्वमिदं
नानाकुटमण्डितविग्रहम् ॥ ४॥
गह्वरं गुरुगम्यं च यत्र कुत्र
वदिष्यसि ।
तेन प्रत्युत पापानि जायन्ते
गजगामिनि ॥ ५॥
अतएव महेशानि नो वाच्यं कवचं प्रिये
॥ ६॥
श्रीपार्वत्युवाच ।
वदान्यस्य वचोनेदं नादेयं जगतीतले ।
स्वं वदान्यावधिः प्राणनाथो मे प्रियकृत्सदा
॥ ७॥
मह्यं च किं न दत्तं ते तदिदानीं
वदाम्यहम ।
गणपं शाक्त सौरे च शैवं
वैष्णवमुत्तमम् ॥ ८॥
मन्त्रयन्त्रादिजालं हि मह्यं
सामान्यतस्त्वया ।
दत्तं विशेषतो यद्यत्तत्सर्वं
कथयामि ते ॥ ९॥
श्रीराम तारको मन्त्रः कोदण्डस्यापि
मे प्रियः ।
नृहरेः सामराजो हि कालिकाद्याः
प्रियंवद ॥ १०॥
दशाविद्याविशेषेण
षोडशीमन्त्रनायिकाः ।
दक्षिणामूर्तिसंज्ञोऽन्यो
मन्त्रराजो धरापते ॥ ११॥
सहस्रार्जुनकस्यापि मन्त्रा येऽन्ये
हनूमतः ।
ये ते ह्यदेया देवेश तेऽपि मह्यं
समर्पिताः ॥ १२॥
किं बहूक्तेन गिरिश
प्रेमयान्त्रितचेतसा ।
अर्धाङ्गमपि मह्यं ते दत्तं किं ते
वदाम्यहम् ।
स्त्रीरूपं मम जीवेश पूर्वं तु न
विचारितम् ॥ १३॥
श्रीशिव उवाच ।
सत्यं सत्यं वरारोहे सर्वं दत्तं
मया तव ।
परं तु गिरिजे तुभ्यं कथ्यते श्रुणु
साम्प्रतम् ॥ १४॥
कलौ पाखण्डबहुला नानावेषधरा नराः ।
ज्ञानहीना लुब्धकाश्च
वर्णाश्रमबहिष्कृताः ॥ १५॥
वैष्णवत्वेन विख्याताः शैवत्वेन
वरानन ।
शाक्तत्वेन च देवेशि सौरत्वेनेतरे
जनाः ॥ १६॥
गाणपत्वेन गिरिजे
शास्त्रज्ञानबहिष्कृताः ।
गुरुत्वेन समाख्याता विचरिष्यन्ति
भूतले ॥ १७॥
ते शिष्यसङ्ग्रहं कर्तुमुद्युक्ता
यत्र कुत्राचित् ।
मन्त्राद्युच्चारणे तेषां नास्ति
सामर्थ्यमम्बिके ॥ १८॥
तच्छिष्याणां च गिरिजे तथापि
जगतीतले ।
पठन्ति पाठयिष्यति विप्रद्वेषपराः
सदा ॥ १९॥
द्विजद्वेषपराणां हि नरके पतनं
धुवम् ।
प्रकृतं वच्मि गिरिजे यन्मया
पूर्वमीरितम् ॥ २०॥
नानारूपमिदं नानाकूटमण्डितविग्रहम्
।
तत्रोत्तरं महेशाने शृणु यत्नेन
साम्प्रतम् ॥ २१॥
तुभ्यं मया यदा देवि वक्तव्यं कवचं
शुभम् ।
नानाकूटमयं पश्चात्त्वयाऽपि प्रेमतः
प्रियम् ॥ २२॥
वक्तव्यं कत्रचित्तत्तु भुवने
विचरिष्यति ।
विश्वान्तःपातिनां भद्रे यदि
पुण्यवतां सताम् ॥ २३॥
सत्सम्प्रदायशुद्धानां
दीक्षामन्त्रवतां प्रिये ।
ब्राह्मणाः क्षत्रिया वैश्या
विशेषेण वरानने ॥ २४॥
उचारणे समर्थानां शास्त्रनिष्ठावतां
सदा ।
हस्तागतं भवेद्भद्रे तदा ते
पुण्यमुत्तमम् ॥ २५॥
अन्यथा शूद्रजातीनां पूर्वोक्तानां
महेश्वरि ।
मुखशुद्धिविहीनानां दाम्भिकानां
सुरेश्वरि ॥ २६॥
यदा हस्तगतं तत्स्यात्तदा पापं
महत्तव ।
तस्माद्विचार्यदेवेशि
ह्यधिकारिणमम्बिके ॥ २७॥
वक्तव्यं नात्र सन्देहो ह्यन्यथा
निरयं व्रजेत् ।
किं कर्तव्यं मया तुभ्यमुच्यते
प्रेमतः प्रिये ।
त्वयापीदं विशेषेण गेपनीयं
स्वयोनिवत् ॥ २८॥
ॐ श्री पञ्चवदनायाञ्जनेयाय नमः । ॐ
अस्य श्री
पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा
ऋषिः ।
गायत्रीछन्दः । पञ्चमुखविराट्
हनुमान्देवता । ह्रीं बीजम् ।
श्रीं शक्तिः । क्रौं कीलकम् ।
क्रूं कवचम् । क्रैं अस्त्राय फट् ।
इति दिग्बन्धः । श्री गरुड उवाच ।
अथ ध्यानं प्रवक्ष्यामि शृणुसर्वाङ्गसुन्दरि
।
यत्कृतं देवदेवेन ध्यानं हनुमतः
प्रियम् ॥ १॥
पञ्चवक्त्रं महाभीमं
त्रिपञ्चनयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं
सर्वकामार्थसिद्धिदम् ॥ २॥
पूर्वं तु वानरं वक्त्रं
कोटिसूर्यसमप्रभम् ।
दन्ष्ट्राकरालवदनं
भृकुटीकुटिलेक्षणम् ॥ ३॥
अस्यैव दक्षिणं वक्त्रं नारसिंहं
महाद्भुतम् ।
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥
४॥
पश्चिमं गारुडं वक्त्रं वक्रतुण्डं
महाबलम् ॥
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥
५॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं
नभोपमम् ।
पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥
६॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं
परम् ।
येन वक्त्रेण विप्रेन्द्र तारकाख्यं
महासुरम् ॥ ७॥
जघान शरणं तत्स्यात्सर्वशत्रुहरं
परम् ।
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं
दयानिधिम् ॥ ८॥
खड्गं त्रिशूलं खट्वाङ्गं
पाशमङ्कुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं
कमण्डलुम् ॥ ९॥
भिन्दिपालं ज्ञानमुद्रां
दशभिर्मुनिपुङ्गवम् ।
एतान्यायुधजालानि धारयन्तं
भजाम्यहम् ॥ १०॥
प्रेतासनोपविष्टं तं
सर्वाभरणभूषितम् ।
दिव्यमाल्याम्बरधरं
दिव्यगन्धानुलेपनम् ॥ ११॥
सर्वाश्चर्यमयं देवं
हनुमद्विश्वतोमुखम् ।
पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं
शशाङ्कशिखरं कपिराजवर्यम ।
पीताम्बरादिमुकुटैरूपशोभिताङ्गं
पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥
१२॥
मर्कटेशं महोत्साहं सर्वशत्रुहरं
परम् ।
शत्रु संहर मां रक्ष
श्रीमन्नापदमुद्धर ॥ १३॥
ॐ हरिमर्कट मर्कट मन्त्रमिदं
परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं
यदि मुञ्चति मुञ्चति वामलता ॥ १४॥
ॐ हरिमर्कटाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय
पूर्वकपिमुखाय
सकलशत्रुसंहारकाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय
करालवदनाय
नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय
गरुडाननाय
सकलविषहराय स्वाहा ।
ॐ नमो भगवते
पञ्चवदनायोत्तरमुखायादिवराहाय
सकलसम्पत्कराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय
हयग्रीवाय
सकलजनवशङ्कराय स्वाहा ।
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य
श्रीरामचन्द्र
ऋषिः । अनुष्टुप्छन्दः ।
पञ्चमुखवीरहनुमान् देवता ।
हनुमानिति बीजम् । वायुपुत्र इति
शक्तिः । अञ्जनीसुत इति कीलकम् ।
श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे
जपे विनियोगः ।
इति ऋष्यादिकं विन्यसेत् ॥
ॐ अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां
नमः ।
इति करन्यासः ॥
ॐ अञ्जनीसुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पञ्चमुखहनुमते अस्त्राय फट् ।
पञ्चमुखहनुमते स्वाहा ।
इति दिग्बन्धः ॥
अथ ध्यानम् ।
वन्दे
वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं
देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं
हलं
खट्वाङ्गं फणिभूरुहं दशभुजं
सर्वारिवीरापहम् ।
अथ मन्त्रः ।
ॐ श्रीरामदूतायाञ्जनेयाय
वायुपुत्राय महाबलपराक्रमाय
सीतादुःखनिवारणाय लङ्कादहनकारणाय
महाबलप्रचण्डाय
फाल्गुनसखाय
कोलाहलसकलब्रह्माण्डविश्वरूपाय
सप्तसमुद्रनिर्लङ्घनाय
पिङ्गलनयनायामितविक्रमाय
सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय
दृष्टिनिरालङ्कृताय
सञ्जीविनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदाय
दशकण्ठविध्वंसनाय रामेष्टाय
महाफाल्गुनसखाय सीतासहित-
रामवरप्रदाय
षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।
ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट्
स्वाहा ।
ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट्
स्वाहा ।
ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें
मारणाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं
आकर्षितसकलसम्पत्कराय स्वाहा ।
ॐ हरिमर्कटमर्कटाय धंधंधंधंधं
शत्रुस्तम्भनाय स्वाहा ।
ॐ टंटंटंटंटं कूर्ममूर्तये
पञ्चमुखवीरहनुमते
परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा ।
ॐ कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं
तंथंदंधंनं पंफंबंभंमं यंरंलंवं
शंषंसंहं
ळङ्क्षं स्वाहा ।
इति दिग्बन्धः ।
ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते
टंटंटंटंटं
सकलशत्रुसंहरणाय स्वाहा ।
ॐ दक्षिणमुखाय पञ्चमुखहनुमते
करालवदनाय नरसिंहाय
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं
ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ॐ पश्चिममुखाय गरुडाननाय
पञ्चमुखहनुमते मंमंमंमंमं
सकलविषहराय स्वाहा ।
ॐ उत्तरमुखायादिवराहाय लंलंलंलंलं
नृसिंहाय नीलकण्ठमूर्तये
पञ्चमुखहनुमते स्वाहा ।
ॐ उर्ध्वमुखाय हयग्रीवाय
रुंरुंरुंरुंरुं रुद्रमूर्तये
सकलप्रयोजननिर्वाहकाय स्वाहा ।
ॐ अञ्जनीसुताय वायुपुत्राय महाबलाय
सीताशोकनिवारणाय
श्रीरामचन्द्रकृपापादुकाय
महावीर्यप्रमथनाय ब्रह्माण्डनाथाय
कामदाय पञ्चमुखवीरहनुमते स्वाहा ।
भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रह-
परयन्त्रपरतन्त्रोच्चटनाय स्वाहा ।
सकलप्रयोजननिर्वाहकाय
पञ्चमुखवीरहनुमते
श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजं
स्वाहा ।
इदं कवचं पठित्वा तु महाकवचं
पठेन्नरः ।
एकवारं जपेत्स्तोत्रं
सर्वशत्रुनिवारणम् ॥ १५॥
द्विवारं तु पठेन्नित्यं
पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेन्नित्यं
सर्वसम्पत्करं शुभम् ॥ १६॥
चतुर्वारं पठेन्नित्यं
सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं
सर्वलोकवशङ्करम् ॥ १७॥
षड्वारं च पठेन्नित्यं
सर्वदेववशङ्करम् ।
सप्तवारं पठेन्नित्यं
सर्वसौभाग्यदायकम् ॥ १८॥
अष्टवारं
पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं
राजभोगमवाप्नुयात् ॥ १९॥
दशवारं पठेन्नित्यं
त्रैलोक्यज्ञानदर्शनम् ।
रुद्रावृत्तिं पठेन्नित्यं
सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २०॥
निर्बलो रोगयुक्तश्च
महाव्याध्यादिपीडितः ।
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥
२१॥
॥ इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपञ्चमुखहनुमत्कवचम् सम्पूर्णम् ॥
0 Comments