आदित्यहृदयम् भविष्योत्तरपुराणान्तर्गतम्
आदित्यहृदयम् स्तोत्रम्
यह सूर्य स्तुति का मन्त्र है। इसके पाठ से आत्म विश्वास बढ़ता है और हर कार्य में
सफलता मिलाता है । यहाँ भविष्योत्तरपुराणान्तर्गतम् आदित्यहृदयम् स्तोत्रम् दिया
जा रहा है । जिसे की श्रीभविष्योत्तरपुराण
में श्रीकृष्ण अर्जुन संवाद के रूप से
दिया गया है ।
अथ भविष्योत्तरपुराणान्तर्गतम् आदित्यहृदयम् स्तोत्रम् ।
शतानीक उवाच
कथमादित्यमुद्यन्तमुपतिष्ठेद्विजोत्तमः
।
एतन्मेब्रूहि
विप्रेन्द्र प्रपद्ये शरणं तव ॥ १॥
सुमन्तुरुवाच
इदमेव पुरा
पृष्टः शङ्खचक्रगदाधरः ।
प्रणम्य शिरसा
देवमर्जुनेन महात्मना ॥ २॥
कुरुक्षेत्रे
महाराजप्रवृत्ते भारते रणे ।
कृष्णनाथं
समासाद्य प्रार्थयित्वाब्रवीदिदम् ॥ ३॥
अर्जुन उवाच
ज्ञानं च
धर्मशास्त्राणां गुह्याद्गुह्यतरं तथा ।
मम कृष्ण
परिज्ञातं वाङ्मयं सचराचरम् ॥ ४॥
सूर्यस्तुतिमयं
न्यासं वक्तुमर्हसि माधव ।
भक्त्या
पृच्छामि देवेश कथयस्व प्रसादतः ॥ ५॥
सूर्यभक्तिं
करिष्यामि कथं सूर्यं प्रपूजयेत् ।
तदहं
श्रोतुमिच्छामि त्वत्प्रसादेन यादव ॥ ६॥
श्रीभगवानुवाच
रुद्रादिदैवतैः
सर्वैः पृष्टेन कथितं मया ।
वक्ष्येऽहं
सूर्यविन्यासं श्रृणु पाण्डव यत्नतः ॥ ७॥
अस्माकं
यत्त्वया पृष्टमेकचित्तो भवार्जुन ।
तदहं
सम्प्रवक्ष्यामि आदिमध्यावसानकम् ॥ ८॥
अर्जुन उवाच
नारायण
सुरश्रेष्ठ पृच्छामि त्वां महायशः ।
कथमादित्यमुद्यन्तमुपतिष्ठेत्सनातनम्
॥ ९॥
श्रीभगवानुवाच
साधु पार्थ
महाबाहो बुद्धिमानसि पाण्डव ।
यन्मां
पृच्छस्युपस्थानं तत्पवित्रं विभावसोः ॥ १०॥
सर्वमङ्गलमाङ्गल्यं
सर्वपापप्रणाशनम् ।
सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम्
॥ ११॥
अमित्रदमनं
पार्थ सङ्ग्रामे जयवर्धनम् ।
वर्धनं
धनपुत्राणामादित्यहृदयं श्रृणु ॥ १२॥
यच्छ्रुत्वा
सर्वपापेभ्यो मुच्यते नात्र संशयः ।
त्रिषु लोकेषु
विख्यातं निःश्रेयसकरं परम् ॥ १३॥
देवदेवं नमस्कृत्य
प्रातरुत्थाय चार्जुन ।
विघ्नान्यनेकरूपाणि
नश्यन्ति स्मरणादपि ॥ १४॥
तस्मात्सर्वप्रयत्नेन
सूर्यमावाहयेत् सदा ।
आदित्यहृदयं
नित्यं जाप्यं तच्छृणु पाण्डव ॥ १५॥
यज्जपान्मुच्यते
जन्तुर्दारिद्र्यादाशु दुस्तरात् ।
लभते च
महासिद्धिं कुष्ठव्याधिविनाशिनीम् ॥ १६॥
अस्मिन्मन्त्रे
ऋषिश्छन्दो देवताशक्तिरेव च ।
सर्वमेव
महाबाहो कथयामि तवाग्रतः ॥ १७॥
मया ते गोपितं
न्यासं सर्वशास्त्रप्रबोधितम् ।
अथ ते
कथयिष्यामि उत्तमं मन्त्रमेव च ॥ १८॥
ॐ अस्य
श्रीआदित्यहृदयस्तोत्रमन्त्रस्य श्रीकृष्ण ऋषिः श्रीसूर्यात्मा त्रिभुवनेश्वरो
देवता अनुष्टुप्छन्दः
हरितहयरथं
दिवाकरं घृणिरिति बीजम् ॐ नमो भगवते जितवैश्वानरजातवेदसे इति शक्तिः ॐ नमो भगवते
आदित्याय नमः इति कीलकम् ॐ अग्निगर्भदेवता इति मन्त्रः ॐ नमो भगवते तुभ्यमादित्याय
नमो नमः श्रीसूर्यनारायणप्रीप्यथं जपे विनियोगः ।
अथ न्यासः
ॐ ह्रां
अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं
तर्जनीभ्यां नमः ।
ॐ ह्रूं
मध्यमाभ्यां नमः ।
ॐ ह्रैं
अनामिकाभ्यां नमः ।
ॐ ह्रौं
कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः
करतलकरपृष्ठाभ्यां नमः ।
ॐ ह्रां
हृदयाय नमः ।
ॐ ह्रीं शिरसे
स्वाहा ।
ॐ ह्रूं शिखाय
वषट् ।
ॐ ह्रैं कवचाय
हुम्
ॐ ह्रौं नेत्रत्रयाय
वौषट् ।
ॐ ह्रः
अस्त्राय फट् ।
ॐ ह्रां ह्रीं
ह्रूं ह्रैं ह्रौं ह्रः इति दिग्बन्धः ॥
अथ ध्यानम्
भास्वद्रत्नाढ्यमौलिः
स्फुरदधररुचा रञ्जितश्चारुकेशो
भास्वान्यो
दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः ।
विश्वाकाशावकाशग्रहपतिशिखरे
भाति यश्चोदयाद्रौ
सर्वानन्दप्रदाता
हरिहरनमितः पातु मां विश्वचक्षुः ॥ १॥
पूर्वमष्टदलं
पद्मं प्रणवादिप्रतिष्ठितम् ।
मायाबीजं
दलाष्टाग्रे यन्त्रमुद्धारयेदिति ॥ २॥
आदित्यं
भास्करं भानुं रविं सूर्यं दिवाकरम् ।
मार्तण्डं
तपनं चेति दलेष्वष्टसु योजयेत् ॥ ३॥
दीप्ता सूक्ष्मा
जया भद्रा विभूतिर्विमला तथा ।
अमोघा
विद्युता चेति मध्ये श्रीः सर्वतो मुखी ॥ ४॥
सर्वज्ञः
सर्वगश्चैव सर्वकारणदेवता ।
सर्वेशं
सर्वहृदयं नमामि सर्वसाक्षिणम् ॥ ५॥
सर्वात्मा
सर्वकर्ता च सृष्टिजीवनपालकः ।
हितः
स्वर्गापवर्गश्च भास्करेश नमोऽस्तु ते ॥ ६॥
इति प्रार्थना
नमो
नमस्तेऽस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे ।
अनन्तशक्तिर्मणिभूषणेन
ददस्व भुक्तिं मम मुक्तिमव्ययाम् ॥ ७॥
अर्कं तु
मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् ।
विन्यसेन्नेत्रयोः
सूर्यं कर्णयोश्च दिवाकरम् ॥ ८॥
नासिकायां
न्यसेद्भानुं मुखे वै भास्करं न्यसेत् ।
पर्जन्यमोष्ठयोश्चैव
तीक्ष्णं जिह्वान्तरे न्यसेत् ॥ ९॥
सुवर्णरेतसं
कण्ठे स्कन्धयोनितग्मतेजसम् ।
बाह्वोस्तु
पूषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥ १०॥
वरुणं दक्षिणे
हस्ते त्वष्टारं वामतः करे ।
हस्तावुष्णकरः
पातु हृदयं पातु भानुमान् ॥ ११॥
उदरे तु यमं
विद्यादादित्यं नाभिमण्डले ।
कट्यां तु
विन्यसेद्धंसं रुद्रमूर्वोस्तु विन्यसेत् ॥ १२॥
जान्वोस्तु
गोपतिं न्यस्य सवितारं जङ्घयोः ।
पादयोश्च
विवस्वन्तं गुल्फयोश्च दिवाकरम् ॥ १३॥
बाह्यतस्तु
तमोध्वंस भगमभ्यन्तरे न्यसेत् ।
सर्वाङ्गेषु
सहस्रांशुं दिग्विदिक्षु भग न्यसेत् ॥ १४॥
इति दिग्बन्धः
एष
आदित्यविन्यासो देवानामपिदुर्लभः ।
इमं भक्त्या
न्यसेत्पार्थ स याति परमां गतिम् ॥ १५॥
कामक्रोधकृतात्पापान्मुच्यते
नात्र संशयः ।
सर्पादपि भयं
नैव सङ्ग्रामेषु पथिष्वपि ॥ १६॥
रिपुसङ्घट्टकालेषु
तथा चोरसमागमे ।
त्रिसन्ध्यं
जपतो न्यास महापातकनाशनम् ॥ १७॥
विस्फोटकसमुत्पन्न
तीव्रज्वरसभुद्भवम् ।
शिरोरोगं
नेत्ररोगं सर्वव्याधिविनाशनम् ॥ १८॥
कुष्ठव्याधिस्तथा
दद्रुरोगाश्च विविधाश्च ये ।
जपमानस्य
नश्यन्ति श्रृणु भक्त्या तदर्जुन ॥ १९॥
आदित्यो
मन्त्रसंयुक्त आदित्यो भुवनेश्वरः ।
आदित्यान्नापरो
देवो ह्यादित्यः परमेश्वरः ॥ २०॥
आदित्यमर्चयेद्ब्रह्मा
शिव आदित्यमर्चयेत् ।
यदादित्यमयं
तेजो मम तेजत्तदर्जुन ॥ २१॥
आदित्यं
मन्त्रसंयुक्तमादित्यं भुवनेश्वरम् ।
आदित्यं ये
प्रपश्यन्ति मां पश्यन्ति न संशयः ॥ २२॥
त्रिसन्ध्यमर्चयेत्सूर्यं
स्मरेद्भक्त्या तु यो नरः ।
न स पश्यति
दारिद्र्यं जन्मजन्मनि चार्जुन ॥ २३॥
एतत्ते कथितं
पार्थ आदित्यहृदयं मया ।
श्रृणवन्मुक्तश्च
पापेभ्यः सूर्यलोके महीयते ॥ २४॥
नमो भगवते
तुभ्यमादित्याय नमो नमः ।
आदित्यः सविता
सूर्यः खगः पूषा गभस्तिमान् ॥ २५॥
सुवर्णः
स्फटिको भानुः स्फुरितो विश्वतापनः ।
रविर्विश्वो
महातेजाः सुवर्णः सुप्रबोधकः ॥ २६॥
हिरण्यगर्भस्त्रिशिरास्तपनो
भास्करो रविः ।
मार्तण्डो
गोपतिः श्रीमान् कृतज्ञश्च प्रतापवान् ॥ २७॥
तमिस्रहा भगो
हंसो नासत्यश्च तमोनुदः ।
शुद्धो
विरोचनः केशी सहस्रांशुर्महाप्रभुः ॥ २८॥
विवस्वान्पूषणो
मृत्युर्मिहिरो जामदग्न्यजित् ।
धर्मरश्मिःपतङ्गश्च
शरण्यो मित्रहा तपः ॥ २९॥
दुर्विज्ञेयगतिः
शूरस्तेजोरश्मिर्महायशाः ।
शम्भुश्चित्राङ्गदः
सौम्यो हव्यकव्यप्रदायकः ॥ ३०॥
अंशुमानुत्तमो
देव ऋग्यजुःसाम एव च ।
हरिदश्वस्तमोदारः
सप्तसप्तिर्मरीचिमान् ॥ ३१॥
अग्निगर्भोऽद्रितेः
पुत्रः शम्भुस्तिमिरनाशनः ।
पूषा
विश्वम्भरो मित्रः सुवर्णः सुप्रतापवान् ॥ ३२॥
आतपी मण्डली
भास्वांस्तपनः सर्वतापनः ।
कृतविश्वो
महातेजः सर्वरत्नमयोद्भवः ॥ ३३॥
अक्षरश्च
क्षरश्चैव प्रभाकरविभाकरौ ।
चन्द्रश्चन्द्राङ्गदः
सौम्यो हव्यकव्यप्रदायकः ॥ ३४॥
अङ्गारको
गदोऽगस्ती रक्ताङ्गश्चाङ्गवर्धनः ।
बुधो
बुद्धासनो बुद्धिर्बुद्धात्मबुद्धिवर्धनः ॥ ३५॥
बृहद्भानुर्बृहद्भासो
बृहद्धामा बृहस्पतिः ।
शुक्लस्त्वं
शुक्लरेतास्त्वं शुक्लाङ्गः शुक्लभूषणः ॥ ३६॥
शनिमान्
शनिरूपस्त्वं शनैर्गच्छसि सर्वदा ।
अनादिरादिरादित्यस्तेजोराशिर्महातपाः
॥ ३७॥
अनादिरादिरूपस्त्वमादित्यो
दिक्पतिर्यमः ।
भानुमान्
भानुरूपस्त्वं स्वर्भानुर्भानुदीतिमान् ॥ ३८॥
धूम्रकेतुर्महाकेतुः
सर्वकेतुरनुत्तमः ।
तिमिरावरणः
शम्भुः स्त्रष्टा मार्तण्डएव च ॥ ३९॥
नमः पूर्वाय
गिरये पश्चिमाय नमो नमः ।
नमोत्तराय
गिरये दक्षिणाय नमो नमः ॥ ४०॥
नमो नमः
सहस्रांशो ह्यादित्याय नमो नमः ।
नमःपद्मप्रबोधाय
नमस्ते द्वादशात्मने ॥ ४१॥
नमो
विश्वप्रबोधाय नमो भ्राजिष्णुजिष्णवे ।
ज्योतिषे च
नमस्तुभ्यं ज्ञानाकार्य नमो नमः ॥ ४२॥
प्रदीप्ताय
प्रगल्भाय युगान्ताय नमो नमः ।
नमस्ते
होतृपतये पृथिवीपतये नमः ॥ ४३॥
नमोङ्कार
वषट्कार सर्वयज्ञ नमोऽस्तु ते ।
ऋग्वेदाय
यजुर्वेद सामवेद नमोऽस्तु ते ॥ ४४॥
नमो
हाटकवर्णाय भास्कराय नमो नमः ।
जयाय जयभद्राय
हरिदश्वाय ते नमः ॥ ४५॥
दिव्याय
दिव्यरूपाय ग्रहाणां पतये नमः ।
नमस्ते शुचये
नित्यं नमः कुरुकुलात्मनम् ॥ ४६॥
नमस्त्रैलोक्यनाथाय
भूतानां पतये नमः ।
नमः
कैवल्यनाथाय नमस्ते दिव्यचक्षुषे ॥ ४७॥
त्वं
ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वं विष्णुस्त्वं प्रजापतिः ।
त्वमेव रुद्रो
रुद्रात्मा वायुरग्निस्त्वमेव च ॥ ४८॥
योजनानां
सहस्रे द्वे शते द्वे द्वे च योजने ।
एकेन
निमिषार्धेन क्रममाण नमोऽस्तु ते ॥ ४९॥
नवयोजनलक्षाणि
सहस्रद्विशतानि च ।
यावद्धटीप्रमाणेन
क्रममाण नमोऽस्तु ते ॥ ५०॥
अग्रतश्च
नमस्तुभ्यं पृष्ठतश्च सदा नमः ।
पार्श्वतश्च
नमस्तुभ्यं नमस्ते चास्तु सर्वदा ॥ ५१॥
नमः
सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे ।
नमो दिव्याय
व्योमाय सर्वतन्त्रमयाय च ॥ ५२॥
नमो
वेदान्तवैद्याय सर्वकर्मादिसाक्षिणे ।
नमो
हरितवर्णाय सुवर्णाय नमो नमः ॥ ५३॥
अरुणो माघमासे
तु सूर्यो वै फाल्गुने तथा ।
चैत्रमासे तु
वेदाङ्गो भानुर्वैशाखतापनः ॥ ५४॥
ज्येष्ठमासे
तपेदिन्द्र आषाढे तपते रविः ।
गभस्तिः
श्रावणे मासि यमो भाद्रपदे तथा ॥ ५५॥
इषे
सुवर्णरेताश्च कार्तिके च दिवाकरः ।
मार्गशीर्षे
तपेन्मित्रः पौषे विष्णुः सनातनः ॥ ५६॥
पुरुषस्त्वधिके
मासि मासाधिक्ये तु कल्पयेत् ।
इत्येते
द्वादशादित्याः काश्यपेयाः प्रकीर्तिताः ॥ ५७॥
उग्ररूपा
महात्मानस्तपन्ते विश्वरूपिणः ।
धर्मार्थकाममोक्षाणां
प्रस्फुटा हेतवो नृप ॥ ५८॥
सर्वपापहरं
चैवमादित्यं सम्प्रपूजयेत् ।
एकधा दशधा चैव
शतधा च सहस्रधा ॥ ५९॥
तपन्ते
विश्वरूपेण सृजन्ति संहरन्ति च ।
एष विष्णुः
शिवश्चैव ब्रह्मा चैव प्रजापतिः ॥ ६०॥
महेन्द्रश्चैव
कालश्च यमो वरुण एव च ।
नक्षत्रग्रहताराणामधिपो
विश्वतापनः ॥ ६१॥
वायुरग्निर्धनाध्यक्षो
भूतकर्ता स्वयं प्रभुः ।
एष देवो हि
देवानां सर्वमाप्यायते जगत् ॥ ६२॥
एष कर्ता हि
भूतानां संहर्ता रक्षकस्तथा ।
एष
लोकानुलोकाश्च सप्तद्वीपाश्च सागराः ॥ ६३॥
एष
पातालसप्तस्था दैत्यदानवराक्षसाः ।
एष धाता
विधाता च बीजं क्षेत्रं प्रजापतिः ॥ ६४॥
एष एव प्रजा
नित्यं संवर्धयति रश्मिभिः ।
एष यज्ञः
स्वधा स्वहा ह्रीः श्रीश्च पुरुषोत्तमः ॥ ६५॥
एष भूतात्मको
देवः सूक्ष्मोऽव्यक्तः सनातनः ।
ईश्वरः
सर्वभूतानां परमेष्ठी प्रजापतिः ॥ ६६॥
कालात्मा
सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।
जन्ममृत्युजराव्याधिसंसारभयनाशनः
॥ ६७॥
दारिद्र्यव्यसनध्वंसी
श्रीमान्देवो दिवाकरः ।
कीर्तनीयो
विवस्वांश्च मार्तण्डो भास्करो रविः ॥ ६८॥
लोकप्रकाशकः
श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ।
लोकसाक्षी
त्रिलोकेशः कर्ता हर्ता तमिस्रहा ॥ ६९॥
तपनस्तापनश्चैव
शुचिः सप्ताश्ववाहनः ।
गभस्तिहस्तो
ब्रह्मण्यः सर्वदेवनमस्कृतः ॥ ७०॥
आयुरारोग्यमैश्वर्यं
नरा नार्यश्च मन्दिरे ।
यस्य
प्रसादात्सन्तुष्टिरादित्यहृदयं जपेत् ॥ ७१॥
इत्येनैर्नामभिः
पार्थ आदित्यं स्तौति नित्यशः ।
प्रातरुत्थाय
कौन्तेय तस्य रोगभयं नहि ॥ ७२॥
पातकान्मुच्यते
पार्थ व्याधिभ्यश्च न संशयः ।
एकसन्ध्यं
द्विसन्ध्यं वा सर्वपापैः प्रमुच्यते ॥ ७३॥
त्रिसन्ध्यं
जपमानस्तु पश्येश्च परमं पदम् ।
यदह्नात्कुरुते
पापं तदह्नात्प्रतिमुच्यते ॥ ७४॥
यद्रात्र्यात्कुरुते
पापं तद्रात्र्यात्प्रतिमुच्यते ।
दद्रुस्फोटककुष्ठानि
मण्डलानि विषूचिका ॥ ७५॥
सर्वव्याधिमहारोगभूतबाधास्तथैव
च ।
डाकिनी शाकिनी
चैव महारोगभयं कुतः ॥ ७६॥
ये चान्ये
दुष्टगेगाश्च ज्वरातीसारकादयः ।
जपमानस्य
नश्यन्ति जीवेच्च शरदां शतम् ॥ ७७॥
संवत्सरेण
मरणं यदा तस्य ध्रुवं भवेत् ।
अशीर्षां
पश्यतिच्छायामहोरात्रं धनञ्जय ॥ ७८॥
यस्त्विदं
पठते भक्त्या भानोर्वारे महात्मनः ।
प्रातःस्नाने
कृते पार्थ एकाग्रकृतमानसः ॥ ७९॥
सुवर्णचक्षुर्भवति
न चान्धस्तु प्रजायते ।
पुत्रवान्
धनसम्पन्नो जायते चारुजः सुखी ॥ ८०॥
सर्वसिद्धिमवाप्नोति
सर्वत्र विजयी भवेत ।
आदित्यहृदयं
पुण्यं सूर्यनामविभूषितम् ॥ ८१॥
श्रुत्वा च
निखिलं पार्थ सर्वपापैः प्रमुच्यते ।
अतः परतरं
नास्ति सिद्धिकामस्य पाण्डव ॥ ८२॥
एतज्जपस्व
कौन्तेय येन श्रेयो ह्यवाप्स्यसि ।
आदित्यहृदयं
नित्यं यः पठेत्सुसमाहितः ॥ ८३॥
भ्रूणहा
मुच्यते पापात्कृतघ्नो ब्रह्मघातकः ।
गोघ्नः सुरापो
दुर्भोजी दुष्प्रतिग्रहकारकः ॥ ८४॥
पातकानि च
सर्वाणि दहत्येव न संशयः ।
य इदं श्रृणुयान्नित्य
जपेद्वाऽपि समाहितः ॥ ८५॥
सर्वपापविशुद्धात्मा
सूर्यलोके महीयते ।
अपुत्रो लभते
पुत्रान्निर्धनो धनमाप्नुयात् ॥ ८६॥
कुरोगी
मुच्यते रोगाद्भक्त्या यः पठते सदा ।
यस्त्वादित्यदिने
पार्थ नाभिमात्रजले स्थितः ॥ ८७॥
उदयाचलमारूढं
भास्करं प्रणतः स्थितः ।
जपते मानवो
भक्त्या श्रृणुयाद्वापि भक्तितः ॥ ८८॥
स याति परमं
स्थानं यत्र देवो दिवाकरः ।
अमित्रदमनं
पार्थ यदा कर्तुं समारभेत् ॥ ८९॥
तदा
प्रतिकृतिं कृत्वा शत्रोश्चरणपांसुभिः ।
आक्रम्य
वामपादेन ह्यादित्यहृदयं जपेत् ॥ ९०॥
एतन्मन्त्रं
समाहूय सर्वसिद्धिकरं परम् ।
ॐ ह्रीं
हिमालीढं स्वाहा । ॐ ह्रीं निलीढं स्वाहा ।
ॐ ह्रीं
मालीढं स्वाहा । इति मन्त्रः ।
त्रिभिश्च
रोगी भवति ज्वरी भवति पञ्चभिः ।
जपैस्तु
सप्तभिः पार्थ राक्षसीं तनुमाविशेत ॥ ९१॥
राक्षससेनाभिभूतस्य
विकारान् श्रृणु पाण्डव ।
गीयते नृत्यते
नग्न आस्फोटयति धावति ॥ ९२॥
शिवारुतं च
कुरुते हसते क्रन्दते पुनः ।
एवं
सम्पीड्यते पार्थ यद्यपि स्यान्महेश्वरः ॥ ९३॥
किं
पुनर्मानुषः कश्चिच्छौचाचारविवर्जितः ।
पीडितस्य न
सन्देहो ज्वरौ भवति दारुणः ॥ ९४॥
यदा चानुग्रहं
तस्य कर्तुमिच्छेच्छुभङ्करम् ।
तदा सलिलमादाय
जपेन्मन्त्रमिमं बुधः ॥ ९५॥
नमो भगवते
तुभ्यमादित्याय नमो नमः ।
जयाय जयभद्राय
हरिदश्वाय ते नमः ॥ ९६॥
स्नापयेत्तेन
मन्त्रेण शुभं भवति नान्यथा ।
अन्यथा च
भवेद्दोषो नश्यते नात्र संशयः ॥ ९७॥
अतस्ते निखिलः
प्रोक्तः पूजां चैव निबोध मे ।
उपलिप्ते शुचौ
देशे नियतो वाग्यताः शुचिः ॥ ९८॥
वृत्तं वा
चतुरस्रं वा लिप्तभूमौ लिखेच्छचि ।
त्रिधा तत्र
लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ९९॥
अष्टपत्रंलिखेत्पद्मं
लिप्तगोमयमण्डले ।
पूर्वपत्रे
लिखेत् सूर्यमाग्नेय्यां तु रविं न्यसेत् ॥ १००॥
याम्यायां च
विवस्वन्तं नैऋर्त्यां तु भगं न्यसेत् ।
प्रतीच्यां
वरुणं विद्याद्वायव्यां मित्रमेव च ॥ १०१॥
आदित्यमुत्तरे
पत्रे ईशान्यां मित्रमेव च ।
मध्ये तु
भास्करं विद्यात्क्रमेणैवं समर्चयेत् ॥ १०२॥
अतः परतरं
नास्ति सिद्धिकामस्य पाण्डव ।
महातेजः समुद्यतं
प्रणमेत्स कृताञ्जलिः ॥ १०३॥
सकेसराणि
पद्मानि करवीराणि चार्जुन ।
तिलतण्द्गुलयुक्तानि
कुशगन्धोदकानि च ॥ १०४॥
रक्तचन्दनमिश्राणि
कृत्वा वै ताम्रभाजने ।
धृत्वा शिरसि
तत्पात्रं जानुभ्यां धरणीं स्पृशेत् ॥ १०५॥
मन्त्रपूतं
गुडाकेशः चार्घ्यं दद्याद्गभस्तये ।
सायुधं सरथं
चैव सूर्यमावाहयाम्यहम् ॥ १०६॥
स्वागतो भव ।
सुप्रतिष्ठितो
भव ।
सन्निधौ भव ।
सन्निहितो भव
।
सम्मुखो भव ।
इति
पञ्चमुद्राः ।
स्फुटयित्वाऽर्हयेत्सूर्यं
भुक्ति मुक्तिं लभेन्नरः ॥ १०७॥
ॐ श्रीं
विद्या किलिकिलिकटकेष्टसर्वार्थसाधनाय स्वाहा ।
ॐ श्रीं ह्रीं
ह्रूं हंसः सूर्याय नमः स्वाहा ।
ॐ श्रीं ह्रां
ह्रीं ह्रूं ह्रः सूर्यमूर्तये स्वाहा ।
ॐ श्रीं ह्रीं
खं खः लोकाय सूर्यमूर्तये स्वाहा ।
ॐ ह्रूं
मार्तण्डाय स्वाहा ।
नमोऽस्तु
सूर्याय सहस्रभानवे नमोऽस्तु वैश्वानरजातवेदसे ।
त्वमेव
चार्घ्यं प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते ॥ १०८॥
नमो भगवते
तुभ्यं नमस्ते जातवेदसे ।
दत्तमर्घ्यं
मया भानो त्वं गृहाण नमोऽस्तु ते ॥ १०९॥
एहि सूर्य
सहस्रांशो तेजोराशे जगत्पते ।
अनुकम्पय मां
देव गृहाणार्घ्यं नमोऽस्तुते ॥ ११०॥
नमो भगवते
तुभ्यं नमस्ते जातवेदसे ।
ममेदमर्घ्यं
गृह्ण त्वं देवदेव नमोऽस्तु ते ॥ १११॥
सर्वदेवाधिदेवाय
आधिव्याधिविनाशिने ।
इदं गृहाण मे
देव सर्वव्याधिर्विनश्यतु ॥ ११२॥
नमः सूर्याय
शान्ताय सर्वरोगविनाशिने ।
ममेप्सितं फलं
दत्त्वा प्रसीद परमेश्वर ॥ ११३॥
ॐ नमो भगवते
सूर्याय स्वाहा । ॐ शिवाय स्वाहा ।
ॐ सर्वात्मने
सूर्यायनमः स्वाहा । ॐ अक्षय्यतेजसेनमः स्वाहा ।
सर्वसङ्कटदारिद्रयं
शत्रुं नाशय नाशय ।
सर्वलोकेषु
विश्वात्मन्सर्वात्मन्सर्वदर्शक ॥ ११४॥
नमो भगवते
सूर्य कुष्ठरोगान्विखण्डय ।
आयुरारोग्यमैश्वर्यं
देहि देव नमोऽस्तु ते ॥ ११५॥
नमो भगवते
तुभ्यमादित्याय नमो नमः ।
ॐ अक्षय्यतेजसे
नमः ।
ॐ सूर्याय नमः
।
ॐ
विश्वमूर्तये नमः ।
आदित्यं च
शिवं विद्याच्छिवमादित्यरूपिणम् ।
उभयोरन्तरं
नास्ति आदित्यस्य शिवस्य च ॥ ११६॥
एतदिच्छाम्यहं
श्रोतुं पुरूषो वै दिवाकरः ।
उदये
ब्राह्मणो रूपं मध्याह्ने तु महेश्वरः ॥ ११७॥
अस्तमाने
स्वयं विष्णुस्त्रिमूर्तिश्च दिवाकरः ।
नमो भगवते
तुभ्यं विष्णवे प्रभविष्णवे ॥ ११८॥
ममेदमर्घ्यं
प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते ।
श्रीसूर्यनारायणाय
साङ्गाय सपरिवाराय इदमर्घ्यं समर्पयामि ॥ ११९॥
हिमघ्नाय
तमोघ्नाय रक्षोघ्नाय च ते नमः ।
कृतघ्नाय
सत्याय तस्मै सूयार्त्मने नमः ॥ १२०॥
जयोऽजयश्च
विजयो जितप्राणो जितश्रमः ।
मनोजवो
जितक्रोधो वाजिनः सप्त कीर्तिताः ॥ १२१॥
हरितहयरथं
दिवाकरं कनकमयाम्बुजरेणुपिञ्जरम् ।
प्रतिदिनमुदये
नवं शरणमुपैमि हिरण्यरेतसम् ॥ १२२॥
न तं व्यालाः
प्रबाधन्ते न व्याधिभ्योभयं भवेत् ।
न नागेभ्यो भयं
चैव नच भूतभयं क्वचित् ॥ १२३॥
अग्निशत्रुभयं
नास्ति पार्थिवेभ्यस्तथैव च ।
दुर्गतिं तरते
घोरां प्रजां च लभते पशून् ॥ १२४॥
सिद्धिकामो
लभेत्सिद्धिं कन्याकामस्तु कन्यकाम् ।
एतत्पठेत्स
कौन्तेय भक्तियुक्तेन चेतसा ॥ १२५॥
अश्वमेधसहस्रस्य
वाजपेयशतस्य च ।
कन्याकोटिसहस्रस्य
दत्तस्य फलमाप्नुयात् ॥ १२६॥
इदमादित्यहृदयं
योऽधीते सततं नरः ।
सर्वपापविशुद्धात्मा
सूर्यलोके महीयते ॥ १२७॥
नास्त्यादित्यसमो
देवो नास्त्यादित्यसमा गतिः ।
प्रत्यक्षो
भगवन्विष्णुर्येन विश्वं प्रतिष्ठितम् ॥ १२८॥
नवतिर्योजनं
लक्षं सहस्राणि शतानि च ।
यावद्घटीप्रमाणेन
तावच्चरति भास्करः ॥ १२९॥
गवां
शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ।
तत्फलं लभते
विद्वाञ्शान्तात्मा स्तौति यो रविम् ॥ १३०॥
योऽधीते
सूर्यहृदयं सकलं सफलं भवेत् ।
अष्टानां
ब्राह्मणानां च लेखयित्वा समर्पयेत् ॥ १३१॥
ब्रह्मलोके
ऋषीणां च जायते मानुषोऽपि वा ।
जातिस्मरत्वमाप्नोति
शुद्धात्मा नात्र संशयः ॥ १३२॥
अजाय
लोकत्रयपावनाय भूतात्मने गोपतये वृषाय ।
सूर्याय
सर्वप्रलयान्तकाय नमो महाकारुणिकोत्तमाय ॥ १३३॥
विवस्वते
ज्ञानमृदन्तरात्मने जगत्प्रदीपाय गजद्धितैषिणे ।
स्वयम्भुवे
दीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः ॥ १३४॥
सुरैरनेकैः
परिषेविताय हिरण्यगर्भाय हिरण्मयाय ।
महात्मने
मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय ॥ १३५॥
आदित्यश्चार्चितो
देव आदित्यः परमं पदम् ।
आदित्यो
मातृको भूत्वा आदित्यो वाङ्मय जगत् ॥ १३६॥
आदित्यं
पश्यते भक्त्या मां पश्यति ध्रुवं नरः ।
नादित्यं
पश्यते भक्त्या न स पश्यति मां नरः ॥ १३७॥
त्रिगुणं च
त्रितत्त्वं च त्रयो देवास्त्रयोऽग्नयः ।
त्रयाणां च
त्रिमूर्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते ॥ १३८॥
नमः सवित्रे
जगदेक चक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमथाय
त्रिगुणात्मधारिणे विरिञ्चिनारायणशङ्करात्मने ॥ १३९॥
यस्योदयेनेह
जगत्प्रबुद्ध्यते प्रवर्तते चाखिलकर्मसिद्धये ।
ब्रह्मेन्द्रनारायणरुद्रवन्दितः
स नः सदा यच्छतु मङ्गलं रविः ॥ १४०॥
नमोऽस्तु
सूर्याय सहस्ररश्मये सहस्रशाखान्वितसम्भवात्मने ।
सहस्रयोगोद्भवभावभागिने
सहस्रसङ्ख्यायुगधारिणे नमः ॥ १४१॥
यत्मण्डलं
दीतिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् ।
दारिद्र्यदुःखक्षयकारणं
च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४२॥
यन्मण्डलं
देवगणैः सुपूजितं विप्रैः स्तुतम्भावनमुक्तिकोविदम् ।
तं देवदेवं
प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४३॥
यन्मण्डलं
ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।
समस्ततेजोमयदिव्यरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४४॥
यन्मण्डलं
गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्वपापक्षयकारणं
च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४५॥
यन्मण्डलं
व्याधि विनाशदक्षं यदृग्यजुः सामसु सम्प्रगीतम् ।
प्रकाशितं येन
च भूर्भुवःस्वः पुनातु मां
तत्सवितुवरेण्यम् ॥ १४६॥
यन्मण्डलं
वेदविदो वदन्ति गायन्ति यच्चारण सिद्धसङ्घाः ।
यद्योगिनो
योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४७॥
यन्मण्डलं
सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ।
यत्कालकालादिमनादिरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४८॥
यन्मण्डलं
विष्णुचतुर्मुखाख्यं यदक्षरं पापहारं जनानाम् ।
यत्कालकल्पक्षयकारणं
च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४९॥
यन्मण्डलं
विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाम्प्रलयप्रगल्भम् ।
यस्मिञ्जगत्संहरतेऽखिलं
च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५०॥
यन्मण्डलं
सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् ।
सूक्ष्मान्तरैर्योगपथानुगम्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५१॥
यन्मण्डलं
ब्रह्मविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः ।
यन्मण्डलं
वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५२॥
यन्मण्डलं
वेदविदोपगीतं यद्योगिनां योगपथातुगम्यम् ।
तत्सर्ववेदं
प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५३॥
मण्डलाष्टमिदं
पुण्यं यः पठेत्सततं नरः ।
सर्वपापविशुद्धात्मा
सूर्यलोके महीयते ॥ १५४॥
ध्येयः
सदासवितृमण्डलमध्यवर्ती नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान्मकरकुण्डलवान्
किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ १५५॥
सशङ्खचक्रं
रविमण्डले स्थितं कुशेशयाक्रान्तमनन्तमच्युतम् ।
भजामि बुद्धया
तपनीयमूर्तिं सुरोत्तमं चित्रविभूषणोज्ज्वलम् ॥ १५६॥
एवं
ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
कीर्तयन्ति
सुरश्रेष्ठं देवं नारायणं बिभुव ॥ १५७॥
वेदवेदाङ्गशरीरं
दिव्यदीप्तिकरं परम् ।
रक्षोश्नं
रक्तवर्णं च सृष्टिसंहारकारकम् ॥ १५८॥
एकचक्रो रथो
यस्य दिव्यः कनकभूषितः ।
स मे भवतु
सुप्रीतः पद्महस्तो दिवाकरः ॥ १५९॥
आदित्यः
प्रथमं नाम द्वितीयं तु दिवाकरः ।
तृतीयं
भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ १६०॥
पञ्चमं तु
सहस्रांशुः षष्ठं चैव त्रिलोचनः ।
सप्तमं
हरिदश्वश्च अष्टमं तु विभावसुः ॥ १६१॥
नवमं
दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् ।
एकादशं
त्रयीमुर्तिर्द्वादशं सूर्य एव च ॥ १६२॥
द्वादशादित्यनामानि
प्रातःकाले पठेन्नरः ।
दुःस्वप्ननाशनं
चैव सर्वदुःखं च नश्यति ॥ १६३॥
दद्रुकुष्ठहरं
चैव दारिद्र्यं हरते ध्रुवम् ।
सर्वतीर्थप्रदं
चैव सर्वकामप्रवर्धनम् ॥ १६४॥
यः
पठेत्मातरुत्थाय भक्त्या नित्यमिदं नरः ।
सौख्यमायुस्तथाऽऽरोग्यं
लभते मोक्षमेव च ॥ १५॥
अग्निमीडे
नमस्तुभ्यमिषेत्वोर्जेस्वरूपिणे ।
अग्र आयाहि
पीतस्त्वं नमस्ते ज्योतिषां पते ॥ १६६॥
शन्नो देवि
नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते ।
पञ्चमायोपवेदाय
नमस्तुभ्यं नमोनमः ॥ १६७॥
पद्मासनः
पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्वरथसंयुक्तो
द्विभुजः स्यात्सदा रविः ॥ १६८॥
आदित्यस्य
नमस्कारं ये कुर्वन्ति दिनेदिने ।
जन्मान्तरसहस्रेषु
दारिद्र्यं नोपजायते ॥ १६९॥
(नमो धर्मनिधानाय नमः सुकृतसाक्षिणे ।
नमः
प्रत्यक्षदेवाय भास्कराय नमोनमः ॥
अपरः शरणं
नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन
रक्ष रक्ष दिवाकर ॥
पौरोहित्यं
रजनिचरणं ग्रामणीत्वं निः योगो
माठापत्यं
वितथवचनं साक्षिवादः परान्नम् ।
ब्रह्मद्वेष
खलजनरतिः प्राणिषु निर्दयत्वं
माभूदेतन्मम
दिनपते जन्मजन्मान्तरेऽपि ॥
उदयंस्तु
महाभानुस्तेजसा चाभयङ्करः ।
सहस्ररश्मिदीप्तश्चत्वादित्यः
प्रीयतां मम ॥)
उदयगिरिमुपेतं
भास्करं पद्महस्तं
निखिलभुवननेत्रं
रत्नंरत्नोपमेयम् ।
तिमिरकरिमृगेन्द्रं
बोधकं पद्मिनीनां
सुरवरमभिवन्दे
सुन्दरं विश्ववन्द्यम् ॥ १७०॥
इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादे आदित्यहृदयम् स्तोत्रम् सम्पूर्णम् ॥
0 Comments