Slide show
Ad Code
JSON Variables
Total Pageviews
Blog Archive
-
▼
2020
(162)
-
▼
December
(52)
- श्रीराघवेन्द्राष्टकम्
- श्रीरामनामस्तुतिः
- श्रीरामद्वादशनामस्तोत्रम्
- श्रीरामचालीसा
- श्री राम स्तुति
- एकश्लोकि रामायणम्
- हनुमत्पूजन विधि
- श्रीहनुमतः आवरणपूजा
- संकटमोचन हनुमानाष्टक
- हनुमद् वडवानल स्तोत्रम्
- हनुमान बाहुक
- हनुमान साठिका
- हनुमान चालीसा संस्कृतानुवादः
- बजरंग बाण
- सीतोपनिषत्
- बलिवैश्वदेव
- सन्ध्योपासन विधि
- गोसूक्त
- वरुणसूक्त
- स्नान की विधि
- प्रातःस्मरण
- देव पूजा में विहित एवं निषिद्ध पत्र पुष्प
- कठोपनिषद् द्वितीय अध्याय तृतीय वल्ली
- कठोपनिषद् द्वितीय अध्याय द्वितीय वल्ली
- कठोपनिषद् द्वितीय अध्याय प्रथम वल्ली
- कठोपनिषद् प्रथम अध्याय तृतीय वल्ली
- माण्डूक्योपनिषत्
- कठोपनिषद् प्रथम अध्याय द्वितीय वल्ली
- प्रश्नोपनिषद्
- प्रश्नोपनिषद्
- प्रश्नोपनिषद्
- श्रीशिवसहस्रनामस्तोत्रं श्रीसौरपुराणान्तर्गतम्
- श्रीशिवसहस्रनामस्तोत्रं वायुपुराणे अध्याय ३०
- श्रीशिवसहस्रनामस्तोत्रम् शङ्करसंहितायां स्कन्दमहाप...
- श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम्
- श्रीशिवसहस्रनामस्तोत्रम् भगीरथकृतं श्रीदेवीभागवत उ...
- श्रीशिवसहस्रनामस्तोत्रम् व श्रीशिवसहस्रनामावली
- श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे अध्याय २
- D P karmakand डी पी कर्मकाण्ड
- विवाह मुहूर्त vivah muhurt
- शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम्
- श्रीशिवसहस्रनामस्तोत्रम् व श्रीशिवसहस्रनामावलिः शि...
- अगहन बृहस्पति व्रत व कथा
- शिव सहस्रनाम स्तोत्र
- शिव सहस्रनाम स्तोत्रम
- रूद्र सूक्त Rudra suktam
- त्वरित रुद्र
- काली चालीसा,महाकाली चालीसा व आरती
- अष्टलक्ष्मी स्तोत्रम्
- श्री लक्ष्मी द्वादशनाम व अष्टोत्तर शतनाम स्तोत्रम्
- वैभवलक्ष्मी व्रत
- श्री लक्ष्मी नृसिंह द्वादशनाम स्तोत्रम्
-
▼
December
(52)
Search This Blog
Fashion
Menu Footer Widget
Text Widget
Bonjour & Welcome
About Me
Labels
- Astrology
- D P karmakand डी पी कर्मकाण्ड
- Hymn collection
- Worship Method
- अष्टक
- उपनिषद
- कथायें
- कवच
- कीलक
- गणेश
- गायत्री
- गीतगोविन्द
- गीता
- चालीसा
- ज्योतिष
- ज्योतिषशास्त्र
- तंत्र
- दशकम
- दसमहाविद्या
- देवी
- नामस्तोत्र
- नीतिशास्त्र
- पञ्चकम
- पञ्जर
- पूजन विधि
- पूजन सामाग्री
- मनुस्मृति
- मन्त्रमहोदधि
- मुहूर्त
- रघुवंश
- रहस्यम्
- रामायण
- रुद्रयामल तंत्र
- लक्ष्मी
- वनस्पतिशास्त्र
- वास्तुशास्त्र
- विष्णु
- वेद-पुराण
- व्याकरण
- व्रत
- शाबर मंत्र
- शिव
- श्राद्ध-प्रकरण
- श्रीकृष्ण
- श्रीराधा
- श्रीराम
- सप्तशती
- साधना
- सूक्त
- सूत्रम्
- स्तवन
- स्तोत्र संग्रह
- स्तोत्र संग्रह
- हृदयस्तोत्र
Tags
Contact Form
Contact Form
Followers
Ticker
Slider
Labels Cloud
Translate
Pages
Popular Posts
-
मूल शांति पूजन विधि कहा गया है कि यदि भोजन बिगड़ गया तो शरीर बिगड़ गया और यदि संस्कार बिगड़ गया तो जीवन बिगड़ गया । प्राचीन काल से परंपरा रही कि...
-
रघुवंशम् द्वितीय सर्ग Raghuvansham dvitiya sarg महाकवि कालिदास जी की महाकाव्य रघुवंशम् प्रथम सर्ग में आपने पढ़ा कि-महाराज दिलीप व उनकी प...
-
रूद्र सूक्त Rudra suktam ' रुद्र ' शब्द की निरुक्ति के अनुसार भगवान् रुद्र दुःखनाशक , पापनाशक एवं ज्ञानदाता हैं। रुद्र सूक्त में भ...
Popular Posts
अगहन बृहस्पति व्रत व कथा
मार्तण्ड भैरव स्तोत्रम्
श्रीहनुमतः आवरणपूजा
हनुमान जी की मूर्ति स्थापन,यंत्र स्थापन व मंत्र जप के अवसर पर आवरण
सहित श्रीहनुमतः आवरणपूजा करें और उनके प्रसन्नार्थ श्री हनुमान चालीसा, बजरंग बाण आदि का पाठ करें-
श्रीहनुमतः आवरणपूजा,,,
जपः,,ॐ अस्य श्रीहनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषिः ।
जगतीच्छन्दः ।
हनुमान् देवता,
ह्रौं बीजं, ह्स्फ्रें शक्तिः, हनुमते कीलकम् ।
हनुमद्देवताजपे
विनियोगः ।
न्यासाः,,,,ऋष्यादिन्यासः ।
श्रीरामचन्द्रऋषये
नमः शिरसि ।
जगतीच्छन्दसे
नमः मुखे ।
हौं बीजाय नमः
गुह्ये ।
हनुमते कीलकाय
नमो नाभौ ।
विनियोगाय नमः
अञ्जलौ ॥
करन्यासः
(अङ्गन्यासः) -
ॐ हौं
अङ्गुष्ठाभ्यां नमः (हृदयाय नमः) ।
ॐ ह्ख्फ्रें
तर्जनीभ्यां नमः (शिरसे स्वाहा) ।
ॐ ह्ख्फ्रें
मध्यमाभ्यां नमः (शिखायै वषट्) ।
ॐ ह्स्त्रौं
अनामिकाभ्यां नमः (कवचाय हुं) ।
ॐ ह्ख्फ्रें
कनिष्ठिकाभ्यां नमः (नेत्रत्रयाय वौषट्) ।
ॐ ह्सौं
करतलकरपृष्ठाभ्यां नमः (अस्त्राय फट्) ।
मन्त्रवर्णविन्यासः
ॐ हांऐ नमः
मूर्ध्नि ।
ॐ हस्फ्रें
नमः ललाटे ।
ॐ ख्फ्रें नमः
नेत्रयोः ।
ॐ ह्स्त्रौं
नमः मुखे ।
ॐ ह्स्ख्फ्रें
नमः कण्ठे ।
ॐ ह्सौं नमः
बाहुमूले ।
ॐ हं नमः हृदि
।
ॐ नुं नमः
कुक्ष्योः ।
ॐ मं नमः नाभौ
।
ॐ तें नमः
लिङ्गे ।
ॐ नं नमः
जानुनि ।
ॐ मः नमः
पादयोः ।
पदन्यासः,,,ॐ हौं नमः मूर्ध्नि ।
ॐ ह्स्फ्रें
नमः ललाटे ।
ॐ ख्फ्रें नमः
मुखे ।
ॐ ह्स्त्रों
नमः हृदि ।
ॐ ह्स्खफ्रें
नमः नाभौ ।
ॐ ह्सौं नमः
ऊरौ ।
ॐ हनुमते नमः
जानुनि ।
ॐ नमः पादयोः
।
ध्यानम्बा,,,लार्कायुततेजसं त्रिभुवनप्रक्षोभकं सुन्दरं
सुग्रीवादिसमस्तवानरगणैराराधितं
साञ्जलिम् ।
नादेनैव
समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं
श्रीमद्रामपदाम्बुजस्मृतिरतं
ध्यायामि वातात्मजम् ॥''
अग्न्याधानम्
:- अग्नौ मारुतेरावाहनम् । प्राणप्रतिष्ठा ।
ॐ आं ह्रीं
क्रों यं रं लं वं शं षं सं हं लं क्षं हं सः
सोहम् अस्याः
श्रीहनुमत्प्रतिमायाः प्राणाः ।
ॐ ॐ आं ह्रीं
क्रों यं रं लं वं शं षं सं हं लं क्षं हं सः
सोहम् अस्याः
श्रीहनुमत्प्रतिमायाः जीव इह स्थितः ॥
ॐ आं ह्रीं
क्रों यं रं लं वं शं षं सं हं लं क्षं हं सः
सोहम् अस्याः
श्रीहनुमत्प्रतिमाया सर्वेन्द्रियाणि
वाङ्मनस्त्वक्चक्षुःश्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानि
इहैवागत्य
सुखं चिरं तिष्ठन्तु स्वाहा ॥
गर्भाधानादि
षोडशसंस्कारान्सम्पादयामि ।
आवाहनाद्युपचाराः
देवेश
भक्तिसुलभ परिवारसमन्वित ।
यावत्त्वां
पूजयिष्यामि तावद्देव इहावह ।
आगच्छ
भगवन्देव स्थाने चात्र स्थितो भव ।
यावत्पूजां
करिष्यामि तावत्त्वं सन्निधौ भव ॥
ॐ
भूर्भुवःसुवः श्रीहनुमद्देवतामावाहयामि'' ।
``तवेयं महिमा मूर्तिस्तस्यां त्वां सर्वग प्रभो ।
भक्तिस्नेहसमाकृष्ट
दीपवत्स्थापयाम्यहम् ॥''
``ॐ भूर्भुवःसुवः श्रीहनुमद्देव इह तिष्ठ ।
``अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो ।
सान्निध्यं
कुरु तस्यां त्वं भक्तानुग्रहतत्पर ॥''
(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देव इह सन्निधेहि ।
``आज्ञया तव देवेश कृपाम्भोधे गुणाम्बुधे ॥
आत्मानन्दैकतृप्तं
त्वां निरुणध्मि पितर्गुरो ॥''
(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देव इह सन्निरुद्धो भव ।
``अज्ञानाद्दुर्मनस्त्वाद्वा वैकल्यात्साधनस्य च ॥
यदपूर्णं
भवेत्कृत्यं तदप्यभिमुखो भव ॥''
(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देव इह सम्मुखो भव ॥
अभक्तवाङ्मनश्चक्षु:श्रोत्रदूरातिगद्युते
॥
स्वतेजःपञ्जरेणाशु
वेष्टितो भव सर्वतः ॥
(मूलं) ॐ भुर्भूवःसुवः श्रीहनुमद्देव अवगुण्ठितो भव ॥
``यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये ।
तस्मै ते
परमेशाय स्वागतं च ब्रवीमि ते ॥''
(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देवाय नमः
सुस्वागतं
समर्पयामि ।
``देव देव महाराजरामचन्द्रप्रियेश्वर ।
आसनं
दिव्यमीशान दास्येऽहं परमेश्वर ॥
अपराधो
भवत्येव सेवकस्य पदे पदे ॥
कोऽपरः सहतां
लोके केवलं स्वामिनं विना ॥
(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देवाय नमः ।
आसनं
समर्पयामि ।
स्वागतं देव
देवेश मद्भाग्यात्त्वमिहागतः ।
प्राकृतं त्वं
च दृष्ट्वा मां बालवत्परिपालय ॥
(मूलं) ॐ भूर्भुवःसुवः श्रीहनुमद्देवतायां
प्रार्थनां
समर्पयामि, नमस्करोमि ॥
पीठपूजा
``ओं मण्डूकादिपरतत्वान्तपीठदेवताः स्थापयेत् ।
तथा च
पुष्पकेसराक्षतं देवतायां अर्पयेत् ।
ॐ मं मण्डूकाय
नमः । ॐ कां कालाग्निरुद्राय नमः ।
ॐ आं
आधारशक्त्यै नमः । ॐ कं कूर्माय नमः ।
ॐ अं अनन्ताय
नमः । ॐ पृं पृथिव्यै नमः ।
ॐ क्षीं
क्षीरसागराय नमः । ॐ रं रत्नद्वीपाय नमः ।
ॐ रं
रत्नमण्डपाय नमः । ॐ कं कल्पवृक्षाय नमः ।
ॐ रं
रत्नवेदिकायै नमः । ॐ रं रत्नसिंहासनाय नमः ।
(अग्निकोणे) -ॐ धं धर्माय नमः ।
(नैरऋत्ये) -ज्ञां ज्ञानाय नमः ।
(वायव्ये) ॐ वैं वैराग्याय नमः ।
(ईशाने) ॐ ऐं ऐश्वर्याय नमः ।
(पूर्वे) ॐ अं अधर्मायनमः ।
(दक्षिणे) ॐ अं अज्ञानाय नमः ।
(पश्चिमे) ॐ अं अवैराग्याय नमः ।
(उत्तरे) ॐ अं अनैश्वर्याय नमः ।
(मध्ये) ॐ सं संविन्नालाय नमः ॥
ॐ सं
सर्वतत्त्वकमलासनाय नमः ।
ॐ प्रं
प्रकृतिमयपत्रेभ्यो नमः ।
ॐ विं
विकारमयकेसरेभ्यो नमः ।
ॐ पं
पञ्चाशद्वर्णाढ्यकर्णिकाभ्यो नमः ॥
ॐ अं
अर्कमण्डलाय द्वादशकलात्मने नमः ।
ॐ सों
सोममण्डलाय षोडशकलात्मने नमः ।
ॐ वं
वह्निमण्डलाय दशकलात्मने नमः ।
ॐ सं सत्त्वाय
नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः ।
ॐ आं आत्मने
नमः । ॐ पं परमात्मने नमः ।
ॐ अं
अन्तरात्मने नमः । ॐ ह्रीं ज्ञानात्मने नमः ।
ॐ मं
मायातत्त्वाय नमः ।
ॐ कं
कलातत्त्वाय नमः । ॐ विं विद्यातत्वाय नमः ।
ॐ पं
परतत्त्वाय नमः ।
(एवं पीठदेवताः सम्पूज्य नवपीठशक्तीः पूजयेत्)
(पूर्वे) ॐ विमलायै नमः ॥ (आग्नेये) ॐ उत्कर्षिण्यै नमः ।
(दक्षिणे) ॐ ज्ञानायै नमः ।
(नैऋर्त्ये) -ॐ किर्यायै नमः ।
(पश्चिमे) -ॐ योगायै नमः । (वायव्ये) ॐ प्रह्वायै नमः ।
(उत्तरे) -ओं सत्यायै नमः । (ऐशान्ये) ॐ सत्यायै नमः ।
(पीठमध्ये) - ॐ अनुग्रहायै नमः ।
इति पीठशक्तीः
सम्पूज्य,
देवाज्ञां गृहीत्वा आवरणपूजां कुर्यात् ॥
तत्र क्रमः ॥
पुष्पाञ्जलिमादाय
``संविन्मयपरो देव परामृत रसप्रिय ।
अनुज्ञां देहि
हनुमन् परिवारार्चनाय मे'' ॥ (पुष्पाञ्जलिः)
षट्कोणयन्त्रपूजा
(षट्कोणेषु) ॐ हौं हृदयाय नमः
हृदयश्रीपादुकां
पूजयामि तर्पयामि
नमः ।
ॐ ह्स्फ्रें
शिरसे स्वाहा । शिरःश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ख्फ्रें
शिखायै वषट् शिखाश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्स्त्रौं
कवचाय हुं कवचश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हस्ख्फ्रें
नेत्रत्रयाय वौषट् नेत्रत्रयश्रीपादुकां पूजयामि तर्पयामि नमः ।
अभीष्टसिद्धिं
मे देहि शरणागतवत्सल ।
भक्त्या
समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
इति
पुष्पाञ्जलिं दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य
पूजितास्तर्पिताः
सन्तु इति वदेत् । (ततोऽष्टदले)
पूज्यपूजकयोरन्तरालं
प्राची । तदनुसारेण अन्या दिशः प्रकल्प्य
(दक्षहस्ते तर्जन्यङ्गुष्ठाभ्यां गन्धाक्षतपुष्पाणि गृहीत्वा,
प्राच्यादिक्रमेण
अष्टसु दिक्षु ॥ )
प्राच्याम् -
ॐ रामभक्ताय
नमः रामभक्तश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ महाबलाय नमः
महाबल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ
द्रोणाद्रिहारकाय नमः द्रोणाद्रिहारक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ
मेरुपीठकार्चनकारणाय नमः मेरुपीठकार्चनकारण श्रीपादुकां
पूजयामि
तर्पयामि नमः ॥
ॐ
सर्वविघ्ननिवारकाय नमः सर्वविघ्ननिवारक श्रीपादुकां पूजयामि
तर्पयामि नमः
॥
(ततः पुष्पाञ्जलिमादाय मूलं पठित्वा विशेषार्घ्याद्बिन्दुं दत्वा,
``अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
पूजितास्तर्पिताः
सन्तु इति वदेत् ।
ततः
अष्टदलाद्बहिः चतुरश्राभ्यन्तरे प्राच्याम् ।)
ॐ सुग्रीवाय
नमः सुग्रीवश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ अङ्गदाय नमः
अङ्गदश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ नीलाय नमः
नीलश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ जाम्बवते
नमः जाम्बवत्श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ नलाय नमः
नलश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ सुषेणाय नमः
सुषेणश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ द्विविदाय
नमः द्विविदश्रीपादुकां पूजयामि तर्पयामि नमः ॥
ॐ मैन्दाय नमः
मैन्दश्रीपादुकां पूजयामि तर्पयामि नमः ।
ततः
पुष्पाञ्जलिमादाय मूलं पठित्वा
``अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या
समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
(इत्युक्त्वा पुष्पाञ्जलिं दत्वा विशेषार्ध्याद्बिन्दुं दत्वा
पूजितास्तर्पिताः
सन्तु इति वदेत् ॥ )
(सन्धिषु पूर्वादिक्रमेण)
ॐ रक्षोघ्नाय
नमः रक्षोघ्नश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ विषघ्नाय
नमः विषनाशकश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ रिपुघ्नाय
नमः रिपुसंहारकश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ व्याधिघ्नाय
नमः व्याधिघ्नश्रीपादुकाम्पूजयामि तर्पयामि नमः ।
ॐ चोरघ्नाय
नमः चोरसंहारकश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ भूतघ्नाय
नमः भूतसंहारक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ
परशस्त्रास्त्रमन्त्रघ्नाय नमः परशस्त्रपरमन्त्रनिवारकश्रीपादुकां
पूजयामि
तर्पयामि नमः ।
ॐ भयनाशाय नमः
भयनिवारकश्रीपादुकां पूजयामि तर्पयामि नमः ।
इति सम्पूज्य
।
पुष्पाञ्जलिमादाय
मूलमुच्चार्य''
ॐ
अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या
समर्पये तुभ्यं चतुर्थावरणार्चनम् ।
इत्युक्त्वा
पुष्पाञ्जलिं च दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य
पूजितास्तर्पिताः
सन्तु - इति वदेत् ॥
(भूपुराद्वहिः प्रथमपङ्क्तौ पूर्वादिक्रमेण ॥ )
ॐ ऐरावताय नमः
ऐरावतश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पुण्डरीकाय
नमः पुण्डरीकश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ वामनाय नमः
वामनश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ कुमुदाय नमः
कुमुदश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ अञ्जनाय नमः
अञ्जनश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पुष्पदन्ताय
नमः पुष्पदन्तश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ सार्वभौमाय
नमः सार्वभौमश्रीपादुकां पूजयामि तर्पयामि नमः ॥
ॐ सुप्रतीकाय
नमः सुप्रतीकश्रीपादुकां पूजयामि तर्पयामि नमः ॥
ततः
पुष्पाञ्जलिमादाय मूलं पठित्वा
``अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या
समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥''
इत्युक्त्वा
पुष्पाञ्जलिं च दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य
``पूजितास्तर्पिताः सन्तु'' इति वदेत् ।
भूपुरादिद्वितीयरेखायां
पूर्वादिक्रमेण-
पूर्वे
ॐ लं इन्द्राय
नमः इन्द्रश्रीपादुकां पूजयामि तर्पयामि नमः ॥
ॐ रं अग्नये
नमः अग्निश्रीपादुकां पूजयामि तर्पयामि नमः ॥
ॐ मं यमाय नमः
यमश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ क्षं
निऋर्तये नमः निऋर्तिश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ वं वरुणाय
नमः वरुणश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यं वायवे
नमः वायुश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ कं कुबेराय
नमः कुबेरश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हं ईशानाय
नमः ईशानश्रीपादुकां पूजयामि तर्पयामि नमः ।
इन्द्रेशानयोर्मध्ये
।
ॐ आं ब्रह्मणे
नमः ब्रह्मश्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं
अनन्ताय नमः अनन्तश्रीपादुकां पूजयामि तर्पयामि नमः ।
इति दश
दिक्पालान्सम्पूज्य पुष्पाञ्जलिमादाय मूलमुच्चार्य ।
ॐ
अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या
समर्पये तुभ्यं षष्ठमावरणार्चनम् ॥
इत्युक्त्वा
पुष्पाञ्जलिं च दत्त्वा, विशेषार्घ्याद्बिन्दुं निक्षिप्य
``पूजितास्तर्पिताः सन्तु'' इति वदेत्
ततः
पूर्वादिक्रमेण तत्तत्समीपे -
ॐ वं वज्राय
नमः । ॐ शं शक्तये नमः । ॐ दं दण्डाय नमः ।ॐ खं खड्गाय नमः । ॐ पां पाशाय नमः । ॐ
अं अङ्कुशाय नमः ।
ॐ गं गदायै
नमः । ॐ त्रिं त्रिशूलाय नमः । ॐ पं पद्माय नमः ।ॐ चं चक्राय नमः । इत्यस्त्राणि
पूजयेत् ॥
ततः
पुष्पाञ्जलिं गृहीत्वा मूलमुच्चार्च्य
``ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या
समर्पये तुभ्यं सप्तमावरणार्चनम् ॥
इत्युक्त्वा
पुष्पाञ्जलिं च दत्वा विशेषार्घ्याद्बिन्दुं निक्षिप्य पूजितास्तर्पिताः सन्तु इति
वदेत् ॥ इत्यावरणपूजा ॥ उपचाराः”
यद्भक्तिलेशसम्पर्कात्परमानन्दसम्भवः
। तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥”
(मूलं ) “ॐ भुर्भुवःसुवः श्रीहनुमते नमः पाद्यं समर्पयामि ॥”
पापत्रयहरं
दिव्यं परमानन्दलक्षणम् । तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् ॥
(मूलमन्त्रं पठित्वा )
ॐ
भूर्भुवःसुवः श्रीहनुमते नमः इदमर्घ्यं समर्पयामि । देवानामपि देवाय देवानां
देवतात्मने ॥”
आचामं कल्पयामीश
शुद्धानां शुद्धिहेतवे ॥
(मूलमन्त्रं पठित्वा )
ॐ
भूर्भुवःसुवः श्रीहनुमते नमः आचमनीयं समर्पयामि ॥
मधुपर्कपञ्चामृतस्नानादि
च सर्वं देवोपयोगिपद्धतिमार्गेण कुर्यात् ॥
अशक्तश्चेज्जलस्नानं
मधुस्नानं शुद्धोदकस्नानं च कुर्यात् ॥
“गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलैः । स्नापितोऽसि मया देव तथा शान्तिं कुरुष्व
मे ॥
(मूलं पठित्वा )
ॐ
भूर्भुवःसुवः श्रीहनुमते नमः जलस्नानं समर्पयामि ॥”
तरुपुष्पसमुद्भूतं
सुस्वादु मधुरं मधु । तेजःपुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥
(मूलं पठित्वा )
ॐ भूर्भुवःसुवः
श्रीहनुमते नमः मधुस्नानं समर्पयामि ।
गङ्गा
-सरस्वती -रेवा -पयोष्णी -नर्मदाजलैः । स्नापितोऽसि मया देव तथा शान्तिं कुरुष्व
मे ॥
(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः पुण्यतीर्थस्नानं समर्पयामि ॥
सर्वभूषादिकसमे
लोकलज्जानिवारणे । मयैवापादिते तुभ्यं वाससी प्रतिगृह्यताम् ॥
(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः वस्त्रं समर्पयामि ॥
नवभिस्तन्तुभिर्युक्तं
त्रिगुणं देवतामयम् । उपवीतं चोत्तरीयं गृहाण परमेश्वर ॥
(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः यज्ञोपवीतं उत्तरीयं
च समर्पयामि ॥
श्रीखण्डं
चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥
(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः चन्दनं समर्पयामि ।
अक्षताश्च
सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ।
(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः अक्षतान्समर्पयामि ॥
“माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयानीतानि पुष्पाणि गृहाण
परमेश्वर ॥
(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः पुष्पाणि समर्पयामि ॥
वनस्पतिरसोद्भूतो
गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः धूपं समर्पयामि ॥
“सुप्रकाशो महादीपः सर्वतस्तिमिरापहः । सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं
प्रतिगृह्यताम् ॥
(मूलं ) ॐ भूर्भुवःसुवः श्रीहनुमते नमः दीपं समर्पयामि ॥
सत्पात्रसिद्धं
सहविर्विविधं स्वादु भक्षणम् । निवेदयामि देवेश सानुगाय गृहाण तत् ॥
(मूलं ) ॐ भूर्भुवःसुवः साङ्गाय सपरिवाराय श्रीहनुमते नमः नैवेद्यं समर्पयामि ॥
ब्रह्मेशाद्यैः
सरसमभितः सूपविष्टैः समेतं शिञ्जद्वालव्यजननिकरैर्वीज्यमानो गणौघैः ।
नर्मक्रीडा
-प्रहसनपरो हासयन् पङ्क्तिभोक्तॄन् , भुङ्क्ते पात्रे कनकघटिते षड्रसान् वायुपुत्रः ।
नमस्ते
देवदेवेश सर्वतृप्तिकरं परम् । अखण्डानन्दसम्पूर्णं गृहाण जलमुत्तमम् ।
(मूलं ) “ॐ भूर्भुवःसुवः श्रीहनुमते नमः जलं समर्पयामि ।
अथ ध्यानम् -
बालार्कायुततेजसं
त्रिभुवनप्रक्षोभकं सुन्दरं सुग्रीवादिसमस्तवानरगणैराराधितं साञ्जलिम् ।
नादेनैव
समस्तराक्षसगणान् सन्त्रासयन्तं प्रभुं श्रीमद्रामपदाम्बुजस्मृतिरतं ध्यायामि
वातात्मजम् ॥
अद्येहेत्यादि
मम (यजमानस्य ) सङ्कल्पोक्तफलावाप्तये श्रीहनुमद्देवतापुरश्चरणसिद्धये ,
चतुर्दिक्षु वटुकादिदेवताभ्यो दधिमाषान्नद्रव्यैः
पञ्चमहाभूतबलिदानं करिष्ये ।
“ॐ वटुकबलिपात्राधारमण्डलाय नमः ” “ॐ वँ वटुकबलिद्रव्याय नमः ” गन्धपुष्पाभ्यां नमः ।
(पूर्वे )
वँ वटुकाय नमः
,
ॐ ऐं ह्रीं श्रीं एह्येहि देवीपुत्र वटुकनाथ जटाभारभास्वर
त्रिनेत्र ज्वालामुख सर्वविघ्नान्नाशय नाशय सर्वोपचारसहितं इमं बलिं गृहाण गृहाण
स्वाहा ॥
प्रार्थना
ॐ
करकलितकपालःकुण्डलीदण्डपाणिःतरुणतिमिरनीलव्यालयज्ञोपवीती ।
ऋतुसमयसपर्याविघ्नविच्छेदहेतुः
जयति वटुकनाथः सिद्धिदः साधकानाम् ॥
बलिदानेन
सन्तुष्टो वटुकः सर्वसिद्धिदः । शान्तिं करोतु मे नित्यं भूतवेतालसेवितः ॥
(पुष्पाञ्जलिं कुर्यात् )
(उत्तरे ) ॐ गं गणपतये नमः गणेशबलिपात्राधारमण्डलाय नमः ।
(तत्पश्चात् )
ॐ
गणेशबलिद्रव्याय नमः । ॐ गां गीं गूं गैं गौं गः गणपतये वरवरद सर्वजनं मे वशमानय
सर्वोपचारसहितं बलिं गृह्ण -गृह्ण स्वाहा । सर्वदा सर्वकार्याणि निर्विघ्नं
साधयेन्मम ।
शान्तिं करोतु
सततं विघ्नराजः सशक्तिकः ।
(उत्तरस्यां ) “योगिनीबलिपात्राधारमण्डलाय नमः ”
“ॐ यां योगिनीबलिद्रव्याय नमः ” दक्षिणे यां सर्वयोगिनीभ्यो नमः ।
ॐ
सर्ववर्णयोगिन्यः इमं बलिं गृह्णन्तु गृह्णन्तु हुं फट् स्वाहा ।
ॐ ऊर्ध्वं
ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा
पाताले वा
स्थले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा ।
क्षेत्रे
पीठोपपीठे दिशि दिशि च कृते धूपदीपादिकेभ्यः
प्रीता देव्यः
सदा नः शुभविधिबलिनः पान्तु वीरेन्द्रवन्द्याः ॥
या
काचिद्योगिनी रौद्रा सौम्या घोरा परात्परा । खेचरी भूचरी व्योमवत्यः प्रीतास्तु मे
सदा ॥
यां
योगिनीभ्यः स्वाहा सर्वाभ्यो योगिनीभ्यः फट् ॥ (पुष्पाञ्जलिः )
(पश्चिमायां ) “क्षेत्रपालबलिपात्राधारमण्डलाय नमः ॥
“ॐ क्षं क्षेत्रपालबलिद्रव्याय नमः ” “पश्चिमे क्षं क्षेत्रपालाय नमः ॥
क्षां क्षीं
क्षूं क्षैं क्षौं क्षः भो स्थानक्षेत्रपाल इमं बलिं गृहाण सर्वकार्याणि पूरय पूरय
स्वाहा ॥”
योऽस्मिन्
क्षेत्रे निवासी च क्षेत्रपालः सकिङ्करः । प्रीतोऽयं बलिदानेन सर्वरक्षां करोतु मे
॥
“ह्रीं सर्वभूतविघ्नकृद्बलिपात्राधारमण्डलाय नमः ।”
“सर्वभूतविघ्नकृद्बलिद्रव्याय
नमः ।”
“ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यः इमं बलिं गृह्णन्तु गृह्णन्तु हुं फट्
स्वाहा ॥
भूता ये
विघ्नकर्तारः दिवि भूम्यन्तरिक्षगाः । पातालस्थलसंस्थाश्च शिवयोगेन भाविताः ।
क्रूराद्याः
शतसङ्ख्याकाः पाखण्डाद्या व्यवस्थिताः । ध्रुवाद्याः सत्यसङ्ख्याश्च
इन्द्राद्याशाव्यवस्थिताः ।
तृप्यन्तु
प्रीतमनसो भूता गृह्णन्त्विमं बलिम् । नगरे वाथ सङ्ग्रामे अटव्यां वै सरित्तटे ॥
वापीकूपेषु
वृक्षेषु श्मशाने च चतुष्पथे । नानारूपधरा ये च बहुरूपधराश्च ये ।
ते सर्वे चैव
सन्तुष्टा बलिं गृह्णन्तु मे सदा ॥
श्रीद्वादशाक्षरहनुमन्मत्रस्य
श्रीरामचन्द्रस्य ऋषेः बलिपात्राधार - मण्डलाय नमः
(मूलं
मन्त्रमुच्चार्य ) “श्रीरामचन्द्रऋषये इमं बलिं गृहाण गृहाण स्वाहा ॥”
(मूलमन्त्रं पठित्वा ) “ओं (मूलं ) हनुमद्देवताबलिद्रव्याय नमः ”
“ॐ (मूलं ) साङ्गायै सायुधायै सवाहनायै सपरिवारायै
सशक्तिकायै श्रीहनुमद्देवतायै नमः ।
ॐ (मूलं )
चण्डेश्वराय नमः धूं फट् चण्डेश्वराय इमं बलिं गृहाण गृहाण स्वाहा ॥”
चण्डेश्वरं
रक्ततनुं त्रिनेत्रं रक्तांशुकाढ्यं हृदि भावयामि ।
टङ्कं
त्रिशूलं स्फटिकाक्षमालां कमण्डलुं बिभ्रतमिन्दुचूडम् ॥
“कदलीगर्भसम्भूतं कर्पूरं च प्रदीपितम् । आरात्रिकमहं कुर्वे पश्य मे वरदो भव ॥”
(मूलं ) “ॐ भूर्भुवःसुवः श्रीहनुमते नमः कर्पूरारात्रिकं समर्पयामि ।
यानि कानि च
पापानि जन्मान्तरकृतानि वै । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥
ॐ
भूर्भुवःसुवः श्रीहनुमते नमः प्रदक्षिणं समर्पयामि ॥
“नानासुगन्धपुष्पाणि यथाकालोद्भवानि च । पुष्पाजलिं मया दत्तं गृहाण परमेश्वर ॥
ॐ
भूर्भुवःसुवः श्रीहनुमते नमः । पुष्पाञ्जलिं समर्पयामि ॥
यदुक्तं हृदि
भावेन पत्रं पुष्पं फलं जलम् । निवेदितं च नैवेद्यं गृहाण त्वनुकम्पया ॥
“अनया कृतया पूजया श्रीहनुमद्देवता प्रीयतां इदं न मम ।”
परिवारपूजा -
ॐ
भुर्भुवःसुवः श्रीरामचन्द्रऋषये स्वाहा । ॐ भुर्भुवःसुवः हौं स्वाहा । ॐ
भुर्भुवःसुवः ह्स्फ्रेऐं स्वाहा ।
ॐ भुर्भुवःसुवः
ख्फ्रें स्वाहा । ॐ भुर्भुवःसुवः ह्स्त्रौं स्वाहा । ॐ भुर्भुवःसुवः ह्स्ख्फ्रें
स्वाहा ।
ॐ
भुर्भुवःसुवः ह्सौं स्वाहा । ॐ भुर्भुवः सुवः रामभक्ताय स्वाहा । ॐ भुर्भुवःसुवः
महातेजसे स्वाहा ।
ॐ
भुर्भुवःसुवः कपिराजाय स्वाहा ।ॐ भुर्भुवःसुवः महाबलाय स्वाहा।ॐ भुर्भुवःसुवः
द्रोणाद्रिहारकाय स्वाहा ।
ॐ
भुर्भुवःसुवः मेरुपीठकार्चनकारकाय स्वाहा । ॐ भुर्भुवःसुवः दक्षिणाशाभास्कराय
स्वाहा ।
ॐ
भुर्भुवःसुवः सर्वविघ्ननिवारकाय स्वाहा । ॐ भुर्भुवः सुवः सुग्रीवाय स्वाहा ।
ॐ
भुर्भुवःसुवः अङ्गदाय स्वाहा । ॐ भुर्भुवःसुवःनीलाय स्वाहा । ॐ भुर्भुवःसुवः
जाम्बवते स्वाहा ।
ॐ
भुर्भुवःसुवः नलाय स्वाहा । ॐ भुर्भुवःसुवः सुषेणाय स्वाहा ।
ॐ भूर्भुवः
सुवः द्विविदाय स्वाहा । ॐ भूभुवः सुवः मैन्दाय स्वाहा ॥
ॐ तत्सद्ब्रह्मार्पणमस्तु ।
Related posts
vehicles
business
health
Featured Posts
Labels
- Astrology (7)
- D P karmakand डी पी कर्मकाण्ड (10)
- Hymn collection (38)
- Worship Method (32)
- अष्टक (54)
- उपनिषद (30)
- कथायें (127)
- कवच (61)
- कीलक (1)
- गणेश (25)
- गायत्री (1)
- गीतगोविन्द (27)
- गीता (34)
- चालीसा (7)
- ज्योतिष (32)
- ज्योतिषशास्त्र (86)
- तंत्र (182)
- दशकम (3)
- दसमहाविद्या (51)
- देवी (190)
- नामस्तोत्र (55)
- नीतिशास्त्र (21)
- पञ्चकम (10)
- पञ्जर (7)
- पूजन विधि (80)
- पूजन सामाग्री (12)
- मनुस्मृति (17)
- मन्त्रमहोदधि (26)
- मुहूर्त (6)
- रघुवंश (11)
- रहस्यम् (120)
- रामायण (48)
- रुद्रयामल तंत्र (117)
- लक्ष्मी (10)
- वनस्पतिशास्त्र (19)
- वास्तुशास्त्र (24)
- विष्णु (41)
- वेद-पुराण (691)
- व्याकरण (6)
- व्रत (23)
- शाबर मंत्र (1)
- शिव (54)
- श्राद्ध-प्रकरण (14)
- श्रीकृष्ण (22)
- श्रीराधा (2)
- श्रीराम (71)
- सप्तशती (22)
- साधना (10)
- सूक्त (30)
- सूत्रम् (4)
- स्तवन (109)
- स्तोत्र संग्रह (711)
- स्तोत्र संग्रह (6)
- हृदयस्तोत्र (10)
No comments: