क्रियोड्डीश महातन्त्रराज पटल १८
क्रियोड्डीश महातन्त्रराज पटल १८
में शिवयन्त्र, मृत्युञ्जयमन्त्र, रोगशान्त्यर्थत्रयम्बक-मृतसञ्जीवनीविधान का वर्णन किया गया है।
क्रियोड्डीश महातन्त्रराजः अष्टादशः पटलः
Kriyoddish mahatantraraj Patal 18
क्रियोड्डीश महातन्त्रराज पटल १८
क्रियोड्डीश महातन्त्रराज अष्टादश
पटल
क्रियोड्डीश महातन्त्रराज अट्ठारहवाँ पटल
क्रियोड्डीशमहातन्त्रराजः
अथाष्टादश: पटल:
क्रियोड्डीश महातन्त्रराज
पटल १८ - शिवयन्त्रम्
तत्रादौ षट्कोणमण्डलं कृत्वा तदन्ते
साध्यनामयुक्तं प्रासादबीजं विलिख्य षट्कोणेषु प्रणवसहितपञ्चाक्षरवर्णान् विलिख्य
विवरेषु षडङ्गमन्त्रात् तद्बहिः पञ्चदलानि विरच्य तद्दलेषु ॐ वामदेवाय नमः,
ॐ ईशानाय नमः, ॐ तत्पुरुषाय नमः, ॐ अघोराय नमः ॐ सद्योजाताय नमः इति पञ्च मन्त्रान् प्रागादिक्रमेण लिखेत्।
तद्बहिरष्टदलानि रचयित्वा तद्दलेषु मातृकावर्णान् लिखेत्। तद्वहिर्वृत्तं
त्र्यम्बकेन वेष्टयेत् । तद्यन्त्रे जपहोमादिः कार्यः ।
क्रियोड्डीश महातन्त्रराज
पटल १८ - मृत्युञ्जयमन्त्रम्
मध्ये साध्याक्षराढ्यं
ध्रुवमभिविलिखेन्मध्यमं दिग्दलेषु
कोणेष्वन्तं मनस्तक्षितिभुवनमथो
दिक्षु चन्द्रं विदिक्षु ।
ढान्तं यन्त्रं तदुक्तं सकलभयहरं
क्ष्वेडभूतापमृत्युः
व्याधिव्यामोहदुःखप्रशमनमुदितं
श्रीप्रदं कीर्तिदायि ।।
क्रियोड्डीश महातन्त्रराज
पटल १८ - रोगशान्त्यर्थं त्र्यम्बकमृतसञ्जीविनीविधानम्
स्वच्छं स्वच्छारविन्दस्थितमुभयकरे
संस्थितौ पूर्णकुम्भौ
द्वाभ्यामेणाक्षमाले निजकरकमले द्वौ
घटौ नित्यपूर्णौ ।
द्वाभ्यां द्वौ च स्रवन्तौ शिरसि
शशिकलां चामृतैः प्लावयन्तं
देहं देवो दधानं विदिशतु विशदां
कल्पजालैः श्रियं वः ।।
आदौ प्रासादबीजं तदनु मृतिहरं तारकं
व्याहृतिञ्च
प्रोच्चार्य त्र्यम्बकं यो जपति च
सततं संपुटं चानुलोमम् ।
गायत्र्याः पूर्वपादं तदनु च शिवदं
त्र्यम्बकस्यादिमं तत्
प्रोच्चार्यं ध्यानपूर्वं जपति हि
मननोऽत्वेति मृत्युं ध्रुवं सः ।।
प्रासादबीजं 'हौं' मृतिहरं त्र्यक्षरं मृत्युञ्जयमन्त्रं ॐ जूं सः
। तारकम् । ॐ व्याहृत भूर्भुवः स्वः । तेन हौं जूं सः । ॐ भूर्भुवः स्वः
ततत्र्यम्बकमन्त्रः पूर्वमन्त्रेणानुलोमक्रमेण सम्पुटितः; अस्य
जपात् सर्वसिद्धिर्भवति । पुनः गायत्र्या प्रथमपादं त्र्यम्बकस्य प्रथमपादमित्यादि
च ध्यानं पूर्वमुक्तम् ।
सर्वप्रथम प्रासाद बीज,
तदनन्तर मृतिहर, तारक एवं व्याहृति का उच्चारण
कर जो मनुष्य निरन्तर सम्पुटित एवं अनुलोम मन्त्र का जप करते हैं उनको सर्वसिद्धि
प्राप्त होती है । गायत्री का पूर्वपद उच्चरित करना चाहिये। हौं यह
प्रासादबीज है। मृत्युहर तीन अक्षर का ॐ जूं सः - यही त्र्यम्बक मन्त्र है
। ॐ को तारक कहते हैं। भूर्भुवः स्वः को व्याहृति कहते हैं। हौं
ॐ जूं सः ॐ भूर्भुवः स्व:- इस अनुलोम क्रम के अनुसार सम्पुटित कर जप करने से
सिद्धि प्राप्त होती है। तदुपरान्त गायत्री मन्त्र के प्रथम पाद एवं त्र्यम्बक
मन्त्र के प्रथम पाद को सम्पुटित कर जप करे। ध्यान पूर्व में कहा जा चुका है।
इति श्रीक्रियोड्डीशे महातन्त्रराजे
देवीश्वर-संवादेऽष्टादशः पटलः । । १८ ।।
क्रियोड्डीश महातन्त्रराज में
गौरी-शंकरसंवादात्मक अट्ठारहवाँ पटल पूर्ण हुआ ।। १८ ।।
आगे जारी...... क्रियोड्डीश महातन्त्रराज पटल 19
0 $type={blogger} :
Post a Comment