Slide show
Ad Code
JSON Variables
Total Pageviews
Blog Archive
-
▼
2021
(800)
-
▼
January
(88)
- आरुण्युपनिषद्
- हनुमान जी
- श्रीहनुमच्चतुर्विंशतिः
- श्रीहनूमन्नवरत्नपद्यमाला
- श्रीघटिकाचलहनुमत्स्तोत्रम्
- श्रीहनुमत्सहस्रनामावलिः अथवा आन्जनेयसहस्रनामावलिः
- हनुमत्सहस्रनामस्तोत्रम्
- हनुमत्सहस्रनाम स्तोत्रम्, श्रीहनुमत्सहस्र नामावलिः
- लान्गूलोपनिषत्
- श्रीहनुमत्कल्पः
- श्रीहनुमत्सूक्तम्
- श्रीहनुमत्स्तोत्रम्
- श्रीहनुमद्वन्दनम्
- श्रीहनुमद्-ध्यानम्-स्तवः-नमस्कारः
- हनुमान रक्षा स्तोत्र
- श्रीहनुमत्प्रशंसनम्
- श्रीहनुमत्ताण्डव स्तोत्रम्
- लाङ्गूलास्त्रशत्रुञ्जय हनुमत्स्तोत्रम्
- एकादशमुखि हनुमत्कवचम्
- एकादशमुख हनुमत्कवचम्
- सप्तमुखीहनुमत्कवचम्
- पञ्चमुख हनुमत् हृदयम्
- पञ्चमुखिहनुमत्कवचम्
- पंचमुखहनुमत्कवचम्
- पञ्चमुखि वीरहनूमत्कवचम्
- एकमुखी हनुमत्कवचम्
- संकट मोचन हनुमान् स्तोत्रम्
- श्रीहनुमत्कवचम्
- मारुतिकवच
- हनुमत्कवचं
- हनुमान द्वादशनाम स्तोत्र
- हनुमान अष्टोत्तर शतनाम स्तोत्रम्
- सुन्दरकाण्डरामायणनिर्णयः
- आञ्जनेय गायत्री ध्यानम् त्रिकाल वंदनं
- श्रीरामचरित मानस- उत्तरकांड, मासपारायण, तीसवाँ विश...
- श्रीरामचरित मानस- उत्तरकांड मासपारायण, उन्तीसवाँ व...
- श्रीरामचरित मानस- उत्तरकांड, मासपारायण, अट्ठाईसवाँ...
- श्रीरामचरित मानस- लंकाकांड, मासपारायण, सत्ताईसवाँ ...
- श्रीरामचरित मानस- लंकाकांड, मासपारायण, छब्बीसवाँ व...
- श्रीरामचरित मानस- लंकाकांड, मासपारायण, पच्चीसवाँ व...
- श्री राम चरित मानस- सुंदरकांड, मासपारायण, चौबीसवाँ...
- श्री राम चरित मानस- किष्किंधाकांड, मासपारायण, तेईस...
- श्री राम चरित मानस- अरण्यकांड, मासपारायण, बाईसवाँ ...
- आदित्यहृदयम् भविष्योत्तरपुराणान्तर्गतम्
- श्री राम चरित मानस- अयोध्याकांड, मासपारायण, इक्कीस...
- श्री राम चरित मानस- अयोध्याकांड, मासपारायण, बीसवाँ...
- श्री राम चरित मानस- अयोध्याकांड, मासपारायण, उन्नीस...
- श्री राम चरित मानस- अयोध्याकांड, मासपारायण, अठारहव...
- श्री राम चरित मानस- अयोध्याकांड, मासपारायण, सत्रहव...
- श्री राम चरित मानस- अयोध्याकांड, मासपारायण, सोलहवा...
- श्री राम चरित मानस- अयोध्याकांड, मासपारायण, पन्द्र...
- श्री राम चरित मानस- अयोध्याकांड, मासपारायण, चौदहवा...
- श्री राम चरित मानस- अयोध्याकांड
- वज्रसूचिका उपनिषद्
- शिवसङ्कल्पोपनिषत्
- कालाग्निरुद्रोपनिषत्
- शरभोपनिषत्
- सर्वसारोपनिषत्
- रुद्राष्टाध्यायी
- कठरुद्रोपनिषत्
- रुद्राष्टकम्
- मुण्डकोपनिषद् तृतीयमुण्डक द्वितीय खण्ड
- मुण्डकोपनिषद् तृतीय मुण्डक प्रथम खण्ड
- मुण्डकोपनिषद् द्वितीय मुण्डक द्वितीय खण्ड
- मुण्डकोपनिषद् द्वितीय मुण्डक प्रथम खण्ड
- मुण्डकोपनिषद् प्रथममुण्डक द्वितीय खण्ड
- मुण्डकोपनिषद्
- श्री राम चरित मानस- बालकाण्ड, मासपारायण, बारहवाँ व...
- श्री राम चरित मानस- बालकाण्ड, मासपारायण, ग्यारहवाँ...
- श्री राम चरित मानस- बालकाण्ड, मासपारायण, दसवाँ विश...
- श्री राम चरित मानस- बालकाण्ड, मासपारायण, नवाँ विश्राम
- श्री राम चरित मानस- बालकाण्ड, मासपारायण, आठवाँ विश...
- श्री राम चरित मानस- बालकाण्ड, मासपारायण, सातवाँ वि...
- श्री राम चरित मानस- बालकाण्ड, मासपारायण, छठा विश्राम
- श्री राम चरित मानस- बालकाण्ड, मासपारायण, पाँचवाँ व...
- श्री राम चरित मानस- बालकाण्ड, मासपारायण, चौथा विश्राम
- श्री राम चरित मानस- बालकाण्ड, मासपारायण, तीसरा विश...
- श्री राम चरित मानस- बालकाण्ड, मासपारायण, दूसरा विश...
- स्कन्दोपनिषत्
- शिव प्रश्नावली चक्र
- श्रीगणेश प्रश्नावली चक्र
- नवदुर्गा प्रश्नावली चक्र
- हनुमान प्रश्नावली चक्र
- श्रीराम शलाका प्रश्नावली
- रामचरितमानस बालकांड पहला विश्राम
- श्रीरामचरित मानस- पारायण विधि
- श्रीरामदशावरणपूजा
- राम पूजन विधि
-
▼
January
(88)
Search This Blog
Fashion
Menu Footer Widget
Text Widget
Bonjour & Welcome
About Me
Labels
- Astrology
- D P karmakand डी पी कर्मकाण्ड
- Hymn collection
- Worship Method
- अष्टक
- उपनिषद
- कथायें
- कवच
- कीलक
- गणेश
- गायत्री
- गीतगोविन्द
- गीता
- चालीसा
- ज्योतिष
- ज्योतिषशास्त्र
- तंत्र
- दशकम
- दसमहाविद्या
- देवी
- नामस्तोत्र
- नीतिशास्त्र
- पञ्चकम
- पञ्जर
- पूजन विधि
- पूजन सामाग्री
- मनुस्मृति
- मन्त्रमहोदधि
- मुहूर्त
- रघुवंश
- रहस्यम्
- रामायण
- रुद्रयामल तंत्र
- लक्ष्मी
- वनस्पतिशास्त्र
- वास्तुशास्त्र
- विष्णु
- वेद-पुराण
- व्याकरण
- व्रत
- शाबर मंत्र
- शिव
- श्राद्ध-प्रकरण
- श्रीकृष्ण
- श्रीराधा
- श्रीराम
- सप्तशती
- साधना
- सूक्त
- सूत्रम्
- स्तवन
- स्तोत्र संग्रह
- स्तोत्र संग्रह
- हृदयस्तोत्र
Tags
Contact Form
Contact Form
Followers
Ticker
Slider
Labels Cloud
Translate
Pages
Popular Posts
-
मूल शांति पूजन विधि कहा गया है कि यदि भोजन बिगड़ गया तो शरीर बिगड़ गया और यदि संस्कार बिगड़ गया तो जीवन बिगड़ गया । प्राचीन काल से परंपरा रही कि...
-
रघुवंशम् द्वितीय सर्ग Raghuvansham dvitiya sarg महाकवि कालिदास जी की महाकाव्य रघुवंशम् प्रथम सर्ग में आपने पढ़ा कि-महाराज दिलीप व उनकी प...
-
रूद्र सूक्त Rudra suktam ' रुद्र ' शब्द की निरुक्ति के अनुसार भगवान् रुद्र दुःखनाशक , पापनाशक एवं ज्ञानदाता हैं। रुद्र सूक्त में भ...
Popular Posts
अगहन बृहस्पति व्रत व कथा
मार्तण्ड भैरव स्तोत्रम्
हनुमत्सहस्रनामस्तोत्रम्
हनुमत्सहस्रनामस्तोत्रम् का पाठ यदि
नियमित रूप से किया जाए तो कोई बाधा आपके जीवन में नहीं आ सकती। इसके पाठ करने से
बड़े से बड़ा भय दूर हो जाता है। यहाँ श्रीसुदर्शनसंहिता से हनुमत्सहस्रनामस्तोत्रम्
दिया जा रहा है।
हनुमत्सहस्रनामस्तोत्रम्
अस्य
श्रीहनुमद्दिव्यसहस्रनामस्तोत्रमन्त्रस्य अनुष्टुप्छन्दः ।
श्रीराम ऋषिः । श्रीहनुमान्देवता ।
आञ्जनेयेतिशक्तिः ।
वातात्मजेति दैवतं बीजम् ।
श्रीहनुमानिति मन्त्रः ।
मर्कटराडिति कीलकम् । वज्रकायेति
कवचम् ।
बलवानिति योनिः । दंष्ट्रायुधेति
अस्त्रम् ।
॥ हृदयादि न्यासः ॥
अञ्जनीसूनवे नमः इति हृदये ।
रुद्ररूपाय नमः शिरसे स्वाहा ।
वायुसुतायेति शिखायै वषट् ।
अग्निगर्भाय नमः कवचाय हुं ।
रामदूताय नमः नेत्रत्रयाय वौषट् ।
ब्रह्मास्त्रस्तम्भनायेति अस्त्राय
फट् ॥
॥ ध्यानम् ॥
चन्द्राभं चरणारविन्दयुगलं
कौपीनमौञ्जीधरं
नाभ्यां वै कटिसूत्रयुक्तवसनं
यज्ञोपवीतावृतम् ।
हस्ताभ्यामवलम्ब्य चाञ्जलिमथो
हारावलीकुण्डलं
बिभ्रद्दीर्घशिखं प्रसन्नवदनं दिव्याञ्जनेयं
भजे ॥
अथ हनुमत्सहस्रनामस्तोत्रम्
ॐ हनुमानञ्जनीसूनुर्वायुपुत्रो
महाबलः ।
केसरीनन्दनः
श्रीमान्विश्वकर्माऽर्चितध्वजः ॥ १॥
ईश्वरांशः स्वयंज्ञातः
पार्वतीगर्भसम्भवः ।
सुचिरं मातृगर्भस्थो
गर्भवैष्णवसंस्कृतः ॥ २॥
ब्रह्मचारीन्द्रभजितः
सर्वविद्याविशारदः ।
मातृगर्भस्थनरनो हरिध्यानपरायणः ॥
३॥
शोणनक्षत्रजः सूर्यगिलनः कपिवल्लबः
।
वज्रदेही महाबाहुर्जगदाश्चर्यशैशवः
॥ ४॥
कालेन सह युद्धार्थो
कालदण्डप्रहारकः ।
कालकिङ्करहारी च कालान्तकविमर्दनः ॥
५॥
नखायुधः सर्वजयो रणेश्वरो भुजायुधः
।
शैलविक्षेपकभुजो क्षेपकः पाटघट्टनः
॥ ६॥
वालपाशायुधो दंष्ट्रायुधः परमसाहसः
।
निरायुधजयो योद्धा वनञ्जी
हीरपुङ्गवः ॥ ७॥
अचेतसरिपुर्भूतरक्षकोऽनन्तविग्रहः ।
ईशानविग्रहः किन्नरेशो गन्धर्वनाशनः
॥ ८॥
अद्रिभिन्मन्त्रकृद्भूतस्नेहहन्मेघनिर्जितः
।
पुरन्दरधनुश्छेत्ता मातलेर्मदभञ्जनः
॥ ९॥
ब्रह्मास्त्रस्तम्भनो
रौद्रबाणनिर्हरणोऽनिलः ।
ऐरावतबलोच्छेदी
वृत्रारेर्बाहुभञ्जनः ॥ १०॥
योगनिद्रासकृमना जगत्संहारकारकः ।
विष्णोरागमनोपायः कारणः पुनरुछ्रितः
॥ ११॥
नक्तञ्चराहितोर्द्धर्ता
सर्वेन्द्रियजितः शुचिः ।
स्वबलाबलसंज्ञातः कामरूपी महोन्नतः
॥ १२॥
पिङ्गलाक्षो महाबुद्धिः
सर्वस्त्रीमातृदर्शकः ।
वनेचरो वायुवेगी सुग्रीवराज्यकारणः
॥ १३॥
वालीहननकृत्प्राज्ञः रामेष्टः
कपिसत्तमः ।
समुद्रतरणछायाग्राहभिच्छूरशक्तिहा ॥
१४॥
सीतासुवेषणः शुद्धो पावनः पवनोऽनलः
।
अतिप्रवृद्धो गुणवान् जानकीशोकनाशनः
॥ १५॥
दशग्रीववनोत्पाटी वनपालकनिर्जितः ।
बहुरूपो बृहद्रूपो जरामरणवर्जितः ॥
१६॥
रक्तकुण्डलधृग्धीमान्कनकाङ्गः
सुरारिहा ।
वक्रनासोऽसुरघ्नश्च रजोहा सहरूपधृक्
॥ १७॥
शार्दूलमुखजित् वड्गरोमहा
दीर्घजिह्वजित् ।
रक्तरोमाह्वयरिपुः शतजिह्वाख्यसूदनः
॥ १८॥
रक्तलोचनविध्वंसी स्तनितस्थितवैरिणः
।
शूलदंष्ट्राहितो वज्रकवचारिर्महाभटः
॥ १९॥
जम्बुमालीहरोऽक्षघ्नो
कालपाशस्वनस्थितः ।
दशास्यवक्षःसन्तापी
सप्तमन्त्रिसुतान्तकः ॥ २०॥
लङ्कनीदमनः सौम्यो
दिव्यमङ्गलविग्रहः ।
रामपत्न्याः शुचोहर्ता
सङ्ख्यातीतधरालयः ॥ २१॥
लङ्काप्रासादविच्छेदी
निःसङ्गोऽमितविक्रमः ।
एकवीरो महाजङ्घो मालीप्राणापहारकः ॥
२२॥
प्रेमनेत्रप्रमथनो
कालाग्निसदृशप्रभः ।
विकम्पनगदाहारी विग्रहो वीरपुङ्गवः
॥ २३॥
विशालरौप्यसंहर्ता
त्रिशिराख्यविमर्दनः ।
कुम्भवैरी दशग्रीवदोरतो रविभेदकः ॥
२४॥
भिषक्पतिर्महावैद्यो नित्यामृतकरः
शुचिः ।
धन्वन्तरिर्जगद्भूत औषधीशो
विशाम्पतिः ॥ २५॥
दिव्यौषधाद्यानयिताऽमृतवानरजीवनः ।
सङ्ग्रामजयवर्धश्च लोकपर्यन्तवर्धनः
॥ २६॥
इन्द्रजिद्भूतलोत्पन्नः
प्रतापयडभीकरः ।
माल्यवन्तप्रशमनः सौमित्रेर्जीवदायकः
॥ २७॥
स्थूलजङ्घजितः स्थूलो
महानादविनिर्जितः ।
महादंष्ट्रान्तकः क्रोधी
महोदरविनाशकृत् ॥ २८॥
महोरस्को सुरारातिः
उल्कामुखनिकृन्तनः ।
महावीर्योऽजयः
सूक्ष्मश्चतुर्वक्त्रविदारणः ॥ २९॥
हस्तिकर्णान्तकः
शङ्खकर्णशत्रुर्महोज्ज्वलः ।
मेघान्तकः कालरुद्रो
चित्रागतिर्जगत्पतिः ॥ ३०॥
सर्वलक्षणलक्षण्यो
भिषजादिप्रतिष्ठितः ।
दुर्गं बिलेन कुर्वाणः
प्लवङ्गवररक्षकः ॥ ३१॥
पाताललङ्कागमनो उद्दण्डो नन्दिमोचकः
।
प्रस्थवल्लभसन्त्राता
भीकराक्षीनिकृन्तनः ॥ ३२॥
भेरीवचःशिरश्छेदी
व्योमवीक्ष्यनिषूदनः ।
निर्धूतकायनिर्जैत्रः
ऊर्ध्ववक्त्रविदूरकः ॥ ३३॥
निर्घोषहास्यविध्वस्तो
तीव्रघोराननान्तकः ।
आस्फोटकसैन्यविद्वेषी
मैत्रावरुणभञ्जनः ।
जगदेकःस्फुरद्वीर्यो नीलमेघस्य
राज्यकः ॥ ३४॥
रामलक्ष्मणयोरुद्धर्ता तत्सहायजयः
शुभः ।
प्रादुर्होमघ्नकृत्सर्वकिल्विषो
पापनाशनः ॥ ३५॥
गुहप्राणप्रतिष्ठाता भरतप्राणरक्षकः
।
कपिः कपीश्वरः काव्यो
महानाटककाव्यकृत् ॥ ३६॥
शुद्धक्रियाव्रतो गानी
गानविद्याविशारदः ।
चतुःषष्टिकलादक्षः सर्वज्ञः
सर्वशास्त्रवित् ॥ ३७॥
सर्वशक्तिर्निरालम्बः
कूर्मपृष्ठविदारणः ।
ध्वंसरूपः सदापूज्यो भीमप्राणाभिरक्षकः
॥ ३८॥
पाण्डवेशः परंब्रह्म परमात्मा
परन्तपः ।
पञ्चवक्त्रो हयग्रीवः पक्षिराजो
परःशिवः ॥ ३९॥
नारसिंहः परञ्ज्योतिर्वराहः
प्लवगेश्वरः ।
महोरस्को महातेजा महात्मा
भुजविंशतिः ॥ ४०॥
शैलमुद्धृतखड्गश्व शङ्खचक्रगदाधरः ।
नानायुधधरः शूली धनुर्वेदपरायणः ॥
४१॥
आक्ष्याह्वयशिरोहारी कवची
दिव्यबाणभृत् ।
ताडकासुतसंहारी स्वयंमूर्तिरलाम्बलः
॥ ४२॥
ब्रह्मात्मा ब्रह्मकृद्ब्रह्म
ब्रह्मलोकप्रकाङ्क्षणः ।
श्रीकण्ठः शङ्करः स्थाणुः परंधाम
परा गतिः ॥ ४३॥
पीताम्बरधरश्चक्री व्योमकेशः
सदाशिवः ।
त्रिमूर्त्यात्मा त्रिलोकेशस्त्रिगणस्त्रिदिवेश्वरः
॥ ४४॥
वासुदेवः परंव्योम परत्वं च परोदयः
।
परं ज्ञानं परानन्दः परोऽव्यक्तः
परात्परः ॥ ४५॥
परमार्थः परो ध्येयः परध्येयः
परेश्वरः ।
परर्द्धिः सर्वतोभद्रो निर्विकल्पो निरामयः ॥ ४६॥
निराश्रयो निराकारो निर्लेपः
सर्वदुःखहा ।
ब्रह्मविद्याश्रयोऽनीशोऽहार्यो
पातिरविग्रहः ॥ ४७॥
निर्णयश्चतुरोऽनन्तो निष्कलः
सर्वभावनः ।
अनयोऽतीन्द्रियोऽचिन्त्योऽमिताहारो
निरञ्जनः ॥ ४८॥
अक्षयः सर्वसंस्पृष्टो सर्वकं
चिन्मयः शिवः ।
अच्युतः सर्वफलदो दाता
श्रीपुरुषोत्तमः ॥ ४९॥
सर्वदा सर्वसाक्षी च सर्वः
सर्वार्तिशायकः ।
सर्वसारः सर्वरूपो सर्वात्मा
सर्वतोमुखः ॥ ५०॥
सर्वशास्त्रमयो गुह्यो सर्वार्थः
सर्वकारणः ।
वेदान्तवेद्यः सर्वार्थी
नित्यानन्दो महाहविः ॥ ५१॥
सर्वेश्वरो महाविष्णुर्नित्ययुक्तः
सनातनः ।
षड्विम्शको योगपतिर्योगगम्यः स्वयंप्रभुः
॥ ५२॥
मायापतिर्भवोऽनर्थः भवबन्धैकमोचकः ।
पुराणः पुरुषः सत्यो
तापत्रयविवर्जितः ॥ ५३॥
नित्योदितः शुद्धबुद्धो
कालातीतोऽपराजितः ।
पूर्णो जगन्निधिर्हंसः
कल्याणगुणभाजनः ॥ ५४॥
दुर्जयः प्रकृतिस्वामी
सर्वाश्रयमयोऽतिगः ।
योगिप्रियः सर्वहरस्तारणः स्तुतिवर्धनः
॥ ५५॥
अन्तर्यामी जगन्नथः स्वरूपः सर्वतः
समः ।
कैवल्यनाथः कूटस्थः सर्वभूतवशङ्करः
॥ ५६॥
सङ्कर्षणो भयकरः कालः सत्यसुखैकभूः
।
अतुल्यो निश्चलः साक्षी
निरुपाधिप्रियो हरिः ॥ ५७॥
नाहंवादो हृषीकेशः प्रभानाथो
जगन्मयः ।
अनन्तश्रीर्विश्वबीजं निःसीमः
सर्ववीर्यजित् ॥ ५८॥
स्वप्रकाशः सर्वगतिः सिद्धार्थो
विश्वमोहनः ।
अनिर्लङ्घ्यो महामायः प्रद्युम्नो
देवनायकः ॥ ५९॥
प्राणेश्वरो जगद्बन्धुः
क्षेत्रज्ञस्त्रिगुणेश्वरः ।
क्षरो दुरासदो ब्रह्म प्रणवो
विश्वसूत्रधृक् ॥ ६०॥
सर्वानवद्यः संस्थेयः सर्वधामा
मनःपतिः ।
आनन्दः श्रीपतिः श्रीदः
प्राणसत्त्वनियोजकः ॥ ६१॥
अनन्तलीलाकर्तृज्ञो दुष्प्रापः
कालचक्रकृत् ।
आदियातः सर्वशक्तः सर्वदेवः
सदोर्जितः ॥ ६२॥
जगद्धाता जगज्जैत्रो वाङ्मनो
जगदार्तिहा ।
स्वस्वतश्रीरसुरारिर्मुकुन्दः
श्रीनिकेतनः ॥ ६३॥
विप्रशम्भुः पिता मूलप्रकृतिः
सर्वमङ्गलः ।
सृष्टिस्थित्यन्तकृच्छ्रेष्ठो
वैकुण्ठः सज्जनाश्रयः ॥ ६४॥
अनुत्तमः पुनर्जातो
रुद्रादुत्कवचाननः ।
त्रैलोक्यपावनः सिद्धः पादो
विश्वधुरन्धरः ॥ ६५॥
ब्रह्मा ब्रह्मपिता यज्ञः
पुष्पनेत्रार्थकृत्कविः ।
सर्वमोहः सदापुष्टः सर्वदेवप्रियो
विभुः ॥ ६६॥
यज्ञत्राता जगत्सेतुः पुण्यो
दुःस्वप्ननाशनः ।
सर्वदुष्टान्तकृत्साध्यो यज्ञेशो
यज्ञभावनः ॥ ६७॥
यज्ञभुग्यज्ञफलदो सर्वश्रेयो
द्विजप्रियः ।
वनमाली सदापूतश्चतुर्मूर्तिः
सदार्चितः ॥ ६८॥
मुक्तकेशः सर्वहितो देवसारः
सदाप्रियः ।
अनिर्देश्यवपुः
सर्वदेवमूर्तिश्चतुर्भुजः ॥ ६९॥
अनन्तकीर्तिःनिःसङ्गो
सर्वदेवशिरोमणिः ।
परार्थकर्ता भगवान्स्वार्थकर्ता
तपोनिधिः ॥ ७०॥
वेदगुह्यः सदोदीर्णो
वृद्धिक्षयविवर्जितः ।
साधर्मतुः सदाशान्तो विश्वारातो
वृषाकपिः ॥ ७१॥
कपिर्भक्तः पराधीनः पुराणः कुलदेवता
।
मायावानरचारित्र्यः
पुण्यश्रवणकीर्तनः ॥ ७२॥
उत्सवोऽनन्तमाहात्म्यः
कृपालुर्धर्मजीवनः ।
सहस्रनामविज्ञेयो नित्यतृप्तः
सुभद्रकः ॥ ७३॥
एकवीरो महोदारः पावनो उर्ग्रवीक्षणः
।
विश्वभोक्ता महावीरः कर्ता
नाद्भुतभोगवान् ॥ ७४॥
त्रियुगः शूलविध्वंसी सामसारः
सुविक्रमः ।
नारायणो लोकगुरुर्विष्वक्सेनो
महाप्रभुः ॥ ७५॥
यज्ञसारो मुनिस्तुत्यो निर्मलो
भक्तवत्सलः ।
लोकैकनायकः सर्वः सजानामन्यसाधकः ॥
मोक्षदोऽखिललोकेशः
सदाध्येयस्त्रिविक्रमः ।
माताहितस्त्रिलोकात्मा नक्षत्रेशः
क्षुधापहः ॥ ७६॥
शब्दब्रह्मदयासारः
कालमृत्युनिवर्तकः ।
अमोघास्त्रः स्वयंव्यक्तः सर्वसत्यं
शुभैकधृक् ॥ ७७॥
सहस्रबाहुरव्यक्तः
कालमृत्युनिवर्तकः ।
अखिलाम्भोनिधिर्दति सर्वविघ्नान्तको
विभुः ॥ ७८॥
महावराहो
नृपतिर्दुष्टभुग्दैत्यमन्मथः ।
महादंष्ट्रायुधः सर्वः सर्वजिद्भूरिविक्रमः
॥ ७९॥
अभिप्रायत्तदारोज्ञः
सर्वमन्त्रैकरूपवान् ।
जनार्द्दनो महायोगी गुरुपूज्यो
महाभुजः ॥ ८०॥
भैरवाडम्बरोद्दण्डः
सर्वयन्त्रविधारणः ।
सर्वाद्भुतो महावीरः करालः
सर्वदुःखहा ॥ ८१॥
अगम्योपनिषद्गम्योऽनन्तः सङ्कर्षणः
प्रभुः ।
अकम्पनो महापूर्णः शरणागतवत्सलः ॥
८२॥
अगम्यो योऽद्भुतबलः सुलभो जयतिर्जयः
।
अरिकोलाहलो वज्रधरः सर्वाघनाशनः ॥
८३॥
धीरोद्धारः सदापुण्यो पुण्यं
गुणगणेश्वरः ।
सत्यव्रतः पूर्वभाषी शरणत्राणतत्परः
॥ ८४॥
पुण्योदयः पुराणेज्यो स्मितवक्त्रो
महाहरिः ।
मितभाषी व्रतफलो योगानन्दो महाशिवः
॥ ८५॥
आधारनिलयो जह्नुः
वातातीतोऽतिनिद्रहा ।
भक्तचिन्तामणिर्वीरदर्प्पहा
सर्वपूर्वकः ॥ ८६॥
युगान्तः सर्वरोगघ्नः सर्वदेवमयः
पुरः ।
ब्रह्मतेजः सहस्राक्षो
विश्वश्लाघ्यो जगद्वशः ॥ ८७॥
आदिविद्वान्सुसन्तोषो
चक्त्रवर्तिर्महानिधिः ।
अद्वितीयो बहिःकर्ता
जगत्त्रयपवित्रितः ॥ ८८॥
समस्तपातकध्वंसी क्षोणीमूर्तिः
कृतान्तजित् ।
त्रिकालजैवो जगतां भगवद्भक्तिवर्धनः
॥ ८९॥
असाध्यो श्रीमयो ब्रह्मचारी
मयभयापहः ।
भैरवेशश्चतुर्वर्णः
शितिकण्ठयशःप्रदः ॥ ९०॥
अमोघवीर्यो वरदो समग्र्यः
काश्यपान्वयः ।
रुद्रचण्डी पुराणर्षिर्मण्डनो
व्याधिनाशकृत् ॥ ९१॥
आद्यः सनातनः सिद्धः सर्वश्रेष्ठो
यशः पुमान् ।
उपेन्द्रो वामनोत्साहो मान्यो
विष्मान्विशोधनः ॥ ९२॥
अनन्यः सात्वतां श्रेष्ठो
राज्यदेशगुणार्णवः ।
विशेषोऽनुत्तमो मेधा
मनोवाक्कायदोषहा ॥ ९३॥
आत्मवान्प्रथितः सर्वभद्रो
ग्राह्योऽभयप्रदः ।
भोगदोऽतीन्द्रियः सर्वः प्रकृष्टो
धरणीजयः ॥ ९४॥
विश्वभूर्ज्ञानविज्ञानो
भूषितादर्थिमात्मजः ।
धर्माध्यक्षः कृताध्यक्षो
धर्माधर्मधुरन्धरः ॥ ९५॥
धर्मद्रष्टा धर्ममयो धर्मात्मा
धर्मपालकः ।
रत्नगर्भश्चतुर्वेदो
वरशीलोऽखिलार्थदः ॥ ९६॥
दैत्याशाखण्डनो
वीरबाहुर्विश्वप्रकाशकः ।
देवदूत्यात्माजो भीमः
सत्यार्थोऽखिलसाधकः ॥ ९७॥
ग्रामाधीशो दयाधीशो महामोहतमिस्रहा
।
योगस्वामी
सहस्त्राङ्घ्रिर्ज्ञानयोगः सुधामयः ॥ ९८॥
विश्वजिज्जगतः शास्ता पीतकौपीनधारणः
।
अहिर्नभावकुपितो विश्वरेता अनाकुलः
॥ ९९॥
चतुर्युगः सर्वशून्यः स्वस्थो
भोगमहाप्रदः ।
आश्रमानां गुरुः श्रेष्ठो
विश्वात्मा चित्ररूपिणः ॥ १००॥
एकाकी दिव्यद्रविणो इन्द्रो
शेषादिपूरुषः ।
नराकृतिर्देवमान्यो महाकायशिरोभुजः
॥ १०१॥
अनन्तप्रलयः स्थैर्यो वाल्लीयो
दुष्टमोहनः ।
धर्माङ्कितो देवदेवो देवार्थः
श्रुतिगोपकः ॥ १०२॥
वेदान्तकर्ता दुष्टघ्नो श्रीधनः
सुखदः प्रभुः ।
शौरिः शुद्धमना शुद्धः
सर्वोत्कृष्टो जयध्वजः ॥ १०३॥
धृतात्मा श्रुतिमार्गेशः कर्ता सः
सामवेदराट् ।
मृत्युञ्जयः पराद्वेषी रुद्रराट्
छन्दसां वरः ॥ १०४॥
विद्याधरः पूर्वसिद्धो
दान्तश्रेष्ठो सुरोत्तमः ।
श्रेष्ठो विधिर्बद्धशिरो गन्धर्वः
कालसङ्गमः ॥ १०५॥
विध्वस्तमोहनोऽध्यात्मा कामधेनुः
सुदर्शनः ।
चिन्तामणिः कृपाचार्यो ब्रह्मराट्
कल्पपादपः ॥ १०६॥
दिनं पक्षो वसन्तर्तुर्वत्सरः
कल्पसंज्ञकः ।
आत्मतत्त्वाधिपो वीरः सत्यः
सत्यप्रवर्तकः ॥ १०७॥
अध्यात्मविद्या ॐकारः
सगुणोऽक्षरोत्तमः ।
गणाधीशो महामौनी मरीचिर्फलभुग्जगुः
॥ १०८॥
दुर्गमो वासुकिर्बर्हिर्मुकुन्दो
जनकां प्रथी ।
प्रतिज्ञा साधको मेघः सन्मार्गः सूक्ष्मगोचरः
॥ १०९॥
भरतश्रेष्ठश्चित्रर्थो गुह्यो
रात्रि प्रयातनः ।
महासनो महेष्वासो सुप्रसादः
शुचिःश्रवाः ॥ ११०॥
सांवर्त्तको बृहद्भानुर्वरारोहो
महाद्युतिः ।
महामूर्द्धातिभ्राजिष्णुर्भूतकृत्सर्वदर्शनः
॥ १११॥
महाभोगो महाशक्तिः समात्मा
सर्वधीश्वरः ।
अप्रमेयः समावर्त्तः विघ्नहर्ता
प्रजाधरः ॥ ११२॥
चिरञ्जीवः सदामर्षी दुर्लभः
शोकनाशनः ।
जीवितात्मा महागर्त्तः सुस्तनः
सर्वविज्जयी ॥ ११३॥
कृतकर्मा विधेयात्मा कृतज्ञः
समितोर्जितः ।
सर्वप्रवर्तकः साधुः सहिष्णुर्निधनो
वसुः ॥ ११४॥
भूगर्भो नियमो वाग्मी
ग्रामणीर्भूतकृत्समः ।
सुभुजस्तारणो हेतुः शिष्टेष्टः
प्रियवर्धनः ॥ ११५॥
कृतागमो वीतभयो गुणभृच्छर्वरीकरः ।
दृढः सत्त्वविधेयात्मा लोकबन्धुः
प्रजागरः ॥ ११६॥
सुषेणो लोकशारङ्गः सुभगो
द्रविणप्रदः ।
गभस्थिनेमिः कपिशो
हृदीशस्तन्तुवर्धनः ॥ ११७॥
भूशयः पिङ्गलो नर्दो वैक्रमो
वंशवर्धनः ।
विरामो दुर्जयो मानी विश्वहासः
पुरातनः ॥ ११८॥
अरौद्रः प्रग्रहो मूर्तिः शुभाङ्गो
दुर्द्धरोत्तमः ।
वाचस्पतिर्निवृत्तात्मा
क्षेमकृत्क्षेमिनां वरः ॥ ११९॥
महार्हः सर्वशश्चक्षुर्निग्रहो
निर्गुणो मतः ।
विस्तारो मेदजो बभ्रुः
सम्भाव्योऽनामयो ग्रहान् ॥ १२०॥
अयोनिजोऽर्चितोदीर्णः स्वमेधार्पितो
गुही ।
निर्वाणगोपतिर्दृक्षः प्रियार्हो
शान्तिदः कृशः ॥ १२१॥
शब्दातिगः सर्वसहः सत्यमेधा सुलोचनः
।
अनिर्रती महाकर्मा कविवर्यः
प्रजापतिः ॥ १२२॥
कुण्डली सत्पथाचारः सङ्क्षेमो
विरजोऽतुलः ।
दारुणः करनिर्वर्णः सदायूपप्रियो
वटः ॥ १२३॥
मन्दगामी मन्दगतिर्मन्दवासरतोषितः ।
वृक्षशाखाग्रसञ्चारी
कोटिसिंहैकसत्त्वनः ॥ १२४॥
सदाञ्जलिपुटो गुप्तः सर्वज्ञकभयापहः
।
स्थावरः पेशलो लोकः स्वामी
त्रैलोक्यसाधकः ॥ १२५॥
अत्याहारी निराहारी
शिखावान्मारुताशनः ।
अदृश्यः प्राणनिलयो व्यक्तरूपो
मनोजवः ॥ १२६॥
अभिप्रायो भगो दक्षः पावनो
विषभञ्जनः ।
अर्हो गम्भीरः प्रियकृत्स्वामी
चतुरविक्रमः ॥ १२७॥
आपदोद्धारको धुर्यो सर्वभोगप्रदायकः
।
ॐतत्सदितिनिर्दिष्टं श्रीहनुमन्नाम
पावनम् ॥ १२८॥
। हनुमत्सहस्रनामस्तोत्रम् फलश्रुतिः ।
दिव्यं सहस्रनामाख्यं स्तोत्रं
त्रैलोक्यपावनम् ।
इदं रहस्यं भवतामर्थेऽस्माकं
यथाविधि ॥ १२९॥
उक्तं लोके विभुर्भूत्वा
भक्तियुक्तेन चेतसा ।
एतन्महासंहितायां वा तन्नामसहस्रकम्
॥ १३०॥
स्तोत्रं वा कवचं वापि मन्त्रं वा
यो नरः सदा ।
त्रिवर्षं वापि वर्षं वा
जपेत्षण्मास एव च ॥ १३१॥
स सर्वैर्मुच्यते पापैः
कल्पकोटिशतोद्भवैः ।
भूर्जे वा पुस्तके वेदं लिखित्वा यः
पुमान् शुचिः ॥ १३२॥
मन्दवारेषु मध्याह्ने
पूजयेद्भक्तिपूर्वकम् ।
अपूपानर्पयेदाशु
सर्वान्कामानवाप्नुयात् ॥ १३३॥
इदं वै लिखितं यैश्च श्रुतं यैः
पठितं सदा ।
यैश्च प्रख्यापितं लोके
अष्टैश्वर्याणि सर्वशः ॥ १३४॥
सर्वाण्यपि च पुण्यानि
सिद्ध्यन्त्यत्र न संशयः ।
श्रृङ्खला बन्धमुख्यानि
कारागृहभयानि च ॥ १३५॥
क्षयापस्मारकुष्ठादि महारोगाश्च
येऽपि च ।
एतत्सर्वं विहायाशु गच्छन्ति
सतताभयम् ॥ १३६॥
राज्यविद्वत्सभायां च रिपून्कर्षति
निश्चयः ।
कलहे जयमाप्नोति सन्तोषो भवति
ध्रुवम् ॥ १३७॥
ब्रह्मराक्षसगन्धर्ववेतालाघृणरेवती
।
पूतनादिर्महाभूताः पलायन्ते च दूरतः
॥ १३८॥
परेण कृतयन्त्राद्या शीघ्रं
नश्यन्ति भूतले ।
योजनद्वादशायासपर्वतं परिवेष्टितः ॥
१३९॥
सस्यानां परिमाणेन सिद्धिर्भवति
सर्वदा ।
चौराग्न्युदकसर्वादि भयानि न भवन्ति
च । १४०॥
हासश्व क्रियते येन हस्ताद्भवति
नाशनम् ।
तस्य उक्तानि एतानि फलानि विविधानि
च ॥ १४१॥
भवन्ति विपरीतानि सर्वाण्यनुदिनं
क्रमात् ।
तस्मादिदं सुचारित्र्यं नित्यं
तद्भक्तिपूर्वकम् ॥ १४२॥
पठन्तमुपगम्येति वयपोषणपूर्वकम् ।
वदामीदं निजमिदं निजं श्रण्वन्तु
मौनयः ॥ १४३॥
॥ इति पूर्वव्यूहे
श्रीसुदर्शनसंहितायां वसिष्ठवालखिल्यसंवादे
हनुमद्वज्रकवचपूर्वकदिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥
हनुमत्सहस्रनामस्तोत्रम् समाप्त ॥
Related posts
vehicles
business
health
Featured Posts
Labels
- Astrology (7)
- D P karmakand डी पी कर्मकाण्ड (10)
- Hymn collection (38)
- Worship Method (32)
- अष्टक (54)
- उपनिषद (30)
- कथायें (127)
- कवच (61)
- कीलक (1)
- गणेश (25)
- गायत्री (1)
- गीतगोविन्द (27)
- गीता (34)
- चालीसा (7)
- ज्योतिष (32)
- ज्योतिषशास्त्र (86)
- तंत्र (182)
- दशकम (3)
- दसमहाविद्या (51)
- देवी (190)
- नामस्तोत्र (55)
- नीतिशास्त्र (21)
- पञ्चकम (10)
- पञ्जर (7)
- पूजन विधि (80)
- पूजन सामाग्री (12)
- मनुस्मृति (17)
- मन्त्रमहोदधि (26)
- मुहूर्त (6)
- रघुवंश (11)
- रहस्यम् (120)
- रामायण (48)
- रुद्रयामल तंत्र (117)
- लक्ष्मी (10)
- वनस्पतिशास्त्र (19)
- वास्तुशास्त्र (24)
- विष्णु (41)
- वेद-पुराण (691)
- व्याकरण (6)
- व्रत (23)
- शाबर मंत्र (1)
- शिव (54)
- श्राद्ध-प्रकरण (14)
- श्रीकृष्ण (22)
- श्रीराधा (2)
- श्रीराम (71)
- सप्तशती (22)
- साधना (10)
- सूक्त (30)
- सूत्रम् (4)
- स्तवन (109)
- स्तोत्र संग्रह (711)
- स्तोत्र संग्रह (6)
- हृदयस्तोत्र (10)
No comments: