Slide show
Ad Code
JSON Variables
Total Pageviews
Blog Archive
-
▼
2020
(162)
-
▼
December
(52)
- श्रीराघवेन्द्राष्टकम्
- श्रीरामनामस्तुतिः
- श्रीरामद्वादशनामस्तोत्रम्
- श्रीरामचालीसा
- श्री राम स्तुति
- एकश्लोकि रामायणम्
- हनुमत्पूजन विधि
- श्रीहनुमतः आवरणपूजा
- संकटमोचन हनुमानाष्टक
- हनुमद् वडवानल स्तोत्रम्
- हनुमान बाहुक
- हनुमान साठिका
- हनुमान चालीसा संस्कृतानुवादः
- बजरंग बाण
- सीतोपनिषत्
- बलिवैश्वदेव
- सन्ध्योपासन विधि
- गोसूक्त
- वरुणसूक्त
- स्नान की विधि
- प्रातःस्मरण
- देव पूजा में विहित एवं निषिद्ध पत्र पुष्प
- कठोपनिषद् द्वितीय अध्याय तृतीय वल्ली
- कठोपनिषद् द्वितीय अध्याय द्वितीय वल्ली
- कठोपनिषद् द्वितीय अध्याय प्रथम वल्ली
- कठोपनिषद् प्रथम अध्याय तृतीय वल्ली
- माण्डूक्योपनिषत्
- कठोपनिषद् प्रथम अध्याय द्वितीय वल्ली
- प्रश्नोपनिषद्
- प्रश्नोपनिषद्
- प्रश्नोपनिषद्
- श्रीशिवसहस्रनामस्तोत्रं श्रीसौरपुराणान्तर्गतम्
- श्रीशिवसहस्रनामस्तोत्रं वायुपुराणे अध्याय ३०
- श्रीशिवसहस्रनामस्तोत्रम् शङ्करसंहितायां स्कन्दमहाप...
- श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम्
- श्रीशिवसहस्रनामस्तोत्रम् भगीरथकृतं श्रीदेवीभागवत उ...
- श्रीशिवसहस्रनामस्तोत्रम् व श्रीशिवसहस्रनामावली
- श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे अध्याय २
- D P karmakand डी पी कर्मकाण्ड
- विवाह मुहूर्त vivah muhurt
- शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम्
- श्रीशिवसहस्रनामस्तोत्रम् व श्रीशिवसहस्रनामावलिः शि...
- अगहन बृहस्पति व्रत व कथा
- शिव सहस्रनाम स्तोत्र
- शिव सहस्रनाम स्तोत्रम
- रूद्र सूक्त Rudra suktam
- त्वरित रुद्र
- काली चालीसा,महाकाली चालीसा व आरती
- अष्टलक्ष्मी स्तोत्रम्
- श्री लक्ष्मी द्वादशनाम व अष्टोत्तर शतनाम स्तोत्रम्
- वैभवलक्ष्मी व्रत
- श्री लक्ष्मी नृसिंह द्वादशनाम स्तोत्रम्
-
▼
December
(52)
Search This Blog
Fashion
Menu Footer Widget
Text Widget
Bonjour & Welcome
About Me
Labels
- Astrology
- D P karmakand डी पी कर्मकाण्ड
- Hymn collection
- Worship Method
- अष्टक
- उपनिषद
- कथायें
- कवच
- कीलक
- गणेश
- गायत्री
- गीतगोविन्द
- गीता
- चालीसा
- ज्योतिष
- ज्योतिषशास्त्र
- तंत्र
- दशकम
- दसमहाविद्या
- देवी
- नामस्तोत्र
- नीतिशास्त्र
- पञ्चकम
- पञ्जर
- पूजन विधि
- पूजन सामाग्री
- मनुस्मृति
- मन्त्रमहोदधि
- मुहूर्त
- रघुवंश
- रहस्यम्
- रामायण
- रुद्रयामल तंत्र
- लक्ष्मी
- वनस्पतिशास्त्र
- वास्तुशास्त्र
- विष्णु
- वेद-पुराण
- व्याकरण
- व्रत
- शाबर मंत्र
- शिव
- श्राद्ध-प्रकरण
- श्रीकृष्ण
- श्रीराधा
- श्रीराम
- सप्तशती
- साधना
- सूक्त
- सूत्रम्
- स्तवन
- स्तोत्र संग्रह
- स्तोत्र संग्रह
- हृदयस्तोत्र
Tags
Contact Form
Contact Form
Followers
Ticker
Slider
Labels Cloud
Translate
Pages
Popular Posts
-
मूल शांति पूजन विधि कहा गया है कि यदि भोजन बिगड़ गया तो शरीर बिगड़ गया और यदि संस्कार बिगड़ गया तो जीवन बिगड़ गया । प्राचीन काल से परंपरा रही कि...
-
रघुवंशम् द्वितीय सर्ग Raghuvansham dvitiya sarg महाकवि कालिदास जी की महाकाव्य रघुवंशम् प्रथम सर्ग में आपने पढ़ा कि-महाराज दिलीप व उनकी प...
-
रूद्र सूक्त Rudra suktam ' रुद्र ' शब्द की निरुक्ति के अनुसार भगवान् रुद्र दुःखनाशक , पापनाशक एवं ज्ञानदाता हैं। रुद्र सूक्त में भ...
Popular Posts
अगहन बृहस्पति व्रत व कथा
मार्तण्ड भैरव स्तोत्रम्
श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम्
शिवजी सहस्त्र नाम जिसे की आपने पूर्व क्रम में पढ़ा - तंडिकृत श्रीशिवसहस्रनामस्तोत्रम्, श्रीविष्णुकृत श्रीशिवसहस्रनामस्तोत्रम्, स्कन्दकृत श्रीशिवसहस्रनामस्तोत्रम्, शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम्, श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे, श्रीशिवसहस्रनामस्तोत्रम्और श्रीशिवसहस्रनामावलि, श्रीशिवसहस्रनामस्तोत्रम्भगीरथकृतं श्रीदेवीभागवत उपपुराणान्तर्गतम् । शिवजी सहस्त्र नाम श्रृंखला के अन्तर्गत श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम् दिया जा रहा है।
अथ श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम्
अरुन्धत्युवाच
मुने वद
महाभाग नारदेन यथा स्तुतः ।
सहस्रनामभिः
पुण्यैः पापघ्नैः सर्वकामदैः ॥ १॥
यानि यानि च
नामानि नारदोक्तानि वै मुने ।
रागोत्पत्तिं
विस्तरेण नामानि च वद प्रिय ॥ २॥
वसिष्ठ उवाच
साधु साधु महाभागे
शिवभक्तिर्यतस्त्वयि ।
तपःशुद्धो
नारदोऽसौ ददर्श परमेश्वरम् ॥ ३॥
दृष्ट्वा
तद्वै परं ब्रह्म सर्वज्ञो मुनिपुङ्गवः ।
सस्मार
प्रियनामानि शिवोक्तानि प्रियां प्रति ॥ ४॥
नारदोऽस्य
ऋषिः प्रोक्तोऽनुष्टुप्च्छन्दः प्रकीर्तितः ।
श्रीशिवः
परमात्मा वै देवता समुदाहृता ॥ ५॥
धर्मार्थकाममोक्षेषु
विनियोगः प्रकीर्तितः ।
सर्वारम्भप्रसिद्ध्यर्थमाधिव्याधिनिवृत्तये
॥ ६॥
अस्य
श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य नारद ऋषिः अनुष्टुप् छन्दः परमात्मा श्रीशिवो
देवता धर्मार्थकाममोक्ष चतुर्विधपुरुषार्थसिध्यर्थे सर्व कर्म(कामना) सिध्यर्थे
सर्व आधि व्याधि निवृत्यर्थे सहस्रनामजपे विनियोगः ।
नारद उवाच
श्रीशिवः
शिवदो भव्यो भावगम्यो वृषाकपिः ।
वृषध्वजो
वृषारूढो वृषक वृषेश्वरः ॥ ७॥
शिवाधिपः शितः
शम्भुः स्वयम्भूरात्मविद्विभुः ।
सर्वज्ञोबहुहन्ताचभवानीपतिरच्युतः
॥ ८॥
तन्त्रशास्त्रप्रमोदी
च तन्त्रशास्त्रप्रदर्शकः ।
तन्त्रप्रियस्तन्त्रग्मयोतन्त्रोवानन्ततन्त्रकः
॥ ९॥
तन्त्रीनादप्रियोदेवोभक्ततन्त्रविमोहितः
।
तन्त्रात्मातन्त्रनिलयस्तन्त्रदर्शीसुतन्त्रकः
॥ १०॥
महादेव
उमाकान्तश्चन्द्रशेखर ईश्वरः ।
धूर्ज्जटिस्त्र्यम्बको
धूर्तो धूर्तशत्रुरमावसुः ॥ ११॥
वामदेवो मृडः
शम्भुः सुरेशो दैत्यमर्दनः ।
अन्धकारहरो
दण्डो ज्योतिष्मान् हरिवल्लभः ॥ १२॥
गङ्गाधरो
रमाकान्तः सर्वनाथः सुरारिहा ।
प्रचण्डदैत्यविध्वंसी
जम्भारातिररिन्दमः ॥ १३॥
दानप्रियो
दानदो दानतृप्तो दानवान्तकः ।
करिदानप्रियो
दानी दानात्मा दानपूजितः ॥ १४॥
दानगम्यो
ययातिश्च दयासिन्धुर्दयावहः ।
भक्तिगम्यो
भक्तसेव्यो भक्तिसन्तुष्टमानसः ॥ १५॥
भक्ताभयप्रदो
भक्तो भक्ताभीष्टप्रदायकः ।
भानुमान्
भानुनेत्रश्च भानुवृन्दसमप्रभः ॥ १६॥
सहस्रभानुः
स्वर्भानुरात्मभानुर्जयावहः ।
जयन्तो जयदो
यज्ञो यज्ञात्मा यज्ञविज्जयः ॥ १७॥
जयसेनो
जयत्सेनो विजयो विजयप्रियः ।
जाज्वल्यमानो
ज्यायांश्च जलात्मा जलजो जवः ॥ १८॥
पुरातनः
पुरारातिस्त्रिपुरघ्नो रिपुघ्नकः ।
पुराणः पुरुषः
पुण्यः पुण्यगम्योऽतिपुण्यदः ॥ १९॥
प्रभञ्जनः
प्रभु पूर्णः पूर्णदेवः प्रतापवान् ।
प्रबलोऽतिबलो
देवो वेदवेद्यो जनाधिपः ॥ २०॥
नरेशो नारदो
मानी दैत्यमानविमर्दनः ।
अमानो निर्ममो
मान्यो मानवो मधुसूदनः ॥ २१॥
मनुपुत्रो
मयारातिर्मङ्गलो मङ्गलास्पदः ।
मालवो
मलयावासो महोभिः संयुतोनलः ॥ २२॥
नलाराध्यो
नीलवासा नलात्मा नलपूजितः ।
नलाधीशो
नैगमिको निगमेन सुपूजितः ॥ २३॥
निगमावेद्यरूपो
हि धन्यो धेनुरमित्रहा ।
कल्पवृक्षः
कामधेनुर्धनुर्धारी महेश्वरः ॥ २४॥
दामनो
दामिनीकान्तो दामोदर हरेश्वरः ।
दमो दान्ता
दयावान्श्च दानवेशो दनुप्रियः ॥ २५॥
दन्वीश्वरो
दमी दन्ती दन्वाराध्यो जनुप्रदः ।
आनन्दकन्दो
मन्दारिर्मन्दारसुमपूजितः ॥ २६॥
नित्यानन्दो
महानन्दो रमानन्दो निराश्रयः ।
निर्जरो
निर्जरप्रीतो निर्जरेश्वरपूजितः ॥ २७॥
कैलासवासी
विश्वात्मा विश्वेशो विश्वतत्परः ।
विश्वम्भरो
विश्वसहो विश्वरूपो महीधरः ॥ २८॥
केदारनिलयो
भर्ता धर्ता हर्ता हरीश्वरः ।
विष्णुसेव्यो
जिष्णुनाथो जिष्णुः कृष्णो धरापतिः ॥ २९॥
बदरीनायको नेता
रामभक्तो रमाप्रियः ।
रमानाथो
रामसेव्यः शैब्यापतिरकल्मषः ॥ ३०॥
धराधीशो
महानेत्रस्त्रिनेत्रश्चारुविक्रमः ।
त्रिविक्रमो
विक्रमेशस्त्रिलोकेशस्त्रयीमयः ॥ ३१॥
वेदगम्यो
वेदवादी वेदात्मा वेदवर्द्धनः ।
देवेश्वरो
देवपूज्यो वेदान्तार्थप्रचारकः ॥ ३२॥
वेदान्तवेद्यो
वैष्णवश्च कविः काव्यकलाधरः ।
कालात्मा
कालहृत्कालः कलात्मा कालसूदनः ॥ ३३॥
केलीप्रियः
सुकेलिश्च कलङ्करहितः क्रमः ।
कर्मकर्ता
सुकर्मा च कर्मेशः कर्मवर्जितः ॥ ३४॥
मीमांसाशास्त्रवेत्ता
यः शर्वो मीमांसकप्रियः ।
प्रकृतिः
पुरुषः पञ्चतत्त्वज्ञो ज्ञानिनां वरः ॥ ३५॥
साङ्ख्यशास्त्रप्रमोदी
च सङ्ख्यावान्पण्डितः प्रभुः ।
असङ्ख्यातगुणग्रामो
गुणात्मा गुणवर्जितः ॥ ३६॥
निर्गुणो
निरहङ्कारो रसाधीशो रसप्रियः ।
रसास्वादी
रसावेद्यो नीरसो नीरजप्रियः ॥ ३७॥
निर्मलो
निरनुक्रोशी निर्दन्तो निर्भयप्रदः ।
गङ्गाख्योतोयं
च मीनध्वजविमर्दनः ॥ ३८॥
अन्धकारिबृहद्दंष्ट्रो
बृहदश्वो बृहत्तनुः ।
बृहस्पतिः
सुराचार्यो गीर्वाणगणपूजितः ॥ ३९॥
वासुदेवो
महाबाहुर्विरूपाक्षो विरूपकः ।
पूष्णो
दन्तविनाशी च मुरारिर्भगनेत्रहा ॥ ४०॥
वेदव्यासो
नागहारा विषहा विषनायकः ।
विरजाः
सजलोऽनन्तो वासुकिश्चापराजितः ॥ ४१॥
बालो वृद्धो
युवा मृत्युर्मुत्युहा भालचन्द्रकः ।
बलभद्रो
बलारातिर्दृढधन्वावृषध्वजः ॥ ४२॥
प्रमथेशो
गणपतिः कार्तिकेयो वृकोदरः ।
अग्निगर्भोऽग्निनाभश्च
पद्मनाभः प्रभाकरः ॥ ४३॥
हिरण्यगर्भो
लोकेशो वेणुनादः प्रतर्दनः ।
वायुर्भगो
वसुर्भर्गो दक्षः प्राचेतसो मुनिः ॥ ४४॥
नादब्रह्मरतो
नादी नन्दनावास अम्बरः ।
अम्बरीषोम्बुनिलयो
जामदग्न्यः परात्परः ॥ ४५॥
कृतवीर्यसुतो
राजा कार्तवीर्यप्रमर्दनः ।
जमदग्निर्जातरूपो
जातरूपपरिच्छदः ॥ ४६॥
कर्पूरगौरो
गौरीशो गोपतिर्गोपनायकः ।
प्राणीश्वरः
प्रमाणज्ञो प्रमेयोऽज्ञाननाशनः ॥ ४७॥
हंसो हंसगतिर्मीनो
ब्रह्मा लोकपितामहः ।
यमुनाधीश्वरो
याम्यो यमभीतिविमर्दनः ॥ ४८॥
नारायणो
नारपूज्यो वसुवर्णो वसुप्रियः ।
वासवो बलहा
वृत्रहन्ता यन्ता पराक्रमी ॥ ४९॥
बृहदीशो
बृहद्भानुर्वर्द्धनो बालवः परः ।
शरभो नरसंहारी
कोलशत्रुर्विभाकरः ॥ ५०॥
रथचक्रो दशरथो
रामः शस्त्रभृतां वरः ।
नारदीयो
नरानन्दो नायकः प्रमथारिहा ॥ ५१॥
रुद्रो रौद्रौ
रुद्रमुख्यो रौद्रात्मा रोमवर्जितः ।
जलन्धरहरो
हव्यो हविर्द्धामा बृहद्धविः ॥ ५२॥
रविः
सप्तार्चिरनघो द्वादशात्मा दिवाकरः ।
प्रद्योतनो
दिनपतिः सप्तसप्तिर्मरीचिमान् ॥ ५३॥
सोमोब्जो ग्लौश्च रात्रीशः कुजो जैवात्रिको बुधः ।
शुक्रो
दैत्यगुरुर्भौमो भीमो भीमपराक्रमः ॥ ५४॥
शनिः
पङ्गुर्मदान्धो वै भङ्गाभक्षणतत्परः ।
राहुः केतुः
सैंहिकेयो ग्रहात्माग्रहपूजितः ॥ ५५॥
नक्षत्रेशोऽश्विनीनाथो
मैनाकनिलयः शुभः ।
विन्ध्याटवीसमाच्छन्नः
सेतुबन्धनिकेतनः ॥ ५६॥
कूर्मपर्वतवासी
च वागीशो वाग्विदाम्वरः ।
योगेश्वरो
महीनाथः पातालभुवनेश्वरः ॥ ५७॥
काशिनाथो
नीलकेशो हरिकेशो मनोहरः ।
उमाकान्तो
यमारातिर्बौद्धपर्वतनायकः ॥ ५८॥
तटासुरनिहन्ता
च सर्वयज्ञसुपूजितः ।
गङ्गाद्वारनिवासो
वै वीरभद्रो भयानकः ॥ ५९॥
भानुदत्तो
भानुनाथो जरासन्धविमर्दनः ।
यवमालीश्वरः
पारो गण्डकीनिलयो हरः ॥ ६०॥
शालग्रामशिलावासी
नर्मदातटपूजितः ।
बाणलिङ्गो
बाणपिता बाणधिर्बाणपूजितः ॥ ६१॥
बाणासुरनिहन्ता
च रामबाणो भयापहः ।
रामदूतो
रामनाथो रामनारायणोऽव्ययः ॥ ६२॥
पार्वतीशः
परामृष्टो नारदो नारपूजितः ।
पर्वतेशः
पार्वतीयः पार्वतीप्राणवल्लभः ॥ ६३॥
सर्वेश्वरः
सर्वकर्ता लोकाध्यक्षो महामतिः ।
निरालम्बो
हठाध्यक्षो वननाथो वनाश्रयः ॥ ६४॥
श्मशानवासी
दमनो मदनारिर्मदालयः ।
भूतवेतालसर्वस्वः
स्कन्दः स्कन्दजनिर्जनः ॥ ६५॥
वेतालशतनाथो
वै वेतालशतपूजितः ।
वेतालो
भैरवाकारो वेतालनिलयो बलः ॥ ६६॥
भूर्भुवः
स्वर्वषट्कारो भूतभव्यविभुर्महः ।
जनो महस्तपः
सत्यं पातालनिलयो लयः ॥ ६७॥
पत्री पुष्पी
फली तोयी महीरूपसमाश्रितः ।
स्वधा स्वाहा
नमस्कारो भद्रो भद्रपतिर्भवः ॥ ६८॥
उमापतिर्व्योमकेशो
भीमधन्वा भयानकः ।
पुष्टस्तुष्टोधराधारो
बलिदो बलिभृद्बली ॥ ६९॥
ओङ्कारो नृमयो
मायी विघ्नहर्ता गणाधिपः ।
ह्रीं ह्रौं
गम्यो हौं जूँ सः हौं शिवायनमो ज्वरः ॥ ७०॥
द्राँ द्राँ
रूपो दुराधर्षो नादबिन्द्वात्मकोऽनिलः ।
रस्तारो
नेत्रनादश्च चण्डीशो मलयाचलः ॥ ७१॥
षडक्षरमहामन्त्रः
शस्त्रभृच्छस्त्रनायकः ।
शास्त्रवेत्ता
तु शास्त्रीशः शस्त्रमन्त्रप्रपूजितः ॥ ७२॥
निर्वपुः
सुवपुः कान्तः कान्ताजनमनोहरः ।
भगमाली भगो
भाग्यो भगहा भगपूजितः ॥ ७३॥
भगपूजनसन्तुष्टो
महाभाग्यसुपूजितः ।
पूजारतो
विपाप्मा च क्षितिबीजो धरोप्तिकृत् ॥ ७४॥
मण्डलो
मण्डलाभासो मण्डलार्द्धो विमण्डलः ।
चन्द्रमण्डलपूज्यो
वै रविमण्डलमन्दिरः ॥ ७५॥
सर्वमण्डलसर्वस्वः
पूजामण्डलमण्डितः ।
पृथ्वीमण्डलवासश्च
भक्तमण्डलपूजितः ॥ ७६॥
मण्डलात्परसिद्धिश्च
महामण्डलमण्डलः ।
मुखमण्डलशोभाढ्यो
राजमण्डलवर्जितः ॥ ७७॥
निष्प्रभः
प्रभुरीशानो मृगव्याधो मृगारिहा ।
मृगाङ्कशोभो
हेमाढ्यो हिमात्मा हिमसुन्दरः ॥ ७८॥
हेमहेमनिधिर्हेमो हिमानीशो हिमप्रियः ।
शीतवातसहः
शीतो ह्यशीतिगणसेवितः ॥ ७९॥
आशाश्रयो
दिगात्मा च जीवो जीवाश्रयः पतिः ।
पतिताशी पतिः
पान्थो निःपान्थोनर्थनाशकः ॥ ८०॥
बुद्धिदो
बुद्धिनिलयो बुद्धो बुद्धपतिर्धवः ।
मेधाकरो
मेधमानो मध्यो मध्यो मधुप्रियः ॥ ८१॥
मधुव्यो
मधुमान्बन्धुर्धन्धुमारो धवाश्रयः ।
धर्मी
धर्मप्रियो धन्यो धान्यराशिर्धनावहः ॥ ८२॥
धरात्मजो धनो
धान्यो मान्यनाथो मदालसः ।
लम्बोदरो
लङ्करिष्णुर्लङ्कानाथसुपूजितः ॥ ८३॥
लङ्काभस्मप्रियो
लङ्को लङ्केशरिपुपूजितः ।
समुद्रो
मकरावासो मकरन्दो मदान्वितः ॥ ८४॥
मथुरानाथको
तन्द्रो मथुरावासतत्परः ।
वृन्दावनमनः
प्रीतिर्वृन्दापूजितविग्रहः ॥ ८५॥
यमुनापुलिनावासः
कंसचाणूरमर्दनः ।
अरिष्टहा
शुभतनुर्माधवो माधवाग्रजः ॥ ८६॥
वसुदेवसुतः
कृष्णः कृष्णाप्रियतमः शुचिः ।
कृष्णद्वैपायनो
वेधाः सृष्टिसंहारकारकः ॥ ८७॥
चतुर्विधो
विश्वहर्ता धाता धर्मपरायणः ।
यातुधानो
महाकायो रक्षःकुलविनाशनः ॥ ८८॥
घण्टानादो
महानादो भेरीशब्दपरायणः ।
परमेशः
पराविज्ञो ज्ञानगम्यो गणेश्वरः ॥ ८९॥
पार्श्वमौलिश्चन्द्रमौलिर्धर्ममौलिः
सुरारिहा ।
जङ्घाप्रतर्दनो
जम्भो जम्भारातिरिन्दमः ॥ ९०॥
ओङ्कारगम्यो
नादेशः सोमेशः सिद्धिकारणम् ।
अकारोऽमृतकल्पश्च
आनन्दो वृषभध्वजः ॥ ९१॥
आत्मा
रतिश्चात्मगम्यो यथार्थात्मा नरारिहा ।
इकारश्चेतिकालश्च
इति होतिप्रभञ्जनः ॥ ९२॥
ईशितारिभवो
ऋक्ष ऋकारवरपूजितः ।
ऌवर्णरूपो
ऌकारो ऌवर्णस्थो ऌरात्मवान् (लरात्मवान्)॥ ९३॥
ऐरूपो
महानेत्रो जन्ममृत्युविवर्जितः ।
ओतुरौतुरन्डजस्थो
हन्तहन्ता कलाकरः ॥ ९४॥
कालीनाथः
खञ्जनाक्षो खण्डोखण्डितविक्रमः ।
गन्धर्वेशो
गणारातिर्घण्टाभरणपूजितः ॥ ९५॥
ङकारो
ङीप्रत्ययश्च चामरश्चामराश्रयः ।
चीराम्बरधरश्चारुश्चारुचञ्चुश्वरेश्वरः
॥ ९६॥
छत्री
छत्रपतिश्छात्रश्छत्रेशश्छात्रपूजितः ।
झर्झरो
झङ्कृतिर्झञ्जा झञ्झेशो झम्परो झरः ॥ ९७॥
झङ्केशाण्डधरो
झारिष्टं कष्टं कारपूजितः ।
रोमहारिर्वृषारिश्च
ढुण्ढिराजो झलात्मजः ॥ ९८॥
ढोलशब्दरतो
ढक्का ढकारेण प्रपूजितः ।
तारापतिस्ततस्तन्तुस्तारेशः
स्तम्भसंश्रितः ॥ ९९॥
थवर्णस्थूत्करःस्थूलो
दनुजो दनुजान्तकृत् ।
दाडिमीकुसुमप्रख्यो
दान्तारिर्दर्दरातिगः ॥ १००॥
दन्तवक्रो
दन्तजिह्वा दन्तवक्रविनाशनः ।
धवो धवाग्रजो
धुन्धुधौन्धुमारिर्धराधरः ॥ १०१॥
धम्मिल्लिनीजनानन्दो
धर्माधर्मविवर्जितः ।
नागेशो
नागनिलियो नारदादिभिरार्चितः ॥ १०२॥
नन्दो
नन्दीपतिर्नन्दी नन्दीश्वरसहायवान् ।
पणः
प्रणीश्वरः पान्थः पाथेयः पथिकार्चितः ॥ १०३॥
पानीयाधिपतिः
पाथः फलवान् फलसंस्कृतः ।
फणीशतविभूषा च
फणीफूत्कारमण्डितः ॥ १०४॥
फालः फल्गुरथः
फान्तो वेणुनाथो वनेचरः ।
वन्यप्रियो
वनानन्दो वनस्पतिगणेश्वरः ॥ १०५॥
वालीनिहन्ता
वाल्मीको वृन्दावनकुतूहली ।
वेणुनादप्रियो
वैद्यो भगणो भगणार्चितः ॥ १०६॥
भेरूण्डो
भासको भासी भास्करो भानुपूजितः ।
भद्रो
भाद्रपदो भाद्रो भद्रदो भाद्रतत्परः ॥ १०७॥
मेनकापतिमन्द्राश्वो
महामैनाकपर्वतः ।
मानवो
मनुनाथश्च मदहा मदलोचनः ॥ १०८॥
यज्ञाशी
याज्ञिको यामी यमभीतिविमर्दनः ।
यमको
यमुनावासो यमसंयमदायकः ॥ १०९॥
रक्ताक्षो
रक्तदन्तश्च राजसो राजसप्रियः ।
रन्तिदेवो
रत्नमतीरामनाथो रमाप्रियः ॥ ११०॥
लक्ष्मीकरो
लाक्षणिको लक्षेशो लक्षपूजितः ।
लम्बोदरो
लाङ्गलिको लक्षलाभपितामहः ॥ १११॥
बालको
बालकप्रीतो वरेण्यो बालपूजितः ।
शर्वः शर्वी
शरी शास्त्री शर्वरीगणसुन्दरः ॥ ११२॥
शाकम्भरीपीठसंस्थः
शाकद्वीपनिवासकः ।
षोढासमासनिलयः
षण्ढः षाढवमन्दिरः ॥ ११३॥
षाण्डवाडम्बरः
षाण्ड्यः षष्ठीपूजनतत्परः ।
सर्वेश्वरः
सर्वतत्त्वः सामगम्योसमानकः ॥ ११४॥
सेतुः
संसारसंहर्ता सारः सारस्वतप्रियः ।
हर्म्यनाथो
हर्म्यकर्ता हेतुहा निहनो हरः ॥ ११५॥
हालाप्रियो
हलापाङ्गो हनुमान्पतिरव्ययः ।
सर्वायुधधरोभीष्टो
भयो भास्वान् भयान्तकृत् ॥ ११६॥
कुब्जाम्रकनिवासश्च
झिण्टीशो वाग्विदांवरः ।
रेणुकादुःखहन्ता
च विराटनगरस्थितः ॥ ११७॥
जमदग्निर्भार्गवो
वै पुलस्त्यः पुलहः क्रतुः ।
क्रान्तिराजो द्रोणपुत्रोऽश्वत्थामा
सुरथी कृपः ॥ ११८॥
कामाख्यनिलयो
विश्वनिलयो भुवनेश्वरः ।
रघूद्वहो
राज्यदाता राजनीतिकरोव्रणः ॥ ११९॥
राजराजेश्वरीकान्तो
राजराजसुपूजितः ।
सर्वबन्धविनिर्मुक्तः
सर्वदारिद्र्यनाशनः ॥ १२०॥
जटामण्डलसर्वस्वो
गङ्गाधारासुमण्डितः ।
जीवदाताशयो
धेनुर्यादवो यदुपुङ्गवः ॥ १२१॥
मूर्खवागीश्वरो
भर्गो मूर्खविद्या दयानिधिः ।
दीनदुःखनिहन्ता
च दीनदाता दयार्णवः ॥ १२२॥
गङ्गातरङ्गभूषा
च गङ्गाभक्तिपरायणः ।
भगीरथप्राणदाता
ककुत्स्थनृपपूजितः ॥ १२३॥
मान्धातृजयदो
वेणुः पृथुः पृथुयशः स्थिरः ।
जाल्मपादो
जाल्मनाथो जाल्मप्रीतिविवर्द्धनः ॥ १२४॥
सन्ध्याभर्ता
रौद्रवपुर्महानीलशिलास्थितः ।
शम्भलग्रामवासश्च
प्रियानूपमपत्तनः ॥ १२५॥
शाण्डिल्यो
ब्रह्मशौण्डाख्यः शारदो वैद्यजीवनः ।
राजवृक्षो
ज्वरघ्नश्च निर्गुण्डीमूलसंस्थितः ॥ १२६॥
अतिसारहरो
जातीवल्कबीजो जलं नभः ।
जाह्नवीदेशनिलयो
भक्तग्रामनिकेतनः ॥ १२७॥
पुराणगम्यो
गम्येशः स्कान्दादिप्रतिपादकः ।
अष्टादशपुराणानां
कर्ता काव्येश्वरः प्रभुः ॥ १२८॥
जलयन्त्रो
जलावासो जलधेनुर्जलोदरः ।
चिकित्सको
भिषग्वैद्यो निर्लोभो लोभतस्करः ॥ १२९॥
चिदानन्दश्चिदाभासचिदात्मा
चित्तवर्जितः ।
चित्स्वरूपश्चिरायुश्च
चिरायुरभिदायकः ॥ १३०॥
चीत्कारगुणसन्तुष्टोऽचलोऽनन्तप्रदायकः
।
मासः पक्षो
ह्यहोरात्रमृतुस्त्वयनरूपकः ॥ १३१॥
संवत्सरः परः
कालः कलाकाष्ठात्मकः कलिः ।
सत्यं त्रेता
द्वापरश्च तथा स्वायम्भुवः स्मृतः ॥ १३२॥
स्वारोचिषस्तामसश्च
औत्तमी रैवतस्तथा ।
चाक्षुषो
वैवस्वतश्च सावर्णिः सूर्यसम्भवः ॥ १३३॥
दक्षसावर्णिको
मेरुसावर्णिक इतिप्रभः ।
रौच्यो
भौत्यस्तथा गव्यो भूतिदश्च तथा दरः ॥ १३४॥
रागज्ञानप्रदो
रागी रागी रागपरायणः ।
नारदः
प्राणनिलयो नीलाम्बरधरोऽव्ययः ॥ १३५॥
अनेकनामा
गङ्गेशो गङ्गातीरनिकेतनः ।
गङ्गाजलनिवासश्च
गङ्गाजलपरायणः ॥ १३६॥
वसिष्ठ उवाच
नाम्नोमेतत्सहस्रं
वै नारदेनोदितं तु यत् ।
तत्तेद्य
कथितं देवि सर्वापत्तिनिवारणम् ॥ १३७॥
पठतः
स्तोत्रमेतद्वै नाम्नां साहस्रमीशितुः ।
दारिद्रयं
नश्यते क्षिप्रं षड्भिर्मासैर्वरानने ॥ १३८॥
यस्येदं
लिखितं गेहे स्तोत्रं वै परमात्मनः ।
नित्यं
सन्निहतस्तत्र महादेवः शिवान्वितः ॥ १३९॥
स एव त्रिषु
लोकेषु धन्यः स्याच्छिवभक्तितः ।
शिव एव परं
ब्रह्म शिवान्नास्त्यपरः क्वचित् ॥ १४०॥
ब्रह्मरूपेण
सृजति पाल्यते विष्णुरूपिणा ।
रुद्ररूपेण
नयति(नश्यति) भस्मसात् स चराचरम् ॥ १४१॥
तस्मात्सर्वप्रयत्नेन
मुमुक्षुः शिवमभ्यसेत् ।
स्तोत्रं
सहस्रनामाख्यं पठित्वा श्रीशिवो भवेत् ॥ १४२॥
यं यं
चिन्तयते कामं तं तं प्राप्नोत्यसंशयम् ।
पुत्रार्थी
लभते पुत्रान्धनार्थी लभते धनम् ॥ १४३॥
राज्यार्थी
लभते राज्यं यस्त्विदं नियतः पठेत् ।
दुःस्वप्ननाशनं
पुण्यं सर्वपापप्रणाशनम् ॥ १४४॥
नास्मात्किञ्चिन्महाभागे
ह्यन्यदस्ति महीतले ।
तावद्गर्जन्ति
पापानि शरीरस्थान्यरुन्धति ॥ १४५॥
यावन्नपठते
स्तोत्रं श्रीशिवस्य परात्मनः ।
सिंहचौरग्रहग्रस्तो
मुच्यते पठनात्प्रिये ॥ १४६॥
सर्वव्याधिविनिर्मुक्तो
लभते परमं सुखम् ।
प्रातरुत्थाय
यः स्तोत्रं पठेत भक्तितत्परः ॥ १४७॥
सर्वापत्तिविनिर्मुक्तो
धनधान्यसुतान्वितः ।
जायते नात्र
सन्देह शिवस्य वचनं यथा ॥ १४८॥
इति स्कन्दपुराणान्तर्गतम् श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ।
Related posts
vehicles
business
health
Featured Posts
Labels
- Astrology (7)
- D P karmakand डी पी कर्मकाण्ड (10)
- Hymn collection (38)
- Worship Method (32)
- अष्टक (54)
- उपनिषद (30)
- कथायें (127)
- कवच (61)
- कीलक (1)
- गणेश (25)
- गायत्री (1)
- गीतगोविन्द (27)
- गीता (34)
- चालीसा (7)
- ज्योतिष (32)
- ज्योतिषशास्त्र (86)
- तंत्र (182)
- दशकम (3)
- दसमहाविद्या (51)
- देवी (190)
- नामस्तोत्र (55)
- नीतिशास्त्र (21)
- पञ्चकम (10)
- पञ्जर (7)
- पूजन विधि (80)
- पूजन सामाग्री (12)
- मनुस्मृति (17)
- मन्त्रमहोदधि (26)
- मुहूर्त (6)
- रघुवंश (11)
- रहस्यम् (120)
- रामायण (48)
- रुद्रयामल तंत्र (117)
- लक्ष्मी (10)
- वनस्पतिशास्त्र (19)
- वास्तुशास्त्र (24)
- विष्णु (41)
- वेद-पुराण (691)
- व्याकरण (6)
- व्रत (23)
- शाबर मंत्र (1)
- शिव (54)
- श्राद्ध-प्रकरण (14)
- श्रीकृष्ण (22)
- श्रीराधा (2)
- श्रीराम (71)
- सप्तशती (22)
- साधना (10)
- सूक्त (30)
- सूत्रम् (4)
- स्तवन (109)
- स्तोत्र संग्रह (711)
- स्तोत्र संग्रह (6)
- हृदयस्तोत्र (10)
No comments: