Slide show
Ad Code
JSON Variables
Total Pageviews
Blog Archive
-
▼
2020
(162)
-
▼
December
(52)
- श्रीराघवेन्द्राष्टकम्
- श्रीरामनामस्तुतिः
- श्रीरामद्वादशनामस्तोत्रम्
- श्रीरामचालीसा
- श्री राम स्तुति
- एकश्लोकि रामायणम्
- हनुमत्पूजन विधि
- श्रीहनुमतः आवरणपूजा
- संकटमोचन हनुमानाष्टक
- हनुमद् वडवानल स्तोत्रम्
- हनुमान बाहुक
- हनुमान साठिका
- हनुमान चालीसा संस्कृतानुवादः
- बजरंग बाण
- सीतोपनिषत्
- बलिवैश्वदेव
- सन्ध्योपासन विधि
- गोसूक्त
- वरुणसूक्त
- स्नान की विधि
- प्रातःस्मरण
- देव पूजा में विहित एवं निषिद्ध पत्र पुष्प
- कठोपनिषद् द्वितीय अध्याय तृतीय वल्ली
- कठोपनिषद् द्वितीय अध्याय द्वितीय वल्ली
- कठोपनिषद् द्वितीय अध्याय प्रथम वल्ली
- कठोपनिषद् प्रथम अध्याय तृतीय वल्ली
- माण्डूक्योपनिषत्
- कठोपनिषद् प्रथम अध्याय द्वितीय वल्ली
- प्रश्नोपनिषद्
- प्रश्नोपनिषद्
- प्रश्नोपनिषद्
- श्रीशिवसहस्रनामस्तोत्रं श्रीसौरपुराणान्तर्गतम्
- श्रीशिवसहस्रनामस्तोत्रं वायुपुराणे अध्याय ३०
- श्रीशिवसहस्रनामस्तोत्रम् शङ्करसंहितायां स्कन्दमहाप...
- श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम्
- श्रीशिवसहस्रनामस्तोत्रम् भगीरथकृतं श्रीदेवीभागवत उ...
- श्रीशिवसहस्रनामस्तोत्रम् व श्रीशिवसहस्रनामावली
- श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे अध्याय २
- D P karmakand डी पी कर्मकाण्ड
- विवाह मुहूर्त vivah muhurt
- शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम्
- श्रीशिवसहस्रनामस्तोत्रम् व श्रीशिवसहस्रनामावलिः शि...
- अगहन बृहस्पति व्रत व कथा
- शिव सहस्रनाम स्तोत्र
- शिव सहस्रनाम स्तोत्रम
- रूद्र सूक्त Rudra suktam
- त्वरित रुद्र
- काली चालीसा,महाकाली चालीसा व आरती
- अष्टलक्ष्मी स्तोत्रम्
- श्री लक्ष्मी द्वादशनाम व अष्टोत्तर शतनाम स्तोत्रम्
- वैभवलक्ष्मी व्रत
- श्री लक्ष्मी नृसिंह द्वादशनाम स्तोत्रम्
-
▼
December
(52)
Search This Blog
Fashion
Menu Footer Widget
Text Widget
Bonjour & Welcome
About Me
Labels
- Astrology
- D P karmakand डी पी कर्मकाण्ड
- Hymn collection
- Worship Method
- अष्टक
- उपनिषद
- कथायें
- कवच
- कीलक
- गणेश
- गायत्री
- गीतगोविन्द
- गीता
- चालीसा
- ज्योतिष
- ज्योतिषशास्त्र
- तंत्र
- दशकम
- दसमहाविद्या
- देवी
- नामस्तोत्र
- नीतिशास्त्र
- पञ्चकम
- पञ्जर
- पूजन विधि
- पूजन सामाग्री
- मनुस्मृति
- मन्त्रमहोदधि
- मुहूर्त
- रघुवंश
- रहस्यम्
- रामायण
- रुद्रयामल तंत्र
- लक्ष्मी
- वनस्पतिशास्त्र
- वास्तुशास्त्र
- विष्णु
- वेद-पुराण
- व्याकरण
- व्रत
- शाबर मंत्र
- शिव
- श्राद्ध-प्रकरण
- श्रीकृष्ण
- श्रीराधा
- श्रीराम
- सप्तशती
- साधना
- सूक्त
- सूत्रम्
- स्तवन
- स्तोत्र संग्रह
- स्तोत्र संग्रह
- हृदयस्तोत्र
Tags
Contact Form
Contact Form
Followers
Ticker
Slider
Labels Cloud
Translate
Pages
Popular Posts
-
मूल शांति पूजन विधि कहा गया है कि यदि भोजन बिगड़ गया तो शरीर बिगड़ गया और यदि संस्कार बिगड़ गया तो जीवन बिगड़ गया । प्राचीन काल से परंपरा रही कि...
-
रघुवंशम् द्वितीय सर्ग Raghuvansham dvitiya sarg महाकवि कालिदास जी की महाकाव्य रघुवंशम् प्रथम सर्ग में आपने पढ़ा कि-महाराज दिलीप व उनकी प...
-
रूद्र सूक्त Rudra suktam ' रुद्र ' शब्द की निरुक्ति के अनुसार भगवान् रुद्र दुःखनाशक , पापनाशक एवं ज्ञानदाता हैं। रुद्र सूक्त में भ...
Popular Posts
अगहन बृहस्पति व्रत व कथा
मार्तण्ड भैरव स्तोत्रम्
श्रीशिवसहस्रनामस्तोत्रम् भगीरथकृतं श्रीदेवीभागवत उपपुराणान्तर्गतम्
शिवजी सहस्त्र
नाम श्रृंखला के अन्तर्गत श्रीशिवसहस्रनामस्तोत्रम् भगीरथकृतं श्रीदेवीभागवत
उपपुराणान्तर्गतम्
दिया जा रहा है।
श्रीशिवसहस्रनामस्तोत्रम् भगीरथकृतं श्रीदेवीभागवत उपपुराणान्तर्गतम्
भगीरथ उवाच-
ॐ नमस्ते
पार्वतीनाथ देवदेव परात्पर ।
अच्युतानघ
पञ्चास्य भीमास्य रुचिरानन ॥ १॥
व्याघ्राजिनधरानन्त
पारावारविवर्जित ।
पञ्चानन
महासत्त्व महाज्ञानमय प्रभो ॥ २॥
अजितामितदुर्धर्ष
विश्वेश परमेश्वर ।
विश्वात्मन्विश्वभूतेश
विश्वाश्रय जगत्पते ॥ ३॥
विश्वोपकारिन्विश्वैकधाम
विश्वाश्रयाश्रय ।
विश्वाधार
सदानन्द विश्वानन्द नमोऽस्तु ते ॥ ४॥
शर्व
सर्वविदज्ञानविवर्जित सुरोत्तम ।
सुरवन्द्य
सुरस्तुत्य सुरराज सुरोत्तम ॥ ५॥
सुरपूज्य
सुरध्येय सुरेश्वर सुरान्तक ।
सुरारिमर्दक
सुरश्रेष्ठ तेऽस्तु नमो नमः ॥ ६॥
त्वं शुद्धः
शुद्धबोधश्च शुद्धात्मा जगतां पतिः ।
शम्भुः
स्वयम्भूरत्युग्र उग्रकर्मोग्रलोचनः ॥ ७॥
उग्रप्रभावश्चात्युग्रमर्दकोऽत्युग्ररूपवान्
।
उग्रकण्ठः
शिवः शान्तः सर्वशान्तिविधायकः ॥ ८॥
सर्वार्थदः शिवाधारः
शिवायनिरमित्रजित् ।
शिवदः
शिवकर्ता च शिवहन्ता शिवेश्वरः ॥ ९॥
शिशुः
शैशवयुक्तस्च पिङ्गकेशो जटाधरः ।
गङ्गाधरकपर्दी
च जटाजूटविराजितः ॥ १०॥
जटिलो
जटिलाराध्यः सर्वदोन्मत्तमानसः ।
उन्मत्तकेश
उन्मत्त उन्मत्तानामधीश्वरः ॥ ११॥
उन्मत्तलोचनो
भीमस्त्रिनेत्रो भीमलोचनः ।
बहुनेत्रो
द्विनेत्री च रक्तनेत्रः सुनेत्रकः ॥ १२॥
दीर्घनेत्रस्च
पिङ्गाक्षः सुप्रभाख्यः सुलोचनः ।
सोमनेत्रोऽग्निनेत्राख्यः
सूर्यनेत्रः सुवीर्यवान् ॥ १३॥
पद्माक्षः
कमलाक्षश्च नीलोत्पलदलेक्षणः ।
सुलक्षणः
शूलपाणिः कपाली कपिलेक्षणः ॥ १४॥
व्याघूर्णनयनो
धूर्तो व्याघ्रचर्माम्बरावृतः ।
श्रीकण्ठो
नीलकण्ठाख्यः शितिकण्ठः सुकण्ठकः ॥ १५॥
चन्द्रचूडश्चन्द्रधरश्चन्द्रमौलिः
शशाङ्कभृत् ।
शशिकान्तः
शशाङ्काभः शशाङ्काङ्कितमूर्धजः ॥ १६॥
शशाङ्कवदनो
वीरो वरदो वरलोचनः ।
शरच्चन्द्रसमाभासः
शरदिन्दुसमप्रभः ॥ १७॥
कोटिसूर्यप्रतीकाशश्चन्द्रास्यश्चन्द्रशेखरः
।
अष्टमूर्तिर्महामूतिर्भीममूर्तिर्भयानकः
॥ १८॥
भयदाता
भयत्राता भयहर्ता भयोज्झितः ।
निर्भूतो
भूतवन्द्यश्च भूतात्मा भूतभावनः ॥ १९॥
कौपीनवासा
दुर्वासा विवासाः कामिनीपतिः ।
करालः
कीर्तिदो वैद्यः किशोरः कामनाशनः ॥ २०॥
कीर्तिरूपः
कुन्तधारी कालकूटकृताशनः ।
कालकूटः
सुरूपी च कुलमन्त्रप्रदीपकः ॥ २१॥
कलाकाष्ठात्मकः
काशीविहारी कुटिलाननः ।
महाकाननसंवासी
कालीप्रतिविवर्धनः ॥ २२॥
कालीधरः
कामचारि कुलकीर्तिविवर्धनः ।
कामाद्रिः
कामुकवरः कार्मुकी काममोहितः ॥ २३॥
कटाक्षः
कनकाभासः कनकोज्ज्वलगात्रकः ।
कामातुरः
क्वणत्पादः कुटिलभ्रुकुटीधरः ॥ २४॥
कार्तिकेयपिता
कोकनदभूषणभूषितः ।
खट्वाङ्गयोद्धा
खड्गी च गिरीशो गगनेश्वरः ॥ २५॥
गणाध्यक्षः
खेटकधृक् खर्वः खर्वतरः खगः ।
खगारूढः
खगाराध्यः खेचरः खेचरेश्वरः ॥ २६॥
खेचरत्वप्रदः
क्षोणीपतिः खेचरमर्दकः ।
गणेश्वरो
गणपिता गरिष्ठो गणभूपतिः ॥ २७॥
गुरुर्गुरुतरो
ज्ञेयो गङ्गापतिरमर्षणः ।
गीतप्रियो
गीतरतः सुगोप्यो गोपवृन्दपः ॥ २८॥
गवारूढो
जगद्भर्ता गोस्वामी गोस्वरूपकः ।
गोप्रदो गोधरो
गृध्रो गरुत्मान् गोकृतासनः ॥ २९॥
गोपीशो
गुरुतातश्च गुहावासी सुगोपितः ।
गजारूढो गजास्यश्च
गजाजिनधरोऽग्रजः ॥ ३०॥
ग्रहाध्यक्षो
ग्रहगणो दुष्टग्रहविमर्दकः ।
मानरूपी
गानरतः प्रचण्डो गानविह्वलः ॥ ३१॥
गानमत्तो गुणी
गुह्यो गुणग्रमाशयो गुणः ।
गूढबुद्धिर्गूढमूर्तिर्गूढपादविभूषितः
॥ ३२॥
गोप्ता
गोलोकवासी च गुणवान्गुणिनां वरः ।
हरो
हरितवर्णाक्षो मृत्युर्मृत्युञ्जयो हरिः ॥ ३३॥
हव्यभुघरिसम्पूज्यो
हविर्हविर्भुजां वरः ।
अनादिरादिः
सर्वाद्य आदितेयवरप्रदः ॥ ३४॥
अनन्तविक्रमो
लोको लोकानां पापहारकः ।
गीष्पतिः
सद्गुणोपेतः सगुणो निर्गुणो गुणी ॥ ३५॥
गुणप्रीतो
गुणवरो गिरिजानायको गिरिः ।
गौरीभर्ता
गुणाढयश्च गोश्रेष्ठासनसंस्थितः ॥ ३६॥
पद्मासनः
पद्मनेत्रः पद्मतुष्टः सुपद्मकः ।
पद्मवक्त्रः
पद्मकरः पद्मारूढपदाम्बुजः ॥ ३७॥
पद्मप्रियतमः
पद्मालयः पद्मप्रकाशकः ।
पद्मकाननसंवासः
पद्मकाननभञ्जकः ॥ ३८॥
पद्मकाननसंवासी
पद्मारण्यकृतालयः ।
प्रफुल्लवदनः
फुल्लकमलाक्षः प्रफुल्लकृत् ॥ ३९॥
फुल्लेन्दीवरसन्तुष्टः
प्रफुल्लकमलासनः ।
फुल्लाम्भोजकरः
फुल्लमानसः पापहारकः ॥ ४०॥
पापापहारी
पुण्यात्मा पुण्यकीर्तिः सुपुण्यवान् ।
पुण्यः
पुण्यतमो धन्यः सुपूतात्मा परात्मकः ॥ ४१॥
पुण्येशः
पुण्यदः पुण्यनिरतः पुण्यभाजनः ।
परोपकारी
पापिष्ठनाशकः पापहारकः ॥ ४२॥
पुरातनः
पूर्वहीनः परद्रोहविवर्जितः ।
पीवरः
पीवरमुखः पीनकायः पुरान्तकः ॥ ४३॥
पाशी पशुपतिः
पाशहस्तः पाषाणवित्पतिः ।
पलात्मकः परो
वेत्ता पाशबद्धविमोचकः ॥ ४४॥
पशूनामधिपः
पाशच्छेत्ता पाशविभेदकः ।
पाषाणधारी
पाषाणशयानः पाशिपूजितः ॥ ४५॥
पश्वारूढः पुष्पधनुः
पुष्पवृन्दसुपूजितः ।
पुण्डरीकः
पीतवासा पुण्डरीकाक्षवल्लभः ॥ ४६॥
पानपात्रकरः
पानमत्तः पानातिभूतकः ।
पोष्टा
पोष्ट्ट्वरः पूतः परित्राताऽखिलेश्वरः ॥ ४७॥
पुण्डरीकाक्षकर्ता
च पुण्डरीकाक्षसेवितः ।
पल्लवस्थः
प्रपीठस्थः पीठभूमिनिवासकः ॥ ४८॥
पिता पितामहः
पार्थप्रसन्नोऽभीष्टदायकः ।
पितॄणां
प्रीतिकर्ता च प्रीतिदः प्रीतिभाजनः ॥ ४९॥
प्रीत्यात्मकः
प्रीतिवशी सुप्रीतः प्रीतिकारकः ।
प्रीतिहृत्प्रीतिरूपात्मन्
प्रीतियुक्तस्त्वमेव हि ॥ ५०॥
प्रणतार्तिहरः
प्राणवल्लभः प्राणदायकः ।
प्राणी
प्राणस्वरूपश्च प्राणग्राही मुनिर्दयः ॥ ५१॥
प्राणनाथः
प्रीतमनाः सर्वेषां प्रपितामहः ।
वृद्धः
प्रवृद्धरूपश्च प्रेतः प्रणयिनां वरः ॥ ५२॥
पराधीशः परं
ज्योतिः परनेत्रः परात्मकः ।
पारुष्यरहितः
पुत्री पुत्रदः पुत्ररक्षकः ॥ ५३॥
पुत्रप्रियः
पुत्रवश्यः पुत्रवत्परिपालकः ।
परित्राता
परावासः परचेताः परेश्वरः ॥ ५४॥
पतिः सर्वस्य
सम्पाल्यः पवमानः परोऽन्तकः ।
पुरहा
पुरुहूतश्च त्रिपुरारिः पुरान्तकः ॥ ५५॥
पुरन्दरोऽतिसम्पूज्यः
प्रधर्षो दुष्प्रधर्षणः ।
पटुः पटुतरः
प्रौढः प्रपूज्यः पर्वतालयः ॥ ५६॥
पुलिनस्थः
पुलस्त्याख्यः पिङ्गचक्षुः प्रपन्नगः ।
अभीरुरसिताङ्गश्च
चण्डरूपः सिताङ्गकः ॥ ५७॥
सर्वविद्याविनोदश्च
सर्वसौख्ययुतः सदा ।
सुखहर्ता
सर्वसुखी सर्वलोकैकपावनः ॥ ५८॥
सदावनः
सारदश्च सुसिद्धः शुद्धरूपकः ।
सारः सारतरः
सूर्यः सोमः सर्वप्रकाशकः ॥ ५९॥
सोममण्डलधारी
च समुद्र सिन्धुरूपवान् ।
सुरज्येष्ठः
सुरश्रेष्ठः सुरासुरनिषेवितः ॥ ६०॥
सर्वधर्मविनिर्मुक्तः
सर्वलोकनमस्कृतः ।
सर्वाचारयुतः
सौरः शाक्तः परमवैष्णवः ॥ ६१॥
सर्वधर्मविधानज्ञः
सर्वाचारपरायणः ।
सर्वरोगप्रशमनः
सर्वरोगापहारकः ॥ ६२॥
प्रकृष्टात्मा
महात्मा च सर्वधर्मप्रदर्शकः ।
सर्वसम्पद्युतः
सर्वसम्पद्दानसमेक्षणः ॥ ६३॥
सहास्यवदनो
हास्ययुक्तः प्रहसिताननः ।
साक्षी
समक्षवक्ता च सर्वदर्शी समस्तवित् ॥ ६४॥
सकलज्ञः
समर्थज्ञः सुमनाः शैवपूजितः ।
शोकप्रशमनः
शोकहन्ताऽशोच्यः शुभान्वितः ॥ ६५॥
शैलज्ञः
शैलजानाथः शैलनाथः शनैश्चरः ।
शशाङ्कसदृशज्योतिः
शशाङ्कार्धविराजितः ॥ ६६॥
साधुप्रियः
साधुतमः साध्वीपतिरलौकिकः ।
शून्यरूपः
शून्यदेहः शून्यस्थः शून्यभावनः ॥ ६७॥
शून्यगामी
श्मशानस्थः श्मशानाधिपतिः सुवाक् ।
शतसूर्यप्रभः
सूर्यः सूर्यदीप्तः सुरारिहा ।
शुभान्वितः
शुभतनुः शुभबुद्धिः शुभात्मकः ॥ ६८॥
शुभान्विततनुः
शुक्लतनुः शुक्लप्रभान्वितः ।
सुशौक्लः
शुक्लदशनः शुक्लाभः शुक्लमाल्यधृत् ॥ ६९॥
शुक्लपुष्पप्रियः
शुक्लवसनः शुक्लकेतनः ।
शेषालङ्करणः
शेषरहितः शेषवेष्टितः ॥ ७०॥
शेषारूढः
शेषशायी शेषाङ्गदविराजितः ।
सतीप्रियः
साशङ्कश्च समदर्शी समाधिमान् ॥ ७१॥
सत्सङ्गी
सत्प्रियः सङ्गी निःसङ्गी सङ्गवर्जितः ।
सहिष्णुः
शाश्वतैश्वर्यः सामगानरतः सदा ॥ ७२॥
सामवेत्ता
साम्यतरः श्यामापतिरशेषभुक् ।
तारिणीपतिराताम्रनयनस्त्वरिताप्रियः
॥ ७३॥
तारात्मकस्त्वग्वसनस्तरुणीरमणो
रतः ।
तृप्तिरूपस्तृप्तिकर्ता
तारकारिनिषेवितः ॥ ७४॥
वायुकेशो
भैरवेशो भवानीशो भवान्तकः ।
भवबन्धुर्भवहरो
भवबन्धनमोचकः ॥ ७५॥
अभिभूतोऽभिभूतात्मा
सर्वभूतप्रमोहकः ।
भुवनेशो
भूतपूज्यो भोगमोक्षफलप्रदः ॥ ७६॥
दयालुर्दीननाथश्च
दुःसहो दैत्यमर्दकः ।
दक्षकन्यापतिर्दुःखनाशको
धनधान्यदः ॥ ७७॥
दयावान्
दैवतश्रेष्ठो देवगन्धर्वसेवितः ।
नानायुधधरो
नानापुष्पगुच्छविराजितः ॥ ७८॥
नानासुखप्रदो
नानामूर्तिधारी च नर्तकः ।
नित्यविज्ञानसंयुक्तो
नित्यरूपोऽनिलोऽनलः ॥ ७९॥
लब्धवर्णो
लघुतरो लघुत्वपरिवर्जितः ।
लोलाक्षो
लोकसम्पूज्यो लावण्य परिसंयुतः ॥ ८०॥
नपुरीन्याससंस्थश्च
नागेशो नगपूजितः ।
नारायणो
नारदश्च नानाभरणभूषितः ॥ ८१॥
नगभूतो
नग्नदेशो नग्नः सानन्दमानसः ।
नमस्यो
नतनाभिश्च नम्रमूर्धाभिवन्दितः ॥ ८२॥
नन्दिकेशो
नन्दिपूज्यो नानानीरजमध्यगः ।
नवीनबिल्वपत्रौघतुष्टो
नवघनद्युतिः ॥ ८३॥
नन्दः सानन्द
आनन्दमयश्चानन्दविह्वलः ।
नालसंस्थः
शोभनस्थः सुस्थः सुस्थमतिस्तथा ॥ ८४॥
स्वल्पासनो
भीमरुचिर्भुवनान्तकराम्बुदः ।
आसन्नः
सिकतालीनो वृषासीनो वृषासनः ॥ ८५॥
वैरस्यरहितो
वार्यो व्रती व्रतपरायणः ।
ब्राह्म्यो
विद्यामयो विद्याभ्यासी विद्यापतिस्तथा ॥ ८६॥
घण्टाकारो
घोटकस्थो घोररावो घनस्वनः ।
घूर्णचक्षुरघूर्णात्मा
घोरहासो गभीरधीः ॥ ८७॥
चण्डीपतिश्चण्डमूर्तिश्चण्डो
मुण्डी प्रचण्डवाक् ।
चितासंस्थश्चितावासश्चितिर्दण्डकरः
सदा ॥ ८८॥
चिताभस्माभिसंलिप्तश्चितानृत्यपरायणः
।
चिताप्रमोदी
चित्साक्षी चिन्तामणिरचिन्तकः ॥ ८९॥
चतुर्वेदमयश्चक्षुश्चतुराननपूजितः
।
चीरवासाश्चकोराक्षश्चलन्मूर्तिश्चलेक्षणः
॥ ९०॥
चलत्कुण्डलभूषाढयश्चलद्भूषणभूषितः
।
चलन्नेत्रश्चलत्पादश्चलन्नूपुरराजितः
॥ ९१॥
स्थावरः
स्थिरमूर्तिश्च स्थावरेशः स्थिरासनः ।
स्थापकः
स्थैर्यनिरतः स्थूलरूपी स्थलालयः ॥ ९२॥
स्थैर्यातिगः
स्थितिपरः स्थाणुरूपी स्थलाधिपः ।
ऐहिको
मदनार्तश्च महीमण्डलपूजितः ॥ ९३॥
महीप्रियो
मत्तरवो मीनकेतुविमर्दकः ।
मीनरूपो
मनिसंस्थो मृगहस्तो मृगासनः ॥ ९४॥
मार्गस्थो
मेखलायुक्तो मैथिलीश्वरपूजितः ।
मिथ्याहीनो
मङ्गलदो माङ्गल्यो मकरासनः ॥ ९५॥
मत्स्यप्रियो
मथुरगीर्मधुपानपरायणः ।
मृदुवाक्यपरः
सौरप्रियो मोदान्वितस्तथा ॥ ९६॥
मुण्डालिर्भूषणो
दण्डी उद्दण्डो ज्वललोचनः ।
असाध्यसाधकः
शूरसेव्यः शोकापनोदनः ॥ ९७॥
श्रीपतिः
श्रीसुसेव्यश्च श्रीधरः श्रीनिकेतनः ।
श्रीमतां
श्रीस्वरूपश्च श्रीमान्श्रीनिलयस्तथा ॥ ९८॥
श्रमादिक्लेशरहितः
श्रीनिवासः श्रियान्वितः ।
श्रद्धालुः
श्राद्धदेवश्च श्राद्धो मधुरवाक् तथा ॥ ९९॥
प्रलयाग्न्यर्कसङ्काशः
प्रमत्तनयनोज्ज्वलः ।
असाध्यसाधकः
शूरसेव्यः शोकापनोदनः ॥ १००॥
विश्वभूतमयो
वैश्वानरनेत्रोऽधिमोहकृत् ।
लोकत्राणपरोऽपारगुणः
पारविवर्जितः ॥ १०१॥
अग्निजिह्वो
द्विजास्यश्च विश्वास्यः सर्वभूतधृक् ।
खेचरः
खेचराधीशः सर्वगः सार्वलौकिकः ॥ १०२॥
सेनानीजनकः क्षुब्धाब्धिर्वारिक्षोभविनाशकः
।
कपालविलसद्धस्तः
कमण्डलुभृदर्चितः ॥ १०३॥
केवलात्मस्वरूपश्च
केवलज्ञानरूपकः ।
व्योमालयनिवासी
च बृहद्व्योमस्वरूपकः ॥ १०४॥
अम्भोजनयनोऽम्भोधिशयानः
पुरुषातिगः ।
निरालम्बोऽवलम्बश्च
सम्भोगानन्दरूपकः ॥ १०५॥
योगनिद्रामयो
लोकप्रमोहापहरात्मकः ।
बृहद्वक्त्रो
बृहन्नेत्रो बृहद्वाहुर्बृहद्वलः ॥ १०६॥
बृहत्सर्पाङ्गदो
दुष्टबृहद्वालविमर्दकः ।
बृहद्भुजबलोन्मत्तो
बृहत्तुण्डो बृहद्वपुः ॥ १०७॥
बृहदैश्वर्ययुक्तस्च
बृहदैश्वर्यदः स्वयम्।
बृहत्सम्भोगसनुष्टो
बृहदानन्ददायकः ॥ १०८॥
बृहज्जटाजूटधरो
बृहन्माली बृहद्धनुः ।
इन्द्रियाधिष्ठितः
सर्वलोकेन्द्रियविमोहकृत् ॥ १०९॥
सर्वेन्द्रियप्रवृत्तिकृत्
सर्वेन्द्रियनिवृत्तिकृत्।
प्रवृत्तिनायकः
सर्वविपत्तिपरिनाशकः ॥ ११०॥
प्रवृत्तिमार्गनेता
त्वं स्वतन्त्रेच्छामयः स्वयम् ।
सत्प्रवृत्तिरतो
नित्यं दयानन्दशिवाधरः ॥ १११॥
क्षितिरूपस्तोयरूपी
विश्वतृप्तिकरस्तथा ।
तर्पस्तर्पणसम्प्रीतस्तर्पकस्तर्पणात्मकः
॥ ११२॥
तृप्तिकारणभूतश्च
सर्वतृप्तिप्रसाधकः ।
अभेदो
भेदकोऽच्छिद्यच्छेदकोऽच्छेद्य एव हि ॥ ११३॥
अच्छिन्नधन्वाऽच्छिन्नेषुरच्छिन्नध्वजवाहनः
।
अदृष्टः
समधृष्टास्त्रः समधृष्टो बलोन्नतः ॥ ११४॥
चित्रयोधी
चित्रकर्मा विश्वसङ्कर्षकः स्वयम् ।
भक्तानामीप्सितकरः
सर्वेप्सितफलप्रदः ॥ ११५॥
वाञ्छिताभीष्टफलदोऽभिन्नज्ञानप्रवर्तकः
।
बोधनात्मा
बोधनार्थातिगः सर्वप्रबोधकृत् ॥ ११६॥
त्रिजटश्चैकजटिलश्चलज्जूटो
भयानकः ।
जटाटीनो
जटाजूटस्पृष्टावरवचः स्वयम् ॥ ११७॥
षाण्मातुरस्य
जनकः शक्तिः प्रहरतां वरः ।
अनर्घास्त्रप्रहारी
चानर्घधन्वा महार्घ्यपात् ॥ ११८॥
योनिमण्डलमध्यस्थो
मुखयोनिरजृम्भणः ।
महाद्रिसदृशः
श्वेतः श्वेतपुष्पस्रगन्वितः ॥ ११९॥
मकरन्दप्रियो
नित्यं मासर्तुहायनात्मकः ।
नानापुष्पप्रसूर्नानापुष्पैरर्चितगात्रकः
॥ १२०॥
षडङ्गयोगनिरतः
सदायोगार्द्रमानसः ।
सुरासुरनिषेव्याङ्घ्रिर्विलसत्पादपङ्कजः
॥ १२१॥
सुप्रकाशितवक्त्राब्जः
सितेतरगलोज्ज्वलः ।
वैनतेयसमारूढः
शरदिन्दुसहस्रवत् ॥ १२२॥
जाज्वल्यमानस्तेजोभिर्ज्वालपुञ्जो
यमः स्वयम् ।
प्रज्वलद्विद्युदाभश्च
साट्टहासभयङ्करः ॥ १२३॥
प्रलयानलरूपी
च प्रलयाग्निरुचिः स्वयम् ।
जगतामेकपुरुषो
जगतां प्रलयात्मकः ॥ १२४॥
प्रसीद त्वं
जगन्नाथ जगद्योने नमोऽस्तु ते ॥ १२५॥
श्रीमहादेव
उवाच-
एवं
नामसहस्रेण राज्ञा वै संस्तुतो हरः ।
प्रत्यक्षमगमत्तस्य
सुप्रसन्नमुखाम्बुजः ॥ १२६॥
स तं विलोक्य
त्रिदशैकनाथं
पञ्चाननं
श्वेतरुचिं प्रसन्नम् ।
वृषाधिरूढं
भुजगाङ्गदैर्युतं
ननर्त राजा
धरणीभुजां वरः ॥ १२७॥
प्रोवाच चेदं
परमेश्वराद्य मे
एतानि सर्वाणि
सुखार्थकानि ।
तपश्च होमश्च
मनुष्यजन्म
यत्त्वां
प्रपश्यामि दृशा परेशम् ॥ १२८॥
मत्तो न
धन्योस्ति महीतले वा
स्वर्गे यतस्त्वं
मम नेत्रगोचरः ।
सुरासुराणामपि
दुर्लभेक्षणः
परात्परः
पूर्णमयो निरामयः ॥ १२९॥
ततस्तमेवं
प्रतिभाषमाणं
प्राह
प्रपनार्तिहरो महेश्वरः ।
किं ते
मनोवाञ्छितमेव विद्यते
वृणुष्व
तत्पुत्र ददामि तुभ्यम् ॥ १३०॥
सचाह पूर्वं
कपिलस्य शापतः
पातालरन्ध्रे
मम पूर्ववंशजाः ।
भस्मीबभूवुः
सगरस्य पुत्रा
महाबला
देवसमानविक्रमाः ॥ १३१॥
तेषां तु
निस्तारणकाम्यया ह्यहं
गङ्गां
धरण्यामभिनेतुमीहे ।
सा तु त्वदीया
परमा हि शक्तिः
विनाज्ञया ते
न हि याति पृथ्वीम् ॥ १३२॥
तदेतदिच्छामि
समेत्य गङ्गा
क्षितौ
महावेगवती महानदी ।
प्रविश्य तस्मिन्विवरे
महेश्वरी
पुनातु
सर्वान्सगरस्य पुत्रान् ॥ १३३॥
इत्येवमाकर्ण्य
वचः परेश्वरः
प्रोवाच
वाक्यं क्षितिपालपुङ्गवम् ।
मनोरथस्तेऽयमवेहि
पूर्णो
मम
प्रसादादचिराद्भविष्यति ॥ १३४॥
ये चापि मां
भक्तित एव मर्त्याः
स्तोत्रेण
चानेन नृप स्तुवन्ति ।
तेषां तु
पूर्णाः सकला मनोरथा
ध्रुवं
भविष्यन्ति मम प्रसादात् ॥ १३५॥
श्रीमहादेव
उवाच-
इत्येवं स वरं
लब्ध्वा राजा हृष्टमनास्ततः ।
दण्डवत्प्रणिपत्याह
धन्योऽहं त्वत्प्रसादतः ॥ १३६॥
ततश्चान्तर्दधे
देवः क्षणादेव महामते ।
राजा
निर्वृत्तचेताः स बभूव मुनिसत्तम ॥ १३७॥
राज्ञा कृतमिदं
स्तोत्रं सहस्रनामसंज्ञकम् ।
यः पठेत्परया
भक्त्या स कैवल्यमवाप्नुयात् ॥ १३८॥
न चेह दुःखं
कुत्रापि जायते तस्य नारद ।
जायते
परमैश्वर्यं प्रसादाच्च महेशितुः ॥ १३९॥
महापदि भये
घोरे यः पठेत्स्तोत्रमुत्तमम् ।
शम्भोर्नामसहस्राख्यं
सर्वमङ्गलवर्धनम् ॥ १४०॥
महाभयहरं
सर्वसुखसम्पत्तिदायकम् ।
स मुच्यते
महादेवप्रसादेन महाभयात् ॥ १४१॥
दुर्भिक्ष्ये
लोकपीडायां देशोपद्रव एव वा ।
सम्पूज्य
परमेशानं धूपदीपादिभिर्मुने ॥ १४२॥
यः पठेत्परया
भक्त्या स्तोत्रं नामसहस्रकम् ।
न तस्य देशे
दुर्भिक्षं न च लोकादिपीडनम् ॥ १४३॥
न चान्योपद्रवो
वापि भवेदेतत्सुनिश्चितम् ।
पर्जन्योऽपि
यथाकाले वृष्टिं तत्र करोति हि ॥ १४४॥
यत्रेदं
पठ्यते स्तोत्रं सर्वपापप्रणाशनम् ।
सर्वसस्ययुता
पृथ्वी तस्मिन्देशे भवेद्ध्रुवम् ॥ १४५॥
न
दुष्टबुद्धिर्लोकानां तत्रस्थानां भवेदपि ।
नाकाले मरणं
तत्र प्राणिनां जायते मुने ॥ १४६॥
न
हिंस्रास्तत्र हिंसन्ति देवदेवप्रसादतः ।
धन्या देशाः
प्रजा धन्या यत्र देशे महेश्वरम् ॥ १४७॥
सम्पूज्य
पार्थिवं लिङ्गं पठेद्यत्रेदमुत्तमम् ।
चतुर्दश्यां
तु कृष्णायां फाल्गुने मासि भक्तितः ॥ १४८॥
यः
पठेत्परमेशस्य नाम्नां दशशताख्यकम् ।
स्तोत्रमत्यन्तसुखदं
न पुनर्जन्मभाग्भवेत् ॥ १४९॥
वायुतुल्यबलो
नूनं विहरेद्धरणीतले ।
धनेशतुल्यो
धनवान्कन्दर्पसमरूपवान् ॥ १५०॥
विहरेद्देवतातुल्यो
निग्रहानुग्रहे क्षमः ।
गङ्गायां वा
कुरुक्षेत्रे प्रयागे वा महेश्वरम् ।
परिपूज्य
पठेद्यस्तु स कैवल्यमवाप्नुयात् ॥ १५१॥
काश्यां यस्तु
पठेदेतत्स्तोत्रं परममङ्गलम् ।
तस्य पुण्यं
मुनिश्रेष्ठ किमहं कथयामि ते ॥ १५२॥
एतत्स्तोत्रप्रसादेन
स जीवन्नेव मानवः ।
साक्षान्महेशतामेति
मुक्तिरन्ते करस्थिता ॥ १५३॥
प्रत्यहं
प्रपठेदेतद्बिल्वमूले नरोत्तमः ।
स
सालोक्यमवाप्नोति देवदेवप्रसादतः ॥ १५४॥
यो
ह्येतत्पाठयेत्स्तोत्रं सर्वपापनिबर्हणम् ।
स मुच्यते
महापापात्सत्यं सत्यं वदामि ते ॥ १५५॥
न तस्य
ग्रहपीडा स्यान्नापमृत्युभयं तथा ।
न तं
द्विषन्ति राजानो न वा व्याधिभयं भवेत् ॥ १५६॥
पठेदेतद्धृदि
ध्यात्वा देवदेवं सनातनम् ।
सर्वदेवमयं
पूर्णं रजताद्रिसमप्रभम् ॥ १५७॥
प्रफुल्लपङ्कजास्यं
च चारुरूपं वृषध्वजम्।
जटाजूटज्वलत्कालकूटशोभितविग्रहम्
॥ १५८॥
त्रिशूलं डमरु
चैव दधानं दक्षवामयोः ।
द्वीपिचर्माम्बरधरं
शान्तं त्रैलोक्यमोहनम् ॥ १५९॥
एवं हृदि नरो
भक्त्या विभाव्यैतत्पठेद्यदि ।
इह भुक्त्वा
परं भोगं परत्र च महामते ॥ १६०॥
शम्भोः
स्वरूपतां याति किमन्यत्कथयामि ते ॥ १६१॥
तत्रैव
सद्भक्तियुतः पठेदिदं
स्तोत्रं मम
प्रीतिकरं परं मुने ।
मर्त्यो हि
योऽन्यः खलु सोऽपि कृच्छ्रं
जगत्पवित्रायत
एव पापतः ॥ १६२॥
॥
श्रीमहाभागवते उपपुराणे भगीरथप्रोक्तं शिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥
शिवजी सहस्त्र नाम जिसे की आपने पूर्व क्रम में पढ़ा - तंडिकृत श्रीशिवसहस्रनामस्तोत्रम्, श्रीविष्णुकृत श्रीशिवसहस्रनामस्तोत्रम्, स्कन्दकृत श्रीशिवसहस्रनामस्तोत्रम्, शिवसहस्रनामस्तोत्रम् श्रीशिवरहस्यान्तर्गतम्, श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे, श्रीशिवसहस्रनामस्तोत्रम्और श्रीशिवसहस्रनामावलि।
Related posts
vehicles
business
health
Featured Posts
Labels
- Astrology (7)
- D P karmakand डी पी कर्मकाण्ड (10)
- Hymn collection (38)
- Worship Method (32)
- अष्टक (54)
- उपनिषद (30)
- कथायें (127)
- कवच (61)
- कीलक (1)
- गणेश (25)
- गायत्री (1)
- गीतगोविन्द (27)
- गीता (34)
- चालीसा (7)
- ज्योतिष (32)
- ज्योतिषशास्त्र (86)
- तंत्र (182)
- दशकम (3)
- दसमहाविद्या (51)
- देवी (190)
- नामस्तोत्र (55)
- नीतिशास्त्र (21)
- पञ्चकम (10)
- पञ्जर (7)
- पूजन विधि (80)
- पूजन सामाग्री (12)
- मनुस्मृति (17)
- मन्त्रमहोदधि (26)
- मुहूर्त (6)
- रघुवंश (11)
- रहस्यम् (120)
- रामायण (48)
- रुद्रयामल तंत्र (117)
- लक्ष्मी (10)
- वनस्पतिशास्त्र (19)
- वास्तुशास्त्र (24)
- विष्णु (41)
- वेद-पुराण (691)
- व्याकरण (6)
- व्रत (23)
- शाबर मंत्र (1)
- शिव (54)
- श्राद्ध-प्रकरण (14)
- श्रीकृष्ण (22)
- श्रीराधा (2)
- श्रीराम (71)
- सप्तशती (22)
- साधना (10)
- सूक्त (30)
- सूत्रम् (4)
- स्तवन (109)
- स्तोत्र संग्रह (711)
- स्तोत्र संग्रह (6)
- हृदयस्तोत्र (10)
No comments: