दीपलक्ष्मी स्तव
इस दीपलक्ष्मी स्तव का दीप जलाते
समय पाठ करने से आरोग्य,धन-धान्य,सुख,पुत्रलाभ,सौभाग्य तथा घर में चहुँ ओर
सुख-समृद्धि की प्राप्ति होती है।
दीपलक्ष्मीस्तवम्
अन्तर्गृहे हेमसुवेदिकायां
सम्मार्जनालेपनकर्म कृत्वा ।
विधानधूपातुलपञ्चवर्णं
चूर्णप्रयुक्ताद्भुतरङ्गवल्याम् ॥
अगाधसम्पूर्णसरस्समाने,
गोसर्पिषाऽऽपूरितमध्यदेशे ।
मृणालतन्तुकृतवर्त्तियुक्ते
पुष्पावतंसे तिलकाभिरामे ॥
परिष्कृतस्थापितरत्नदीपे
ज्योतिर्मयीं प्रज्ज्वलयामि देवीम् ।
नमाम्यहं मत्कुलवृद्धिदात्रीं,
सौदादि सर्वाङ्गणशोभमानाम् ॥
भो दीपलक्ष्मि प्रथितं यशो मे
प्रदेहि माङ्गल्यममोघशीले ।
भर्तृप्रियां धर्मविशिष्टशीलां,
कुरुष्व कल्याण्यनुकम्पया माम् ॥
यान्तर्बहिश्चापि तमोऽपहन्त्री,
सन्ध्यामुखाराधितपादपद्मा ।
त्रयीसमुद्घोषितवैभवा सा,
ह्यनन्यकामे हृदये विभातु ॥
भो दीप ब्रह्मरूपस्त्वं ज्योतिषां
प्रभुरव्ययः ।
आरोग्यं देहि पुत्रांश्च अवैधव्यं
प्रयच्छ मे ॥
सन्ध्यादीपस्तवमिदं नित्यं नारी
पठेत्तु या ।
सर्वसौभाग्ययुक्ता
स्याल्लक्ष्म्यनुग्रहतस्सदा ॥
शरीरारोग्यमैश्वर्यमरिपक्षक्षयस्सुखम्
।
देवि त्वद्दृष्टिदृष्टानां
पुरुषाणां न दुर्लभम् ॥
इति दीपलक्ष्मी स्तवं सम्पूर्णम् ।
0 Comments