शीतला कवच

शीतला कवच

श्रीशीतला कवच के नित्य पाठ से ब्रह्मराक्षस, बेताल, कूष्माण्ड आदि दानव अर्थात् अदृश्य शक्ति या तांत्रिक अथवा बाहरी बाधा, विस्फोटकभय (रक्त व चर्मादि शीतलारोग) नहीं होता। सहस्त्र बार पाठ करने से इसकी सिद्धि होती है और यह  अष्टसिद्धिप्रद, सर्वकार्यार्थसिद्धिप्रद है।

शीतला कवच

श्रीशीतलाकवचम्

पार्वत्युवाच -

भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ।

शीतलाकवचं ब्रूहि सर्वभूतोपकारकम् ॥ १॥

वद शीघ्रं महादेव ! कृपां कुरु ममोपरि ।

इति देव्याः वचो श्रुत्वा क्षणं ध्यात्वा महेश्वरः ॥ २॥

उवाच वचनं प्रीत्या तत्श‍ृणुष्व मम प्रिये ।

शीतलाकवचं दिव्यं श्रृणु मत्प्राणवल्लभे ॥ ३॥

ईश्वर उवाच -

शीतलासारसर्वस्वं कवचं मन्त्रगर्भितम् ।

कवचं विना जपेत् यो वै नैव सिद्धयन्ति कलौ ॥ ४॥   

धारणादस्य मन्त्रस्य सर्वरक्षाकरनृणाम् ।

विनियोगः -

ॐ अस्य शीतलाकवचस्य श्रीमहेश्वर ऋषिः अनुष्टुप्छन्दः,

श्रीशीतला भगवती देवता, श्रीं बीजं, ह्रीं शक्तिः,

ॐ कीलकं लूताविस्फोटकादिशान्त्यर्थे पाठे विनियोगः ॥

ऋष्यादिन्यासः -

श्रीमहेश्वरऋषये नमः शिरसि

अनुष्टुप् छन्दसे नमः मुखे,

श्रीशीतला भगवती देवतायै नमः हृदि

श्री बीजाय नमः गुह्ये

ह्रीं शक्तये नमः नाभौ,

ॐ कीलकाय नमः पादयो लूताविस्फोटकादिशान्त्यर्थे

पाठे विनियोगाय नमः सर्वाङ्गे ॥

ध्यानं -

उद्यत्सूर्यनिभां नवेन्दुमुकुटां सूर्याग्निनेत्रोज्ज्वलां

     नानागन्धविलेपनां मृदुतनुं दिव्याम्बरालङ्कृताम् ।

दोर्भ्यां सन्दधतीं वराभययुगं वाहे स्थितां रासभे

     भक्ताभीष्टफलप्रदां भगवतीं श्रीशीतलां त्वां भजे ॥

अथ शीतला कवच मूलपाठः

ॐ शीतला पातु मे प्राणे रुनुकी पातु चापाने ।

समाने झुनुकी पातु उदाने पातु मन्दला ॥ १॥      

व्याने च सेढला पातु मनुर्मे शाङ्करी तथा ।

पातु मामिन्द्रियान् सर्वान् श्रीदुर्गा विन्ध्यवासिनी ॥ २॥

ॐ मम पातु शिरो दुर्गा कमला पातु मस्तकम् ।

ह्रीं मे पातु भ्रुवोर्मध्ये भवानी भुवनेश्वरी ॥

पातु मे मधुमती देवी ॐकारं भृकुटीद्वयम् ॥ ३॥

नासिकां शारदा पातु तमसा वर्त्मसंयुतम् ।

नेत्रौ ज्वालामुखी पातु भीषणा पातु श्रुतिर्मे ॥ ४॥

कपोलौ कालिका पातु सुमुखी पातु चोष्ठयोः ।

सन्ध्ययोः त्रिपुरा पातु दन्ते च रक्तदन्तिका ॥ ५॥

जिह्वां सरस्वती पातु तालुके व वाग्वादिनी ।

कण्ठे पातु तु मातङ्गी ग्रीवायां भद्रकालिका ॥ ६॥

स्कन्धौ च पातु मे छिन्ना ककुमे स्कन्दमातरः ।

बाहुयुग्मौ च मे पातु श्रीदेवी बगलामुखी ॥ ७॥

करौ मे भैरवी पातु पृष्ठे पातु धनुर्धरी ।

वक्षःस्थले च मे पातु दुर्गा महिषमर्दिनी ॥ ८॥

हृदये ललिता पातु कुक्षौ पातु मघेश्वरी । (मघा ईश्वरी) (महेश्वरी)

पार्ष्वौ च गिरिजा पातु चान्नपूर्णा तु चोदरम् ॥ ९॥

नाभिं नारायणी पातु कटिं मे सर्वमङ्गला ।

जङ्घयोर्मे सदा पातु देवी कात्यायनी पुरा ॥ १०॥

ब्रह्माणी शिश्नं पातु वृषणं पातु कपालिनी ।

गुह्यं गुह्येश्वरी पातु जानुनोर्जगदीश्वरी ॥ ११॥

पातु गुल्फौ तु कौमारी पादपृष्ठं तु वैष्णवी ।

वाराही पातु पादाग्रे ऐन्द्राणी सर्वमर्मसु ॥ १२॥   

मार्गे रक्षतु चामुण्डा वने तु वनवासिनी ।

जले च विजया रक्षेत् वह्नौ मे चापराजिता ॥ १३॥

रणे क्षेमकरी रक्षेत् सर्वत्र सर्वमङ्गला ।

भवानी पातु बन्धून् मे भार्या रक्षतु चाम्बिका ॥ १४॥

पुत्रान् रक्षतु माहेन्द्री कन्यकां पातु शाम्भवी ।

गृहेषु सर्वकल्याणी पातु नित्यं महेश्वरी ॥ १५॥

पूर्वे कादम्बरी पातु वह्नौ शुक्लेश्वरी तथा ।

दक्षिणे करालिनी पातु प्रेतारुढा तु नैऋते ॥ १६॥

पाशहस्ता पश्चिमे पातु वायव्ये मृगवाहिनी ।

पातु मे चोत्तरे देवी यक्षिणी सिंहवाहिनी ।

ईशाने शूलिनी पातु ऊर्ध्वे च खगगामिनी ॥ १७॥

अधस्तात्वैष्णवी पातु सर्वत्र नारसिंहिका ।

प्रभाते सुन्दरी पातु मध्याह्ने जगदम्बिका ॥ १८॥

सायाह्ने चण्डिका पातु निशीथेऽत्र निशाचरी ।

निशान्ते खेचरी पातु सर्वदा दिव्ययोगिनी ॥ १९॥

वायौ मां पातु वेताली वाहने वज्रधारिणी ।

सिंहा सिंहासने पातु शय्यां च भगमालिनी ॥ २०॥

सर्वरोगेषु मां पातु कालरात्रिस्वरुपिणी ।

यक्षेभ्यो यक्षिणी पातु राक्षसे डाकिनी तथा ॥ २१॥

भूतप्रेतपिशाचेभ्यो हाकिनी पातु मां सदा ।

मन्त्रं मन्त्राभिचारेषु शाकिनी पातु मां सदा ॥ २२॥

सर्वत्र सर्वदा पातु श्रीदेवी गिरिजात्मजा ।

इत्येतत्कथितं गुह्यं शीतलाकवचमुत्तमम् ॥ २३॥

शीतला कवच फलश्रुतिः

ब्रह्मराक्षसवेतालाः कूष्माण्डा दानवादयः ।

विस्फोटकभयं नास्ति पठनाद्धारणाद्यदि ॥ १॥

अष्टसिद्धिप्रदं नित्यं धारणात्कवचस्य तु ।

सहस्त्रपठनात्सिद्धिः सर्वकार्यार्थसिद्धिदम् ॥ २॥

तदर्धं वा तदर्धं वा पठेदेकाग्रमानसः ।

अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥ ३॥

शीतलाग्रे पठेद्यो वै देवीभक्तैकमानसः ।

शीतला रक्षयेन्नित्यं भयं क्वापि न जायते ॥ ४॥

घटे वा स्थापयेद्देवी दीपं प्रज्वाल्य यत्नतः ।

पूजयेत्जगतां धात्री नाना गन्धोपहारकैः ॥ ५॥

अदीक्षिताय नो दद्यात कुचैलाय दुरात्मने ।

अन्यशिष्याय दुष्टाय निन्दकाय दुरार्थिने ॥ ६॥

न दद्यादिदं वर्म तु प्रमत्तालापशालिने ।

दीक्षिताय कुलीनाय गुरुभक्तिरताय च ॥ ७॥

शान्ताय कुलशाक्ताय शान्ताय कुलकौलिने ।

दातव्यं तस्य देवेशि ! कुलवागीश्वरो भवेत् ॥ ८॥

इदं रहस्यं परमं शीतलाकवचमुत्तमम् ।

गोप्यं गुह्यतमं दिव्यं गोपनीयं स्वयोनिवत् ॥ ९॥

मूलमन्त्रः -  ॐ श्रीं ह्रीं ॐ ।

॥  श्रीईश्वरपार्वतीसम्वादे शक्तियामले शीतलाकवचं सम्पूर्णम् ॥

Post a Comment

0 Comments